अध्ययनम्
- अनुक्रमणिका
- विवाहे चर्मास्तरणादयः · टिप्पण्यः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६०८–६०९ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
विवाहे चर्मास्तरणादयः
शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे᳚। सिनी॑वालि॒ प्रजा॑यतामि॒यं भग॑स्य सुम॒ता अ॑सत्। गृ॒हान् भ॒द्रान् सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी वी॒रव॑तः सु॒वीरा॑न्। इरां॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒हꣳ सु॒मनाः॒ सं वि॑शामि। आग॑न्गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी प्र॒जया᳚ स्व॒र्वित्।
॥१॥ब॒ह्वीं प्र॒जां ज॒नय॑न्ती सुरत्ने॒मम॒ग्निꣳ श॒तहि॑माः सपर्यात्। अ॒यम॒ग्निर्गृ॒हप॑तिः सुस॒ꣳसत्पु॑ष्टि॒वर्ध॑नः। यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो᳚ प्र॒जाम्। प्र॒जया॑ आभ्यां प्रजापत॒ इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम्। यथैन॑यो॒र्न प्र॑मी॒याता॑ उ॒भयो॒र्जीव॑तोः प्र॒जाः। तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमाप्या॑यतां॒ पुनः॑।
॥२॥जा॒यां याम॑स्मा॒ आवा᳚क्षु॒स्ताꣳ रसे॑ना॒भिव॑र्धताम्। अ॒भिव॑र्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्धताम्। र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेक्षितौ। इ॒हैव स्तं॒ मा वियो᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम्। म॒ह्या इ॑न्द्रः स्व॒स्तये᳚। ध्रु॒वैधि पो᳚ष्या॒ मयि॒ मह्यं॑ त्वाऽदा॒द् बृह॒स्पतिः॑। मया॒ पत्या᳚ प्र॒जाव॑ती॒ सं जी॑व श॒रदः॑ श॒तम्।
॥३॥त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा᳚ऽस्यै॒ त्वां पति᳚म्। त्वष्टा॑ स॒हस्र॒मायू॑ꣳषि दी॒र्घमायुः॑ कृणोतु वाम्। (इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑)॥८॥
॥४॥टिप्पण्यः
“वसू॒न्यश्वि॑ना” इति वा
॥५॥“वियो᳚ष्ठं” इति वा
॥६॥