अध्ययनम्
- अनुक्रमणिका
- सम्बद्धम्
- मूलम्
ध्यानम्
अथाऽऽत्मानं शिवात्मानं श्री रुद्र रूपं ध्यायेत्॥
॥१॥शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम्।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम्॥
॥२॥नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम्॥
॥३॥कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम्।
ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम्॥
॥४॥वृषस्कन्धसमारूढम् उमादेहार्धधारिणम्।
अमृते नाप्लुतं शान्तं दिव्यभोगसमन्वितम्॥
॥५॥दिग्देवता समायुक्तं सुरासुरनमस्कृतम्।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम्॥
॥६॥सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम्।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत्॥
॥७॥अभिषेकध्यानम्
आपाताल नभः स्थलान्त भुवन ब्रह्माण्डमाविस्फुरत्
ज्योतिः स्फाटिक लिङ्ग मौलि विलसत्पूर्णेन्दु वान्तामृतैः
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम्
॥८॥ब्रह्माण्ड व्याप्त देहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दा कलित शशिकलाश्चण्ड कोदण्ड हस्ताः
त्र्यक्षा रुद्राक्षमालाः प्रकटित विभवाः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त प्रकटित विभवा नः प्रयच्छन्तु सौख्यम्
॥९॥