अनुवाक 1
अङ्गि॑रसो॒ वै स॒त्रमा॑सत।
तेषां॒ पृश्ञि॑र्घर्म॒धुगा॑सीत्।
सर्जी॒षेणा॑जीवत्।
ते᳚ऽब्रुवन्।
कस्मै॒ नु स॒त्रमा᳚स्महे।
ये᳚ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑।
ते दि॒वो वृष्टि॑मसृजन्त।
याव॑न्तः स्तो॒का अ॒वाप॑द्यन्त।
ताव॑ती॒रोष॑धयोऽजायन्त।
ता जा॒ताः पि॒तरो॑ वि॒षेणा॑लिम्पन्॥१॥
तासां᳚ ज॒ग्ध्वा रुप्य॒न्त्यैत्।
ते᳚ऽब्रुवन्।
क इ॒दमि॒त्थम॑क॒रिति॑।
व॒यं भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरो᳚ऽब्रुवन्।
किं वो॑ भाग॒धेय॒मिति॑।
अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन्।
तेभ्य॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्।
यद्धु॒त्वा नि॒मार्ष्टि॑।
ततो॒ वै त ओष॑धीरस्वदयन्।
य ए॒वं वेद॑॥२॥
स्वद॑न्तेऽस्मा॒ ओष॑धयः।
ते व॒थ्समु॒पावा॑सृजन्।
इ॒दं नो॑ ह॒व्यं प्रदा॑प॒येति॑।
सो᳚ऽब्रवी॒द्वरं॑ वृणै।
दश॑ मा॒ रात्री᳚र्जा॒तं न दो॑हन्।
आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रा॒णीति॑।
तस्मा᳚द्व॒थ्सं जा॒तं दश॒ रात्री॒र्न दु॑हन्ति।
आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रति।
वारे॑वृत॒ꣴ॒ ह्य॑स्य।
तस्मा᳚द्व॒थ्सꣳ सꣳ॑सृष्टध॒यꣳ रु॒द्रो घातु॑कः।
अति॒ हि स॒न्धान्धय॑ति॥३॥
अनुवाक 2
प्र॒जाप॑तिर॒ग्निम॑सृजत।
तं प्र॒जा अन्व॑सृज्यन्त।
तम॑भा॒ग उपा᳚स्त।
सो᳚ऽस्य प्र॒जाभि॒रपा᳚क्रामत्।
तम॑व॒रुरु॑थ्समा॒नोऽन्वै᳚त्।
तम॑व॒रुधं॒ नाश॑क्नोत्।
स तपो॑ऽतप्यत।
सो᳚ऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑।
स र॒राटा॒दुद॑मृष्ट॥४॥
तद्घृ॒तम॑भवत्।
तस्मा॒द्यस्य॑ दक्षिण॒तः केशा॒ उन्मृ॑ष्टाः।
ताञ्ज्ये᳚ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः।
यद्र॒राटा॑दु॒दमृ॑ष्ट।
तस्मा᳚द्र॒राटे॒ केशा॒ न स॑न्ति।
तद॒ग्नौ प्रागृ॑ह्णात्।
तद्व्य॑चिकिथ्सत्।
जु॒हवा॒नी(३) मा हौ॒षा(३)मिति॑।
तद्वि॑चिकि॒थ्सायै॒ जन्म॑।
य ए॒वं वि॒द्वान् वि॑चि॒किथ्स॑ति॥५॥
वसी॑य ए॒व चे॑तयते।
तं वाग॒भ्य॑वदज्जु॒हुधीति॑।
सो᳚ऽब्रवीत्।
कस्त्वम॒सीति॑।
स्वैव ते॒ वागित्य॑ब्रवीत्।
सो॑ऽजुहो॒थ्स्वाहेति॑।
तथ्स्वा॑हाका॒रस्य॒ जन्म॑।
य ए॒वꣴस्वा॑हाका॒रस्य॒ जन्म॒ वेद॑।
क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्यम्᳚।
यस्यै॒वं वि॒दुषः॑ स्वाहाका॒रेण॒ जुह्व॑ति॥६॥
भोगा॑यै॒वास्य॑ हु॒तं भ॑वति।
तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत।
द्वि॒तीय॑मजुहोत्।
सोऽश्व॑मसृजत।
तृ॒तीय॑मजुहोत्।
स गाम॑सृजत।
च॒तु॒र्थम॑जुहोत्।
सोऽवि॑मसृजत।
प॒ञ्च॒मम॑जुहोत्।
सो॑ऽजाम॑सृजत॥७॥
सो᳚ऽग्निर॑बिभेत्।
आहु॑तीभि॒र्वै मा᳚ऽऽप्नो॒तीति॑।
स प्र॒जाप॑तिं॒ पुनः॒ प्रावि॑शत्।
तं प्र॒जाप॑तिरब्रवीत्।
जाय॒स्वेति॑।
सो᳚ऽब्रवीत्।
किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑।
तुभ्य॑मे॒वेदꣳ हू॑याता॒ इत्य॑ब्रवीत्।
स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत।
यद॑ग्निहो॒त्रम्॥८॥
तस्मा॑दग्निहो॒त्रमु॑च्यते।
तद्धू॒यमा॑नमादि॒त्यो᳚ऽब्रवीत्।
मा हौ॑षीः।
उ॒भयो॒र्वै ना॑वे॒तदिति॑।
सो᳚ऽग्निर॑ब्रवीत्।
क॒थं नौ॑ होष्य॒न्तीति॑।
सा॒यमे॒व तुभ्यं॑ जु॒हवन्॑।
प्रा॒तर्मह्य॒मित्य॑ब्रवीत्।
तस्मा॑द॒ग्नये॑ सा॒यꣳ हू॑यते।
सूर्या॑य प्रा॒तः॥९॥
आ॒ग्ने॒यी वै रात्रिः॑।
ऐ॒न्द्रमहः॑।
यदनु॑दिते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात्।
उ॒भय॑मे॒वाग्ने॒यꣴ स्या᳚त्।
उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति।
तथा॒ऽग्नये॑ सा॒यꣳ हू॑यते।
सूर्या॑य प्रा॒तः।
रात्रिं॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते।
अह्ना॒ प्रति॑ तिष्ठन्ति।
यथ्सा॒यं जु॒होति॑॥१०॥
प्रैव तेन॑ जायते।
उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति।
प्रत्ये॒व तेन॑ तिष्ठति।
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स ए॒तद॑ग्निहो॒त्रं मि॑थु॒नम॑पश्यत्।
तदुदि॑ते॒ सूर्ये॑ऽजुहोत्।
यजु॑षा॒ऽन्यत्।
तू॒ष्णीम॒न्यत्।
ततो॒ वै स प्राजा॑यत।
यस्यै॒वं वि॒दुष॒ उदि॑ते॒ सूर्ये᳚ऽग्निहो॒त्रं जुह्व॑ति॥११॥
प्रैव जा॑यते।
अथो॒ यथा॒ दिवा᳚ प्रजा॒नन्नेति॑।
ता॒दृगे॒व तत्।
अथो॒ खल्वा॑हुः।
यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः।
यस्तयो॑र॒न्यꣳ रा॒धय॑त्य॒न्यं न।
उ॒भौ वाव स तावृ॑च्छ॒तीति॑।
अ॒ग्निं वावाऽऽदि॒त्यः सा॒यं प्र वि॑शति।
तस्मा॑द॒ग्निर्दू॒रान्नक्तं॑ ददृशे।
उ॒भे हि तेज॑सी स॒म्पद्ये॑ते॥१२॥
उ॒द्यन्तं॒ वावाऽऽदि॒त्यम॒ग्निरनु॑ स॒मारो॑हति।
तस्मा᳚द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे।
यद॒ग्नये॑ सा॒यं जु॑हु॒यात्।
आ सूर्या॑य वृश्च्येत।
यथ्सूर्या॑य प्रा॒तर्जु॑हु॒यात्।
आऽग्नये॑ वृश्च्येत।
दे॒वता᳚भ्यः स॒मदं॑ दध्यात्।
अ॒ग्निर्ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेत्ये॒व सा॒यꣳ हो॑त॒व्यम्᳚।
सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॑ प्रा॒तः।
तथो॒भाभ्याꣳ॑ सा॒यꣳ हू॑यते॥१३॥
उ॒भाभ्यां᳚ प्रा॒तः।
न दे॒वता᳚भ्यः स॒मदं॑ दधाति।
अ॒ग्निर्ज्योति॒रित्या॑ह।
अ॒ग्निर्वै रे॑तो॒धाः।
प्र॒जा ज्योति॒रित्या॑ह।
प्र॒जा ए॒वास्मै॒ प्र ज॑नयति।
सूर्यो॒ ज्योति॒रित्या॑ह।
प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति।
ज्योति॑र॒ग्निः स्वाहेत्या॑ह।
प्र॒जा ए॒व प्रजा॑ता अ॒स्यां प्रति॑ष्ठापयति॥१४॥
तू॒ष्णीमुत्त॑रा॒माहु॑तिं जुहोति।
मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै।
यदुदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात्।
यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यꣳ॑ हर॑न्ति।
ता॒दृगे॒व तत्।
क्वाऽऽह॒ तत॒स्तद्भव॒तीत्या॑हुः।
यथ्स न वेद॑।
यस्मै॒ तद्धर॒न्तीति॑।
तस्मा॒द्यदौ॑ष॒सं जु॒होति॑।
तदे॒व स॑म्प्र॒ति।
अथो॒ यथा॒ प्रार्थ॑मौष॒सं प॑रि॒वेवे᳚ष्टि।
ता॒दृगे॒व तत्॥१५॥
अनुवाक 3
रु॒द्रो वा ए॒षः।
यद॒ग्निः।
पत्नी᳚ स्था॒ली।
यन्मध्ये॒ऽग्नेर॑धि॒श्रये᳚त्।
रु॒द्राय॒ पत्नी॒मपि॑ दध्यात्।
प्र॒मायु॑का स्यात्।
उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति।
पत्नि॑यै गोपी॒थाय॑।
व्य॑न्तान्करोति।
तथा॒ पत्न्यप्र॑मायुका भवति॥१६॥
घ॒र्मो वा ए॒षोऽशा᳚न्तः।
अह॑रहः॒ प्र वृ॑ज्यते।
यद॑ग्निहो॒त्रम्।
प्रति॑षिञ्चेत्प॒शुका॑मस्य।
शा॒न्तमि॑व॒ हि प॑श॒व्यम्᳚।
न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य।
समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम्।
अथो॒ खलु॑।
प्र॒ति॒षिच्य॑मे॒व।
यत्प्र॑तिषि॒ञ्चति॑॥१७॥
तत्प॑श॒व्यम्᳚।
यज्जु॒होति॑।
तद्ब्र॑ह्मवर्च॒सि।
उ॒भय॑मे॒वाकः॑।
प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कात्।
अग॑तं देवलो॒कम्।
यच्छृ॒तꣳ ह॒विरन॑भिघारितम्।
अ॒भि द्यो॑तयति।
अ॒भ्ये॑वैन॑द्घारयति।
अथो॑ देव॒त्रैवैन॑द्गमयति॥१८॥
पर्य॑ग्नि करोति।
रक्ष॑सा॒मप॑हत्यै।
त्रिः पर्य॑ग्नि करोति।
त्र्या॑वृ॒द्धि य॒ज्ञः।
अथो॑ मेध्य॒त्वाय॑।
यत्प्रा॒चीन॑मुद्वा॒सये᳚त्।
यज॑मानꣳ शु॒चाऽर्प॑येत्।
यद्द॑क्षि॒णा।
पि॒तृ॒दे॒व॒त्यꣴ॑ स्यात्।
यत्प्र॒त्यक्॥१९॥
पत्नीꣳ॑ शु॒चाऽर्प॑येत्।
उ॒दी॒चीन॒मुद्वा॑सयति।
ए॒षा वै दे॑वमनु॒ष्याणाꣳ॑ शा॒न्ता दिक्।
तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै᳚।
वर्त्म॑ करोति।
य॒ज्ञस्य॒ सन्त॑त्यै।
निष्ट॑पति।
उपै॒व तथ्स्तृ॑णाति।
च॒तुरुन्न॑यति।
चतु॑ष्पादः प॒शवः॑॥२०॥
प॒शूने॒वाव॑ रुन्धे।
सर्वा᳚न्पू॒र्णानुन्न॑यति।
सर्वे॒ हि पुण्या॑ रा॒द्धाः।
अ॒नूच॒ उन्न॑यति।
प्र॒जाया॑ अनूचीन॒त्वाय॑।
अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति।
सम्मृ॑शति॒ व्यावृ॑त्त्यै।
नाहो᳚ष्य॒न्नुप॑ सादयेत्।
यदहो᳚ष्यन्नुपसा॒दये᳚त्।
यथा॒ऽन्यस्मा॑ उपनि॒धाय॑॥२१॥
अ॒न्यस्मै᳚ प्र॒यच्छ॑ति।
ता॒दृगे॒व तत्।
आऽस्मै॑ वृश्च्येत।
यदे॒व गार्ह॑पत्येऽधि॒ श्रय॑ति।
तेन॒ गार्ह॑पत्यं प्रीणाति।
अ॒ग्निर॑बिभेत्।
आहु॑तयो॒ माऽत्ये᳚ष्य॒न्तीति॑।
स ए॒ताꣳ स॒मिध॑मपश्यत्।
तामाऽध॑त्त।
ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त॥२२॥
यदे॑नꣳ स॒मय॑च्छत्।
तथ्स॒मिधः॑ समि॒त्त्वम्।
स॒मिध॒मा द॑धाति।
समे॒वैनं॑ यच्छति।
आहु॑तीनां॒ धृत्यै᳚।
अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति।
आहु॑तीनां॒ प्रति॑ष्ठित्यै।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
यदेकाꣳ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑।
अथ॒ कस्याꣳ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिं जुहो॒तीति॑॥२३॥
यद्द्वे स॒मिधा॑वा द॒ध्यात्।
भ्रातृ॑व्यमस्मै जनयेत्।
एकाꣳ॑ स॒मिध॑मा॒धाय॑।
यजु॑षा॒ऽन्यामाहु॑तिं जुहोति।
उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति।
नास्मै॒ भ्रातृ॑व्यं जनयति।
आदी᳚प्तायां जुहोति।
समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम्।
अथो॒ यथाऽति॑थिं॒ ज्योति॑ष्कृ॒त्वा प॑रि॒ वेवे᳚ष्टि।
ता॒दृगे॒व तत्।
च॒तुरुन्न॑यति।
द्विर्जु॑होति।
तस्मा᳚द्द्वि॒पाच्चतु॑ष्पादमत्ति।
अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति॥२४॥
अनुवाक 4
उ॒त्त॒राव॑तीं॒ वै दे॒वा आहु॑ति॒मजु॑हवुः।
अवा॑ची॒मसु॑राः।
ततो॑ दे॒वा अभ॑वन्।
पराऽसु॑राः।
यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑।
कनी॑य॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा।
उत्त॑रं॒ भूयो॑ जुहुयात्।
ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः।
तान्दे॒वा अ॑जुहवुः।
तत॒स्ते॑ऽभवन्॥२५॥
यस्यै॒वं जुह्व॑ति।
भव॑त्ये॒व।
यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑।
भूय॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा।
उत्त॑रं॒ कनी॑यो जुहुयात्।
ए॒षा वा अवा॒च्याहु॑तिः।
तामसु॑रा अजुहवुः।
तत॒स्ते परा॑ऽभवन्।
यस्यै॒वं जुह्व॑ति।
परै॒व भ॑वति॥२६॥
हु॒त्वोप॑ सादय॒त्यजा॑मित्वाय।
अथो॒ व्यावृ॑त्त्यै।
गार्ह॑पत्यं॒ प्रती᳚क्षते।
अन॑नुध्यायिनमे॒वैनं॑ करोति।
अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति।
तं य ऋ॒च्छेत्।
य॒ज्ञ॒स्था॒णुमृ॑च्छेत्।
ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः।
यत्पूर्वाऽऽहु॑तिः।
तां यदुत्त॑रया॒ऽभि जु॑हु॒यात्॥२७॥
य॒ज्ञ॒स्था॒णुमृ॑च्छेत्।
अ॒ति॒हाय॒ पूर्वा॒माहु॑तिं जुहोति।
य॒ज्ञ॒स्था॒णुमे॒व परि॑ वृणक्ति।
अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑ क्रामति।
अ॒वा॒चीनꣳ॑ सा॒यमुप॑मार्ष्टि।
रेत॑ ए॒व तद्द॑धाति।
ऊ॒र्ध्वं प्रा॒तः।
प्र ज॑नयत्ये॒व तत्।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
च॒तुरुन्न॑यति॥२८॥
द्विर्जु॑होति।
अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑।
अ॒ग्नौ वै᳚श्वान॒र इति॑ ब्रूयात्।
ए॒ष वा अ॒ग्निर्वै᳚श्वान॒रः।
यद्ब्रा᳚ह्म॒णः।
हु॒त्वा द्विः प्राश्ञा॑ति।
अ॒ग्नावे॒व वै᳚श्वान॒रे द्वे आहु॑ती जुहोति।
द्विर्जु॒होति॑।
द्विर्निमा᳚र्ष्टि।
द्विः प्राश्ञा॑ति॥२९॥
षट्थ्सं प॑द्यन्ते।
षड्वा ऋ॒तवः॑।
ऋ॒तूने॒व प्री॑णाति।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
किं॒ दे॒व॒त्य॑मग्निहो॒त्रमिति॑।
वै॒श्व॒दे॒वमिति॑ ब्रूयात्।
यद्यजु॑षा जु॒होति॑।
तदै᳚न्द्रा॒ग्नम्।
यत्तू॒ष्णीम्।
तत्प्रा॑जाप॒त्यम्॥३०॥
यन्नि॒मार्ष्टि॑।
तदोष॑धीनाम्।
यद्द्वि॒तीयम्᳚।
तत्पि॑तृ॒णाम्।
यत्प्राश्ञा॑ति।
तद्गर्भा॑णाम्।
तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते।
यदा॒चाम॑ति।
तन्म॑नु॒ष्या॑णाम्।
उद॑ङ्पर्या॒वृत्याचा॑मति॥३१॥
आ॒त्मनो॑ गोपी॒थाय॑।
निर्णे॑नेक्ति॒ शुद्ध्यै᳚।
निष्ट॑पति स्व॒गाकृ॑त्यै।
उद्दि॑शति।
स॒प्त॒र्॒षीने॒व प्री॑णाति।
द॒क्षि॒णा प॒र्याव॑र्तते।
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते।
तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः।
अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते।
हु॒त्वोप॒ समि॑न्धे॥३२॥
ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै।
न ब॒र्॒हिरनु॒ प्र ह॑रेत्।
असꣴ॑स्थितो॒ वा ए॒ष य॒ज्ञः।
यद॑ग्निहो॒त्रम्।
यद॑नु प्र॒हरे᳚त्।
य॒ज्ञं विच्छि॑न्द्यात्।
तस्मा॒न्नानु॑ प्र॒हृत्यम्᳚।
य॒ज्ञस्य॒ सन्त॑त्यै।
अ॒पो नि न॑यति।
अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः॥३३॥
अनुवाक 5
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः।
किं प्रा॑यणमग्निहो॒त्रमिति॑।
व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम्।
अ॒ग्नि॒हो॒त्रं य॒ज्ञाना᳚म्।
तस्य॑ पृथि॒वी सदः॑।
अ॒न्तरि॑क्ष॒माग्नी᳚द्ध्रम्।
द्यौर्ह॑वि॒र्धानम्᳚।
दि॒व्या आपः॒ प्रोक्ष॑णयः।
ओष॑धयो ब॒र्॒हिः॥३४॥
वन॒स्पत॑य इ॒ध्मः।
दिशः॑ परि॒धयः॑।
आ॒दि॒त्यो यूपः॑।
यज॑मानः प॒शुः।
स॒मु॒द्रो॑ऽवभृ॒थः।
सं॒व॒थ्स॒रः स्व॑गाका॒रः।
तस्मा॒दाहि॑ताग्नेः॒ सर्व॑मे॒व ब॑र्हि॒ष्यं॑ द॒त्तं भ॑वति।
यथ्सा॒यं जु॒होति॑।
रात्रि॑मे॒व तेन॑ दक्षि॒ण्यां᳚ कुरुते।
यत्प्रा॒तः॥३५॥
अह॑रे॒व तेन॑ दक्षि॒ण्यं॑ कुरुते।
यत्ततो॒ ददा॑ति।
सा दक्षि॑णा।
याव॑न्तो॒ वै दे॒वा अहु॑त॒मादन्॑।
ते परा॑ऽभवन्।
त ए॒तद॑ग्निहो॒त्रꣳ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः।
तस्मा॑दाहुः।
अ॒ग्नि॒हो॒त्रं वै दे॒वा गृ॒हाणां॒ निष्कृ॑तिमपश्य॒न्निति॑।
यथ्सा॒यं जु॒होति॑।
रात्रि॑या ए॒व तद्धु॒ताद्या॑य॥३६॥
यज॑मान॒स्याप॑राभावाय।
यत्प्रा॒तः।
अह्न॑ ए॒व तद्धु॒ताद्या॑य।
यज॑मान॒स्याप॑राभावाय।
यत्ततो॒ऽश्ञाति॑।
हु॒तमे॒व तत्।
द्वयोः॒ पय॑सा जुहुयात्प॒शुका॑मस्य।
ए॒तद्वा अ॑ग्निहो॒त्रं मि॑थु॒नम्।
य ए॒वं वेद॑।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॥३७॥
इ॒मामे॒व पूर्व॑या दु॒हे।
अ॒मूमुत्त॑रया।
अ॒धि॒श्रित्योत्त॑र॒मा न॑यति।
योना॑वे॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने।
आज्ये॑न जुहुया॒त्तेज॑स्कामस्य।
तेजो॒ वा आज्यम्᳚।
ते॒ज॒स्व्ये॑व भ॑वति।
पय॑सा प॒शुका॑मस्य।
ए॒तद्वै प॑शू॒नाꣳ रू॒पम्।
रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे॥३८॥
प॒शु॒माने॒व भ॑वति।
द॒ध्नेन्द्रि॒यका॑मस्य।
इ॒न्द्रि॒यं वै दधि॑।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति।
य॒वा॒ग्वा᳚ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः᳚।
भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑ रुन्धे।
ग्रा॒म्ये॑व भ॑वति।
अय॑ज्ञो॒ वा ए॒षः।
यो॑ऽसा॒मा॥३९॥
च॒तुरुन्न॑यति।
चतु॑रक्षरꣳ रथन्त॒रम्।
र॒थ॒न्त॒रस्यै॒ष वर्णः॑।
उ॒परी॑व हरति।
अ॒न्तरि॑क्षं वामदे॒व्यम्।
वा॒म॒दे॒व्यस्यै॒ष वर्णः॑।
द्विर्जु॑होति।
द्व्य॑क्षरं बृ॒हत्।
बृ॒ह॒त ए॒ष वर्णः॑।
अ॒ग्नि॒हो॒त्रमे॒व तथ्साम॑न्वत्करोति॥४०॥
यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑।
उपै॑नमुप॒सदो॑ नमन्ति।
वि॒न्दत॑ उपस॒त्तारम्᳚।
उ॒न्नीयोप॑ सादयति।
पृ॒थि॒वीमे॒व प्री॑णाति।
हो॒ष्यन्नुप॑सादयति।
अ॒न्तरि॑क्षमे॒व प्री॑णाति।
हु॒त्वोप॑ सादयति।
दिव॑मे॒व प्री॑णाति।
ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑॥४१॥
य ए॒वं वेद॑।
उपै॑नमुप॒सदो॑ नमन्ति।
वि॒न्दत॑ उपस॒त्तारम्᳚।
यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितं प्र॒त्याश्रा॑वित॒ꣳ॒ होता॑रं ब्र॒ह्माणं॑ वषट्का॒रं वेद॑।
तस्य॒ त्वे॑व हु॒तम्।
प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम्।
अ॒पा॒नः प्र॒त्याश्रा॑वितम्।
मनो॒ होता᳚।
चक्षु॑र्ब्र॒ह्मा।
नि॒मे॒षो व॑षट्का॒रः॥४२॥
य ए॒वं वेद॑।
तस्य॒ त्वे॑व हु॒तम्।
सा॒यं॒ यावा॑नश्च॒ वै दे॒वाः प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति।
तान् यन्न त॒र्पये᳚त्।
प्र॒जया᳚ऽस्य प॒शुभि॒र्वि ति॑ष्ठेरन्।
यत्त॒र्पये᳚त्।
तृ॒प्ता ए॑नं प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः।
स॒जूर्दे॒वैः सा॒यं याव॑भि॒रिति॑ सा॒यꣳ सम्मृ॑शति।
स॒जूर्दे॒वैः प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः।
ये चै॒व दे॒वाः सा॑यं॒ यावा॑नो॒ ये च॑ प्रात॒र्यावा॑णः॥४३॥
ताने॒वोभयाꣴ॑स्तर्पयति।
त ए॑नं तृ॒प्ताः प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति।
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः।
अ॒ग्नि॒हो॒त्र ए॒वाहꣳ सा॒यं प्रा॑त॒र्वज्रं॒ भ्रातृ॑व्येभ्यः॒ प्र ह॑रामि।
तस्मा॒न्मत्पापी॑याꣳसो॒ भ्रातृ॑व्या॒ इति॑।
च॒तुरुन्न॑यति।
द्विर्जु॑होति।
स॒मिथ्स॑प्त॒मी।
स॒प्तप॑दा॒ शक्व॑री।
शा॒क्व॒रो वज्रः॑।
अ॒ग्नि॒हो॒त्र ए॒व तथ्सा॒यं प्रा॑त॒र्वज्रं॒ यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति।
भव॑त्या॒त्मना᳚।
परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॥४४॥
अनुवाक 6
प्र॒जाप॑तिरकामयताऽऽत्म॒न्वन्मे॑ जाये॒तेति॑।
सो॑ऽजुहोत्।
तस्या᳚ऽऽत्म॒न्वद॑जायत।
अ॒ग्निर्वा॒युरा॑दि॒त्यः।
ते᳚ऽब्रुवन्।
प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑।
तस्य॑ व॒यम॑जनिष्महि।
जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः।
प्रा॒णाना॑म॒ग्निः।
त॒नुवै॑ वा॒युः॥४५॥
चक्षु॑ष आदि॒त्यः।
तेषाꣳ॑ हु॒ताद॑जायत॒ गौरे॒व।
तस्यै॒ पय॑सि॒ व्याय॑च्छन्त।
मम॑ हु॒ताद॑जनि॒ ममेति॑।
ते प्र॒जाप॑तिं प्र॒श्ञमा॑यन्।
स आ॑दि॒त्यो᳚ऽग्निम॑ब्रवीत्।
य॒त॒रो नौ॒ जया᳚त्।
तन्नौ॑ स॒हास॒दिति॑।
कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑।
प्रा॒णाना॑म॒हमित्य॒ग्निः॥४६॥
त॒नुवा॑ अ॒हमिति॑ वा॒युः।
चक्षु॑षो॒ऽहमित्या॑दि॒त्यः।
य ए॒व प्रा॒णाना॒महौ॑षीत्।
तस्य॑ हु॒ताद॑ज॒नीति॑।
अ॒ग्नेर्हु॒ताद॑ज॒नीति॑।
तद॑ग्निहो॒त्रस्या᳚ग्निहोत्र॒त्वम्।
गौर्वा अ॑ग्निहो॒त्रम्।
य ए॒वं वेद॒ गौर॑ग्निहो॒त्रमिति॑।
प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्निꣳ सम॑र्धयति।
अव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति॥४७॥
य ए॒वं वेद॑।
तौ वा॒युर॑ब्रवीत्।
अनु॒ मा भ॑जत॒मिति॑।
यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवान्॑।
तेन॒ त्वां प्री॑णा॒नित्य॑ब्रूताम्।
तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति।
वा॒युमे॒व तेन॑ प्रीणाति।
प्र॒जाप॑तिर्दे॒वताः᳚ सृ॒जमा॑नः।
अ॒ग्निमे॒व दे॒वता॑नां प्रथ॒मम॑सृजत।
सो᳚ऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा॥४८॥
प्र॒जाप॑तिम॒भि प॒र्याव॑र्तत।
स मृ॒त्योर॑बिभेत्।
सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत।
तꣳ हु॒त्वा परा᳚ङ्प॒र्याव॑र्तत।
ततो॒ वै स मृ॒त्युमपा॑जयत्।
अप॑ मृ॒त्युं ज॑यति।
य ए॒वं वेद॑।
तस्मा॒द्यस्यै॒वं वि॒दुषः॑।
उ॒तैका॒हमु॒त द्व्य॒हं न जुह्व॑ति।
हु॒तमे॒वास्य॑ भवति।
अ॒सौ ह्या॑दि॒त्यो᳚ऽग्निहो॒त्रम्॥४९॥
अनुवाक 7
रौ॒द्रं गवि॑।
वा॒य॒व्य॑मुप॑सृष्टम्।
आ॒श्वि॒नं दु॒ह्यमा॑नम्।
सौ॒म्यं दु॒ग्धम्।
वा॒रु॒णमधि॑ श्रितम्।
वै॒श्व॒दे॒वा भि॒न्दवः॑।
पौ॒ष्णमुद॑न्तम्।
सा॒र॒स्व॒तं वि॒ष्यन्द॑मानम्।
मै॒त्रꣳ शरः॑।
धा॒तुरुद्वा॑सितम्।
बृह॒स्पते॒रुन्नी॑तम्।
स॒वि॒तुः प्र क्रा᳚न्तम्।
द्या॒वा॒पृ॒थि॒व्यꣴ॑ ह्रि॒यमा॑णम्।
ऐ॒न्द्रा॒ग्नमुप॑सन्नम्।
अ॒ग्नेः पूर्वाऽऽहु॑तिः।
प्र॒जाप॑ते॒रुत्त॑रा।
ऐ॒न्द्रꣳ हु॒तम्॥५०॥
अनुवाक 8
द॒क्षि॒ण॒त उप॑ सृजति।
पि॒तृ॒लो॒कमे॒व तेन॑ जयति।
प्राची॒मा व॑र्तयति।
दे॒व॒लो॒कमे॒व तेन॑ जयति।
उदी॑चीमा॒वृत्य॑ दोग्धि।
म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति।
पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑।
यो वा॑ ग॒तश्रीः॒ स्यात्।
अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑।
यो वा॒ बुभू॑षेत्॥५१॥
न सं मृ॑शति।
पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै।
वा॒य॒व्यं॑ वा ए॒तदुप॑सृष्टम्।
आ॒श्वि॒नं दु॒ह्यमा॑नम्।
मै॒त्रं दु॒ग्धम्।
अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम्।
त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम्।
बृह॒स्पते॒रुन्नी॑तम्।
स॒वि॒तुः प्रक्रा᳚न्तम्।
द्या॒वा॒पृ॒थि॒व्यꣴ॑ ह्रि॒यमा॑णम्॥५२॥
ऐ॒न्द्रा॒ग्नमुप॑ सादितम्।
सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यो जुहोति।
यो᳚ऽग्निहो॒त्रं जु॒होति॑।
यथा॒ खलु॒ वै धे॒नुं ती॒र्थे त॒र्पय॑ति।
ए॒वम॑ग्निहो॒त्री यज॑मानं तर्पयति।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑।
प्र सु॑व॒र्गं लो॒कं जा॑नाति।
पश्य॑ति पु॒त्रम्।
पश्य॑ति॒ पौत्रम्᳚।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते।
यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति।
य उ॑ चैनदे॒वं वेद॑॥५३॥
अनुवाक 9
त्रयो॒ वै प्रै॑यमे॒धा आ॑सन्।
तेषां॒ त्रिरेको᳚ऽग्निहो॒त्रम॑जुहोत्।
द्विरेकः॑।
स॒कृदेकः॑।
तेषां॒ यस्त्रिरजु॑होत्।
स ऋ॒चाऽजु॑होत्।
यो द्विः।
स यजु॑षा।
यः स॒कृत्।
स तू॒ष्णीम्॥५४॥
यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम्।
तावु॒भावा᳚र्ध्नुताम्।
तस्मा॒द्यजु॒षाऽऽहु॑तिः॒ पूर्वा॑ होत॒व्या᳚।
तू॒ष्णीमुत्त॑रा।
उ॒भे ए॒वर्धी अव॑ रुन्धे।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॑ सा॒यं जु॑होति।
रेत॑ ए॒व तद्द॑धाति।
सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेति॑ प्रा॒तः।
रेत॑ ए॒व हि॒तं प्र ज॑नयति।
रेतो॒ वा ए॒तस्य॑ हि॒तं न प्र जा॑यते॥५५॥
यस्या᳚ग्निहो॒त्रमहु॑त॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑।
यद्यन्ते॒ स्यात्।
उ॒न्नीय॒ प्राङु॒दाद्र॑वेत्।
स उ॑प॒साद्यातमि॑तोरासीत।
स य॒दा ताम्ये᳚त्।
अथ॒ भूः स्वाहेति॑ जुहुयात्।
प्र॒जाप॑ति॒र्वै भू॒तः।
तमे॒वोपा॑सरत्।
स ए॒वैनं॒ तत॒ उन्न॑यति।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः॥५६॥
अनुवाक 10
यद॒ग्निमु॒द्धर॑ति।
वस॑व॒स्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
वसु॑ष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
निहि॑तो धूपा॒यञ्छे॑ते।
रु॒द्रास्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
रु॒द्रेष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते।
आ॒दि॒त्यास्तर्ह्य॒ग्निः॥५७॥
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
आ॒दि॒त्येष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी᳚प्तो भवति।
विश्वे॑ दे॒वास्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
विश्वे᳚ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रꣳ हु॒तं भ॑वति।
नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति।
इन्द्र॒स्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति॥५८॥
अङ्गा॑रा भवन्ति।
तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति।
प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
प्र॒जाप॑तावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
शरोऽङ्गा॑रा॒ अध्यू॑हन्ते।
ब्रह्म॒ तर्ह्य॒ग्निः।
तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति।
ब्रह्म॑न्ने॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति।
वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑।
इन्द्रे᳚ प्र॒जाप॑तौ॒ ब्रह्मन्॑।
अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तं भ॑वति।
यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति।
य उ॑ चैनदे॒वं वेद॑॥५९॥
अनुवाक 11
ऋ॒तं त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यं परि॑षिञ्चति।
स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः।
अ॒ग्निर्वा ऋ॒तम्।
अ॒सावा॑दि॒त्यः स॒त्यम्।
अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यं परि॑षिञ्चति।
अ॒ग्निना॑ऽऽदि॒त्यं प्रा॒तः सः।
याव॑दहोरा॒त्रे भव॑तः।
ताव॑दस्य लो॒कस्य॑।
नार्ति॒र्न रिष्टिः॑।
नान्तो॒ न प॑र्य॒न्तो᳚ऽस्ति।
यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति।
य उ॑चैनदे॒वं वेद॑॥६०॥
अनुवाक 1
प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॑।
स ए॒तं दश॑होतारमपश्यत्।
तं मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत्।
ततो॒ वै स प्र॒जा अ॑सृजत।
ता अ॑स्माथ्सृ॒ष्टा अपा᳚क्रामन्।
ता ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
यः का॒मये॑त॒ प्रजा॑ये॒येति॑।
स दश॑होतारं॒ मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात्।
प्र॒जाप॑ति॒र्वै दश॑होता॥१॥
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते।
मन॑सा जुहोति।
मन॑ इव॒ हि प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
पू॒र्णया॑ जुहोति।
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
न्यू॑नया जुहोति।
न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत।
प्र॒जाना॒ꣳ॒ सृष्ट्यै᳚॥२॥
द॒र्भ॒स्त॒म्बे जु॑होति।
ए॒तस्मा॒द्वै योनेः᳚ प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प्र॒जा असृ॑जत।
तस्मा॑दे॒व योनेः॒ प्रजा॑यते।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा।
उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते।
ग्रहो॑ भवति।
प्र॒जानाꣳ॑ सृ॒ष्टानां॒ धृत्यै᳚।
यं ब्रा᳚ह्म॒णं वि॒द्यां वि॒द्वाꣳसं॒ यशो॒ नर्च्छेत्॥३॥
सोऽर॑ण्यं प॒रेत्य॑।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑।
ब्रा॒ह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑।
चतु॑र्होतॄ॒न्व्याच॑क्षीत।
ए॒तद्वै दे॒वानां᳚ पर॒मं गुह्यं॒ ब्रह्म॑।
यच्चतु॑र्होतारः।
तदे॒व प्र॑का॒शं ग॑मयति।
तदे॑नं प्रका॒शं ग॒तम्।
प्र॒का॒शं प्र॒जानां᳚ गमयति।
द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे॥४॥
अ॒ग्नि॒वान् वै द॑र्भस्त॒म्बः।
अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे।
ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते।
ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा।
उ॒प॒द्र॒ष्टु॒मत्ये॒वैनं॒ यश॑ ऋच्छति।
ई॒श्व॒रन्तं यशोर्तो॒रित्या॑हुः।
यस्यान्ते᳚ व्या॒चष्ट॒ इति॑।
वर॒स्तस्मै॒ देयः॑।
यदे॒वैनं॒ तत्रो॑प॒नम॑ति।
तदे॒वाव॑ रुन्धे॥५॥
अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑ दध्यात्।
प्रजा॑तमे॒वैन॒मा ध॑त्ते।
तेनै॒वोद्द्रुत्या᳚ग्निहो॒त्रं जु॑हुयात्।
प्रजा॑तमे॒वैन॑ज्जुहोति।
ह॒विर्नि॑र्व॒फ्स्यं दश॑होतारं॒ व्याच॑क्षीत।
प्रजा॑तमे॒वैनं॒ निर्व॑पति।
सा॒मि॒धे॒नीर॑नुव॒क्ष्यं दश॑होतारं॒ व्याच॑क्षीत।
सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते।
अथो॑ य॒ज्ञो वै दश॑होता।
य॒ज्ञमे॒व त॑नुते॥६॥
अ॒भि॒चरं॒ दश॑होतारं जुहुयात्।
नव॒ वै पुरु॑षे प्रा॒णाः।
नाभि॑र्दश॒मी।
सप्रा॑णमे॒वैन॑म॒भि च॑रति।
ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम्।
याव॑त्प्रा॒णाः।
याव॑दे॒वास्यास्ति॑।
तद॒भि च॑रति।
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚।
ए॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीतम्।
निर्ऋ॑तिगृहीत ए॒वैनं॒ निर्ऋ॑त्या ग्राहयति।
यद्वा॒चः क्रू॒रम्।
तेन॒ वष॑ट्करोति।
वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्र वृ॑श्चति।
ता॒जगार्ति॒मार्च्छ॑ति॥७॥
अनुवाक 2
प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑।
स ए॒तं चतु॑र्होतारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स द॑र्शपूर्णमा॒साव॑सृजत।
ताव॑स्माथ्सृ॒ष्टावपा᳚क्रामताम्।
तौ ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः।
चतु॑र्होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात्।
द॒र्श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते॥८॥
ग्रहो॑ भवति।
द॒र्॒श॒पू॒र्ण॒मा॒सयोः᳚ सृ॒ष्टयो॒र्धृत्यै᳚।
सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑।
स ए॒तं पञ्च॑होतारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत।
तान्य॑स्माथ्सृ॒ष्टान्यपा᳚क्रामन्।
तानि॒ ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः॥९॥
पञ्च॑होतारं॒ मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ जुहुयात्।
चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते।
ग्रहो॑ भवति।
चा॒तु॒र्मा॒स्यानाꣳ॑ सृ॒ष्टानां॒ धृत्यै᳚।
सो॑ऽकामयत पशुब॒न्धꣳ सृ॑जे॒येति॑।
स ए॒तꣳ षड्ढो॑तारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स प॑शुब॒न्धम॑सृजत।
सो᳚स्माथ्सृ॒ष्टोऽपा᳚क्रामत्।
तं ग्रहे॑णागृह्णात्॥१०॥
तद्ग्रह॑स्य ग्रह॒त्वम्।
प॒शु॒ब॒न्धेन॑ य॒क्ष्यमा॑णः।
षड्ढो॑तारं॒ मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ जुहुयात्।
प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते।
ग्रहो॑ भवति।
प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚।
सो॑ऽकामयत सौ॒म्यम॑ध्व॒रꣳ सृ॑जे॒येति॑।
स ए॒तꣳ स॒प्तहो॑तारमपश्यत्।
तं मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ऽजुहोत्।
ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत॥११॥
सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत्।
तं ग्रहे॑णागृह्णात्।
तद्ग्रह॑स्य ग्रह॒त्वम्।
दी॒क्षि॒ष्यमा॑णः।
स॒प्तहो॑तारं॒ मन॑साऽनु॒द्रुत्या॑ऽऽहव॒नीये॑ जुहुयात्।
सौ॒म्यमे॒वाध्व॒रꣳ सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते।
ग्रहो॑ भवति।
सौ॒म्यस्या᳚ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚।
दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत्।
तमे॑ताव॒च्छः सम॑भरन्॥१२॥
यथ्स॑म्भा॒राः।
ततो॒ वै तेभ्यो॑ य॒ज्ञः प्राभ॑वत्।
यथ्स॑म्भा॒रा भव॑न्ति।
य॒ज्ञस्य॒ प्रभू᳚त्यै।
आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे।
य॒ज्ञ॒मु॒खं वा आ॑ति॒थ्यम्।
मु॒ख॒त ए॒व य॒ज्ञꣳ स॒म्भृत्य॒ प्र त॑नुते।
अय॑ज्ञो॒ वा ए॒षः।
यो॑ऽप॒त्नीकः॑।
न प्र॒जाः प्रजा॑येरन्।
पत्नी॒र्व्याच॑ष्टे।
य॒ज्ञमे॒वाकः॑।
प्र॒जानां᳚ प्र॒जन॑नाय।
उ॒प॒सथ्सु॒ व्याच॑ष्टे।
ए॒तद्वै पत्नी॑नामा॒यत॑नम्।
स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति॥१३॥
अनुवाक 3
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
स त्रि॒वृत॒ꣴ॒ स्तोम॑मसृजत।
तं प॑ञ्चद॒शः स्तोमो॑ मध्य॒त उद॑तृणत्।
तौ पू᳚र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम्।
पू॒र्व॒प॒क्षं दे॒वा अन्वसृ॑ज्यन्त।
अ॒प॒र॒प॒क्षमन्वसु॑राः।
ततो॑ दे॒वा अभ॑वन्।
पराऽसु॑राः।
यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑॥१४॥
तं पू᳚र्वप॒क्षे या॑जयेत्।
वसी॑याने॒व भ॑वति।
यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑।
तम॑परप॒क्षे या॑जयेत्।
पापी॑याने॒व भ॑वति।
तस्मा᳚त्पूर्वप॒क्षो॑ऽपरप॒क्षात्क॑रु॒ण्य॑तरः।
प्र॒जाप॑ति॒र्वै दश॑होता।
चतु॑र्होता॒ पञ्च॑होता।
षड्ढो॑ता स॒प्तहो॑ता।
ऋ॒तवः॑ संवथ्स॒रः॥१५॥
प्र॒जाः प॒शव॑ इ॒मे लो॒काः।
य ए॒वं प्र॒जाप॑तिं ब॒होर्भूयाꣳ॑सं॒ वेद॑।
ब॒होरे॒व भूया᳚न्भवति।
प्र॒जाप॑तिर्देवासु॒रान॑सृजत।
स इन्द्र॒मपि॒ नासृ॑जत।
तं दे॒वा अ॑ब्रुवन्।
इन्द्रं॑ नो जन॒येति॑।
सो᳚ऽब्रवीत्।
यथा॒ऽहं यु॒ष्माꣴस्तप॒साऽसृ॑क्षि।
ए॒वमिन्द्रं॑ जनयध्व॒मिति॑॥१६॥
ते तपो॑ऽतप्यन्त।
त आ॒त्मन्निन्द्र॑मपश्यन्।
तम॑ब्रुवन्।
जाय॒स्वेति॑।
सो᳚ऽब्रवीत्।
किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑।
ऋ॒तून्थ्सं॑वथ्स॒रम्।
प्र॒जाः प॒शून्।
इ॒माँल्लो॒कानित्य॑ब्रुवन्।
तं वै माऽऽहु॑त्या॒ प्र ज॑नय॒तेत्य॑ब्रवीत्॥१७॥
तं चतु॑र्होत्रा॒ प्राज॑नयन्।
यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑।
स चतु॑र्होतारं जुहुयात्।
प्र॒जाप॑ति॒र्वै चतु॑र्होता।
प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति।
आऽस्य॑ वी॒रो जा॑यते।
वी॒रꣳ हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन्।
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के᳚ऽस्पर्धन्त।
व॒यं पूर्वे॑ सुव॒र्गं लो॒कमि॑याम व॒यं पूर्व॒ इति॑॥१८॥
त आ॑दि॒त्या ए॒तं पञ्च॑होतारमपश्यन्।
तं पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚ध्रेऽजुहवुः।
ततो॒ वै ते पूर्वे॑ सुव॒र्गं लो॒कमा॑यन्।
यः सु॑व॒र्गका॑मः॒ स्यात्।
स पञ्च॑होतारं पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚ध्रे जुहुयात्।
सं॒व॒थ्स॒रो वै पञ्च॑होता।
सं॒व॒थ्स॒रः सु॑व॒र्गो लो॒कः।
सं॒व॒थ्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑।
सु॒व॒र्गं लो॒कमे॑ति।
ते᳚ऽब्रुव॒न्नङ्गि॑रस आदि॒त्यान्॥१९॥
क्व॑ स्थ।
क्व॑ वः स॒द्भ्यो ह॒व्यं व॑क्ष्याम॒ इति॑।
छन्दः॒ स्वित्य॑ब्रुवन्।
गा॒य॒त्रि॒यां त्रि॒ष्टुभि॒ जग॑त्या॒मिति॑।
तस्मा॒च्छन्दः॑ सु स॒द्भ्य आ॑दि॒त्येभ्यः॑।
आ॒ङ्गी॒र॒सीः प्र॒जा ह॒व्यं व॑हन्ति।
वह॑न्त्यस्मै प्र॒जा ब॒लिम्।
ऐन॒मप्र॑तिख्यातं गच्छति।
य ए॒वं वेद॑।
द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑।
त्रय॑ इ॒मे लो॒काः।
अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः।
ए॒तस्मि॒न्वा ए॒ष श्रि॒तः।
ए॒तस्मि॒न्प्रति॑ष्ठितः।
य ए॒वमे॒तꣴ श्रि॒तं प्रति॑ष्ठितं॒ वेद॑।
प्रत्ये॒व ति॑ष्ठति॥२०॥
अनुवाक 4
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स ए॒तं दश॑होतारमपश्यत्।
तेन॑ दश॒धाऽऽत्मानं॑ वि॒धाय॑।
दश॑होत्राऽतप्यत।
तस्य॒ चित्तिः॒ स्रुगासी᳚त्।
चि॒त्तमाज्यम्᳚।
तस्यै॒ताव॑त्ये॒व वागासी᳚त्।
ए॒तावान्॑ यज्ञक्र॒तुः।
स चतु॑र्होतारमसृजत।
सो॑ऽनन्दत्॥२१॥
असृ॑क्षि॒ वा इ॒ममिति॑।
तस्य॒ सोमो॑ ह॒विरासी᳚त्।
स चतु॑र्होत्राऽतप्यत।
सो॑ऽताम्यत्।
स भूरिति॒ व्याह॑रत्।
स भूमि॑मसृजत।
अ॒ग्नि॒हो॒त्रं द॑र्शपूर्णमा॒सौ यजूꣳ॑षि।
स द्वि॒तीय॑मतप्यत।
सो॑ऽताम्यत्।
स भुव॒ इति॒ व्याह॑रत्॥२२॥
सो᳚ऽन्तरि॑क्षमसृजत।
चा॒तु॒र्मा॒स्यानि॒ सामा॑नि।
स तृ॒तीय॑मतप्यत।
सो॑ऽताम्यत्।
स सुव॒रिति॒ व्याह॑रत्।
स दिव॑मसृजत।
अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑।
ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः।
इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जाः प॒शव॒श्छन्दाꣳ॑सि॒ प्राजा॑यन्त।
य ए॒वमे॒ताः प्र॒जाप॑तेः प्रथ॒मा व्याहृ॑तीः॒ प्रजा॑ता॒ वेद॑॥२३॥
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते।
स पञ्च॑होतारमसृजत।
स ह॒विर्नावि॑न्दत।
तस्मै॒ सोम॑स्त॒नुवं॒ प्राय॑च्छत्।
ए॒तत्ते॑ ह॒विरिति॑।
स पञ्च॑होत्राऽतप्यत।
सो॑ऽताम्यत्।
स प्र॒त्यङ्ङ॑बाधत।
सोऽसु॑रानसृजत।
तद॒स्याप्रि॑यमासीत्॥२४॥
तद्दु॒र्वर्ण॒ꣳ॒ हिर॑ण्यमभवत्।
तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑।
स द्वि॒तीय॑मतप्यत।
सो॑ऽताम्यत्।
स प्राङ॑बाधत।
स दे॒वान॑सृजत।
तद॑स्य प्रि॒यमा॑सीत्।
तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत्।
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑।
य ए॒वꣳ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑॥२५॥
सु॒वर्ण॑ आ॒त्मना॑ भवति।
दु॒र्वर्णो᳚ऽस्य॒ भ्रातृ॑व्यः।
तस्मा᳚थ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं भा॒र्यम्᳚।
सु॒वर्ण॑ ए॒व भ॑वति।
ऐनं॑ प्रि॒यं ग॑च्छति॒ नाप्रि॑यम्।
स स॒प्तहो॑तारमसृजत।
स स॒प्तहो᳚त्रै॒व सु॑व॒र्गं लो॒कमै᳚त्।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत।
त्र॒य॒स्त्रि॒ꣳ॒शेन॒ प्रत्य॑तिष्ठत्।
ए॒क॒वि॒ꣳ॒शेन॒ रुच॑मधत्त॥२६॥
स॒प्त॒द॒शेन॒ प्राजा॑यत।
य ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते।
स॒प्तहो᳚त्रै॒व सु॑व॒र्गं लो॒कमे॑ति।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते।
त्र॒य॒स्त्रि॒ꣳ॒शेन॒ प्रति॑ तिष्ठति।
ए॒क॒वि॒ꣳ॒शेन॒ रुचं॑ धत्ते।
स॒प्त॒द॒शेन॒ प्र जा॑यते।
तस्मा᳚थ्सप्तद॒शः स्तोमो॒ न नि॒र्॒हृत्यः॑।
प्र॒जाप॑ति॒र्वै स॑प्तद॒शः।
प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजा᳚त्यै॥२७॥
अनुवाक 5
दे॒वा वै वरु॑णमयाजयन्।
स यस्यै॑यस्यै दे॒वता॑यै॒ दक्षि॑णा॒मन॑यत्।
ताम॑व्लीनात्।
ते᳚ऽब्रुवन्।
व्या॒वृत्य॒ प्रति॑गृह्णाम।
तथा॑ नो॒ दक्षि॑णा॒ न व्ले᳚ष्य॒तीति॑।
ते व्या॒वृत्य॒ प्रत्य॑गृह्णन्।
ततो॒ वै तान्दक्षि॑णा॒ नाव्ली॑नात्।
य ए॒वं वि॒द्वान्व्या॒वृत्य॒ दक्षि॑णां प्रतिगृ॒ह्णाति॑।
नैनं॒ दक्षि॑णा व्लीनाति॥२८॥
राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह।
आ॒ग्ने॒यं वै हिर॑ण्यम्।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति।
सोमा॑य॒ वास॒ इत्या॑ह।
सौ॒म्यं वै वासः॑।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति।
रु॒द्राय॒ गामित्या॑ह।
रौ॒द्री वै गौः।
स्वयै॒वैनां᳚ दे॒वत॑या॒ प्रति॑गृह्णाति।
वरु॑णा॒याश्व॒मित्या॑ह॥२९॥
वा॒रु॒णो वा अश्वः॑।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑गृह्णाति।
प्र॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह।
प्रा॒जा॒प॒त्यो वै पुरु॑षः।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑ गृह्णाति।
मन॑वे॒ तल्प॒मित्या॑ह।
मा॒न॒वो वै तल्पः॑।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑ गृह्णाति।
उ॒त्ता॒नाया᳚ङ्गीर॒सायान॒ इत्या॑ह।
इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः॥३०॥
अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति।
वै॒श्वा॒न॒र्यर्चा रथं॒ प्रति॑ गृह्णाति।
वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑।
स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑ गृह्णाति।
तेना॑मृत॒त्वम॑श्या॒मित्या॑ह।
अ॒मृत॑मे॒वाऽऽत्मन्ध॑त्ते।
वयो॑ दा॒त्र इत्या॑ह।
वय॑ ए॒वैनं॑ कृ॒त्वा।
सु॒व॒र्गं लो॒कं ग॑मयति।
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह॥३१॥
यद्वै शि॒वम्।
तन्मयः॑।
आ॒त्मन॑ ए॒वैषा परी᳚त्तिः।
क इ॒दं कस्मा॑ अदा॒दित्या॑ह।
प्र॒जाप॑ति॒र्वै कः।
स प्र॒जाप॑तये ददाति।
कामः॒ कामा॒येत्या॑ह।
कामे॑न॒ हि ददा॑ति।
कामे॑न प्रतिगृ॒ह्णाति॑।
कामो॑ दा॒ता कामः॑ प्रतिग्रही॒तेत्या॑ह॥३२॥
कामो॒ हि दा॒ता।
कामः॑ प्रतिग्रही॒ता।
कामꣳ॑ समु॒द्रमावि॒शेत्या॑ह।
स॒मु॒द्र इ॑व॒ हि कामः॑।
नेव॒ हि काम॒स्यान्तोऽस्ति॑।
न स॑मु॒द्रस्य॑।
कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह।
येन॒ कामे॑न प्रतिगृ॒ह्णाति॑।
स ए॒वैन॑म॒मुष्मिँ॑ल्लो॒के काम॒ आग॑च्छति।
कामै॒तत्त॑ ए॒षा ते॑ काम॒ दक्षि॒णेत्या॑ह।
काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मिँ॑ल्लो॒के दक्षि॑णामिच्छति।
न प्र॑तिग्रही॒तरि॑।
य ए॒वं वि॒द्वान्दक्षि॑णां प्रतिगृ॒ह्णाति॑।
अ॒नृ॒णामे॒वैनां॒ प्रति॑ गृह्णाति॥३३॥
अनुवाक 6
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑।
यद्द॑श॒ममहः॑।
द॒श॒मेऽह᳚न्थ्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ति।
य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा।
अ॒न्नाद्य॒मव॑ रुन्धते।
ति॒सृभिः॑ स्तुवन्ति।
त्रय॑ इ॒मे लो॒काः।
ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑ रुन्धते।
पृश्ञि॑वतीर्भवन्ति।
अन्नं॒ वै पृश्ञि॑॥३४॥
अन्न॑मे॒वाव॑ रुन्धते।
मन॑सा॒ प्रस्तौ॑ति।
मन॒सोद्गा॑यति।
मन॑सा॒ प्रति॑ हरति।
मन॑ इव॒ हि प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚।
दे॒वा वै स॒र्पाः।
तेषा॑मि॒यꣳ राज्ञी᳚।
यथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॒वन्ति॑।
अ॒स्यामे॒व प्रति॑ तिष्ठन्ति॥३५॥
चतु॑र्होतॄ॒न्॒ होता॒ व्याच॑ष्टे।
स्तु॒तमनु॑शꣳसति॒ शान्त्यै᳚।
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑।
यद्द॑श॒ममहः॑।
ए॒तत्खलु॒ वै दे॒वानां᳚ पर॒मं गुह्यं॒ ब्रह्म॑।
यच्चतु॑र्होतारः।
द॒श॒मेऽह॒ꣴ॒श्चतु॑र्होतॄ॒न्व्याच॑ष्टे।
य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा।
प॒र॒मं दे॒वानां॒ गुह्यं॒ ब्रह्माव॑ रुन्धे।
तदे॒व प्र॑का॒शं ग॑मयति॥३६॥
तदे॑नं प्रका॒शं ग॒तम्।
प्र॒का॒शं प्र॒जानां᳚ गमयति।
वाचं॑ यच्छति।
य॒ज्ञस्य॒ धृत्यै᳚।
य॒ज॒मा॒न॒दे॒व॒त्यं॑ वा अहः॑।
भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑।
अह्ना॒ रात्रिं॑ ध्यायेत्।
भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते।
यद्दिवा॒ वाचं॑ विसृ॒जेत्।
अह॒र्भ्रातृ॑व्या॒योच्छिꣳ॑षेत्।
यन्नक्तं॑ विसृ॒जेत्।
रात्रिं॒ भ्रातृ॑व्या॒योच्छिꣳ॑षेत्।
अ॒धि॒वृ॒क्ष॒सू॒र्ये वाचं॒ विसृ॑जति।
ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छिꣳ॑षति।
याव॑दादि॒त्यो᳚ऽस्त॒मेति॑॥३७॥
अनुवाक 7
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
ताः सृ॒ष्टाः सम॑श्लिष्यन्।
ता रू॒पेणानु॒प्रावि॑शत्।
तस्मा॑दाहुः।
रू॒पं वै प्र॒जाप॑ति॒रिति॑।
ता नाम्नाऽनु॒ प्रावि॑शत्।
तस्मा॑दाहुः।
नाम॒ वै प्र॒जाप॑ति॒रिति॑।
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑।
नाम्ना॒ चेद्ध्वये॑ते॥३८॥
मि॒त्रमे॒व भ॑वतः।
प्र॒जाप॑तिर्देवासु॒रान॑सृजत।
स इन्द्र॒मपि॒ नासृ॑जत।
तं दे॒वा अ॑ब्रुवन्।
इन्द्रं॑ नो जन॒येति॑।
स आ॒त्मन्निन्द्र॑मपश्यत्।
तम॑सृजत।
तं त्रि॒ष्टुग्वी॒र्यं॑ भू॒त्वाऽनु॒ प्रावि॑शत्।
तस्य॒ वज्रः॑ पञ्चद॒शो हस्त॒ आप॑द्यत।
तेनो॒दय्यासु॑रान॒भ्य॑भवत्॥३९॥
य ए॒वं वेद॑।
अ॒भि भ्रातृ॑व्यान्भवति।
ते दे॒वा असु॑रैर्वि॒जित्य॑।
सु॒व॒र्गं लो॒कमा॑यन्।
ते॑ऽमुष्मिँ॑ल्लो॒के व्य॑क्षुध्यन्।
ते᳚ऽब्रुवन्।
अ॒मुतः॑ प्रदानं॒ वा उप॑जिजीवि॒मेति॑।
ते स॒प्तहो॑तारं य॒ज्ञं वि॒धाया॒यास्यम्᳚।
आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्।
ए॒तेना॒मुत्र॑ कल्प॒येति॑॥४०॥
तस्य॒ वा इ॒यं कॢप्तिः॑।
यदि॒दं किं च॑।
य ए॒वं वेद॑।
कल्प॑तेऽस्मै।
स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञः स॒प्तहो॑ता।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं व॑हति।
य ए॒वं वेद॑।
उपै॑नं य॒ज्ञो न॑मति।
सो॑ऽमन्यत।
अ॒भि वा इ॒मे᳚ऽस्माल्लो॒काद॒मुं लो॒कं क॑मिष्यन्त॒ इति॑।
स वाच॑स्पते॒ हृदिति॒ व्याह॑रत्।
तस्मा᳚त्पु॒त्रो हृद॑यम्।
तस्मा॑द॒स्माल्लो॒काद॒मुं लो॒कं नाभि का॑मयन्ते।
पु॒त्रो हि हृद॑यम्॥४१॥
अनुवाक 8
दे॒वा वै चतु॑र्होतृभिर्य॒ज्ञम॑तन्वत।
ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त।
अ॒भि सु॑व॒र्गं लो॒कम॑जयन्।
य ए॒वं वि॒द्वाꣴश्चतु॑र्होतृभिर्य॒ज्ञं त॑नु॒ते।
वि पा॒प्मना॒ भ्रातृ॑व्येण जयते।
अ॒भि सु॑व॒र्गं लो॒कं ज॑यति।
षड्ढो᳚त्रा प्राय॒णीय॒मा सा॑दयति।
अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता।
घ्नन्ति॒ खलु॒ वा ए॒तथ्सोमम्᳚।
यद॑भिषु॒ण्वन्ति॑॥४२॥
ऋ॒जु॒धैवैन॑म॒मुं लो॒कं ग॑मयति।
चतु॑र्होत्राऽऽति॒थ्यम्।
यशो॒ वै चतु॑र्होता।
यश॑ ए॒वाऽऽत्मन्ध॑त्ते।
पञ्च॑होत्रा प॒शुमुप॑सादयति।
सु॒व॒र्ग्यो॑ वै पञ्च॑होता।
यज॑मानः प॒शुः।
यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति।
ग्रहा᳚न्गृही॒त्वा स॒प्तहो॑तारं जुहोति।
इ॒न्द्रि॒यं वै स॒प्तहो॑ता॥४३॥
इ॒न्द्रि॒यमे॒वाऽऽत्मन्ध॑त्ते।
यो वै चतु॑र्होतॄननुसव॒नं त॒र्पय॑ति।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑।
उपै॑नꣳ सोमपी॒थो न॑मति।
ब॒हि॒ष्प॒व॒मा॒ने दश॑होतारं॒ व्याच॑क्षीत।
माध्यं॑ दिने॒ पव॑माने॒ चतु॑र्होतारम्।
आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम्।
पि॒तृ॒य॒ज्ञे षड्ढो॑तारम्।
य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम्।
अ॒नु॒स॒व॒नमे॒वैनाꣴ॑स्तर्पयति॥४४॥
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑।
उपै॑नꣳ सोमपी॒थो न॑मति।
दे॒वा वै चतु॑र्होतृभिः स॒त्रमा॑सत।
ऋद्धि॑परिमितं॒ यश॑स्कामाः।
ते᳚ऽब्रुवन्।
यन्नः॑ प्रथ॒मं यश॑ ऋ॒च्छात्।
सर्वे॑षान्न॒स्तथ्स॒हास॒दिति॑।
सोम॒श्चतु॑र्होत्रा।
अ॒ग्निः पञ्च॑होत्रा।
धा॒ता षड्ढो᳚त्रा॥४५॥
इन्द्रः॑ स॒प्तहो᳚त्रा।
प्र॒जाप॑ति॒र्दश॑होत्रा।
तेषा॒ꣳ॒ सोम॒ꣳ॒ राजा॑नं॒ यश॑ आर्च्छत्।
तन्न्य॑कामयत।
तेनापा᳚क्रामत्।
तेन॑ प्र॒लाय॑मचरत्।
तं दे॒वाः प्रै॒षैः प्रैष॑मैच्छन्।
तत्प्रै॒षाणां᳚ प्रैष॒त्वम्।
नि॒विद्भि॒र्न्य॑वेदयन्।
तन्नि॒विदा᳚न्निवि॒त्त्वम्॥४६॥
आ॒प्रीभि॑राप्नुवन्।
तदा॒प्रीणा॑माप्रि॒त्वम्।
तम॑घ्नन्।
तस्य॒ यशो॒ व्य॑गृह्णत।
ते ग्रहा॑ अभवन्।
तद्ग्रहा॑णां ग्रह॒त्वम्।
यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚।
तस्य॒ त्वे॑व गृ॑ही॒ताः।
ते᳚ऽब्रुवन्।
यो वै नः॒ श्रेष्ठोऽभू᳚त्॥४७॥
तम॑वधिष्म।
पुन॑रि॒मꣳ सु॑वामहा॒ इति॑।
तं छन्दो॑भिरसुवन्त।
तच्छन्द॑सां छन्द॒स्त्वम्।
साम्ना॒ समान॑यन्।
तथ्साम्नः॑ साम॒त्वम्।
उ॒क्थैरुद॑स्थापयन्।
तदु॒क्थाना॑मुक्थ॒त्वम्।
य ए॒वं वेद॑।
प्रत्ये॒व ति॑ष्ठति॥४८॥
सर्व॒मायु॑रेति।
सोमो॒ वै यशः॑।
य ए॒वं वि॒द्वान्थ्सोम॑मा॒गच्छ॑ति।
यश॑ ए॒वैन॑मृच्छति।
तस्मा॑दाहुः।
यश्चै॒वं वेद॒ यश्च॒ न।
तावु॒भौ सोम॒माग॑च्छतः।
सोमो॒ हि यशः॑।
तं त्वाऽव यश॑ ऋच्छ॒तीत्या॑हुः।
यः सोमे॒ सोमं॒ प्राहेति॑।
तस्मा॒थ्सोमे॒ सोमः॒ प्रोच्यः॑।
यश॑ ए॒वैन॑मृच्छति॥४९॥
अनुवाक 9
इ॒दं वा अग्रे॒ नैव किं च॒ नाऽऽसी᳚त्।
न द्यौरा॑सीत्।
न पृ॑थि॒वी।
नान्तरि॑क्षम्।
तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑।
तद॑तप्यत।
तस्मा᳚त्तेपा॒नाद्धू॒मो॑ऽजायत।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नाद॒ग्निर॑जायत।
तद्भूयो॑ऽतप्यत॥५०॥
तस्मा᳚त्तेपा॒नाज्ज्योति॑रजायत।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नाद॒र्चिर॑जायत।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नान्मरी॑चयोऽजायन्त।
तद्भूयो॑ऽतप्यत।
तस्मा᳚त्तेपा॒नादु॑दा॒रा अ॑जायन्त।
तद्भूयो॑ऽतप्यत।
तद॒भ्रमि॑व॒ सम॑हन्यत।
तद्व॒स्तिम॑भिनत्॥५१॥
स स॑मु॒द्रो॑ऽभवत्।
तस्मा᳚थ्समु॒द्रस्य॒ न पि॑बन्ति।
प्र॒जन॑नमिव॒ हि मन्य॑न्ते।
तस्मा᳚त्प॒शोर्जाय॑माना॒दापः॑ पु॒रस्ता᳚द्यन्ति।
तद्दश॑हो॒ताऽन्व॑सृज्यत।
प्र॒जाप॑ति॒र्वै दश॑होता।
य ए॒वं तप॑सो वी॒र्यं॑ वि॒द्वाꣴस्तप्य॑ते।
भव॑त्ये॒व।
तद्वा इ॒दमापः॑ सलि॒लमा॑सीत्।
सो॑ऽरोदीत्प्र॒जाप॑तिः॥५२॥
स कस्मा॑ अज्ञि।
यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑।
यद॒फ्स्व॑वाप॑द्यत।
सा पृ॑थि॒व्य॑भवत्।
यद्व्यमृ॑ष्ट।
तद॒न्तरि॑क्षमभवत्।
यदू॒र्ध्वमु॒दमृ॑ष्ट।
सा द्यौर॑भवत्।
यदरो॑दीत्।
तद॒नयो॑ रोद॒स्त्वम्॥५३॥
य ए॒वं वेद॑।
नास्य॑ गृ॒हे रु॑दन्ति।
ए॒तद्वा ए॒षां लो॒कानां॒ जन्म॑।
य ए॒वमे॒षां लो॒कानां॒ जन्म॒ वेद॑।
नैषु लो॒केष्वार्ति॒मार्च्छ॑ति।
स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत।
स इ॒मां प्र॑ति॒ष्ठां वि॒त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स ज॒घना॒दसु॑रानसृजत॥५४॥
तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्।
तामपा॑हत।
सा तमि॑स्राऽभवत्।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚न्तर्वा॑नभवत्।
स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत।
तस्मा॑दि॒मा भूयि॑ष्ठाः।
प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत॥५५॥
ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्।
तामपा॑हत।
सा जोथ्स्ना॑ऽभवत्।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स उ॑पप॒क्षाभ्या॑मे॒वर्तून॑सृजत।
तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्॥५६॥
तामपा॑हत।
सो॑ऽहोरा॒त्रयोः᳚ स॒न्धिर॑भवत्।
सो॑ऽकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स मुखा᳚द्दे॒वान॑सृजत।
तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत्।
याऽस्य॒ सा त॒नूरासी᳚त्।
तामपा॑हत।
तदह॑रभवत्॥५७॥
ए॒ते वै प्र॒जाप॑ते॒र्दोहाः᳚।
य ए॒वं वेद॑।
दु॒ह ए॒व प्र॒जाः।
दिवा॒ वै नो॑ऽभू॒दिति॑।
तद्दे॒वानां᳚ देव॒त्वम्।
य ए॒वं दे॒वानां᳚ देव॒त्वं वेद॑।
दे॒ववा॑ने॒व भ॑वति।
ए॒तद्वा अ॑होरा॒त्राणां॒ जन्म॑।
य ए॒वम॑होरा॒त्राणां॒ जन्म॒ वेद॑।
नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति॥५८॥
अस॒तोऽधि॒ मनो॑ऽसृज्यत।
मनः॑ प्र॒जाप॑तिमसृजत।
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
तद्वा इ॒दं मन॑स्ये॒व प॑र॒मं प्रति॑ष्ठितम्।
यदि॒दं किं च॑।
तदे॒तच्छ्वो॑वस्य॒सन्नाम॒ ब्रह्म॑।
व्यु॒च्छन्ती᳚व्युच्छन्त्यस्मै॒ वस्य॑सीवस्यसी॒ व्यु॑च्छति।
प्रजा॑यते प्र॒जया॑ प॒शुभिः॑।
प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति।
य ए॒वं वेद॑॥५९॥
अनुवाक 10
प्र॒जाप॑ति॒रिन्द्र॑मसृजतानुजाव॒रं दे॒वाना᳚म्।
तं प्राहि॑णोत्।
परे॑हि।
ए॒तेषां᳚ दे॒वाना॒मधि॑पतिरे॒धीति॑।
तं दे॒वा अ॑ब्रुवन्।
कस्त्वमसि॑।
व॒यं वै त्वच्छ्रेयाꣳ॑सः स्म॒ इति॑।
सो᳚ऽब्रवीत्।
कस्त्वमसि॑ व॒यं वै त्वच्छ्रेयाꣳ॑सः स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑।
अथ॒ वा इ॒दं तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत्॥६०॥
यद॒स्मिन्ना॑दि॒त्ये।
तदे॑नमब्रवीत्।
ए॒तन्मे॒ प्रय॑च्छ।
अथा॒हमे॒तेषां᳚ दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑।
को॑ऽहꣴ स्या॒मित्य॑ब्रवीत्।
ए॒तत्प्र॒दायेति॑।
ए॒तथ्स्या॒ इत्य॑ब्रवीत्।
यदे॒तद्ब्रवी॒षीति॑।
को ह॒ वै नाम॑ प्र॒जाप॑तिः।
य ए॒वं वेद॑॥६१॥
वि॒दुरे॑नं॒ नाम्ना᳚।
तद॑स्मै रु॒क्मं कृ॒त्वा प्रत्य॑मुञ्चत्।
ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत्।
य ए॒वं वेद॑।
अधि॑पतिरे॒व स॑मा॒नानां᳚ भवति।
सो॑ऽमन्यत।
किं किं॒ वा अ॑कर॒मिति॑।
स च॒न्द्रं म॒ आह॒रेति॒ प्राल॑पत्।
तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम्।
य ए॒वं वेद॑॥६२॥
च॒न्द्रवा॑ने॒व भ॑वति।
तं दे॒वा अ॑ब्रुवन्।
सु॒वीर्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑।
तथ्सूर्य॑स्य सूर्य॒त्वम्।
य ए॒वं वेद॑।
नैनं॑ दभ्नोति।
कश्च॒ नास्मि॒न्वा इ॒दमि॑न्द्रि॒यं प्रत्य॑स्था॒दिति॑।
तदिन्द्र॑स्येन्द्र॒त्वम्।
य ए॒वं वेद॑।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति॥६३॥
अ॒यं वा इ॒दं प॑र॒मो॑ऽभू॒दिति॑।
तत्प॑रमे॒ष्ठिनः॑ परमेष्ठि॒त्वम्।
य ए॒वं वेद॑।
प॒र॒मामे॒व काष्ठां᳚ गच्छति।
तं दे॒वाः स॑म॒न्तं पर्य॑विशन्।
वस॑वः पु॒रस्ता᳚त्।
रु॒द्रा द॑क्षिण॒तः।
आ॒दि॒त्याः प॒श्चात्।
विश्वे॑ दे॒वा उ॑त्तर॒तः।
अङ्गि॑रसः प्र॒त्यञ्चम्᳚॥६४॥
सा॒ध्याः परा᳚ञ्चम्।
य ए॒वं वेद॑।
उपै॑नꣳ समा॒नाः संवि॑शन्ति।
स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत्।
ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
द॒क्षि॒ण॒तः पर्या॑यन्।
स द॑क्षिण॒तः पर्य॑वर्तयत।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
मुखं॑ दक्षिण॒तः॥६५॥
प॒श्चात्पर्या॑यन्।
स प॒श्चात्पर्य॑वर्तयत।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
मुखं॑ दक्षिण॒तः।
मुखं॑ प॒श्चात्।
उ॒त्त॒र॒तः पर्या॑यन्।
स उ॑त्तर॒तः पर्य॑वर्तयत।
ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः।
मुखं॑ दक्षिण॒तः।
मुखं॑ प॒श्चात्॥६६॥
मुख॑मुत्तर॒तः।
ऊ॒र्ध्वा उदा॑यन्।
स उ॒परि॑ष्टा॒न्न्य॑वर्तयत।
ताः स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत्।
ततो॒ वै तस्मै᳚ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य।
य ए॒वं वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑।
प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति।
तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य।
अ॒न्ना॒द ए॒व भ॑वति॥६७॥
अनुवाक 11
प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्स्या॒मिति॑।
स ए॒तं दश॑होतारमपश्यत्।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत्।
यः का॒मये॑त ब॒होर्भूया᳚न्थ्स्या॒मिति॑।
स दश॑होतारं॒ प्रयु॑ञ्जीत।
ब॒होरे॒व भूया᳚न्भवति।
सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑।
स दश॑होतु॒श्चतु॑र्होतारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त॥६८॥
तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत।
यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑।
स चतु॑र्होतारं॒ प्रयु॑ञ्जीत।
आऽस्य॑ वी॒रो जा॑यते।
सो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॑।
स चतु॑र्होतुः॒ पञ्च॑होतारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत्।
यः का॒मये॑त पशु॒मान्थ्स्या॒मिति॑।
स पञ्च॑होतारं॒ प्रयु॑ञ्जीत॥६९॥
प॒शु॒माने॒व भ॑वति।
सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑।
स पञ्च॑होतुः॒ षड्ढो॑तारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्त्यृ॒तवो᳚ऽस्मा अकल्पन्त।
यः का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑।
स षड्ढो॑तारं॒ प्रयु॑ञ्जीत।
कल्प॑न्तेऽस्मा ऋ॒तवः॑।
सो॑ऽकामयत सोम॒पः सो॑मया॒जी स्या᳚म्।
आ मे॑ सोम॒पः सो॑मया॒जी जा॑ये॒तेति॑॥७०॥
स षड्ढो॑तुः स॒प्तहो॑तारं॒ निर॑मिमीत।
तं प्रायु॑ङ्क्त।
तस्य॒ प्रयु॑क्ति सोम॒पः सो॑मया॒ज्य॑भवत्।
आऽस्य॑ सोम॒पः सो॑मया॒ज्य॑जायत।
यः का॒मये॑त सोम॒पः सो॑मया॒जी स्या᳚म्।
आ मे॑ सोम॒पः सो॑मया॒जी जा॑ये॒तेति॑।
स स॒प्तहो॑तारं॒ प्रयु॑ञ्जीत।
सो॒म॒प ए॒व सो॑मया॒जी भ॑वति।
आऽस्य॑ सोम॒पः सो॑मया॒जी जा॑यते।
स वा ए॒ष प॒शुः प॑ञ्च॒धा प्रति॑ तिष्ठति॥७१॥
प॒द्भिर्मुखे॑न।
ते दे॒वाः प॒शून् वि॒त्वा।
सु॒व॒र्गं लो॒कमा॑यन्।
ते॑ऽमुष्मिँ॑ल्लो॒के व्य॑क्षुध्यन्।
ते᳚ऽब्रुवन्।
अ॒मुतः॑ प्रदानं॒ वा उप॑जिजीवि॒मेति॑।
ते स॒प्तहो॑तारं य॒ज्ञं वि॒धाया॒यास्यम्᳚।
आ॒ङ्गी॒र॒सं प्राहि॑ण्वन्।
ए॒तेना॒मुत्र॑ कल्प॒येति॑।
तस्य॒ वा इ॒यं कॢप्तिः॑॥७२॥
यदि॒दं किं च॑।
य ए॒वं वेद॑।
कल्प॑तेऽस्मै।
स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञः स॒प्तहो॑ता।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं व॑हति।
य ए॒वं वेद॑।
उपै॑नं य॒ज्ञो न॑मति।
यो वै चतु॑र्होतृणां नि॒दानं॒ वेद॑।
नि॒दान॑वान्भवति।
अ॒ग्नि॒हो॒त्रं वै दश॑होतुर्नि॒दानम्᳚।
द॒र्॒श॒पू॒र्ण॒मा॒सौ चतु॑र्होतुः।
चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः।
प॒शु॒ब॒न्धः षड्ढो॑तुः।
सौ॒म्यो᳚ऽध्व॒रः स॒प्तहो॑तुः।
ए॒तद्वै चतु॑र्होतृणां नि॒दानम्᳚।
य ए॒वं वेद॑।
नि॒दान॑वान्भवति॥७३॥
अनुवाक 1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
किं चतु॑र्होतृणां चतुर्होतृ॒त्वमिति॑।
यदे॒वैषु च॑तु॒र्धा होता॑रः।
तेन॒ चतु॑र्होतारः।
तस्मा॒च्चतु॑र्होतार उच्यन्ते।
तच्चतुर्॑होतृणां चतुर्होतृ॒त्वम्।
सोमो॒ वै चतु॑र्होता।
अ॒ग्निः पञ्च॑होता।
धा॒ता षड्ढो॑ता।
इन्द्रः॑ स॒प्तहो॑ता॥१॥
प्र॒जाप॑ति॒र्दश॑होता।
य ए॒वं चतु॑र्होतृणा॒मृद्धिं॒ वेद॑।
ऋ॒ध्नोत्ये॒व।
य ए॑षामे॒वं ब॒न्धुतां॒ वेद॑।
बन्धु॑मान्भवति।
य ए॑षामे॒वं कॢप्तिं॒ वेद॑।
कल्प॑तेऽस्मै।
य ए॑षामे॒वमा॒यत॑नं॒ वेद॑।
आ॒यत॑नवान्भवति।
य ए॑षामे॒वं प्र॑ति॒ष्ठां वेद॑॥२॥
प्रत्ये॒व ति॑ष्ठति।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
दश॑होता॒ चतु॑र्होता।
पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता।
अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒ इति॑।
इन्द्रो॒ वै चतु॑र्होता।
इन्द्रः॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात्।
य ए॒वमिन्द्र॒ꣴ॒ श्रेष्ठं॑ दे॒वता॑नामुप॒देश॑ना॒द्वेद॑।
वसि॑ष्ठः समा॒नानां᳚ भवति।
तस्मा॒च्छ्रेष्ठ॑मा॒यन्तं॑ प्रथ॒मेनै॒वानु॑ बुध्यन्ते।
अ॒यमागन्॑।
अ॒यमवा॑सा॒दिति॑।
की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः।
अथो॑ एनं प्रथ॒मेनै॒वानु॑ बुध्यन्ते।
अ॒यमागन्॑।
अ॒यमवा॑सा॒दिति॑॥३॥
अनुवाक 2
दक्षि॑णां प्रतिग्रही॒ष्यन्थ्स॒प्तद॑श॒कृत्वोऽपा᳚न्यात्।
आ॒त्मान॑मे॒व समि॑न्धे।
तेज॑से वी॒र्या॑य।
अथो᳚ प्र॒जाप॑तिरे॒वैनां᳚ भू॒त्वा प्रति॑गृह्णाति।
आ॒त्मनोऽना᳚र्त्यै।
यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒तꣳ सन्तं॑ नि॒र्॒हरे॑रन्।
आग्नी᳚ध्रे जुहुया॒द्दश॑होतारम्।
च॒तु॒र्गृ॒ही॒तेनाऽऽज्ये॑न।
पु॒रस्ता᳚त्प्र॒त्यङ्तिष्ठन्॑।
प्र॒ति॒लो॒मं वि॒ग्राहम्᳚॥४॥
प्रा॒णाने॒वास्योप॑ दासयति।
यद्ये॑नं॒ पुन॑रुप॒ शिक्षे॑युः।
आग्नी᳚ध्र ए॒व जु॑हुया॒द्दश॑होतारम्।
च॒तु॒र्गृ॒ही॒तेनाऽऽज्ये॑न।
प॒श्चात्प्राङासी॑नः।
अ॒नु॒लो॒ममवि॑ग्राहम्।
प्रा॒णाने॒वास्मै॑ कल्पयति।
प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒खऋ॑तुमुखे जुहोति।
ऋ॒तूने॒वास्मै॑ कल्पयति।
कल्प॑न्तेऽस्मा ऋ॒तवः॑॥५॥
कॢ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति।
षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दꣳ सर्व॑मसृजत।
स मनो॑ऽसृजत।
मन॒सोऽधि॑ गाय॒त्रीम॑सृजत।
तद्गा॑य॒त्रीं यश॑ आर्च्छत्।
तामाऽल॑भत।
गा॒य॒त्रि॒या अधि॒ छन्दाꣴ॑स्यसृजत।
छन्दो॒भ्योऽधि॒ साम॑।
तथ्साम॒ यश॑ आर्च्छत्।
तदाऽल॑भत॥६॥
साम्नोऽधि॒ यजूꣴ॑ष्यसृजत।
यजु॒र्भ्योऽधि॒ विष्णुम्᳚।
तद्विष्णुं॒ यश॑ आर्च्छत्।
तमाऽल॑भत।
विष्णो॒रध्योष॑धीरसृजत।
ओष॑धी॒भ्योऽधि॒ सोमम्᳚।
तथ्सोमं॒ यश॑ आर्च्छत्।
तमाऽल॑भत।
सोमा॒दधि॑ प॒शून॑सृजत।
प॒शुभ्योऽधीन्द्रम्᳚॥७॥
तदिन्द्रं॒ यश॑ आर्च्छत्।
तदे॑नं॒ नाति॒ प्राच्य॑वत।
इन्द्र॑ इव यश॒स्वी भ॑वति।
य ए॒वं वेद॑।
नैनं॒ यशोऽति॒ प्रच्य॑वते।
यद्वा इ॒दं किं च॑।
तथ्सर्व॑मुत्ता॒न ए॒वाऽऽङ्गी॑र॒सः प्रत्य॑गृह्णात्।
तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत्।
यत्किं च॑ प्रतिगृह्णी॒यात्।
तथ्सर्व॑मुत्ता॒नस्त्वा᳚ऽऽङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात्।
इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः।
अ॒नयै॒वैन॒त्प्रति॑गृह्णाति।
नैनꣳ॑ हिनस्ति।
ब॒र्॒हिषा॒ प्रती॑या॒द्गां वाऽश्वं॑ वा।
ए॒तद्वै प॑शू॒नां प्रि॒यं धाम॑।
प्रि॒येणै॒वैनं॒ धाम्ना॒ प्रत्ये॑ति॥८॥
अनुवाक 3
यो वा अवि॑द्वान्निव॒र्तय॑ते।
विशी॑र्षा॒ सपा᳚प्मा॒ऽमुष्मिँ॑ल्लो॒के भ॑वति।
अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते।
सशी॑र्षा॒ विपा᳚प्मा॒ऽमुष्मिँ॑ल्लो॒के भ॑वति।
दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त।
अ॒ग्निश्च॑ पृथि॒वी च॑।
वा॒युश्चा॒न्तरि॑क्षं च।
आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः᳚।
अ॒ग्निर्न्य॑वर्तयत।
स सा॑ह॒स्रम॑पुष्यत्॥९॥
पृ॒थि॒वी न्य॑वर्तयत।
सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत्।
वा॒युर्न्य॑वर्तयत।
स मरी॑चीभिरपुष्यत्।
अ॒न्तरि॑क्षं॒ न्य॑वर्तयत।
तद्वयो॑भिरपुष्यत्।
आ॒दि॒त्यो न्य॑वर्तयत।
स र॒श्मिभि॑रपुष्यत्।
द्यौर्न्य॑वर्तयत।
सा नक्ष॑त्रैरपुष्यत्।
च॒न्द्रमा॒ न्य॑वर्तयत।
सो॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासैर्॑ऋ॒तुभिः॑ संवथ्स॒रेणा॑पुष्यत्।
तान्पोषा᳚न्पुष्यति।
याꣴस्तेऽपु॑ष्यन्।
य ए॒वं वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च॥१०॥
अनुवाक 4
तस्य॒ वा अ॒ग्नेर्हिर॑ण्यं प्रतिजग्र॒हुषः॑।
अ॒र्धमि॑न्द्रि॒यस्यापा᳚क्रामत्।
तदे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै सो᳚ऽर्धमि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त।
अ॒र्धमि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वान् हिर॑ण्यं प्रतिगृ॒ह्णाति॑।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
अ॒र्धम॑स्येन्द्रि॒यस्याप॑क्रामति।
तस्य॒ वै सोम॑स्य॒ वासः॑ प्रतिजग्र॒हुषः॑।
तृती॑यमिन्द्रि॒यस्यापा᳚क्रामत्॥११॥
तदे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त।
तृती॑यमिन्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वान् वासः॑ प्रतिगृ॒ह्णाति॑।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
तृती॑यमस्येन्द्रि॒यस्याप॑क्रामति।
तस्य॒ वै रु॒द्रस्य॒ गां प्र॑तिजग्र॒हुषः॑।
च॒तु॒र्थमि॑न्द्रि॒यस्यापा᳚क्रामत्।
तामे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त॥१२॥
च॒तु॒र्थमि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वान्गां प्र॑तिगृ॒ह्णाति॑।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑क्रामति।
तस्य॒ वै वरु॑ण॒स्याश्वं॑ प्रतिजग्र॒हुषः॑।
प॒ञ्च॒ममि॑न्द्रि॒यस्यापा᳚क्रामत्।
तमे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त।
प॒ञ्च॒ममि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वानश्वं॑ प्रतिगृ॒ह्णाति॑॥१३॥
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑क्रामति।
तस्य॒ वै प्र॒जाप॑तेः॒ पुरु॑षं प्रतिजग्र॒हुषः॑।
ष॒ष्ठमि॑न्द्रि॒यस्यापा᳚क्रामत्।
तमे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त।
ष॒ष्ठमि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वान्पुरु॑षं प्रतिगृ॒ह्णाति॑।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामति॥१४॥
तस्य॒ वै मनो॒स्तल्पं॑ प्रतिजग्र॒हुषः॑।
स॒प्त॒ममि॑न्द्रि॒यस्यापा᳚क्रामत्।
तमे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त।
स॒प्त॒ममि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वाꣴस्तल्पं॑ प्रतिगृ॒ह्णाति॑।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति।
तस्य॒ वा उ॑त्ता॒नस्या᳚ऽऽङ्गीर॒सस्याप्रा॑णत्प्रतिजग्र॒हुषः॑।
अ॒ष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत्॥१५॥
तदे॒तेनै॒व प्रत्य॑गृह्णात्।
तेन॒ वै सो᳚ऽष्ट॒ममि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्त।
अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒ऽऽत्मन्नु॒पाध॑त्ते।
य ए॒वं वि॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑।
अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑क्रामति।
यद्वा इ॒दं किं च॑।
तथ्सर्व॑मुत्ता॒न ए॒वाऽऽङ्गी॑र॒सः प्रत्य॑गृह्णात्।
तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत्।
यत्किं च॑ प्रतिगृह्णी॒यात्।
तथ्सर्व॑मुत्ता॒नस्त्वा᳚ऽऽङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात्।
इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः।
अ॒नयै॒वैन॒त्प्रति॑गृह्णाति।
नैनꣳ॑ हिनस्ति॥१६॥
अनुवाक 5
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
यद्दश॑होतारः स॒त्रमास॑त।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
केन॑ प्र॒जा अ॑सृज॒न्तेति॑।
प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
तेन॑ प्र॒जा अ॑सृजन्त।
यच्चतु॑र्होतारः स॒त्रमास॑त।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
केनौष॑धीरसृज॒न्तेति॑।
सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्॥१७॥
तेनौष॑धीरसृजन्त।
यत्पञ्च॑होतारः स॒त्रमास॑त।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त।
केनै॑षां प॒शून॑वृञ्ज॒तेति॑।
अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त।
तेनै॑षां प॒शून॑वृञ्जत।
यथ्षड्ढो॑तारः स॒त्रमास॑त।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्॥१८॥
केन॒र्तून॑कल्पय॒न्तेति॑।
धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
तेन॒र्तून॑कल्पयन्त।
यथ्स॒प्तहो॑तारः स॒त्रमास॑त।
केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
केन॒ सुव॑रायन्।
केने॒माँल्लो॒कान्थ्सम॑तन्व॒न्निति॑।
अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्।
तेन॒ सुव॑रायन्।
तेने॒माँल्लो॒कान्थ्सम॑तन्व॒न्निति॑॥१९॥
ए॒ते वै दे॒वा गृ॒हप॑तयः।
तान् य ए॒वं वि॒द्वान्।
अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते।
अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति।
यो वा अ॑र्य॒मणं॒ वेद॑।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति।
य॒ज्ञो वा अ॑र्य॒मा।
आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यं प्र॒शꣳस॑न्ति।
आर्या॑वस॒तिर्भ॑वति।
य ए॒वं वेद॑॥२०॥
यद्वा इ॒दं किं च॑।
तथ्सर्वं॒ चतु॑र्होतारः।
चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः।
स य ए॒वं वि॒द्वान् वि॒वदे॑त।
अ॒हमे॒व भूयो॑ वेद।
यश्चतु॑र्होतॄ॒न् वेदेति॑।
स ह्ये॑व भूयो॒ वेद॑।
यश्चतु॑र्होतॄ॒न् वेद॑।
यो वै चतु॑र्होतृणा॒ꣳ॒ होतॄ॒न् वेद॑।
सर्वा॑सु प्र॒जास्वन्न॑मत्ति॥२१॥
सर्वा॒ दिशो॒ऽभि ज॑यति।
प्र॒जाप॑ति॒र्वै दश॑होतृणा॒ꣳ॒ होता᳚।
सोम॒श्चतु॑र्होतृणा॒ꣳ॒ होता᳚।
अ॒ग्निः पञ्च॑होतृणा॒ꣳ॒ होता᳚।
धा॒ता षड्ढो॑तृणा॒ꣳ॒ होता᳚।
अ॒र्य॒मा स॒प्तहो॑तृणा॒ꣳ॒ होता᳚।
ए॒ते वै चतु॑र्होतृणा॒ꣳ॒ होता॑रः।
तान् य ए॒वं वेद॑।
सर्वा॑सु प्र॒जास्वन्न॑मत्ति।
सर्वा॒ दिशो॒ऽभि ज॑यति॥२२॥
अनुवाक 6
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा व्य॑स्रꣳसत।
स हृद॑यं भू॒तो॑ऽशयत्।
आत्म॒न्॒ हा(३) इत्यह्व॑यत्।
आपः॒ प्रत्य॑शृण्वन्।
ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त।
ताः कुसि॑न्ध॒मुपौ॑हन्।
तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः।
एक॑ ऋ॒त्विक्।
च॒तु॒ष्कृत्वोऽह्व॑यत्।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः᳚॥२३॥
ते प्रत्य॑शृण्वन्।
ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त।
त उपौ॑हꣴश्च॒त्वार्यङ्गा॑नि।
तस्मा᳚द्दर्शपूर्णमा॒सयो᳚र्यज्ञक्र॒तोः।
च॒त्वार॑ ऋ॒त्विजः॑।
प॒ञ्च॒कृत्वोऽह्व॑यत्।
प॒शवः॒ प्रत्य॑शृण्वन्।
ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त।
त उपौ॑हँल्लोम॑ छ॒वीं मा॒ꣳ॒समस्थि॑ म॒ज्जानम्᳚।
तस्मा᳚च्चातुर्मा॒स्यानां᳚ यज्ञक्र॒तोः॥२४॥
पञ्च॒र्त्विजः॑।
ष॒ट्कृत्वोऽह्व॑यत्।
ऋ॒तवः॒ प्रत्य॑शृण्वन्।
ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त।
त उपौ॑ह॒न्थ्स्तना॑वा॒ण्डौ शि॒श्ञमवा᳚ञ्चं प्रा॒णम्।
तस्मा᳚त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः।
षडृ॒त्विजः॑।
स॒प्त॒कृत्वोऽह्व॑यत्।
होत्राः॒ प्रत्य॑शृण्वन्।
ताः सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त॥२५॥
ता उपौ॑हन्थ्स॒प्त शी॑र्ष॒ण्या᳚न्प्रा॒णान्।
तस्मा᳚थ्सौ॒म्यस्या᳚ध्व॒रस्य॑ यज्ञक्र॒तोः।
स॒प्त होत्राः॒ प्राची॒र्वष॑ट्कुर्वन्ति।
द॒श॒कृत्वोऽह्व॑यत्।
तपः॒ प्रत्य॑शृणोत्।
तत्कर्म॑णै॒व सं॑वथ्स॒रेण॒ सर्वै᳚र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत।
तथ्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत्।
तस्मा᳚थ्संवथ्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते।
तस्मा॒द्दश॑होता॒ चतु॑र्होता।
पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता।
एक॑होत्रे ब॒लिꣳ ह॑रन्ति।
हर॑न्त्यस्मै प्र॒जा ब॒लिम्।
ऐन॒मप्र॑तिख्यातं गच्छति।
य ए॒वं वेद॑॥२६॥
अनुवाक 7
प्र॒जाप॑तिः॒ पुरु॑षमसृजत।
सो᳚ऽग्निर॑ब्रवीत्।
ममा॒यमन्न॑म॒स्त्विति॑।
सो॑ऽबिभेत्।
सर्वं॒ वै मा॒ऽयं प्र ध॑क्ष्य॒तीति॑।
स ए॒ताꣴश्चतु॑र्होतॄनात्म॒स्पर॑णानपश्यत्।
तान॑जुहोत्।
तैर्वै स आ॒त्मान॑मस्पृणोत्।
यद॑ग्निहो॒त्रं जु॒होति॑।
एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोत्यग्निहो॒त्रम्॥२७॥
कुसि॑न्धं चा॒ऽऽत्मनः॑ स्पृ॒णोति॑।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति।
च॒तुरुन्न॑यति।
चतु॑र्होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति दर्शपूर्णमा॒सौ।
च॒त्वारि॑ चा॒ऽऽत्मनोऽङ्गा॑नि स्पृ॒णोति॑।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति।
च॒तुरुन्न॑यति।
स॒मित्प॑ञ्च॒मी।
पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति चातुर्मा॒स्यानि॑।
लोम॑ छ॒वीं मा॒ꣳ॒समस्थि॑ म॒ज्जानम्᳚॥२८॥
तानि॑ चा॒ऽऽत्मनः॑ स्पृ॒णोति॑।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति।
च॒तुरुन्न॑यति।
द्विर्जु॑होति।
षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति पशुब॒न्धम्।
स्तना॑वा॒ण्डौ शि॒श्ञमवा᳚ञ्चं प्रा॒णम्।
तानि॑ चा॒ऽऽत्मनः॑ स्पृ॒णोति॑।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति।
च॒तुरुन्न॑यति।
द्विर्जु॑होति॥२९॥
स॒मिथ्स॑प्त॒मी।
स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति सौ॒म्यम॑ध्व॒रम्।
स॒प्त चा॒ऽऽत्मनः॑ शीर्ष॒ण्या᳚न्प्रा॒णान्थ्स्पृ॒णोति॑।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति।
च॒तुरुन्न॑यति।
द्विर्जु॒होति॑।
द्विर्निमा᳚र्ष्टि।
द्विः प्राश्ञा॑ति।
दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति संवथ्स॒रम्।
सर्वं॑ चा॒ऽऽत्मान॒मप॑रिवर्गꣴ स्पृ॒णोति॑।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति॥३०॥
अनुवाक 8
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑।
स तपो॑ऽतप्यत।
सो᳚ऽन्तर्वा॑नभवत्।
स हरि॑तः श्या॒वो॑ऽभवत्।
तस्मा॒थ्स्त्र्य॑न्तर्व॑त्नी।
हरि॑णी स॒ती श्या॒वा भ॑वति।
स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत्।
स ता॒न्तः कृ॒ष्णः श्या॒वो॑ऽभवत्।
तस्मा᳚त्ता॒न्तः कृ॒ष्णः श्या॒वो भ॑वति।
तस्यासु॑रे॒वाजी॑वत्॥३१॥
तेनासु॒नाऽसु॑रानसृजत।
तदसु॑राणामसुर॒त्वम्।
य ए॒वमसु॑राणामसुर॒त्वं वेद॑।
असु॑माने॒व भ॑वति।
नैन॒मसु॑र्जहाति।
सोऽसु॑रान्थ्सृ॒ष्ट्वा पि॒तेवा॑मन्यत।
तदनु॑ पि॒तॄन॑सृजत।
तत्पि॑तृ॒णां पि॑तृ॒त्वम्।
य ए॒वं पि॑तृ॒णां पि॑तृ॒त्वं वेद॑।
पि॒तेवै॒व स्वानां᳚ भवति॥३२॥
यन्त्य॑स्य पि॒तरो॒ हवम्᳚।
स पि॒तॄन्थ्सृ॒ष्ट्वाऽऽम॑नस्यत्।
तदनु॑ मनु॒ष्या॑नसृजत।
तन्म॑नु॒ष्या॑णां मनुष्य॒त्वम्।
य ए॒वं म॑नु॒ष्या॑णां मनुष्य॒त्वं वेद॑।
म॒न॒स्व्ये॑व भ॑वति।
नैनं॒ मनु॑र्जहाति।
तस्मै॑ मनु॒ष्या᳚न्थ्ससृजा॒नाय॑।
दिवा॑ देव॒त्राऽभ॑वत्।
तदनु॑ दे॒वान॑सृजत।
तद्दे॒वानां᳚ देव॒त्वम्।
य ए॒वं दे॒वानां᳚ देव॒त्वं वेद॑।
दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति।
तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाꣳ॑सि।
दे॒वा म॑नु॒ष्याः᳚ पि॒तरोऽसु॑राः।
तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति।
य ए॒वं वेद॑॥३३॥
अनुवाक 9
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति।
यो वा इ॒मं वि॒द्यात्।
यतो॒ऽयं पव॑ते।
यद॑भि॒ पव॑ते।
यद॑भि स॒म्पव॑ते।
सर्व॒मायु॑रियात्।
न पु॒राऽऽयु॑षः॒ प्र मी॑येत।
प॒शु॒मान्थ्स्या᳚त्।
वि॒न्देत॑ प्र॒जाम्।
यो वा इ॒मं वेद॑॥३४॥
यतो॒ऽयं पव॑ते।
यद॑भि॒ पव॑ते।
यद॑भि स॒म्पव॑ते।
सर्व॒मायु॑रेति।
न पु॒राऽऽयु॑षः॒ प्र मी॑यते।
प॒शु॒मान्भ॑वति।
वि॒न्दते᳚ प्र॒जाम्।
अ॒द्भ्यः प॑वते।
अ॒पो॑ऽभि प॑वते।
अ॒पो॑ऽभि सम्प॑वते॥३५॥
अ॒स्याः प॑वते।
इ॒माम॒भि प॑वते।
इ॒माम॒भि सम्प॑वते।
अ॒ग्नेः प॑वते।
अ॒ग्निम॒भि प॑वते।
अ॒ग्निम॒भि सम्प॑वते।
अ॒न्तरि॑क्षात्पवते।
अ॒न्तरि॑क्षम॒भि प॑वते।
अ॒न्तरि॑क्षम॒भि सम्प॑वते।
आ॒दि॒त्यात्प॑वते॥३६॥
आ॒दि॒त्यम॒भि प॑वते।
आ॒दि॒त्यम॒भि सम्प॑वते।
द्योः प॑वते।
दिव॑म॒भि प॑वते।
दिव॑म॒भि सम्प॑वते।
दि॒ग्भ्यः प॑वते।
दिशो॒ऽभि प॑वते।
दिशो॒ऽभि सम्प॑वते।
स यत्पु॒रस्ता॒द्वाति॑।
प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता᳚द्वाति॥३७॥
तस्मा᳚त्पु॒रस्ता॒द्वान्तम्᳚।
सर्वाः᳚ प्र॒जाः प्रति॑ नन्दन्ति।
प्रा॒णो हि प्रि॒यः प्र॒जाना᳚म्।
प्रा॒ण इ॑व प्रि॒यः प्र॒जानां᳚ भवति।
य ए॒वं वेद॑।
स वा ए॒ष प्रा॒ण ए॒व।
अथ॒ यद्द॑क्षिण॒तो वाति॑।
मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति।
तस्मा᳚द्दक्षिण॒तो वान्तं॑ वि॒द्यात्।
सर्वा॒ दिश॒ आ वा॑ति॥३८॥
सर्वा॒ दिशोऽनु॒ वि वा॑ति।
सर्वा॒ दिशोऽनु॒ सं वा॒तीति॑।
स वा ए॒ष मा॑त॒रिश्वै॒व।
अथ॒ यत्प॒श्चाद्वाति॑।
पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति।
पू॒तम॑स्मा॒ आह॑रन्ति।
पू॒तमुप॑हरन्ति।
पू॒तम॑श्ञाति।
य ए॒वं वेद॑।
स वा ए॒ष पव॑मान ए॒व॥३९॥
अथ॒ यदु॑त्तर॒तो वाति॑।
स॒वि॒तैव भू॒त्वोत्त॑र॒तो वा॑ति।
स॒वि॒तेव॒ स्वानां᳚ भवति।
य ए॒वं वेद॑।
स वा ए॒ष स॑वि॒तैव।
ते य ए॑नं पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति।
य ए॒वास्य॑ पु॒रस्ता᳚त्पा॒प्मानः॑।
ताꣴस्तेऽप॑ घ्नन्ति।
पु॒रस्ता॒दित॑रान्पा॒प्मनः॑ सचन्ते।
अथ॒ य ए॑नं दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति॥४०॥
य ए॒वास्य॑ दक्षिण॒तः पा॒प्मानः॑।
ताꣴस्तेऽप॑ घ्नन्ति।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मनः॑ सचन्ते।
अथ॒ य ए॑नं प॒श्चादा॒यन्त॑मुप॒ वद॑न्ति।
य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑।
ताꣴस्तेऽप॑ घ्नन्ति।
प॒श्चादित॑रान्पा॒प्मनः॑ सचन्ते।
अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति।
य ए॒वास्यो᳚त्तर॒तः पा॒प्मानः॑।
ताꣴस्तेऽप॑ घ्नन्ति॥४१॥
उ॒त्त॒र॒त इत॑रान्पा॒प्मनः॑ सचन्ते।
तस्मा॑दे॒वं वि॒द्वान्।
वीव॑ नृत्येत्।
प्रेव॑ चलेत्।
व्यस्ये॑वा॒क्ष्यौ भा॑षेत।
म॒ण्टये॑दिव।
क्रा॒थये॑दिव।
शृ॒ङ्गा॒येते॑व।
उ॒त मोप॑ वदेयुः।
उ॒त मे॑ पा॒प्मान॒मप॑ हन्यु॒रिति॑।
स यान्दिशꣳ॑ स॒निमे॒ष्यन्थ्स्यात्।
य॒दा तान्दिशं॒ वातो॑ वा॒यात्।
अथ॒ प्रवे॒यात्।
प्र वा॑ धावयेत्।
सा॒तमे॒व र॑दि॒तं व्यू॑ढं ग॒न्धम॒भि प्रच्य॑वते।
आऽस्य॒ तं ज॑नप॒दं पूर्वा॑ की॒र्तिर्ग॑च्छति।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति।
य ए॒वं वेद॑॥४२॥
अनुवाक 10
प्र॒जाप॑तिः॒ सोम॒ꣳ॒ राजा॑नमसृजत।
तं त्रयो॒ वेदा॒ अन्व॑सृज्यन्त।
तान् हस्ते॑ऽकुरुत।
अथ॒ ह सीता॑ सावि॒त्री।
सोम॒ꣳ॒ राजा॑नं चकमे।
श्र॒द्धामु॒ स च॑कमे।
साऽऽह॑ पि॒तरं॑ प्र॒जाप॑ति॒मुप॑ससार।
तꣳ हो॑वाच।
नम॑स्ते अस्तु भगवः।
उप॑ त्वाऽयानि॥४३॥
प्र त्वा॑ पद्ये।
सोमं॒ वै राजा॑नं कामये।
श्र॒द्धामु॒ स का॑मयत॒ इति॑।
तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रं क॑ल्पयि॒त्वा।
दश॑होतारं पु॒रस्ता᳚द्व्या॒ख्याय॑।
चतु॑र्होतारं दक्षिण॒तः।
पञ्च॑होतारं प॒श्चात्।
षड्ढो॑तारमुत्तर॒तः।
स॒प्तहो॑तारमु॒परि॑ष्टात्।
स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑॥४४॥
आऽस्यार्धं व॑व्राज।
ताꣳ हो॒दीक्ष्यो॑वाच।
उप॒ मा व॑र्त॒स्वेति॑।
तꣳ हो॑वाच।
भोगं॒ तु म॒ आच॑क्ष्व।
ए॒तन्म॒ आच॑क्ष्व।
यत्ते॑ पा॒णाविति॑।
तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ।
तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते।
स यः का॒मये॑त प्रि॒यः स्या॒मिति॑॥४५॥
यं वा॑ का॒मये॑त प्रि॒यः स्या॒दिति॑।
तस्मा॑ ए॒तꣴ स्था॑ग॒रम॑लङ्का॒रं क॑ल्पयि॒त्वा।
दश॑होतारं पु॒रस्ता᳚द्व्या॒ख्याय॑।
चतु॑र्होतारं दक्षिण॒तः।
पञ्च॑होतारं प॒श्चात्।
षड्ढो॑तारमुत्तर॒तः।
स॒प्तहो॑तारमु॒परि॑ष्टात्।
स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑।
आस्यार्धं व्र॑जेत्।
प्रि॒यो है॒व भ॑वति॥४६॥
अनुवाक 11
ब्रह्मा᳚त्म॒न्वद॑सृजत।
तद॑कामयत।
समा॒त्मना॑ पद्ये॒येति॑।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत।
तस्मै॑ दश॒मꣳ हू॒तः प्रत्य॑शृणोत्।
स दश॑हूतोऽभवत्।
दश॑हूतो ह॒ वै नामै॒षः।
तं वा ए॒तं दश॑हूत॒ꣳ॒ सन्तम्᳚।
दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥४७॥
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत।
तस्मै॑ सप्त॒मꣳ हू॒तः प्रत्य॑शृणोत्।
स स॒प्तहू॑तोऽभवत्।
स॒प्तहू॑तो ह॒ वै नामै॒षः।
तं वा ए॒तꣳ स॒प्तहू॑त॒ꣳ॒ सन्तम्᳚।
स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत।
तस्मै॑ ष॒ष्ठꣳ हू॒तः प्रत्य॑शृणोत्।
स षड्ढू॑तोऽभवत्॥४८॥
षड्ढू॑तो ह॒ वै नामै॒षः।
तं वा ए॒तꣳ षड्ढू॑त॒ꣳ॒ सन्तम्᳚।
षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत।
तस्मै॑ पञ्च॒मꣳ हू॒तः प्रत्य॑शृणोत्।
स पञ्च॑हूतोऽभवत्।
पञ्च॑हूतो ह॒ वै नामै॒षः।
तं वा ए॒तं पञ्च॑हूत॒ꣳ॒ सन्तम्᳚।
पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण॥४९॥
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत।
तस्मै॑ चतु॒र्थꣳ हू॒तः प्रत्य॑शृणोत्।
स चतु॑र्हूतोऽभवत्।
चतु॑र्हूतो ह॒ वै नामै॒षः।
तं वा ए॒तं चतु॑र्हूत॒ꣳ॒ सन्तम्᳚।
चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।
तम॑ब्रवीत्।
त्वं वै मे॒ नेदि॑ष्ठꣳ हू॒तः प्रत्य॑श्रौषीः।
त्वयै॑नानाख्या॒तार॒ इति॑।
तस्मा॒न्नु है॑ना॒ꣴ॒श्चतु॑र्होतार॒ इत्याच॑क्षते।
तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ꣳ॒ हृद्य॑तमः।
नेदि॑ष्ठो॒ हृद्य॑तमः।
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति।
य ए॒वं वेद॑॥५०॥
अनुवाक 1
जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे।
इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान्।
विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑।
श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि।
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय।
तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु।
सञ्जा᳚स्प॒त्यꣳ सु॒यम॒मा कृ॑णुष्व।
श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाꣳ॑सि।
अग्ने॒ यो नो॒ऽभितो॒ जनः॑।
वृको॒ वारो॒ जिघाꣳ॑सति॥१॥
ताꣴस्त्वं वृ॑त्रहं जहि।
वस्व॒स्मभ्य॒मा भ॑र।
अग्ने॒ यो नो॑ऽभि॒दास॑ति।
स॒मा॒नो यश्च॒ निष्ट्यः॑।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः।
मा तस्योच्छे॑षि॒ किञ्च॒न।
त्वमि॑न्द्राभि॒भूर॑सि।
दे॒वो विज्ञा॑तवीर्यः।
वृ॒त्र॒हा पु॑रु॒चेत॑नः।
अप॒ प्राच॑ इन्द्र॒ विश्वाꣳ॑ अ॒मित्रान्॑॥२॥
अपापा॑चो अभिभूते नुदस्व।
अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ।
यथा॒ तव॒ शर्म॒न्मदे॑म।
तमिन्द्रं॑ वाजयामसि।
म॒हे वृ॒त्राय॒ हन्त॑वे।
स वृषा॑ वृष॒भो भु॑वत्।
यु॒जे रथं॑ ग॒वेष॑ण॒ꣳ॒ हरि॑भ्याम्।
उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः।
विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा।
इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान्॥३॥
ह॒व्य॒वाह॑मभिमाति॒षाहम्᳚।
र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुम्।
ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिम्।
अ॒ग्निꣴ स्वि॑ष्ट॒कृत॒मा हु॑वेम।
स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि।
विश्वा॑ देव॒ पृत॑ना अ॒भि ष्य।
उ॒रुं नः॒ पन्थां᳚ प्रदि॒शन्विभा॑हि।
ज्योति॑ष्मद्धेह्य॒जरं॑ न॒ आयुः॑।
त्वाम॑ग्ने ह॒विष्म॑न्तः।
दे॒वं मर्ता॑स ईडते॥४॥
मन्ये᳚ त्वा जा॒तवे॑दसम्।
स ह॒व्या व॑क्ष्यानु॒षक्।
विश्वा॑नि नो दु॒र्गहा॑ जातवेदः।
सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः।
अ॒स्माकं॑ बोध्यवि॒ता त॒नूना᳚म्।
पू॒षा गा अन्वे॑तु नः।
पू॒षा र॑क्ष॒त्वर्व॑तः।
पू॒षा वाजꣳ॑ सनोतु नः।
पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः᳚॥५॥
सो अ॒स्माꣳ अभ॑यतमेन नेषत्।
स्व॒स्ति॒दा अघृ॑णिः॒ सर्व॑वीरः।
अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन्।
त्वम॑ग्ने स॒प्रथा॑ असि।
जुष्टो॒ होता॒ वरे᳚ण्यः।
त्वया॑ य॒ज्ञं वित॑न्वते।
अ॒ग्नी रक्षाꣳ॑सि सेधति।
शु॒क्रशो॑चि॒रम॑र्त्यः।
शुचिः॑ पाव॒क ईड्यः॑।
अग्ने॒ रक्षा॑ णो॒ अꣳह॑सः॥६॥
प्रति॑ ष्म देव॒ रीष॑तः।
तपि॑ष्ठैर॒जरो॑ दह।
अग्ने॒ हꣳसि॒ न्य॑त्रिणम्᳚।
दीद्य॒न्मर्त्ये॒ष्वा।
स्वे क्षये॑ शुचिव्रत।
आ वा॑त वाहि भेष॒जम्।
वि वा॑त वाहि॒ यद्रपः॑।
त्वꣳ हि वि॒श्वभे॑षजः।
दे॒वानां᳚ दू॒त ईय॑से।
द्वावि॒मौ वातौ॑ वातः॥७॥
आ सिन्धो॒रा प॑रा॒वतः॑।
दक्षं॑ मे अ॒न्य आ॒वातु॑।
परा॒न्यो वा॑तु॒ यद्रपः॑।
यद॒दो वा॑त ते गृ॒हे।
अ॒मृत॑स्य नि॒धिर्हि॒तः।
ततो॑ नो देहि जी॒वसे᳚।
ततो॑ नो धेहि भेष॒जम्।
ततो॑ नो॒ मह॒ आव॑ह।
वात॒ आवा॑तु भेष॒जम्।
श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे॥८॥
प्र ण॒ आयूꣳ॑षि तारिषत्।
त्वम॑ग्ने अ॒यासि॑।
अ॒या सन्मन॑सा हि॒तः।
अ॒या सन् ह॒व्यमू॑हिषे।
अ॒या नो॑ धेहि भेष॒जम्।
इ॒ष्टो अ॒ग्निराहु॑तः।
स्वाहा॑कृतः पिपर्तु नः।
स्व॒गा दे॒वेभ्य॑ इ॒दं नमः॑।
कामो॑ भू॒तस्य॒ भव्य॑स्य।
स॒म्राडेको॒ विरा॑जति॥९॥
स इ॒दं प्रति॑ पप्रथे।
ऋ॒तूनुथ्सृ॑जते व॒शी।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑।
मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त्।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्।
हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा।
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑।
हर्ष॑माणासो धृष॒ता म॑रुत्वः।
ति॒ग्मेष॑व॒ आयु॑धा स॒ꣳ॒शिशा॑नाः।
उप॒ प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः॥१०॥
म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः।
म॒न्युर्होता॒ वरु॑णो वि॒श्ववे॑दाः।
म॒न्युं विश॑ ईडते देव॒यन्तीः᳚।
पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण।
त्वम॑ग्ने व्रत॒भृच्छुचिः॑।
दे॒वाꣳ आसा॑दया इ॒ह।
अग्ने॑ ह॒व्याय॒ वोढ॑वे।
व्र॒तानुबिभ्र॑द्व्रत॒पा अदा᳚भ्यः।
यजा॑ नो दे॒वाꣳ अ॒जरः॑ सु॒वीरः॑।
दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने।
गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः॥११॥
अनुवाक 2
चक्षु॑षो हेते॒ मन॑सो हेते।
वाचो॑ हेते॒ ब्रह्म॑णो हेते।
यो मा॑ऽघा॒युर॑भि॒दास॑ति।
तम॑ग्ने मे॒न्या मे॒निं कृ॑णु।
यो मा॒ चक्षु॑षा॒ यो मन॑सा।
यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति।
तया᳚ऽग्ने॒ त्वं मे॒न्या।
अ॒मुम॑मे॒निं कृ॑णु।
यत्किं चा॒सौ मन॑सा॒ यच्च॑ वा॒चा।
य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑॥१२॥
तन्मृ॒त्युर्निर्ऋ॑त्या संविदा॒नः।
पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु।
या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒रक्षः॑।
ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्।
इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु।
मा तथ्समृ॑द्धि॒ यद॒सौ क॒रोति॑।
हन्मि॑ ते॒ऽहं कृ॒तꣳ ह॒विः।
यो मे॑ घो॒रमची॑कृतः।
अपा᳚ञ्चौ त उ॒भौ बा॒हू।
अप॑नह्याम्या॒स्यम्᳚॥१३॥
अप॑ नह्यामि ते बा॒हू।
अप॑ नह्याम्या॒स्यम्᳚।
अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा।
सर्वं॑ तेऽवधिषं कृ॒तम्।
पु॒राऽमुष्य॑ वषट्का॒रात्।
य॒ज्ञं दे॒वेषु॑ नस्कृधि।
स्वि॑ष्टम॒स्माकं॑ भूयात्।
माऽस्मान्प्राप॒न्नरा॑तयः।
अन्ति॑ दू॒रे स॒तो अ॑ग्ने।
भ्रातृ॑व्यस्याभि॒दास॑तः॥१४॥
व॒ष॒ट्का॒रेण॒ वज्रे॑ण।
कृ॒त्याꣳ ह॑न्मि कृ॒ताम॒हम्।
यो मा॒ नक्तं॒ दिवा॑ सा॒यम्।
प्रा॒तश्चाह्नो॑ नि॒पीय॑ति।
अ॒द्या तमि॑न्द्र॒ वज्रे॑ण।
भातृ॑व्यं पादयामसि।
इन्द्र॑स्य गृ॒हो॑ऽसि॒ तन्त्वा᳚।
प्रप॑द्ये॒ सगुः॒ साश्वः॑।
स॒ह यन्मे॒ अस्ति॒ तेन॑।
ईडे॑ अ॒ग्निं वि॑प॒श्चितम्᳚॥१५॥
गि॒रा य॒ज्ञस्य॒ साध॑नम्।
श्रु॒ष्टी॒वान॑न्धि॒तावा॑नम्।
अग्ने॑ श॒केम॑ ते व॒यम्।
यमं॑ दे॒वस्य॑ वा॒जिनः॑।
अति॒ द्वेषाꣳ॑सि तरेम।
अव॑तं मा॒ सम॑नसौ॒ समो॑कसौ।
सचे॑तसौ॒ सरे॑तसौ।
उ॒भौ माम॑वतञ्जातवेदसौ।
शि॒वौ भ॑वतम॒द्य नः॑।
स्व॒यं कृ॑ण्वा॒नः सु॒गमप्र॑यावम्॥१६॥
ति॒ग्मशृ॑ङ्गो वृष॒भः शोशु॑चानः।
प्र॒त्नꣳ स॒धस्थ॒मनु॒ पश्य॑मानः।
आ तन्तु॑म॒ग्निर्दि॒व्यं त॑तान।
त्वन्न॒स्तन्तु॑रु॒त सेतु॑रग्ने।
त्वं पन्था॑ भवसि देव॒यानः॑।
त्वया᳚ऽग्ने पृ॒ष्ठं व॒यमारु॑हेम।
अथा॑ दे॒वैः स॑ध॒मादं॑ मदेम।
उदु॑त्त॒मं मु॑मुग्धि नः।
वि पाशं॑ मध्य॒मञ्चृ॑त।
अवा॑ध॒मानि॑ जी॒वसे᳚॥१७॥
व॒यꣳ सो॑म व्र॒ते तव॑।
मन॑स्त॒नूषु॒ बिभ्र॑तः।
प्र॒जाव॑न्तो अशीमहि।
इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚।
उदꣳशे॑न पति॒विद्ये॑ जिगाय।
त्रि॒ꣳ॒शद॑स्या ज॒घनं॒ योज॑नानि।
उ॒पस्थ॒ इन्द्र॒ꣴ॒ स्थवि॑रं बिभर्ति।
सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या।
वि॒श्वव्य॑चा॒ अदि॑तिः॒ सूर्य॑त्वक्।
इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना॥१८॥
सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु।
आत्वा॑ऽहार्षम॒न्तर॑भूः।
ध्रु॒वस्ति॒ष्ठावि॑चाचलिः।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु।
मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत्।
ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी।
ध्रु॒वं विश्व॑मि॒दं जग॑त्।
ध्रु॒वा ह॒ पर्व॑ता इ॒मे।
ध्रु॒वो राजा॑ वि॒शाम॒यम्।
इ॒हैवैधि॒ मा व्य॑थिष्ठाः॥१९॥
पर्व॑त इ॒वावि॑चाचलिः।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ।
इ॒ह रा॒ष्ट्रमु॑ धारय।
अ॒भिति॑ष्ठ पृतन्य॒तः।
अध॑रे सन्तु॒ शत्र॑वः।
इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ।
अ॒पः क्षेत्रा॑णि स॒ञ्जयन्॑।
इन्द्र॑ एणमदीधरत्।
ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚।
तस्मै॑ दे॒वा अधि॑ब्रवन्।
अ॒यं च॒ ब्रह्म॑ण॒स्पतिः॑॥२०॥
अनुवाक 3
जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितृ॒णाम्।
अक्ष॑मव्ययं॒ न किला॑रिषाथ।
यच्छक्व॑रीषु बृह॒ता रवे॑ण।
इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः।
पा॒व॒का नः॒ सर॑स्वती।
वाजे॑भिर्वा॒जिनी॑वती।
य॒ज्ञं व॑ष्टु धि॒या व॑सुः।
सर॑स्वत्य॒भिनो॑ नेषि॒ वस्यः॑।
मा प॑स्फरीः॒ पय॑सा॒ मा न॒ आध॑क्।
जु॒षस्व॑ नः स॒ख्या॑ वे॒श्या॑ च॥२१॥
मा त्वक्षेत्रा॒ण्यर॑णानि गन्म।
वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्॒हिर॒ग्नौ।
अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः।
अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑।
इ॒हार्वाञ्च॒मति॑ ह्वये।
इन्द्रं॒ जैत्रा॑य॒ जेत॑वे।
अ॒स्माक॑मस्तु॒ केव॑लः।
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे।
यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः॥२२॥
इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्व।
अ॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा।
अस॑म्मृष्टो जायसे मातृ॒वोः शुचिः॑।
म॒न्द्रः क॒विरुद॑तिष्ठो॒ विव॑स्वतः।
घृ॒तेन॑ त्वा वर्धयन्नग्न आहुत।
धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः।
अ॒ग्निरग्रे᳚ प्रथ॒मो दे॒वता॑नाम्।
संया॑तानामुत्त॒मो विष्णु॑रासीत्।
यज॑मानाय परि॒गृह्य॑ दे॒वान्।
दी॒क्षये॒दꣳ ह॒विरा ग॑च्छतन्नः॥२३॥
अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मं म॒हः।
दी॒क्षा॒पा॒लेभ्यो॒ऽवन॑त॒ꣳ॒ हि श॑क्रा।
विश्वै᳚र्दे॒वैर्य॒ज्ञियैः᳚ संविदा॒नौ।
दी॒क्षाम॒स्मै यज॑मानाय धत्तम्।
प्र तद्विष्णुः॑ स्तवते वी॒र्या॑य।
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु।
अधि॑ क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚।
नूमर्तो॑ दयते सनि॒ष्यन् यः।
विष्ण॑व उरुगा॒याय॒ दाश॑त्॥२४॥
प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑तै।
ए॒ताव॑न्त॒न्नर्य॑मा॒ विवा॑सात्।
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम्।
क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः।
उ॒रु॒क्षि॒तिꣳ सु॒जनि॑मा चकार।
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम्।
विच॑क्रमे श॒तर्च॑सं महि॒त्वा।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्।
त्वे॒षꣴ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑॥२५॥
होता॑रं चि॒त्रर॑थमध्व॒रस्य॑।
य॒ज्ञस्य॑यज्ञस्य के॒तुꣳ रुश॑न्तम्।
प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना।
श्रि॒या त्व॑ग्निमति॑थिं॒ जना॑नाम्।
आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषाः᳚।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि।
वरी॑वृज॒थ्स्थवि॑रेभिः सुशिप्र।
अ॒स्मे दध॒द्वृष॑ण॒ꣳ॒ शुष्म॑मिन्द्र।
इन्द्रः॑ सुव॒र्॒षा ज॒नय॒न्नहा॑नि।
जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ श्रीः॥२६॥
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना᳚म्।
अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य।
अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम्।
आ नू॒नं या॑तꣳ सुकृ॒ताय॑ विप्रा।
प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न।
उ॒पाग॑च्छत॒मव॒साग॑तन्नः।
अ॒वि॒ष्टं धी॒ष्वश्वि॑ना न आ॒सु।
प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु।
आवां᳚ तो॒के तन॑ये॒ तूतु॑जानाः।
सु॒रत्ना॑सो दे॒ववी॑तिं गमेम॥२७॥
त्वꣳ सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भूः।
त्वं दक्षैः᳚ सु॒दक्षो॑ वि॒श्ववे॑दाः।
त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा।
द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः᳚।
अषा॑ढं यु॒थ्सु पृत॑नासु॒ पप्रिम्᳚।
सु॒व॒र्॒षाम॒फ्स्वां वृ॒जन॑स्य गो॒पाम्।
भ॒रे॒षु॒जाꣳ सु॑क्षि॒तिꣳ सु॒श्रव॑सम्।
जय॑न्तं॒ त्वामनु॑ मदेम सोम।
भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः।
विभू॑तद्युम्न एव॒ या उ॑ स॒प्रथाः᳚॥२८॥
अधा॑ ते विष्णो वि॒दुषा॑ चि॒दृध्यः॑।
स्तोमो॑ य॒ज्ञस्य॒ राध्यो॑ ह॒विष्म॑तः।
यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे।
सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति।
यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवा᳚त्।
सेदु॒ श्रवो॑भिर्यु॒ज्यं॑ चिद॒भ्य॑सत्।
तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॑।
गर्भꣳ॑ ह॒विषा॑ पिपर्तन।
आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन।
बृ॒हत्ते॑ विष्णो सुम॒तिं भ॑जामहे॥२९॥
इ॒मा धा॒ना घृ॑त॒स्नुवः॑।
हरी॑ इ॒होप॑वक्षतः।
इन्द्रꣳ॑ सु॒खत॑मे॒ रथे᳚।
ए॒ष ब्र॒ह्मा प्रते॑म॒हे।
वि॒दथे॑ शꣳसिष॒ꣳ॒ हरी᳚।
य ऋ॒त्वियः॒ प्रते॑ वन्वे।
व॒नुषो॑ हर्य॒तं मदम्᳚।
इन्द्रो॒ नाम॑ घृ॒तन्नयः।
हरि॑भि॒श्चारु॒ सेच॑ते।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु॥३०॥
हरि॑वर्पस॒ङ्गिरः॑।
आच॑र्षणि॒प्रा वृ॑ष॒भो जना॑नाम्।
राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑।
स्तु॒तश्र॑व॒स्यन्नव॒सोप॑म॒द्रिक्।
यु॒क्त्वा हरी॒ वृष॒णाया᳚ह्य॒र्वाङ्।
प्र यथ्सिन्ध॑वः प्रस॒वं यदायन्॑।
आपः॑ समु॒द्रꣳ र॒थ्ये॑व जग्मुः।
अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑यान्।
यदी॒ꣳ॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अ॒ꣳ॒शुः।
ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ्॥३१॥
अर॑न्ते॒ सोम॑स्त॒नुवे॑ भवाति।
शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑।
प्रास्माꣳ अ॑व॒ पृत॑नासु॒ प्रयु॒थ्सु।
इन्द्रा॑य॒ सोमाः᳚ प्र॒दिवो॒ विदा॑नाः।
ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः।
प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय।
इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑।
अहे॑डमान॒ उप॑याहि य॒ज्ञम्।
तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तासः॑।
गावो॒ न व॑ज्रिन्थ्स्व॒मोको॒ अच्छ॑॥३२॥
इन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम्।
या ते॑ का॒कुथ्सुकृ॑ता॒ या वरि॑ष्ठा।
यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम्।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात्।
सन्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः।
प्रा॒त॒र्युजा॒ वि बो॑धय।
अश्वि॑ना॒वेह ग॑च्छतम्।
अ॒स्य सोम॑स्य पी॒तये᳚।
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम्।
पु॒रा गृध्रा॒दर॑रुषः पिबाथः।
प्रा॒तर्हि य॒ज्ञम॒श्विना॒ दधा॑ते।
प्रशꣳ॑सन्ति क॒वयः॑ पूर्व॒भाजः॑।
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत।
न सा॒यम॑स्ति देव॒या अजु॑ष्टम्।
उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः।
पूर्वः॑ पूर्वो॒ यज॑मानो॒ वनी॑यान्॥३३॥
अनुवाक 4
न॒क्तं॒ जा॒ताऽस्यो॑षधे।
रामे॒ कृष्णे॒ असि॑क्नि च।
इ॒दꣳ र॑जनि रजय।
कि॒लासं॑ पलि॒तं च॒ यत्।
कि॒लासं॑ च पलि॒तं च॑।
निरि॒तो ना॑शया॒ पृष॑त्।
आ नः॒ स्वो अ॑श्ञुतां॒ वर्णः॑।
परा᳚ श्वे॒तानि॑ पातय।
असि॑तं ते नि॒लय॑नम्।
आ॒स्थान॒मसि॑तं॒ तव॑॥३४॥
असि॑क्नियस्योषधे।
निरि॒तो ना॑शया॒ पृष॑त्।
अ॒स्थि॒जस्य॑ कि॒लास॑स्य।
त॒नू॒जस्य॑ च॒ यत्त्व॒चि।
कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा।
लक्ष्म॑ श्वे॒तम॑नीनशम्।
सरू॑पा॒ नाम॑ ते मा॒ता।
सरू॑पो॒ नाम॑ ते पि॒ता।
सरू॑पाऽस्योषधे॒ सा।
सरू॑पमि॒दं कृ॑धि॥३५॥
शु॒नꣳ हु॑वेम म॒घवा॑न॒मिन्द्रम्᳚।
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मथ्सु॑।
घ्नन्तं॑ वृ॒त्राणि॑ स॒ञ्जितं॒ धना॑नाम्।
धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॑।
नि वो॒ वना॑ जिहते॒ याम॑ नो भि॒या।
को॒पय॑थ पृथि॒वीं पृ॑श्ञिमातरः।
यु॒धे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम्।
प्रवे॑पयन्ति॒ पर्व॑तान्।
विवि॑ञ्चन्ति॒ वन॒स्पतीन्॑॥३६॥
प्रोवा॑रत मरुतो दु॒र्मदा॑ इव।
देवा॑सः॒ सर्व॑या वि॒शा।
पु॒रु॒त्रा हि स॒दृङ्ङसि॑।
विशो॒ विश्वा॒ अनु॑ प्र॒भु।
स॒मथ्सु॑ त्वा हवामहे।
स॒मथ्स्व॒ग्निमव॑से।
वा॒ज॒यन्तो॑ हवामहे।
वाजे॑षु चि॒त्ररा॑धसम्।
सङ्ग॑च्छध्व॒ꣳ॒ संव॑दध्वम्।
सं वो॒ मनाꣳ॑सि जानताम्॥३७॥
दे॒वा भा॒गं यथा॒ पूर्वे᳚।
स॒ञ्जा॒ना॒ना उ॒पास॑त।
स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी।
स॒मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम्।
स॒मा॒नं केतो॑ अ॒भि सꣳ र॑भध्वम्।
सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः।
स॒मा॒नी व॒ आकू॑तिः।
स॒मा॒ना हृद॑यानि वः।
स॒मा॒नम॑स्तु वो॒ मनः॑।
यथा॑ वः॒ सुस॒हास॑ति॥३८॥
सं॒ज्ञानं॑ नः॒ स्वैः।
सं॒ज्ञान॒मर॑णैः।
सं॒ज्ञान॑मश्विना यु॒वम्।
इ॒हास्मासु॒ निय॑च्छतम्।
सं॒ज्ञानं॑ मे॒ बृह॒स्पतिः॑।
सं॒ज्ञानꣳ॑ सवि॒ता क॑रत्।
सं॒ज्ञान॑मश्विना यु॒वम्।
इ॒ह मह्यं॒ नि य॑च्छतम्।
उप॑ च्छा॒यामि॑व॒ घृणेः᳚।
अग॑न्म॒ शर्म॑ ते व॒यम्॥३९॥
अग्ने॒ हिर॑ण्यसन्दृशः।
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वम्।
शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गयम्᳚।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से।
रक्षा॒ माकि॑र्नो अ॒घशꣳ॑स ईशत।
मदे॑मदे॒ हि नो॑ द॒दुः।
यू॒था गवा॑मृजु॒क्रतुः॑।
सङ्गृ॑भाय पु॒रूश॒ता।
उ॒भ॒या ह॒स्त्या वसु॑।
शि॒शी॒हि रा॒य आ भ॑र॥४०॥
शिप्रि॑न्वाजानां पते।
शची॑व॒स्तव॑ द॒ꣳ॒सना᳚।
आ तू न॑ इन्द्र भाजय।
गोष्वश्वे॑षु शु॒भ्रुषु॑।
स॒हस्रे॑षु तुवीमघ।
यद्दे॑वा देव॒हेड॑नम्।
देवा॑सश्चकृ॒मा व॒यम्।
आदि॑त्या॒स्तस्मा᳚न्मा यू॒यम्।
ऋ॒तस्य॒र्तेन॑ मुञ्चत।
ऋ॒तस्य॒र्तेना॑ऽऽदित्याः॥४१॥
यज॑त्रा मु॒ञ्चते॒ह मा᳚।
य॒ज्ञैर्वो॑ यज्ञवाहसः।
आ॒शिक्ष॑न्तो॒ न शे॑किम।
मेद॑स्वता॒ यज॑मानाः।
स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः।
अ॒का॒मा वो॑ विश्वेदेवाः।
शिक्ष॑न्तो॒ नोप॑ शेकिम।
यदि॒ दिवा॒ यदि॒ नक्तम्᳚।
एन॑ एन॒स्योक॑रत्।
भू॒तं मा॒ तस्मा॒द्भव्यं॑ च॥४२॥
द्रु॒प॒दादि॑व मुञ्चतु।
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः।
स्वि॒न्नः स्ना॒त्वी मला॑दिव।
पू॒तं प॒वित्रे॑णे॒वाऽऽज्यम्᳚।
विश्वे॑ मुञ्चन्तु॒ मैन॑सः।
उद्व॒यं तम॑स॒स्परि॑।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्।
दे॒वं दे॑व॒त्रा सूर्यम्᳚।
अग॑न्म॒ ज्योति॑रुत्त॒मम्॥४३॥
अनुवाक 5
वृषा॒ सो अ॒ꣳ॒शुः प॑वते ह॒विष्मा॒न्थ्सोमः॑।
इन्द्र॑स्य भा॒ग ऋ॑त॒युः श॒तायुः॑।
स मा॒ वृषा॑णं वृष॒भं कृ॑णोतु।
प्रि॒यं वि॒शाꣳ सर्व॑वीरꣳ सु॒वीरम्᳚।
कस्य॒ वृषा॑ सु॒ते सचा᳚।
नि॒युत्वा᳚न्वृष॒भो र॑णत्।
वृ॒त्र॒हा सोम॑पीतये।
यस्ते॑ शृङ्ग वृषोनपात्।
प्रण॑पात्कुण्ड॒पाय्यः॑।
न्य॑स्मिन्दध्र॒ आ मनः॑॥४४॥
तꣳ स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि।
पौꣴस्या॑नि नि॒युतः॑ सश्चु॒रिन्द्रम्᳚।
स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्माः।
उ॒रु॒व्यच॑स॒ङ्गिर॒ आ वि॑शन्ति।
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः।
अ॒पः प्रैर॑य॒न्थ्सग॑रस्य बु॒ध्नात्।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः।
विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम्।
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑बु॒ध्नम्।
वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑॥४५॥
दृ॒ढान्यौ᳚घ्नादु॒शमा॑न॒ ओजः॑।
अवा॑भिनत्क॒कुभः॒ पर्व॑तानाम्।
आ नो॑ अग्ने सुके॒तुना᳚।
र॒यिं वि॒श्वायु॑पोषसम्।
मा॒र्डी॒कं धे॑हि जी॒वसे᳚।
त्वꣳ सो॑म म॒हे भगम्᳚।
त्वं यून॑ ऋताय॒ते।
दक्षं॑ दधासि जी॒वसे᳚।
रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒गम्।
सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु॥४६॥
रजाꣳ॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑।
दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम्।
वाच॒ꣳ॒ सुमि॑त्रावरुणा॒विरा॑वतीम्।
प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम्।
अ॒भ्रा व॑सत मरुतः सुमा॒यया᳚।
द्यां व॑र्षयतमरु॒णाम॑रे॒पसम्᳚।
अयु॑क्त स॒प्त शु॒न्ध्युवः॑।
सूरो॒ रथ॑स्य न॒प्त्रियः॑।
ताभि॑र्याति॒ स्वयु॑क्तिभिः।
वहि॑ष्ठेभिर्वि॒हर॑न् यासि॒ तन्तुम्᳚॥४७॥
अ॒व॒व्यय॒न्नसि॑तं देव॒ वस्वः॑।
दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य।
चर्मे॒वावा॑धु॒स्तमो॑ अ॒फ्स्व॑न्तः।
प॒र्जन्या॑य॒ प्र गा॑यत।
दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚।
स नो॑ य॒वस॑मिच्छतु।
अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः।
स्तु॒हि प॒र्जन्यं॒ नम॒साऽऽवि॑वास।
कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः।
रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भम्᳚॥४८॥
यो गर्भ॒मोष॑धीनाम्।
गवां᳚ कृ॒णोत्यर्व॑ताम्।
प॒र्जन्यः॑ पुरु॒षीणा᳚म्।
तस्मा॒ इदा॒स्ये॑ ह॒विः।
जु॒होता॒ मधु॑मत्तमम्।
इडां नः सं॒यतं॑ करत्।
ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित्।
शुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यन्।
नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि।
असू॑दयन्त त॒नुवः॒ सुजा॑ताः॥४९॥
इन्द्र॑श्च नः शुनासीरौ।
इ॒मं य॒ज्ञं मि॑मिक्षतम्।
गर्भं॑ धत्तꣴ स्व॒स्तये᳚।
ययो॑रि॒दं विश्वं॒ भुव॑नमा वि॒वेश॑।
ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च।
शुना॑सीरावृ॒तुभिः॑ संविदा॒नौ।
इन्द्र॑वन्तौ ह॒विरि॒दं जु॑षेथाम्।
आघा॒ये अ॒ग्निमि॑न्ध॒ते।
स्तृ॒णन्ति॑ ब॒र्॒हिरा॑नु॒षक्।
येषा॒मिन्द्रो॒ युवा॒ सखा᳚।
अग्न॒ इन्द्र॑श्च मे॒दिना᳚।
ह॒थो वृ॒त्राण्य॑प्र॒ति।
यु॒वꣳ हि वृ॑त्र॒हन्त॑मा।
याभ्या॒ꣳ॒ सुव॒रज॑य॒न्नग्र॑ ए॒व।
यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये᳚।
प्रच॑र्ष॒णी वृ॑षणा॒ वज्र॑बाहू।
अ॒ग्नी इन्द्रा॑वृत्र॒हणा॑ हुवे वाम्॥५०॥
अनुवाक 6
उ॒त नः॑ प्रि॒या प्रि॒यासु॑।
स॒प्तस्वसा॒ सुजु॑ष्टा।
सर॑स्वती॒ स्तोम्या॑ऽभूत्।
इ॒मा जुह्वा॑नायु॒ष्मदा नमो॑भिः।
प्रति॒ स्तोमꣳ॑ सरस्वति जुषस्व।
तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः।
उप॑स्थेयाम शर॒णं न वृ॒क्षम्।
त्रीणि॑ प॒दा विच॑क्रमे।
विष्णु॑र्गो॒पा अदा᳚भ्यः।
ततो॒ धर्मा॑णि धा॒रयन्॑॥५१॥
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम्।
नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था।
विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उथ्सः॑।
क्र॒त्वा॒दा अ॑स्थु॒ श्रेष्ठः॑।
अ॒द्य त्वा॑ व॒न्वन्थ्सु॒रेक्णाः᳚।
मर्त॑ आनाश सुवृ॒क्तिम्।
इ॒मा ब्र॑ह्म ब्रह्मवाह।
प्रि॒या त॒ आ ब॒र्॒हिः सी॑द।
वी॒हि सू॑र पुरो॒डाशम्᳚॥५२॥
उप॑ नः सू॒नवो॒ गिरः॑।
शृ॒ण्वन्त्व॒मृत॑स्य॒ ये।
सु॒मृ॒डी॒का भ॑वन्तु नः।
अ॒द्या नो॑ देव सवितः।
प्र॒जाव॑थ्सावीः॒ सौभ॑गम्।
परा॑ दुः॒ष्वप्नि॑यꣳ सुव।
विश्वा॑नि देव सवितः।
दु॒रि॒तानि॒ परा॑ सुव।
यद्भ॒द्रं तन्म॒ आ सु॑व।
शुचि॑म॒र्कैर्बृह॒स्पतिम्᳚॥५३॥
अ॒ध्व॒रेषु॑ नमस्यत।
अ॒ना॒म्योज॒ आ च॑के।
या धा॒रय॑न्त दे॒वा सु॒दक्षा॒ दक्ष॑पितारा।
अ॒सु॒र्या॑य॒ प्रम॑हसा।
स इत् क्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे।
तस्मा॒ इडा॑ पिन्वते विश्व॒दानी᳚।
तस्मै॒ विशः॑ स्व॒यमे॒वान॑मन्ति।
यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑।
सकू॑तिमिन्द्र॒ सच्यु॑तिम्।
सच्यु॑तिं ज॒घन॑च्युतिम्॥५४॥
क॒नात्का॒भान्न॒ आ भ॑र।
प्र॒य॒फ्स्यन्नि॑व स॒क्थ्यौ᳚।
वि न॑ इन्द्र॒ मृधो॑ जहि।
कनी॑खुनदिव सा॒पयन्॑।
अ॒भि नः॒ सुष्टु॑तिं नय।
प्र॒जाप॑तिः स्त्रि॒यां यशः॑।
मु॒ष्कयो॑रदधा॒थ्सपम्᳚।
काम॑स्य॒ तृप्ति॑मान॒न्दम्।
तस्या᳚ग्ने भाजये॒ह मा᳚।
मोदः॑ प्रमो॒द आ॑न॒न्दः॥५५॥
मु॒ष्कयो॒र्निहि॑तः॒ सपः॑।
सृ॒त्वेव॒ काम॑स्य तृप्याणि।
दक्षि॑णानां प्रतिग्र॒हे।
मन॑सश्चि॒त्तमाकू॑तिम्।
वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नाꣳ रू॒पमन्न॑स्य।
यशः॒ श्रीः श्र॑यतां॒ मयि॑।
यथा॒ऽहम॒स्या अतृ॑पꣴ स्त्रि॒यै पुमान्॑।
यथा॒ स्त्री तृप्य॑ति पु॒ꣳ॒सि प्रि॒ये प्रि॒या।
ए॒वं भग॑स्य तृप्याणि॥५६॥
य॒ज्ञस्य॒ काम्यः॑ प्रि॒यः।
ददा॒मीत्य॒ग्निर्व॑दति।
तथेति॑ वा॒युरा॑ह॒ तत्।
हन्तेति॑ स॒त्यं च॒न्द्रमाः᳚।
आ॒दि॒त्यः स॒त्यमोमिति॑।
आप॒स्तथ्स॒त्यमा भ॑रन्।
यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम्।
अ॒सौ मे॒ कामः॒ समृ॑द्ध्यताम्।
न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात्।
वै॒श्वा॒न॒रात्पु॑रए॒तार॑म॒ग्नेः॥५७॥
अथे॑ममन्थन्न॒मृत॒ममू॑राः।
वै॒श्वा॒न॒रं क्षे᳚त्र॒जित्या॑य दे॒वाः।
येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आसन्॑।
अ॒यू॒पाः सद्म॒ विभृ॑ता पु॒रूणि॑।
वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः।
पृ॒थि॒वीम॒न्याम॒भित॑स्थु॒र्जना॑सः।
पृ॒थि॒वीं मा॒तरं॑ म॒हीम्।
अ॒न्तरि॑क्ष॒मुप॑ ब्रुवे।
बृ॒ह॒तीमू॒तये॒ दिवम्᳚।
विश्वं॑ बिभर्ति पृथि॒वी॥५८॥
अ॒न्तरि॑क्षं॒ वि प॑प्रथे।
दु॒हे द्यौर्बृ॑ह॒ती पयः॑।
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः।
नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति।
दे॒वाꣴश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च।
ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह।
न ता अर्वा॑ रे॒णुक॑काटो अश्ञुते।
न सꣴ॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि।
उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॑।
गावो॒ मर्त्य॑स्य॒ वि च॑रन्ति॒ यज्व॑नः॥५९॥
रात्री॒ व्य॑ख्यदाय॒ती।
पु॒रु॒त्रा दे॒व्य॑क्षभिः॑।
विश्वा॒ अधि॒ श्रियो॑ऽधित।
उप॑ ते॒ गा इ॒वाक॑रम्।
वृ॒णी॒ष्व दु॑हितर्दिवः।
रात्री॒ स्तोमं॒ न जि॒ग्युषी᳚।
दे॒वीं वाच॑मजनयन्त दे॒वाः।
तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति।
सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना।
धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑॥६०॥
यद्वाग्वद॑न्त्यविचेत॒नानि॑।
राष्ट्री॑ दे॒वानां निष॒साद॑ म॒न्द्रा।
चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयाꣳ॑सि।
क्व॑ स्विदस्याः पर॒मं ज॑गाम।
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती।
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚।
स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्।
तस्याꣳ॑ समु॒द्रा अधि॒ विक्ष॑रन्ति।
तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः॥६१॥
ततः॑ क्षरत्य॒क्षरम्᳚।
तद्विश्व॒मुप॑ जीवति।
इन्द्रा॒सूरा॑ ज॒नय॑न्वि॒श्वक॑र्मा।
म॒रुत्वाꣳ॑ अस्तु ग॒णवा᳚न्थ्सजा॒तवान्॑।
अ॒स्य स्नु॒षा श्वशु॑रस्य॒ प्रशि॑ष्टिम्।
स॒पत्ना॒ वाचं॒ मन॑सा॒ उपा॑सताम्।
इन्द्रः॒ सूरो॑ अतर॒द्रजाꣳ॑सि।
स्नु॒षा स॒पत्ना॒ श्वशु॑रो॒ऽयम॑स्तु।
अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्हृ॑षाणः।
अ॒यं वाजं॑ जयतु॒ वाज॑सातौ।
अ॒ग्निः क्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑।
स॒ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन्।
वि॒भ्राज॑मानः समिधा॒ न उ॒ग्रः।
आऽन्तरि॑क्षमरुह॒दग॒न्द्याम्॥६२॥
अनुवाक 7
वृषा᳚ऽस्य॒ꣳ॒शुर्वृ॑ष॒भाय॑ गृह्यसे।
वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से।
दि॒व्यः क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑।
वृ॒ष॒भस्य॒ या क॒कुत्।
वि॒षू॒वान् वि॑ष्णो भवतु।
अ॒यं यो मा॑म॒को वृषा᳚।
अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑।
वि ब्र॑वीतु॒ जने᳚भ्यः।
आयु॑ष्मन्तं॒ वर्च॑स्वन्तम्।
अथो॒ अधि॑पतिं वि॒शाम्॥६३॥
अ॒स्याः पृ॑थि॒व्या अध्य॑क्षम्।
इ॒ममि॑न्द्र वृष॒भं कृ॑णु।
यः सु॒शृङ्गः॑ सुवृष॒भः।
क॒ल्याणो॒ द्रोण॒ आहि॑तः।
कार्षी॑वल प्रगाणेन।
वृ॒ष॒भेण॑ यजामहे।
वृ॒ष॒भेण॒ यज॑मानाः।
अक्रू॑रेणेव स॒र्पिषा᳚।
मृद्ध॑श्च॒ सर्वा॒ इन्द्रे॑ण।
पृत॑नाश्च जयामसि॥६४॥
यस्या॒यमृ॑ष॒भो ह॒विः।
इन्द्रा॑य परिणी॒यते᳚।
जया॑ति॒ शत्रु॑मा॒यन्तम्᳚।
अथो॑ हन्ति पृतन्य॒तः।
नृ॒णामह॑ प्र॒णीरस॑त्।
अग्र॑ उद्भिन्द॒ताम॑सत्।
इन्द्र॒ शुष्मं॑ त॒नुवा॒ मेर॑यस्व।
नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः।
नि शृ॑णीह्याबा॒धं यो नो॒ अस्ति॑।
उ॒रुं नो॑ लो॒कं कृ॑णुहि जीरदानो॥६५॥
प्रेह्य॒भि प्रेहि॒ प्र भ॑रा॒ सह॑स्व।
मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु।
उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः᳚।
इन्द्र॒ शत्रू᳚न्पु॒रो अ॒स्माक॑ युध्य।
अग्ने॒ जेता॒ त्वं ज॑य।
शत्रू᳚न्थ्सहस॒ ओज॑सा।
वि शत्रू॒न्॒ विमृधो॑ नुद।
ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रः॑।
रथं॒ न धीरः॒ स्वपा॑ अतक्षम्।
यदीद॑ग्ने॒ प्रति॒त्वं दे॑व॒ हर्याः᳚॥६६॥
सुव॑र्वतीर॒प ए॑ना जयेम।
यो घृ॒तेना॒भिमा॑नितः।
इन्द्र॒ जैत्रा॑य जज्ञिषे।
स नः॒ सङ्का॑सु पारय।
पृ॒त॒ना॒साह्ये॑षु च।
इन्द्रो॑ जिगाय पृथि॒वीम्।
अ॒न्तरि॑क्ष॒ꣳ॒ सुव॑र्म॒हत्।
वृ॒त्र॒हा पु॑रु॒चेत॑नः।
इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाꣳ॑सि।
इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा᳚॥६७॥
इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज।
स नः॑ पर॒स्पा वरि॑वः कृणोतु।
अ॒यं कृ॒त्नुरगृ॑भीतः।
वि॒श्व॒जिदु॒द्भिदिथ्सोमः॑।
ऋषि॒र्विप्रः॒ काव्ये॑न।
वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः।
सा॒कङ्ग॒न्मन॑सा य॒ज्ञम्।
शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑।
वायो॑ शु॒क्रो अ॑यामि ते।
मध्वो॒ अग्रं॒ दिवि॑ष्टिषु॥६८॥
आ या॑हि॒ सोम॑ पीतये।
स्वा॒रु॒हो दे॑व नि॒युत्व॑ता।
इ॒ममि॑न्द्र वर्धय क्ष॒त्रिया॑णाम्।
अ॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा᳚।
अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाꣳ॑सि धेहि।
अ॒व॒र्चसं॑ कणुहि॒ शत्रु॑मस्य।
इ॒ममा भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑।
निर॒मुं भ॑ज॒ यो॑ऽमित्रो॑ अस्य।
वर्ष्म॑न् क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व।
ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि॥६९॥
अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम्।
सन्दु॑हाथां घर्म॒दुघे॑व धे॒नुः।
अ॒यꣳ राजा᳚ प्रि॒य इन्द्र॑स्य भूयात्।
प्रि॒यो गवा॒मोष॑धीनामु॒तापाम्।
यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रम्᳚।
येन॒ जया॑सि॒ न परा॒ जया॑सै।
स त्वा॑ऽकरेकवृष॒भꣴ स्वाना᳚म्।
अथो॑ राजन्नुत्त॒मं मा॑न॒वाना᳚म्।
उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः᳚।
एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान्॥७०॥
विश्वा॒ आशाः॒ पृत॑नाः स॒ञ्जयं॒ जयन्॑।
अ॒भि ति॑ष्ठ शत्रूय॒तः स॑हस्व।
तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ।
ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात्।
आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि।
बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम्।
यो दे॒ह्यो अन॑मयद्वध॒स्नैः।
यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑।
स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः।
विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः॥७१॥
प्र स॒द्यो अ॑ग्ने॒ अत्ये᳚ष्य॒न्यान्।
आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑।
ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा᳚।
प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम्।
ब्रह्म॑ज्येष्ठा वी॒र्या॑ सम्भृ॑तानि।
ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान।
ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे।
तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒ङ्कः।
ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः।
ब्रह्म॑णा॒ स्वर॑वो मि॒ताः॥७२॥
ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः।
ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑।
शृङ्गा॑णी॒वेच्छृ॒ङ्गिणा॒ꣳ॒ सन्द॑दृश्रिरे।
च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम्।
ते दे॒वासः॒ स्वर॑वस्तस्थि॒वाꣳसः॑।
नमः॒ सखि॑भ्यः स॒न्नान्माऽव॑गात।
अ॒भि॒भूर॒ग्निर॑तर॒द्रजाꣳ॑सि।
स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः।
जु॒षा॒णो म॒ आहु॑तिं मामहिष्ट।
ह॒त्वा स॒पत्ना॒न्॒ वरि॑वस्करन्नः।
ईशा॑नं त्वा॒ भुव॑नानामभि॒श्रियम्᳚।
स्तौम्य॑ग्न उरु॒कृतꣳ॑ सु॒वीरम्᳚।
ह॒विर्जु॑षा॒णः स॒पत्नाꣳ॑ अभि॒भूर॑सि।
ज॒हि शत्रू॒ꣳ॒ रप॒ मृधो॑ नुदस्व॥७३॥
अनुवाक 8
स प्र॑त्न॒वन्नवी॑यसा।
अग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚।
बृ॒हत्त॑तन्थ भा॒नुना᳚।
नवं॒ नु स्तोम॑म॒ग्नये᳚।
दि॒वः श्ये॒नाय॑ जीजनम्।
वसोः᳚ कु॒विद्व॒नाति॑ नः।
स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे।
र॒यिर्वी॒रव॑तो यथा।
अग्रे॑ य॒ज्ञस्य॒ चेत॑तः।
अदा᳚भ्यः पुरए॒ता॥७४॥
अ॒ग्निर्वि॒शां मानु॑षीणाम्।
तूर्णी॒ रथः॒ सदा॒ नवः॑।
नव॒ꣳ॒ सोमा॑य वा॒जिने᳚।
आज्यं॒ पय॑सोऽजनि।
जुष्ट॒ꣳ॒ शुचि॑तमं॒ वसु॑।
नवꣳ॑ सोम जुषस्व नः।
पी॒यूष॑स्ये॒ह तृ॑प्णुहि।
यस्ते॑ भा॒ग ऋ॒ता व॒यम्।
नव॑स्य सोम ते व॒यम्।
आ सु॑म॒तिं वृ॑णीमहे॥७५॥
स नो॑ रास्व सह॒स्रिणः॑।
नवꣳ॑ ह॒विर्जु॑षस्व नः।
ऋ॒तुभिः॑ सोम॒ भूत॑मम्।
तद॒ङ्ग प्रति॑हर्य नः।
राज᳚न्थ्सोम स्व॒स्तये᳚।
नव॒ꣴ॒स्तोम॒न्नवꣳ॑ ह॒विः।
इ॒न्द्रा॒ग्निभ्यां॒ नि वे॑दय।
तज्जु॑षेता॒ꣳ॒ सचे॑तसा।
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्य।
इन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म्॥७६॥
उ॒भा हि वाꣳ॑ सु॒हवा॒ जोह॑वीमि।
ता वाजꣳ॑ स॒द्य उ॑श॒ते धेष्ठा᳚।
अ॒ग्निरिन्द्रो॒ नव॑स्य नः।
अ॒स्य ह॒व्यस्य॑ तृप्यताम्।
इ॒ह दे॒वौ स॑ह॒स्रिणौ᳚।
य॒ज्ञं न॒ आ हि गच्छ॑ताम्।
वसु॑मन्तꣳ सुव॒र्विदम्᳚।
अ॒स्य ह॒व्यस्य॑ तृप्यताम्।
अ॒ग्निरिन्द्रो॒ नव॑स्य नः।
विश्वा᳚न्दे॒वाꣴस्त॑र्पयत॥७७॥
ह॒विषो॒ऽस्य नव॑स्य नः।
सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे।
एदं ब॒र्॒हिः सु॒ष्टरी॑मा॒ नवे॑न।
अ॒यं य॒ज्ञो यज॑मानस्य भा॒गः।
अ॒यं ब॑भूव॒ भुव॑नस्य॒ गर्भः॑।
विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः।
इ॒मे नु द्यावा॑पृथि॒वी स॒मीची᳚।
त॒न्वा॒ने य॒ज्ञं पु॑रु॒पेश॑सन्धि॒या।
आऽस्मै॑ पृणीतां॒ भुव॑नानि॒ विश्वा᳚।
प्र॒जां पुष्टि॑म॒मृतं॒ नवे॑न॥७८॥
इ॒मे धे॒नू अ॒मृतं॒ ये दु॒हाते᳚।
पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑।
इ॒मं य॒ज्ञं जु॒षमा॑णे॒ नवे॑न।
स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची᳚।
यवि॑ष्ठो हव्य॒वाह॑नः।
चि॒त्रभा॑नुर्घृ॒तासु॑तिः।
नव॑जातो॒ वि रो॑चसे।
अग्ने॒ तत्ते॑ महित्व॒नम्।
त्वम॑ग्ने दे॒वता᳚भ्यः।
भा॒गे दे॑व॒ न मी॑यसे॥७९॥
स ए॑ना वि॒द्वान् य॑क्ष्यसि।
नव॒ꣴ॒ स्तोमं॑ जुषस्व नः।
अ॒ग्निः प्र॑थ॒मः प्राश्ञा॑तु।
स हि वेद॒ यथा॑ ह॒विः।
शि॒वा अ॒स्मभ्य॒मोष॑धीः।
कृ॒णोतु॑ वि॒श्वच॑र्षणिः।
भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवाः।
त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा।
स नो॑ मयो॒भूः पि॑तो॒ आ वि॑शस्व।
शं तो॒काय॑ त॒नुवे᳚ स्यो॒नः।
ए॒तमु॒ त्यं मधु॑ना॒ संयु॑तं॒ यवम्᳚।
सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः।
इन्द्र॑ आसी॒थ्सीर॑पतिः श॒तक्र॑तुः।
की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः॥८०॥
अनुवाक 1
प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त्।
इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑।
स इथ्सर्वं॒ व्या॑नशे।
यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः।
आवृ॑दू॒दात् क्षेत्रिय॑ध्व॒गद्वृषा᳚।
तमित्प्रा॒णं मन॒सोप॑ शिक्षत।
अग्रं॑ दे॒वाना॑मि॒दम॑त्तु नो ह॒विः।
मन॑स॒श्चित्ते॒दम्।
भू॒तं भव्यं॑ च गुप्यते।
तद्धि दे॒वेष्व॑ग्रि॒यम्॥१॥
आ न॑ एतु पुरश्च॒रम्।
स॒ह दे॒वैरि॒मꣳ हवम्᳚।
मनः॒ श्रेय॑सिश्रेयसि।
कर्म॑न् य॒ज्ञप॑तिं॒ दध॑त्।
जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः।
वि॒राड्दे॒वी पु॒रोहि॑ता।
ह॒व्य॒वाडन॑पायिनी।
यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति।
पेशाꣳ॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚।
सा नो॑ वि॒राडन॑पस्फुरन्ती॥२॥
वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः।
चक्षु॑र्दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तम्।
अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते।
तस्य॑ सु॒म्नम॑शीमहि।
मा नो॑ हासीद्विचक्ष॒णम्।
आयु॒रिन्नः॒ प्रती᳚र्यताम्।
अन॑न्धा॒श्चक्षु॑षा व॒यम्।
जी॒वा ज्योति॑रशीमहि।
सुव॒र्ज्योति॑रु॒तामृतम्᳚।
श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम्।
श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम्।
श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते।
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि।
येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा।
प्र॒तीच्यै॑ दि॒शः शृ॒ण्वन्त्यु॑त्त॒रात्।
तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम्।
अ॒रान्न ने॒मिः परि॒ सर्वं॑ बभूव॥३॥
अनुवाक 2
उ॒देहि॑ वाजि॒न्यो अ॑स्य॒फ्स्व॑न्तः।
इ॒दꣳ रा॒ष्ट्रमा वि॑श सू॒नृता॑वत्।
यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॑।
स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तान्दधातु।
रोहꣳ॑रोह॒ꣳ॒ रोहि॑त॒ आरु॑रोह।
प्र॒जाभि॒र्वृद्धिं॑ ज॒नुषा॑मु॒पस्थम्᳚।
ताभिः॒ सꣳर॑ब्धो अविद॒थ्षडु॒र्वीः।
गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाऽहाः᳚।
आऽहा॑र्षीद्रा॒ष्ट्रमि॒ह रोहि॑तः।
मृधो॒ व्या᳚स्थ॒दभ॑यं नो अस्तु॥४॥
अ॒स्मभ्यं॑ द्यावापृथिवी॒ शक्व॑रीभिः।
रा॒ष्ट्रं दु॑हाथामि॒ह रे॒वती॑भिः।
विम॑मर्श॒ रोहि॑तो वि॒श्वरू॑पः।
स॒मा॒च॒क्रा॒णः प्र॒रुहो॒ रुह॑श्च।
दिवं॑ ग॒त्वाय॑ मह॒ता म॑हि॒म्ना।
वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑।
यास्ते॒ विश॒स्तप॑सा सं बभू॒वुः।
गा॒य॒त्रं व॒थ्समनु॒ तास्त॒ आऽगुः॑।
तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑।
सं मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः॥५॥
यू॒यमु॑ग्रा मरुतः पृश्ञिमातरः।
इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रून्॑।
आ वो॒ रोहि॑तो अशृणोदभिद्यवः।
त्रिस॑प्तासो मरुतः स्वादुसम्मुदः।
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान।
तस्मि॒ꣴ॒स्तन्तुं॑ परमे॒ष्ठी त॑तान।
तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात्।
अदृꣳ॑ह॒द्द्यावा॑पृथि॒वी बले॑न।
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृꣳहत्।
तेन॒ सुवः॑ स्तभि॒तं तेन॒ नाकः॑॥६॥
सो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॑।
तेन॑ दे॒वाः सुव॒रन्व॑विन्दन्।
सु॒शेवं॑ त्वा भा॒नवो॑ दीदि॒वाꣳसम्᳚।
सम॑ग्रासो जु॒ह्वो॑ जातवेदः।
उ॒क्षन्ति॑ त्वा वा॒जिन॒मा घृ॒तेन॑।
सꣳस॑मग्ने युवसे॒ भोज॑नानि।
अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय।
तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु।
सञ्जा᳚स्प॒त्यꣳ सु॒यम॒मा कृ॑णुष्व।
श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाꣳ॑सि॥७॥
अनुवाक 3
पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु।
धना॑नि श॒क्रो धन्यः॑ सु॒राधाः᳚।
अ॒र्वा॒चीनं॑ कृणुतां याचि॒तो मनः॑।
श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः।
यानि॑ नोऽजि॒नं धना॑नि।
ज॒हर्थ॑ शूर म॒न्युना᳚।
इन्द्रानु॑विन्द न॒स्तानि॑।
अ॒नेन॑ ह॒विषा॒ पुनः॑।
इन्द्र॒ आशा᳚भ्यः॒ परि॑।
सर्वा॒भ्योऽभ॑यं करत्॥८॥
जेता॒ शत्रू॒न्॒ विच॑र्षणिः।
आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा।
पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे᳚।
आकू॑तिम॒स्याव॑से।
काम॑मस्य॒ समृ॑द्ध्यै।
इन्द्र॑स्य युञ्जते॒ धियः॑।
आकू॑तिं दे॒वीं मन॑सः पु॒रो द॑धे।
य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु।
यदि॒च्छामि॒ मन॑सा॒ सका॑मः।
वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम्॥९॥
सेद॒ग्निर॒ग्नीꣳरत्ये᳚त्य॒न्यान्।
यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः।
स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑।
आशा॑नां त्वाऽऽशापा॒लेभ्यः॑।
च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः।
इ॒दं भू॒तस्याध्य॑क्षेभ्यः।
वि॒धेम॑ ह॒विषा॑ व॒यम्।
विश्वा॒ आशा॒ मधु॑ना॒ सꣳ सृ॑जामि।
अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु।
अ॒यं यज॑मानो॒ मृधो॒ व्य॑स्यताम्॥१०॥
अगृ॑भीताः प॒शवः॑ सन्तु॒ सर्वे᳚।
अ॒ग्निः सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑।
बृह॒स्पतिः॑ सवि॒ता यः स॑ह॒स्री।
पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती।
त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः।
त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती।
पू॒षा भगꣳ॑ सवि॒ता नो॑ ददातु।
बृह॒स्पति॒र्दद॒दिन्द्रः॑ स॒हस्रम्᳚।
मि॒त्रो दा॒ता वरु॑णः॒ सोमो॑ अ॒ग्निः॥११॥
अनुवाक 4
आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्तम्᳚।
नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के।
उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे।
तमापृ॑णा वसुपते॒ वसू॑नाम्।
इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वैः᳚।
च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च।
सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्राः᳚।
इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन्।
इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम्।
यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री॥१२॥
अह॒न्नहि॒मन्व॒पस्त॑तर्द।
प्रव॒क्षणा॑ अभिन॒त्पर्व॑तानाम्।
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णम्।
त्वष्टा᳚ऽस्मै॒ वज्रꣴ॑ स्व॒र्य॑न्ततक्ष।
वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑मानाः।
अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑।
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमम्᳚।
त्रिक॑द्रुकेष्वपिबथ्सु॒तस्य॑।
आ साय॑कं म॒घवा॑ दत्त॒ वज्रम्᳚।
अह॑न्नेनं प्रथम॒जा मही॑नाम्॥१३॥
यदिन्द्राह॑न्प्रथम॒जा मही॑नाम्।
आन्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः।
आथ्सूर्यं॑ ज॒नय॒न्द्यामु॒षासम्᳚।
ता॒दीक्ना॒ शत्रू॒न्न किला॑विविथ्से।
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यꣳसम्᳚।
इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑।
स्कन्धाꣳ॑सीव॒ कुलि॑शेना॒विवृ॑क्णा।
अहिः॑ शयत उप॒पृक्पृ॑थि॒व्याम्।
अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे।
म॒हा॒वी॒रं तु॑विबा॒धमृ॑जी॒षम्॥१४॥
नाता॑रीरस्य॒ समृ॑तिं व॒धाना᳚म्।
सꣳ रु॒जानाः᳚ पिपिष॒ इन्द्र॑शत्रुः।
विश्वो॒ विहा॑या अर॒तिः।
वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे।
त॒रणि॒र्न शि॑श्रथत्।
श्र॒व॒स्य॑या॒ न शि॑श्रथत्।
विश्व॑स्मा॒ इदि॑षुध्य॒से।
दे॒व॒त्रा ह॒व्यमूहि॑षे।
विश्व॑स्मा॒ इथ्सु॒कृते॒ वार॑मृण्वति।
अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति॥१५॥
उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रयन्॑।
प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा᳚।
आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः।
कामं॑ नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः।
जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑।
आ नो॑ र॒यिं ब॑हु॒लां गोम॑ती॒मिषम्᳚।
नि धे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूषन्॑।
अश्वि॑ना य॒ज्ञमाग॑तम्।
दा॒शुषः॒ पुरु॑दꣳससा।
पू॒षा र॑क्षतु नो र॒यिम्॥१६॥
इ॒मं य॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता।
इ॒मौ र॒यिं यज॑मानाय धत्तम्।
इ॒मौ प॒शून्र॑क्षतां वि॒श्वतो॑ नः।
पू॒षा नः॑ पातु॒ सद॒मप्र॑यच्छन्।
प्रते॑ म॒हे स॑रस्वति।
सुभ॑गे॒ वाजि॑नीवति।
स॒त्य॒वाचे॑ भरे म॒तिम्।
इ॒दं ते॑ ह॒व्यं घृ॒तव॑थ्सरस्वति।
स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीꣳषि॑।
इ॒मानि॑ ते दुरि॒ता सौभ॑गानि।
तेभि॑र्व॒यꣳ सु॒भगा॑सः स्याम॥१७॥
अनुवाक 5
य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम्।
य॒ज्ञः स॒स्याना॑मु॒त सु॑क्षिती॒नाम्।
य॒ज्ञ इ॒ष्टः पू॒र्वचि॑त्तिं दधातु।
य॒ज्ञो ब्र॑ह्म॒ण्वाꣳ अप्ये॑तु दे॒वान्।
अ॒यं य॒ज्ञो व॑र्धतां॒ गोभि॒रश्वैः᳚।
इ॒यं वेदिः॑ स्वप॒त्या सु॒वीरा᳚।
इ॒दं ब॒र्॒हिरति॑ ब॒र्॒हीꣴष्य॒न्या।
इ॒मं य॒ज्ञं विश्वे॑ अवन्तु दे॒वाः।
भग॑ ए॒व भग॑वाꣳ अस्तु देवाः।
तेन॑ व॒यं भग॑वन्तः स्याम॥१८॥
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि।
स नो॑ भग पुरए॒ता भ॑वे॒ह।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः।
भगे॒मां धिय॒मुद॑व॒ दद॑न्नः।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः᳚।
भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम।
शश्व॑तीः॒ समा॒ उप॑यन्ति लो॒काः।
शश्व॑तीः॒ समा॒ उप॑य॒न्त्यापः॑।
इ॒ष्टं पू॒र्तꣳ शश्व॑तीना॒ꣳ॒ समा॑नाꣳ शाश्व॒तेन॑।
ह॒विषे॒ष्ट्वाऽन॒न्तं लो॒कं पर॒मा रु॑रोह॥१९॥
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त्।
सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी।
द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत्।
स॒ना॒तनं॒ वित॑त॒ꣳ॒ षण्म॑यूखम्।
अवा॒न्याꣴस्तन्तू᳚न्कि॒रतो॑ ध॒त्तो अ॒न्यान्।
नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्तम्᳚।
आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य।
वृष्टिं॒ ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑।
अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्धः।
ए॒तं जु॑षध्वं कवयो युवानः॥२०॥
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः।
मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑।
अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑।
भ्रुमि॒न्धम॑न्त॒ उप॒ गा अ॑वृण्वत।
वि च॑क्रमे॒ त्रिर्दे॒वः।
आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तम्᳚।
बृह॒स्पति॒ꣳ॒ सद॑ने सादयध्वम्।
सा॒दद्यो॑निं॒ दम॒ आ दी॑दि॒वाꣳसम्᳚।
हिर॑ण्यवर्णमरु॒षꣳ स॑पेम।
स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्यूः॥२१॥
हिर॑ण्यवाशीरिषि॒रः सु॑व॒र्॒षाः।
बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वाः।
पू॒रू सखि॑भ्य आसु॒तिं क॑रिष्ठः।
पूष॒ꣴ॒ स्तव॑ व्र॒ते व॒यम्।
नरि॑ष्येम क॒दाच॒न।
स्तो॒तार॑स्त इ॒ह स्म॑सि।
यास्ते॑ पूष॒न्ना वो॑ अ॒न्तः स॑मु॒द्रे।
हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति।
याभि॑र्यासि दू॒त्याꣳ सूर्य॑स्य।
कामे॑न कृ॒तश्रव॑ इ॒च्छमा॑नः॥२२॥
अर॑ण्या॒न्यर॑ण्यान्य॒सौ।
या प्रेव॒ नश्य॑सि।
क॒था ग्रामं॒ न पृ॑च्छसि।
न त्वा॒भीरि॑व विन्दती(३)।
वृ॒षा॒र॒वाय॒ वद॑ते।
यदु॒पाव॑ति चिच्चि॒कः।
आ॒घा॒टीभि॑रिव धा॒वयन्॑।
अ॒र॒ण्या॒निर्म॑हीयते।
उ॒त गाव॑ इवादन्।
उ॒तो वेश्मे॑व दृश्यते॥२३॥
उ॒तो अ॑रण्या॒निः सा॒यम्।
श॒क॒टीरि॑व सर्जति।
गाम॒ङ्गैष॒ आ ह्व॑यति।
दार्व॒ङ्गैष॒ उपा॑वधीत्।
वस॑न्नरण्या॒न्याꣳ सा॒यम्।
अक्रु॑क्ष॒दिति॑ मन्यते।
न वा अ॑रण्या॒निर्ह॑न्ति।
अ॒न्यश्चेन्नाभि॒गच्छ॑ति।
स्वा॒दोः फल॑स्य ज॒ग्ध्वा।
यत्र॒ कामं॒ नि प॑द्यते।
आञ्ज॑नगन्धीꣳ सुर॒भीम्।
ब॒ह्व॒न्नामकृ॑षीवलाम्।
प्राहं मृ॒गाणां᳚ मा॒तरम्᳚।
अ॒र॒ण्या॒नीम॑शꣳसिषम्॥२४॥
अनुवाक 6
वार्त्र॑हत्याय॒ शव॑से।
पृ॒त॒ना॒साह्या॑य च।
इन्द्र॒ त्वा व॑र्तयामसि।
सु॒ब्रह्मा॑णं वी॒रव॑न्तं बृ॒हन्तम्᳚।
उ॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र।
श्रु॒तर्षि॑मु॒ग्रम॑भिमाति॒षाहम्᳚।
अ॒स्मभ्यं॑ चि॒त्रं वृष॑णꣳ र॒यिं दाः᳚।
क्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त्।
अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि॥२५॥
शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु।
शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः।
शम॒न्तरि॑क्षꣳ स॒ह वाते॑न ते।
शं ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु।
या दैवी॒श्चत॑स्रः प्र॒दिशः॑।
वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे।
तासां त्वा ज॒रस॒ आ द॑धामि।
प्र यक्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः।
अमो॑चि॒ यक्ष्मा᳚द्दुरि॒तादव॑र्त्यै॥२६॥
द्रु॒हः पाशा॒न्निर्ऋ॑त्यै॒ चोद॑मोचि।
अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नम्।
अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के।
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यत्।
दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः।
ए॒वम॒हमि॒मं क्षे᳚त्रि॒याज्जा॑मिश॒ꣳ॒सात्।
द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त्।
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑।
दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य।
ध॒त्तꣳ र॒यिꣴ स्तु॑व॒ते की॒रये॑चित्॥२७॥
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः।
दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः।
वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः।
येन॑ ह॒ता दी॒र्घमध्वा॑न॒मायन्॑।
अ॒न॒न्तमर्थ॒मनि॑वर्थ्स्यमानाः।
यत्ते॑ सुजाते हि॒मव॑थ्सु भेष॒जम्।
म॒यो॒भूः शन्त॑मा॒ यद्धृ॒दोऽसि॑।
ततो॑ नो देहि सीबले।
अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि।
स॒ꣳ॒शोभ॑माना क॒न्ये॑व शुभ्रे॥२८॥
तां त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति।
सा नः॑ सीबले र॒यिमा भा॑जये॒ह।
पूर्वं॑ देवा॒ अप॑रेणानु॒पश्यं॒ जन्म॑भिः।
जन्मा॒न्यव॑रैः॒ परा॑णि।
वेदा॑नि देवा अ॒यम॒स्मीति॒ माम्।
अ॒हꣳ हि॒त्वा शरी॑रं ज॒रसः॑ प॒रस्ता᳚त्।
प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्रम्᳚।
वाचं॒ मन॑सि॒ सम्भृ॑ताम्।
हि॒त्वा शरी॑रं ज॒रसः॑ प॒रस्ता᳚त्।
आ भूतिं॒ भूतिं॑ व॒यम॑श्ञवामहै।
इ॒मा ए॒व ता उ॒षसो॒ याः प्र॑थ॒मा व्यौच्छन्॑।
ता दे॒व्यः॑ कुर्वते॒ पञ्च॑रू॒पा।
शश्व॑ती॒र्नाव॑पृज्यन्ति।
न ग॑म॒न्त्यन्तम्᳚॥२९॥
अनुवाक 7
वसू॑नां॒ त्वाऽधी॑तेन।
रु॒द्राणा॑मू॒र्म्या।
आ॒दि॒त्यानां॒ तेज॑सा।
विश्वे॑षां दे॒वानां॒ क्रतु॑ना।
म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा᳚।
अ॒भिभू॑तिर॒हमाग॑मम्।
इन्द्र॑सखा स्वा॒युधः॑।
आस्वाशा॑सु दु॒ष्षहः॑।
इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमागा᳚त्।
यशो॒ भर्गः॒ सह॒ ओजो॒ बलं॑ च॥३०॥
दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय।
प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य।
आयु॑रसि वि॒श्वायु॑रसि।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि।
सर्वं॑ म॒ आयु॑र्भूयात्।
सर्व॒मायु॑र्गेषम्।
भूर्भुवः॒ सुवः॑।
अ॒ग्निर्धर्मे॑णान्ना॒दः।
मृ॒त्युर्धर्मे॒णान्न॑पतिः।
ब्रह्म॑ क्ष॒त्रꣴ स्वाहा᳚॥३१॥
प्र॒जाप॑तिः प्रणे॒ता।
बृह॒स्पतिः॑ पुरए॒ता।
य॒मः पन्थाः᳚।
च॒न्द्रमाः᳚ पुनर॒सुः स्वाहा᳚।
अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः।
अ॒न्नाद्य॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
सोमो॒ राजा॒ राज॑पतिः।
रा॒ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
वरु॑णः स॒म्राट्थ्स॒म्राट्प॑तिः।
साम्रा᳚ज्यम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚॥३२॥
मि॒त्रः क्ष॒त्रं क्ष॒त्रप॑तिः।
क्ष॒त्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
इन्द्रो॒ बलं॒ बल॑पतिः।
बल॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः।
ब्रह्मा॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
स॒वि॒ता रा॒ष्ट्रꣳ रा॒ष्ट्रप॑तिः।
रा॒ष्ट्रम॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
पू॒षा वि॒शां विट्प॑तिः।
विश॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
सर॑स्वती॒ पुष्टिः॒ पुष्टि॑पत्नी।
पुष्टि॑म॒स्मिन् य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚।
त्वष्टा॑ पशू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पप॑तिः।
रु॒पेणा॒स्मिन् य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा᳚॥३३॥
अनुवाक 8
स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रः।
यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम्।
यो गो᳚त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः।
स इ॑न्द्र चि॒त्राꣳ अ॒भि तृ॑न्धि॒ वाजान्॑।
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात्।
ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त्।
आ वि॒श्वतो॑ अ॒भिसमे᳚त्व॒र्वाङ्।
इन्द्र॑ द्यु॒म्नꣳ सुव॑र्वद्धेह्य॒स्मे।
प्रोष्व॑स्मै पुरोर॒थम्।
इन्द्रा॑य शू॒षम॑र्चत॥३४॥
अ॒भीके॑ चिदु लोक॒कृत्।
स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा।
अ॒स्माकं॑ बोधि चोदि॒ता।
नभ॑न्तामन्य॒केषा᳚म्।
ज्या॒का अधि॒ धन्व॑सु।
इन्द्रं॑ व॒यꣳ शु॑ना॒सीरम्᳚।
अ॒स्मिन् य॒ज्ञे ह॑वामहे।
आ वाजै॒रुप॑ नो गमत्।
इन्द्रा॑य॒ शुना॒सीरा॑य।
स्रु॒चा जु॑हुत नो ह॒विः॥३५॥
जु॒षतां॒ प्रति॒ मेधि॑रः।
प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै।
हर्य॑श्वाय भरता स॒जोषाः᳚।
इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः।
शु॒ना॒सी॒री ह॒विरि॒दं जु॑षस्व।
वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्रम्᳚।
प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः।
अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षुः॑।
मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान्।
बृ॒हदिन्द्रा॑य गायत॥३६॥
मरु॑तो वृत्र॒हन्त॑मम्।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑।
दे॒वं दे॒वाय॒ जागृ॑वि।
कामि॒हैकाः॒ क इ॒मे प॑त॒ङ्गाः।
मा॒न्था॒लाः कुलि॒परि॑मापतन्ति।
अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः।
सौप॑र्णं॒ चक्षु॑स्त॒नुवा॑ विदेय।
ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तम्᳚।
न॒म॒स्याधीर॑म॒मृत॑स्य गो॒पाम्।
स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वियꣳ॑सत्॥३७॥
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः।
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम्।
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तम्।
य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्।
शं नो॑ दे॒वीर॒भिष्ट॑ये।
आपो॑ भवन्तु पी॒तये᳚।
शं योर॒भि स्र॑वन्तु नः।
ईशा॑ना॒ वार्या॑णाम्।
क्षय॑न्तीश्चर्षणी॒नाम्॥३८॥
अ॒पो या॑चामि भेष॒जम्।
अ॒फ्सु मे॒ सोमो॑ अब्रवीत्।
अ॒न्तर्विश्वा॑नि भेष॒जा।
अ॒ग्निं च॑ वि॒श्वश॑म्भुवम्।
आप॑श्च वि॒श्वभे॑षजीः।
यद॒फ्सु ते॑ सरस्वति।
गोष्वश्वे॑षु॒ यन्मधु॑।
तेन॑ मे वाजिनीवति।
मुख॑मङ्ग्धि सरस्वति।
या सर॑स्वती वैशम्भ॒ल्या॥३९॥
तस्यां᳚ मे रास्व।
तस्या᳚स्ते भक्षीय।
तस्या᳚स्ते भूयिष्ठ॒भाजो॑ भूयास्म।
अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत्।
ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने।
पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदः।
इ॒हैव सन्तत्र॒ सन्तं॑ त्वाऽग्ने।
प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि।
ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत्॥४०॥
ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॑।
यतो॑ जा॒तो अरो॑चथाः।
तं जा॒नन्न॑ग्न॒ आरो॑ह।
अथा॑ नो वर्धया र॒यिम्।
या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मानम्᳚।
अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑।
य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनिम्᳚।
जात॑वेदो॒ भुव॒ आ जाय॑मानः॒ सक्ष॑य॒ एहि॑।
उ॒पाव॑रोह जातवेदः॒ पुन॒स्त्वम्॥४१॥
दे॒वेभ्यो॑ ह॒व्यं व॑ह नः प्रजा॒नन्।
आयुः॑ प्र॒जाꣳ र॒यिम॒स्मासु॑ धेहि।
अज॑स्रो दीदिहि नो दुरो॒णे।
तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रम्।
स॒त्रा दधा॑न॒मप्र॑तिष्कुत॒ꣳ॒ शवाꣳ॑सि।
मꣳहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त्।
रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री।
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्।
सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाऽव॑शत्।
स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम्॥४२॥
सैनꣳ॑ सश्चद्दे॒वं दे॒वः स॒त्यमिन्दुꣳ॑ स॒त्य इन्द्रः॑।
वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः᳚।
महि॒ पाथः॑ पू॒र्व्यꣳ स॒द्ध्रिय॑क्कः।
अग्रं॑ नयथ्सु॒पद्यक्ष॑राणाम्।
अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒तीगा᳚त्।
वि॒दद्गव्यꣳ॑ स॒रमा॑ दृ॒ढमू॒र्वम्।
येना॒नुकं॒ मानु॑षी॒ भोज॑ते॒ विट्।
आ ये विश्वाः᳚ स्वप॒त्यानि॑ च॒क्रुः।
कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम्।
त्वं नृभि॑र्नृपते दे॒वहू॑तौ॥४३॥
भूरी॑णि वृ॒त्वा ह॑र्यश्व हꣳसि।
त्वन्निद॑स्यु॒ञ्चुमु॑रिम्।
धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑।
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा।
श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः।
आ॒विः सूर्यं॑ कृणु॒हि पी॒पिही॒षः।
ज॒हि शत्रूꣳ॑ र॒भि गा इ॑न्द्र तृन्धि।
अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व।
अपामी॑वा॒ अप॒ रक्षाꣳ॑सि सेध।
अ॒स्माथ्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑॥४४॥
अ॒पां भू॒मान॒मुप॑ नः सृजे॒ह।
यज्ञ॒ प्रति॑ तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा᳚।
वसू॑नि पुरु॒धा वि॑शन्तु।
दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन्।
अथा॒मृते॑न जरि॒तार॑मङ्ग्धि।
इन्द्रः॑ शु॒नाव॒द्वित॑नोति॒ सीरम्᳚।
सं॒व॒थ्स॒रस्य॑ प्रति॒माण॑मे॒तत्।
अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठम्᳚।
सं॒व॒थ्स॒रꣳ शु॒नव॒थ्सीर॑मे॒तत्।
इन्द्र॑स्य॒ राधः॒ प्रय॑तं पु॒रु त्मना᳚।
तद॑र्करू॒पं वि॒मिमा॑नमेति।
द्वाद॑शारे॒ प्रति॑ तिष्ठ॒तीद्वृषा᳚।
अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः।
हवा॑महे॒ त्वोप॑गन्त॒वा उ॑।
आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम्।
व॒यमि॑न्द्र त्वा शु॒नꣳ हु॑वेम॥४५॥
अनुवाक 1
स्वा॒द्वीं त्वा᳚ स्वा॒दुना᳚।
ती॒व्रां ती॒व्रेण॑।
अ॒मृता॑म॒मृते॑न।
मधु॑मतीं॒ मधु॑मता।
सृ॒जामि॒ सꣳ सोमे॑न।
सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व।
सर॑स्वत्यै पच्यस्व।
इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व।
परी॒तो षि॑ञ्चता सु॒तम्।
सोमो॒ य उ॑त्त॒मꣳ ह॒विः॥१॥
द॒ध॒न्वा यो नर्यो॑ अ॒फ्स्व॑न्तरा।
सु॒षाव॒ सोम॒मद्रि॑भिः।
पु॒नातु॑ ते परि॒स्रुतम्᳚।
सोम॒ꣳ॒ सूर्य॑स्य दुहि॒ता।
वारे॑ण॒ शश्व॑ता॒ तना᳚।
वा॒युः पू॒तः प॒वित्रे॑ण।
प्राङ्ख्सोमो॒ अति॑द्रुतः।
इन्द्र॑स्य॒ युज्यः॒ सखा᳚।
वा॒युः पू॒तः प॒वित्रे॑ण।
प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः॥२॥
इन्द्र॑स्य॒ युज्यः॒ सखा᳚।
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यम्।
सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य।
शु॒क्रेण॑ देव दे॒वताः᳚ पिपृग्धि।
रसे॒नान्नं॒ यज॑मानाय धेहि।
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चित्।
यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑।
इ॒हेहै॑षां कृणुत॒ भोज॑नानि।
ये ब॒र्॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वा॒ जुष्टं॑ गृह्णामि॥३॥
सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे᳚।
ए॒ष ते॒ योनि॒स्तेज॑से त्वा।
वी॒र्या॑य त्वा॒ बला॑य त्वा।
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि।
वी॒र्य॑मसि वी॒र्यं॑ मयि॑ धेहि।
बल॑मसि॒ बलं॒ मयि॑ धेहि।
नाना॒ हि वां᳚ दे॒वहि॑त॒ꣳ॒ सदः॑ कृ॒तम्।
मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन्।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः।
मा मा॑ हिꣳसीः॒ स्वां योनि॑मावि॒शन्॥४॥
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑।
सा॒र॒स्व॒तं वी॒र्यम्᳚।
ऐ॒न्द्रं बलम्᳚।
ए॒ष ते॒ योनि॒र्मोदा॑य त्वा।
आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा।
ओजो॒ऽस्योजो॒ मयि॑ धेहि।
म॒न्युर॑सि म॒न्युं मयि॑ धेहि।
महो॑ऽसि॒ महो॒ मयि॑ धेहि।
सहो॑ऽसि॒ सहो॒ मयि॑ धेहि।
या व्या॒घ्रं विषू॑चिका।
उ॒भौ वृकं॑ च॒ रक्ष॑ति।
श्ये॒नं प॑त॒त्रिणꣳ॑ सि॒ꣳ॒हम्।
सेमं पा॒त्वꣳह॑सः।
स॒म्पृचः॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त।
वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त॥५॥
अनुवाक 2
सोमो॒ राजा॒ऽमृतꣳ॑ सु॒तः।
ऋ॒जी॒षेणा॑जहान्मृ॒त्युम्।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
विपानꣳ॑ शु॒क्रमन्ध॑सः।
इन्द्र॑स्येन्द्रि॒यम्।
इ॒दं पयो॒ऽमृतं॒ मधु॑।
सोम॑म॒द्भ्यो व्य॑पिबत्।
छन्द॑सा ह॒ꣳ॒सः शु॑चि॒षत्।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
अ॒द्भ्यः क्षी॒रं व्य॑पिबत्॥६॥
क्रुङ्ङा᳚ङ्गिर॒सो धि॒या।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
अन्ना᳚त्परि॒स्रुतो॒ रसम्᳚।
ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रम्।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
रेतो॒ मूत्रं॒ विज॑हाति।
योनिं॑ प्रवि॒शदि॑न्द्रि॒यम्।
गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः।
उल्बं॑ जहाति॒ जन्म॑ना।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्॥७॥
वेदे॑न रू॒पे व्य॑करोत्।
स॒ता॒स॒ती प्र॒जाप॑तिः।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
सोमे॑न॒ सोमौ॒ व्य॑पिबत्।
सु॒ता॒सु॒तौ प्र॒जाप॑तिः।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
दृ॒ष्ट्वा रू॒पे व्याक॑रोत्।
स॒त्या॒नृ॒ते प्र॒जाप॑तिः।
अश्र॑द्धा॒मनृ॒तेऽद॑धात्।
श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिः।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रसम्᳚।
शु॒क्रेण॑ शु॒क्रं व्य॑पिबत्।
पयः॒ सोमं॑ प्र॒जाप॑तिः।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्।
विपानꣳ॑ शु॒क्रमन्ध॑सः।
इन्द्र॑स्येन्द्रि॒यम्।
इ॒दं पयो॒ऽमृतं॒ मधु॑॥८॥
अनुवाक 3
सुरा॑वन्तं बर्हि॒षदꣳ॑ सु॒वीरम्᳚।
य॒ज्ञꣳ हि॑न्वन्ति महि॒षा नमो॑भिः।
दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु।
मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः।
यस्ते॒ रसः॒ सम्भृ॑त॒ ओष॑धीषु।
सोम॑स्य॒ शुष्मः॒ सुर॑या सु॒तस्य॑।
तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न।
सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम्।
यम॒श्विना॒ नमु॑चेरासु॒रादधि॑।
सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑॥९॥
इ॒मन्तꣳ शु॒क्रं मधु॑मन्त॒मिन्दुम्᳚।
सोम॒ꣳ॒ राजा॑नमि॒ह भ॑क्षयामि।
यदत्र॑ रि॒प्तꣳ र॒सिनः॑ सु॒तस्य॑।
यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः।
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑।
सोम॒ꣳ॒ राजा॑नमि॒ह भ॑क्षयामि।
पि॒तृभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑।
पि॒ता॒म॒हेभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑।
प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑।
अक्ष॑न्पि॒तरः॑॥१०॥
अमी॑मदन्त पि॒तरः॑।
अती॑तृपन्त पि॒तरः॑।
अमी॑मृजन्त पि॒तरः॑।
पित॑रः॒ शुन्ध॑ध्वम्।
पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑।
पु॒नन्तु॑ मा पिताम॒हाः।
पु॒नन्तु॒ प्रपि॑तामहाः।
प॒वित्रे॑ण श॒तायु॑षा।
पु॒नन्तु॑ मा पिताम॒हाः।
पु॒नन्तु॒ प्रपि॑तामहाः॥११॥
प॒वित्रे॑ण श॒तायु॑षा।
विश्व॒मायु॒र्व्य॑श्ञवै।
अग्न॒ आयूꣳ॑षि पव॒सेऽग्ने॒ पव॑स्व।
पव॑मानः॒ सुव॒र्जनः॑ पु॒नन्तु॑ मा देवज॒नाः।
जात॑वेदः प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑।
उ॒भाभ्यां᳚ देव सवितर्वैश्वदे॒वी पु॑न॒ती।
ये स॑मा॒नाः सम॑नसः।
पि॒तरो॑ यम॒राज्ये᳚।
तेषां᳚ लो॒कः स्व॒धा नमः॑।
य॒ज्ञो दे॒वेषु॑ कल्पताम्॥१२॥
ये स॑जा॒ताः सम॑नसः।
जी॒वा जी॒वेषु॑ माम॒काः।
तेषा॒ꣴ॒ श्रीर्मयि॑ कल्पताम्।
अ॒स्मिँल्लो॒के श॒तꣳ समाः᳚।
द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम्।
अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम्।
याभ्या॑मि॒दं विश्व॒मेज॒थ्समे॑ति।
यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च।
इ॒दꣳ ह॒विः प्र॒जन॑नं मे अस्तु।
दश॑वीरꣳ स॒र्वग॑णꣴ स्व॒स्तये᳚।
आ॒त्म॒सनि॑ प्रजा॒सनि॑।
प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑।
अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करोतु।
अन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त।
रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒थ्स्वाहा᳚॥१३॥
अनुवाक 4
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिणः॑।
ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति।
अ॒श्विना॑ य॒ज्ञꣳ स॑वि॒ता सर॑स्वती।
इन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन्।
तद॑स्य रू॒पम॒मृत॒ꣳ॒ शची॑भिः।
ति॒स्रोऽद॑धुर्दे॒वताः᳚ सꣳररा॒णाः।
लोमा॑नि॒ शष्पै᳚र्बहु॒धा न तोक्म॑भिः।
त्वग॑स्य मा॒ꣳ॒सम॑भव॒न्न ला॒जाः।
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी।
सर॑स्वती वयति॒ पेशो॒ अन्त॑रः॥१४॥
अस्थि॑ म॒ज्जानं॒ मास॑रैः।
का॒रो॒त॒रेण॒ दध॑तो॒ गवां᳚ त्व॒चि।
सर॑स्वती॒ मन॑सा पेश॒लं वसु॑।
नास॑त्याभ्यां वयति दर्श॒तं वपुः॑।
रसं॑ परि॒स्रुता॒ न रोहि॑तम्।
न॒ग्नहु॒र्धीर॒स्तस॑र॒न्न वेम॑।
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्रम्᳚।
सुर॑या॒ मूत्रा᳚ज्जनयन्ति॒ रेतः॑।
अपाम॑तिं दुर्म॒तिं बाध॑मानाः।
ऊव॑ध्यं॒ वातꣳ॑ स॒बुव॒न्तदा॒रात्॥१५॥
इन्द्रः॑ सु॒त्रामा॒ हृद॑येन स॒त्यम्।
पु॒रो॒डाशे॑न सवि॒ता ज॑जान।
यकृ॑त्क्लो॒मानं॒ वरु॑णो भिष॒ज्यन्।
मत॑स्ने वाय॒व्यै᳚र्न मि॑नाति पि॒त्तम्।
आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना।
गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः।
श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिः।
आ॒स॒न्दी नाभि॑रु॒दरं॒ न मा॒ता।
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः।
यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ अ॒न्तः॥१६॥
प्ला॒शीर्व्य॑क्तः श॒तधा॑र॒ उथ्सः॑।
दु॒हे न कु॒म्भीꣴ स्व॒धां पि॒तृभ्यः॑।
मुख॒ꣳ॒ सद॑स्य॒ शिर॒ इथ्सदे॑न।
जि॒ह्वा प॒वित्र॑म॒श्विना॒ सꣳ सर॑स्वती।
चप्प॒न्न पा॒युर्भि॒षग॑स्य॒ वालः॑।
व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी।
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा᳚भ्याम्।
छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑।
पक्ष्मा॑णि गो॒धूमैः॒ क्व॑लैरु॒तानि॑।
पेशो॒ न शु॒क्लमसि॑तं वसाते॥१७॥
अवि॒र्न मे॒षो न॒सि वी॒र्या॑य।
प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा᳚भ्याम्।
सर॑स्व॒त्युप॒वाकै᳚र्व्या॒नम्।
नस्या॑नि ब॒र्॒हिर्बद॑रैर्जजान।
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य।
कर्णा᳚भ्या॒ꣴ॒ श्रोत्र॑म॒मृतं॒ ग्रहा᳚भ्याम्।
यवा॒ न ब॒र्॒हिर्भ्रु॒वि केस॑राणि।
क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा᳚त्।
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑।
मुखे॒ श्मश्रू॑णि॒ न व्या᳚घ्रलो॒मम्॥१८॥
केशा॒ न शी॒र्॒षन् यश॑से श्रि॒यै शिखा᳚।
सि॒ꣳ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑।
अङ्गा᳚न्या॒त्मन्भि॒षजा॒ तद॒श्विना᳚।
आ॒त्मान॒मङ्गैः॒ सम॑धा॒थ्सर॑स्वती।
इन्द्र॑स्य रू॒पꣳ श॒तमा॑न॒मायुः॑।
च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑ना।
सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तः।
अ॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति।
अ॒पाꣳ रसे॑न॒ वरु॑णो॒ न साम्ना᳚।
इन्द्रꣴ॑ श्रि॒यै ज॒नय॑न्न॒फ्सु राजा᳚।
तेजः॑ पशू॒नाꣳ ह॒विरि॑न्द्रि॒याव॑त्।
प॒रि॒स्रुता॒ पय॑सा सार॒घं मधु॑।
अ॒श्विभ्यां᳚ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या᳚म्।
अ॒मृतः॒ सोम॒ इन्दुः॑॥१९॥
अनुवाक 5
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि।
सम॒हं विश्वै᳚र्दे॒वैः।
क्ष॒त्रस्य॒ नाभि॑रसि।
क्ष॒त्रस्य॒ योनि॑रसि।
स्यो॒नामा सी॑द।
सु॒षदा॒मा सी॑द।
मा त्वा॑ हिꣳसीत्।
मा मा॑ हिꣳसीत्।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः।
प॒स्त्या᳚स्वा॥२०॥
साम्रा᳚ज्याय सु॒क्रतुः॑।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म्।
पू॒ष्णो हस्ता᳚भ्याम्।
अ॒श्विनो॒र्भैष॑ज्येन।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म्।
पू॒ष्णो हस्ता᳚भ्याम्।
सर॑स्वत्यै॒ भैष॑ज्येन॥२१॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म्।
पू॒ष्णो हस्ता᳚भ्याम्।
इन्द्र॑स्येन्द्रि॒येण॑।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि।
को॑ऽसि कत॒मो॑ऽसि।
कस्मै᳚ त्वा॒ काय॑ त्वा।
सुश्लो॒काँ(४) सुम॑ङ्ग॒लाँ(४) सत्य॑रा॒जा(३)न्।
शिरो॑ मे॒ श्रीः॥२२॥
यशो॒ मुखम्᳚।
त्विषिः॒ केशा᳚श्च॒ श्मश्रू॑णि।
राजा॑ मे प्रा॒णो॑ऽमृतम्᳚।
स॒म्राट्चक्षुः॑।
वि॒राट्छ्रोत्रम्᳚।
जि॒ह्वा मे॑ भ॒द्रम्।
वाङ्महः॑।
मनो॑ म॒न्युः।
स्व॒राड्भामः॑।
मोदाः᳚ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि॥२३॥
चि॒त्तं मे॒ सहः॑।
बा॒हू मे॒ बल॑मिन्द्रि॒यम्।
हस्तौ॑ मे॒ कर्म॑ वी॒र्यम्᳚।
आ॒त्मा क्ष॒त्रमुरो॒ मम॑।
पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मꣳसौ᳚।
ग्री॒वाश्च॒ श्रोण्यौ᳚।
ऊ॒रू अ॑र॒त्नी जानु॑नी।
विशो॒ मेऽङ्गा॑नि स॒र्वतः॑।
नाभि॑र्मे चि॒त्तं वि॒ज्ञानम्᳚।
पा॒युर्मेऽप॑चितिर्भ॒सत्॥२४॥
आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे᳚।
भगः॒ सौभा᳚ग्यं॒ पसः॑।
जङ्घा᳚भ्यां प॒द्भ्यां धर्मो᳚ऽस्मि।
वि॒शि राजा॒ प्रति॑ष्ठितः।
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे।
प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑।
प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन्।
प्रति॑ प्रा॒णेषु॒ प्रति॑ तिष्ठामि पु॒ष्टे।
प्रति॒ द्यावा॑पृथि॒व्योः।
प्रति॑ तिष्ठामि य॒ज्ञे॥२५॥
त्र॒या दे॒वा एका॑दश।
त्र॒य॒स्त्रि॒ꣳ॒शाः सु॒राध॑सः।
बृह॒स्पति॑पुरोहिताः।
दे॒वस्य॑ सवि॒तुः स॒वे।
दे॒वा दे॒वैर॑वन्तु मा।
प्र॒थ॒मा द्वि॒तीयैः᳚।
द्वि॒तीया᳚स्तृ॒तीयैः᳚।
तृ॒तीयाः᳚ स॒त्येन॑।
स॒त्यं य॒ज्ञेन॑।
य॒ज्ञो यजु॑र्भिः॥२६॥
यजूꣳ॑षि॒ साम॑भिः।
सामा᳚न्यृ॒ग्भिः।
ऋचो॑ या॒ज्या॑भिः।
या॒ज्या॑ वषट्का॒रैः।
व॒ष॒ट्का॒रा आहु॑तिभिः।
आहु॑तयो मे॒ कामा॒न्थ्सम॑र्धयन्तु।
भूः स्वाहा᳚।
लोमा॑नि॒ प्रय॑ति॒र्मम॑।
त्वङ्म॒ आन॑ति॒राग॑तिः।
मा॒ꣳ॒सं म॒ उप॑नतिः।
वस्वस्थि॑।
म॒ज्जा म॒ आन॑तिः॥२७॥
अनुवाक 6
यद्दे॑वा देव॒हेड॑नम्।
देवा॑सश्चकृ॒मा व॒यम्।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः।
विश्वा᳚न्मुञ्च॒त्वꣳह॑सः।
यदि॒ दिवा॒ यदि॒ नक्तम्᳚।
एनाꣳ॑सि चकृ॒मा व॒यम्।
वा॒युर्मा॒ तस्मा॒देन॑सः।
विश्वा᳚न्मुञ्च॒त्वꣳह॑सः।
यदि॒ जाग्र॒द्यदि॒ स्वप्ने᳚।
एनाꣳ॑सि चकृ॒मा व॒यम्॥२८॥
सूर्यो॑ मा॒ तस्मा॒देन॑सः।
विश्वा᳚न्मुञ्च॒त्वꣳह॑सः।
यद्ग्रामे॒ यदर॑ण्ये।
यथ्स॒भायां॒ यदि॑न्द्रि॒ये।
यच्छू॒द्रे यद॒र्ये᳚।
एन॑श्चकृ॒मा व॒यम्।
यदेक॒स्याधि॒ धर्म॑णि।
तस्या॑व॒यज॑नमसि।
यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे।
ततो॑ वरुण नो मुञ्च॥२९॥
अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट्।
अव॒ मर्त्यै॒र्मर्त्य॑कृतम्।
उ॒रोरा नो॑ देव रि॒षस्पा॑हि।
सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु।
दु॒र्मि॒त्रास्तस्मै॑ भूयासुः।
यो᳚ऽस्मान्द्वेष्टि॑।
यं च॑ व॒यं द्वि॒ष्मः।
द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः।
स्वि॒न्नः स्ना॒त्वी मला॑दिव॥३०॥
पू॒तं प॒वित्रे॑णे॒वाऽऽज्यम्᳚।
आपः॑ शुन्धन्तु॒ मैन॑सः।
उद्व॒यं तम॑स॒स्परि॑।
पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्।
दे॒वं दे॑व॒त्रा सूर्यम्᳚।
अग॑न्म॒ ज्योति॑रुत्त॒मम्।
प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑।
प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑।
एधो᳚ऽस्येधिषी॒महि॑।
स॒मिद॑सि॥३१॥
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि।
अ॒पो अन्व॑चारिषम्।
रसे॑न॒ सम॑सृक्ष्महि।
पय॑स्वाꣳ अग्न॒ आग॑मम्।
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा।
प्र॒जया॑ च॒ धने॑न च।
स॒माव॑वर्ति पृथि॒वी।
समु॒षाः।
समु॒ सूर्यः॑।
समु॒ विश्व॑मि॒दं जग॑त्।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासम्।
वि॒भुं कामं॒ व्य॑श्ञवै।
भूः स्वाहा᳚॥३२॥
अनुवाक 7
होता॑ यक्षथ्स॒मिधेन्द्र॑मि॒डस्प॒दे।
नाभा॑ पृथि॒व्या अधि॑।
दि॒वो वर्ष्म॒न्थ्समि॑ध्यते।
ओजि॑ष्ठश्चर्षणी॒ सहान्॑।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒त्तनू॒नपा॑तम्।
ऊ॒तिभि॒र्जेता॑र॒मप॑राजितम्।
इन्द्रं॑ दे॒वꣳ सु॑व॒र्विदम्᳚।
प॒थिभि॒र्मधु॑मत्तमैः।
नरा॒शꣳसे॑न॒ तेज॑सा॥३३॥
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तम्।
आ॒जुह्वा॑न॒मम॑र्त्यम्।
दे॒वो दे॒वैः सवी᳚र्यः।
वज्र॑हस्तः पुरन्द॒रः।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑यक्षद्ब॒र्॒हिषीन्द्र॑न्निषद्व॒रम्।
वृ॒ष॒भं नर्या॑पसम्।
वसु॑भीरु॒द्रैरा॑दि॒त्यैः।
स॒युग्भि॑र्ब॒र्॒हिरास॑दत्॥३४॥
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒दोजो॒ न वी॒र्यम्᳚।
सहो॒ द्वार॒ इन्द्र॑मवर्धयन्।
सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑।
द्वार॒ इन्द्रा॑य मी॒ढुषे᳚।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू।
सु॒दुघे॑ मा॒तरौ॑ म॒ही।
सवा॒तरौ॒ न तेज॑सी।
व॒थ्समिन्द्र॑मवर्धताम्॥३५॥
वी॒तामाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा।
भि॒षजा॒ सखा॑या।
ह॒विषेन्द्रं॑ भिषज्यतः।
क॒वी दे॒वौ प्रचे॑तसौ।
इन्द्रा॑य धत्त इन्द्रि॒यम्।
वी॒तामाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षत्ति॒स्रो दे॒वीः।
त्रय॑स्त्रि॒धात॑वो॒पसः॑।
इडा॒ सर॑स्वती॒ भार॑ती॥३६॥
म॒हीन्द्र॑पत्नीर्ह॒विष्म॑तीः।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वम्।
भि॒षजꣳ॑ सु॒यजं॑ घृत॒श्रियम्᳚।
पु॒रु॒रूपꣳ॑ सु॒रेत॑सं म॒घोनिम्᳚।
इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒द्वन॒स्पतिम्᳚।
श॒मि॒तारꣳ॑ श॒तक्र॑तुम्।
धि॒यो जो॒ष्टार॑मिन्द्रि॒यम्॥३७॥
मध्वा॑ सम॒ञ्जन्प॒थिभिः॑ सु॒गेभिः॑।
स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒दिन्द्र॒ꣴ॒ स्वाहाऽऽज्य॑स्य।
स्वाहा॒ मेद॑सः।
स्वाहा᳚ स्तो॒काना᳚म्।
स्वाहा॒ स्वाहा॑कृतीनाम्।
स्वाहा॑ ह॒व्यसू᳚क्तीनाम्।
स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान्।
स्वाहेन्द्रꣳ॑ हो॒त्राज्जु॑षा॒णाः।
इन्द्र॒ आज्य॑स्य वियन्तु।
होत॒र्यज॑॥३८॥
अनुवाक 8
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के।
पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः।
त्रि॒भिर्दे॒वैस्त्रि॒ꣳ॒शता॒ वज्र॑बाहुः।
ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार।
नरा॒शꣳसः॒ प्रति॒शूरो॒ मिमा॑नः।
तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑।
गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन्।
हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः।
ई॒डि॒तो दे॒वैर्हरि॑वाꣳ अभि॒ष्टिः।
आ॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः॥३९॥
पु॒र॒न्द॒रो म॒घवा॒न्॒ वज्र॑बाहुः।
आया॑तु य॒ज्ञमुप॑नो जुषा॒णः।
जु॒षा॒णो ब॒र्॒हिर्हरि॑वान्न॒ इन्द्रः॑।
प्रा॒चीनꣳ॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः।
उ॒रु॒व्यचाः॒ प्रथ॑मानꣴ स्यो॒नम्।
आ॒दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः᳚।
इन्द्रं॒ दुरः॑ कव॒ष्यो॑ धाव॑मानाः।
वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः᳚।
द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम्।
सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः॥४०॥
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तम्᳚।
पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्रम्᳚।
पेश॑स्वती॒ तन्तु॑ना सं॒व्यय॑न्ती।
दे॒वानां᳚ दे॒वं य॑जतः सुरु॒क्मे।
दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा।
होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा᳚।
मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना।
प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः।
ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑मानाः।
इन्द्रं॑ जुषा॒णा वृष॑णं॒ न पत्नीः᳚॥४१॥
अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्वती।
इडा॑ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः।
त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्मम्᳚।
अपा॒कोचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑।
वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेताः।
मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान्।
वन॒स्पति॒रव॑सृष्टो॒ न पाशैः᳚।
त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः।
इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः।
स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑।
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रः॑।
वृ॒षा॒यमा॑णो वृष॒भस्तु॑रा॒षाट्।
घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन्।
मू॒र्धन् य॒ज्ञस्य॑ जुषता॒ꣴ॒ स्वाहा᳚॥४२॥
अनुवाक 9
आच॑र्षणि॒प्रा वि॒वेष॒ यन्मा᳚।
तꣳ स॒ध्रीचीः᳚।
स॒त्यमित्तन्न त्वावाꣳ॑ अ॒न्यो अस्ति॑।
इन्द्र॑ दे॒वो न मर्त्यो॒ ज्यायान्॑।
अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॑।
अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम्।
प्रस॑साहिषे पुरुहूत॒ शत्रून्॑।
ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु।
इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि।
पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम्।
स शेवृ॑ध॒मधि॑ धाद्द्यु॒म्नम॒स्मे।
महि॑ क्ष॒त्रं ज॑ना॒षाडि॑न्द्र॒ तव्यम्᳚।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्।
रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः᳚॥४३॥
अनुवाक 10
दे॒वं ब॒र्॒हिरिन्द्रꣳ॑ सुदे॒वं दे॒वैः।
वी॒रव॑थ्स्ती॒र्णं वेद्या॑मवर्धयत्।
वस्तो᳚र्वृ॒तं प्राक्तो᳚र्भृ॒तम्।
रा॒या ब॒र्॒हिष्म॒तोऽत्य॑गात्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑।
दे॒वीर्द्वार॒ इन्द्रꣳ॑ सङ्घा॒ते।
वि॒ड्वीर्याम॑न्नवर्धयन्।
आ व॒थ्सेन॒ तरु॑णेन कुमा॒रेण॑ चमीवि॒ता अपार्वा॑णम्।
रे॒णुक॑काटं नुदन्ताम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥४४॥
दे॒वी उ॒षासा॒नक्ता᳚।
इन्द्रं॑ य॒ज्ञे प्र॑य॒त्य॑ह्वेताम्।
दैवी॒र्विशः॒ प्राया॑सिष्टाम्।
सुप्री॑ते॒ सुधि॑ते अभूताम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑।
दे॒वी जोष्ट्री॒ वसु॑धिती।
दे॒वमिन्द्र॑मवर्धताम्।
अया᳚व्य॒न्याघा द्वेषाꣳ॑सि।
आन्यावा᳚क्षी॒द्वसु॒ वार्या॑णि।
यज॑मानाय शिक्षि॒ते॥४५॥
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚।
पय॒सेन्द्र॑मवर्धताम्।
इष॒मूर्ज॑म॒न्याऽवा᳚क्षीत्।
सग्धि॒ꣳ॒ सपी॑तिम॒न्या।
नवे॑न॒ पूर्वं॒ दय॑माने।
पु॒रा॒णेन॒ नवम्᳚।
अधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि।
यज॑मानाय शिक्षि॒ते।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑॥४६॥
दे॒वा दैव्या॒ होता॑रा।
दे॒वमिन्द्र॑मवर्धताम्।
ह॒ताघ॑शꣳसा॒वाभा᳚र्ष्टां॒ वसु॒वार्या॑णि।
यज॑मानाय शिक्षि॒तौ।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः।
पति॒मिन्द्र॑मवर्धयन्।
अस्पृ॑क्ष॒द्भार॑ती॒ दिवम्᳚।
रु॒द्रैर्य॒ज्ञꣳ सर॑स्वती।
इडा॒ वसु॑मती गृ॒हान्॥४७॥
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒व इन्द्रो॒ नरा॒शꣳसः॑।
त्रि॒व॒रू॒थस्त्रि॑वन्धु॒रः।
दे॒वमिन्द्र॑मवर्धयत्।
श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः।
स॒हस्रे॑ण॒ प्रव॑र्तते।
मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तः।
बृह॒स्पतिः॑ स्तो॒त्रम्।
अ॒श्विनाऽऽध्व॑र्यवम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥४८॥
दे॒व इन्द्रो॒ वन॒स्पतिः॑।
हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लः।
दे॒वमिन्द्र॑मवर्धयत्।
दिव॒मग्रे॑णाप्रात्।
आऽन्तरि॑क्षं पृथि॒वीम॑दृꣳहीत्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑।
दे॒वं ब॒र्॒हिर्वारि॑तीनाम्।
दे॒वमिन्द्र॑मवर्धयत्।
स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम्।
अ॒न्या ब॒र्॒हीꣴष्य॒भ्य॑भूत्।
व॒सु॒वने॑ वसु॒धेयस्य॑ वेतु॒ यज॑।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत्।
दे॒वमिन्द्र॑मवर्धयत्।
स्वि॑ष्टं कु॒र्वन्थ्स्वि॑ष्ट॒कृत्।
स्वि॑ष्टम॒द्य क॑रोतु नः।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥४९॥
अनुवाक 11
होता॑ यक्षथ्स॒मिधा॒ऽग्निमि॒डस्प॒दे।
अ॒श्विनेन्द्र॒ꣳ॒ सर॑स्वतीम्।
अ॒जो धू॒म्रो न गो॒धूमैः॒ क्व॑लैर्भेष॒जम्।
मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒त्तनू॒नपा॒थ्सर॑स्वती।
अवि॑र्मे॒षो न भे॑ष॒जम्।
प॒था मधु॑म॒ताभ॑रन्।
अ॒श्विनेन्द्रा॑य वी॒र्यम्᳚॥५०॥
बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षं॒ नरा॒शꣳसं॒ न न॒ग्नहुम्᳚।
पति॒ꣳ॒ सुरा॑यै भेष॒जम्।
मे॒षः सर॑स्वती भि॒षक्।
रथो॒ न च॒न्द्र्य॑श्विनो᳚र्व॒पा इन्द्र॑स्य वी॒र्यम्᳚।
बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑॥५१॥
होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑नः॒ सर॑स्वतीम्।
इन्द्रं॒ बले॑न व॒र्धयन्॑।
ऋ॒ष॒भेण॒ गवे᳚न्द्रि॒यम्।
अ॒श्विनेन्द्रा॑य वी॒र्यम्᳚।
यवैः᳚ क॒र्कन्धु॑भिः।
मधु॑ ला॒जैर्न मास॑रम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षद्ब॒र्॒हिः सु॒ष्टरी॒मोर्ण॑म्रदाः।
भि॒षङ्नास॑त्या॥५२॥
भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती।
भि॒षग्धे॒नुः सर॑स्वती।
भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒द्दुरो॒ दिशः॑।
क॒व॒ष्यो॑ न व्यच॑स्वतीः।
अ॒श्विभ्यां॒ न दुरो॒ दिशः॑।
इन्द्रो॒ न रोद॑सी॒ दुघे᳚।
दु॒हे कामा॒न्थ्सर॑स्वती॥५३॥
अ॒श्विनेन्द्रा॑य भेष॒जम्।
शु॒क्रं न ज्योति॑रिन्द्रि॒यम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षथ्सु॒पेश॑सो॒षे नक्तं॒ दिवा᳚।
अ॒श्विना॑ सञ्जाना॒ने।
समं॑ जाते॒ सर॑स्वत्या।
त्विषि॒मिन्द्रे॒ न भे॑ष॒जम्।
श्ये॒नो न रज॑सा हृ॒दा।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑॥५४॥
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विना᳚।
इन्द्रं॒ न जागृ॑वी॒ दिवा॒ नक्तं॒ न भे॑ष॒जैः।
शूष॒ꣳ॒ सर॑स्वती भि॒षक्।
सीसे॑न दुह इन्द्रि॒यम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जम्।
त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑।
रू॒पमिन्द्रे॑ हिर॒ण्ययम्᳚॥५५॥
अ॒श्विनेडा॒ न भार॑ती।
वा॒चा सर॑स्वती।
मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्र॑म॒श्विना᳚।
भि॒षजं॒ न सर॑स्वतीम्।
ओजो॒ न जू॒तिरि॑न्द्रि॒यम्।
वृको॒ न र॑भ॒सो भि॒षक्।
यशः॒ सुर॑या भेष॒जम्॥५६॥
श्रि॒या न मास॑रम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒द्वन॒स्पतिम्᳚।
श॒मि॒तारꣳ॑ श॒तक्र॑तुम्।
भी॒मं न म॒न्युꣳ राजा॑नं व्या॒घ्रं नम॑सा॒ऽश्विना॒ भामम्᳚।
सर॑स्वती भि॒षक्।
इन्द्रा॑य दुह इन्द्रि॒यम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑॥५७॥
होता॑ यक्षद॒ग्निꣴ स्वाहाऽऽज्य॑स्य स्तो॒काना᳚म्।
स्वाहा॒ मेद॑सां॒ पृथ॑क्।
स्वाहा॒ छाग॑म॒श्विभ्या᳚म्।
स्वाहा॑ मे॒षꣳ सर॑स्वत्यै।
स्वाह॑र्ष॒भमिन्द्रा॑य सि॒ꣳ॒हाय॒ सह॑सेन्द्रि॒यम्।
स्वाहा॒ऽग्निं न भे॑ष॒जम्।
स्वाहा॒ सोम॑मिन्द्रि॒यम्।
स्वाहेन्द्रꣳ॑ सु॒त्रामा॑णꣳ सवि॒तारं॒ वरु॑णं भि॒षजां॒ पतिम्᳚।
स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जम्।
स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान्॥५८॥
स्वाहा॒ऽग्निꣳ हो॒त्राज्जु॑षा॒णो अ॒ग्निर्भे॑ष॒जम्।
पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑।
वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षद॒श्विना॒ सर॑स्वती॒मिन्द्रꣳ॑ सु॒त्रामा॑णम्।
इ॒मे सोमाः᳚ सु॒रामा॑णः।
छागै॒र्न मे॒षैर्ऋ॑ष॒भैः सु॒ताः।
शष्पै॒र्न तोक्म॑भिः।
ला॒जैर्मह॑स्वन्तः।
मदा॒ मास॑रेण॒ परि॑ष्कृताः।
शु॒क्राः पय॑स्वन्तो॒ऽमृताः᳚।
प्रस्थि॑ता वो मधु॒श्चुतः॑।
तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा।
जु॒षन्ताꣳ॑ सौ॒म्यं मधु॑।
पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोमम्᳚।
होत॒र्यज॑॥५९॥
अनुवाक 12
समि॑द्धो अ॒ग्निर॑श्विना।
त॒प्तो घ॒र्मो वि॒राट्थ्सु॒तः।
दु॒हे धे॒नुः सर॑स्वती।
सोमꣳ॑ शु॒क्रमि॒हेन्द्रि॒यम्।
त॒नू॒पा भि॒षजा॑ सु॒ते।
अ॒श्विनो॒भा सर॑स्वती।
मध्वा॒ रजाꣳ॑सीन्द्रि॒यम्।
इन्द्रा॑य प॒थिभि॑र्वहान्।
इन्द्रा॒येन्दु॒ꣳ॒ सर॑स्वती।
नरा॒शꣳसे॑न न॒ग्नहुः॑॥६०॥
अधा॑ताम॒श्विना॒ मधु॑।
भे॒ष॒जं भि॒षजा॑ सु॒ते।
आ॒जुह्वा॑ना॒ सर॑स्वती।
इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्यम्᳚।
इडा॑भिरश्विना॒विषम्᳚।
समूर्ज॒ꣳ॒ सꣳ र॒यिं द॑धुः।
अश्वि॑ना॒ नमु॑चेः सु॒तम्।
सोमꣳ॑ शु॒क्रं प॑रि॒स्रुता᳚।
सर॑स्वती॒ तमाभ॑रत्।
ब॒र्॒हिषेन्द्रा॑य॒ पात॑वे॥६१॥
क॒व॒ष्यो॑ न व्यच॑स्वतीः।
अ॒श्विभ्यां॒ न दुरो॒ दिशः॑।
इन्द्रो॒ न रोद॑सी॒ दुघे᳚।
दु॒हे कामा॒न्थ्सर॑स्वती।
उ॒षासा॒ नक्त॑मश्विना।
दिवेन्द्रꣳ॑ सा॒यमि॑न्द्रि॒यैः।
स॒ञ्जा॒ना॒ने सु॒पेश॑सा।
समं॑ जाते॒ सर॑स्वत्या।
पा॒तं नो॑ अश्विना॒ दिवा᳚।
पा॒हि नक्तꣳ॑ सरस्वति॥६२॥
दैव्या॑ होतारा भिषजा।
पा॒तमिन्द्र॒ꣳ॒ सचा॑ सु॒ते।
ति॒स्रस्त्रे॒धा सर॑स्वती।
अ॒श्विना॒ भार॒तीडा᳚।
ती॒व्रं प॑रि॒स्रुता॒ सोमम्᳚।
इन्द्रा॑य सुषवु॒र्मदम्᳚।
अश्वि॑ना भेष॒जं मधु॑।
भे॒ष॒जं नः॒ सर॑स्वती।
इन्द्रे॒ त्वष्टा॒ यशः॒ श्रियम्᳚।
रू॒पꣳ रू॑पमधुः सु॒ते।
ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑।
श॒श॒मा॒नः प॑रि॒स्रुता᳚।
की॒लाल॑म॒श्विभ्यां॒ मधु॑।
दु॒हे धे॒नुः सर॑स्वती।
गोभि॒र्न सोम॑मश्विना।
मास॑रेण परि॒ष्कृता᳚।
सम॑धाता॒ꣳ॒ सर॑स्वत्या।
स्वाहेन्द्रे॑ सु॒तं मधु॑॥६३॥
अनुवाक 13
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम्।
नमु॑चेर्धि॒या सर॑स्वती।
आ शु॒क्रमा॑सु॒राद्व॒सु।
म॒घमिन्द्रा॑य जभ्रिरे।
यम॒श्विना॒ सर॑स्वती।
ह॒विषेन्द्र॒मव॑र्धयन्।
स बि॑भेद व॒लं म॒घम्।
नमु॑चावासु॒रे सचा᳚।
तमिन्द्रं॑ प॒शवः॒ सचा᳚।
अ॒श्विनो॒भा सर॑स्वती॥६४॥
दधा॑ना अ॒भ्य॑नूषत।
ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम्।
य इन्द्र॑ इन्द्रि॒यं द॒धुः।
स॒वि॒ता वरु॑णो॒ भगः॑।
स सु॒त्रामा॑ ह॒विष्प॑तिः।
यज॑मानाय सश्चत।
स॒वि॒ता वरु॑णो॒ऽदध॑त्।
यज॑मानाय दा॒शुषे᳚।
आद॑त्त॒ नमु॑चे॒र्वसु॑।
सु॒त्रामा॒ बल॑मिन्द्रि॒यम्॥६५॥
वरु॑णः क्ष॒त्रमि॑न्द्रि॒यम्।
भगे॑न सवि॒ता श्रियम्᳚।
सु॒त्रामा॒ यश॑सा॒ बलम्᳚।
दधा॑ना य॒ज्ञमा॑शत।
अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम्।
अश्वे॑भिर्वी॒र्यं॑ बलम्᳚।
ह॒विषेन्द्र॒ꣳ॒ सर॑स्वती।
यज॑मानमवर्धयन्।
ता नास॑त्या सु॒पेश॑सा।
हिर॑ण्यवर्तनी॒ नरा᳚।
सर॑स्वती ह॒विष्म॑ती।
इन्द्र॒ कर्म॑सु नोऽवत।
ता भि॒षजा॑ सु॒कर्म॑णा।
सा सु॒दुघा॒ सर॑स्वती।
स वृ॑त्र॒हा श॒तक्र॑तुः।
इन्द्रा॑य दधुरिन्द्रि॒यम्॥६६॥
अनुवाक 14
दे॒वं ब॒र्॒हिः सर॑स्वती।
सु॒दे॒वमिन्द्रे॑ अ॒श्विना᳚।
तेजो॒ न चक्षु॑र॒क्ष्योः।
ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒वीर्द्वारो॑ अ॒श्विना᳚।
भि॒षजेन्द्रे॒ सर॑स्वती।
प्रा॒णं न वी॒र्य॑न्न॒सि।
द्वारो॑ दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥६७॥
दे॒वी उ॒षासा॑व॒श्विना᳚।
भि॒षजेन्द्रे॒ सर॑स्वती।
बलं॒ न वाच॑मा॒स्ये᳚।
उ॒षाभ्यां᳚ दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒वी जोष्ट्री॑ अ॒श्विना᳚।
सु॒त्रामेन्द्रे॒ सर॑स्वती।
श्रोत्रं॒ न कर्ण॑यो॒र्यशः॑।
जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥६८॥
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚।
पय॒सेन्द्र॒ꣳ॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑ऽवत।
शु॒क्रं न ज्योतिः॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒वा दे॒वानां᳚ भि॒षजा᳚।
होता॑रा॒विन्द्र॑म॒श्विना᳚।
व॒ष॒ट्का॒रैः सर॑स्वती।
त्विषिं॒ न हृद॑ये म॒तिम्।
होतृ॑भ्यां दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥६९॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः।
सर॑स्वत्य॒श्विना॒ भार॒तीडा᳚।
शूष॒न्न मध्ये॒ नाभ्या᳚म्।
इन्द्रा॑य दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒व इन्द्रो॒ नरा॒शꣳसः॑।
त्रि॒व॒रू॒थः सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑।
रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्रम्᳚।
इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥७०॥
दे॒व इन्द्रो॒ वन॒स्पतिः॑।
हिर॑ण्यपर्णो अ॒श्विभ्याम्᳚।
सर॑स्वत्याः सुपिप्प॒लः।
इन्द्रा॑य पच्यते॒ मधु॑।
ओजो॒ न जू॒तिमृ॑ष॒भो न भामम्᳚।
वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒वं ब॒र्॒हिर्वारि॑तीनाम्।
अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्या᳚म्।
ऊर्ण॑म्रदाः॒ सर॑स्वत्याः॥७१॥
स्यो॒नमि॑न्द्र ते॒ सदः॑।
ई॒शायै॑ म॒न्युꣳ राजा॑नं ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत्।
दे॒वान् य॑क्षद्यथाय॒थम्।
होता॑रा॒विन्द्र॑म॒श्विना᳚।
वा॒चा वाच॒ꣳ॒ सर॑स्वतीम्।
अ॒ग्निꣳ सोमꣴ॑ स्विष्ट॒कृत्।
स्वि॑ष्ट॒ इन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक्।
इ॒ष्टो दे॒वो वन॒स्पतिः॑।
स्वि॑ष्टा दे॒वा आ᳚ज्य॒पाः।
इ॒ष्टो अ॒ग्निर॒ग्निना᳚।
होता॑ हो॒त्रे स्वि॑ष्ट॒कृत्।
यशो॒ न दध॑दिन्द्रि॒यम्।
ऊर्ज॒मप॑चितिꣴ स्व॒धाम्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥७२॥
अनुवाक 15
अ॒ग्निम॒द्य होता॑रमवृणीत।
अ॒यꣳ सु॑तासु॒ती यज॑मानः।
पच॑न्प॒क्तीः।
पच॑न्पुरो॒डाशान्॑।
गृ॒ह्णन्ग्रहान्॑।
ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ꣳ॒ सर॑स्वत्या॒ इन्द्रा॑य।
ब॒ध्नन्थ्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या᳚म्।
ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्या॒ꣳ॒ सर॑स्वत्यै।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत्।
अ॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य॥७३॥
सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या᳚म्।
इन्द्रा॑यर्ष॒भेणा॒श्विभ्या॒ꣳ॒ सर॑स्वत्यै।
अक्ष॒ꣴ॒स्तान्मे॑द॒स्तः प्रति॑पच॒ताग्र॑भीषुः।
अवी॑वृधन्त॒ ग्रहैः᳚।
अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा।
सोमा᳚न्थ्सु॒राम्णः॑।
उपो॑ उक्थाम॒दाः श्रौ॒द्विमदा॑ अदन्।
अवी॑वृधन्ताङ्गू॒षैः।
त्वाम॒द्यर्ष॑ आर्षेयर्षीणां नपादवृणीत।
अ॒यꣳ सु॑तासु॒ती यज॑मानः।
ब॒हुभ्य॒ आ सङ्ग॑तेभ्यः।
ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑।
ता या दे॒वा दे॑व॒दाना॒न्यदुः॑।
तान्य॑स्मा॒ आ च॒ शास्व॑।
आ च॑ गुरस्व।
इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः।
सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि॥७४॥
अनुवाक 16
उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना᳚।
त्वꣳ सो॑म म॒हे भगं॒ त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा।
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ त्वꣳ सो॑म पि॒तृभिः॑ संविदा॒नः।
बर्हि॑षदः पितर॒ आऽहं पि॒तॄन्।
उप॑हूताः पि॒तरोऽग्नि॑ष्वात्ताः पितरः।
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे।
नरा॒शꣳसे॑ सोमपी॒थं य आ॒शुः।
ते नो॒ अर्व॑न्तः सु॒हवा॑ भवन्तु।
शं नो॑ भवन्तु द्वि॒पदे॒ शं चतु॑ष्पदे।
ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः॥७५॥
अ॒ꣳ॒हो॒मुचः॑ पि॒तरः॑ सो॒म्यासः॑।
परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः।
अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान्।
वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाः कर॒म्भम्।
उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च।
अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभिः॑ संविदा॒नाः।
इन्द्र॑वन्तो ह॒विरि॒दं जु॑षन्ताम्।
यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः।
मात॑ली क॒व्यैः।
ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः।
हो॒त्रा॒वृधः॒ स्तोम॑तष्टासो अ॒र्कैः।
आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्।
स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑।
ह॒व्य॒वाह॑म॒जरं॑ पुरुप्रि॒यम्।
अ॒ग्निं घृ॒तेन॑ ह॒विषा॑ सप॒र्यन्।
उपा॑सदं कव्य॒वाहं॑ पितृ॒णाम्।
स नः॑ प्र॒जां वी॒रव॑ती॒ꣳ॒ समृ॑ण्वतु॥७६॥
अनुवाक 17
होता॑ यक्षदि॒डस्प॒दे।
स॒मि॒धा॒नं म॒हद्यशः॑।
सुष॑मिद्धं॒ वरे᳚ण्यम्।
अ॒ग्निमिन्द्रं॑ वयो॒धसम्᳚।
गा॒य॒त्रीं छन्द॑ इन्द्रि॒यम्।
त्र्यविं॒ गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒च्छुचि॑व्रतम्।
तनू॒नपा॑तमु॒द्भिदम्᳚।
यं गर्भ॒मदि॑तिर्द॒धे॥७७॥
शुचि॒मिन्द्रं॑ वयो॒धसम्᳚।
उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यम्।
दि॒त्य॒वाहं॒ गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षदी॒डेन्यम्᳚।
ई॒डि॒तं वृ॑त्र॒हन्त॑मम्।
इडा॑भि॒रीड्य॒ꣳ॒ सहः॑।
सोम॒मिन्द्रं॑ वयो॒धसम्᳚।
अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यम्।
त्रि॒व॒थ्सं गां वयो॒ दध॑त्॥७८॥
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षथ्सुबर्हि॒षदम्᳚।
पू॒ष॒ण्वन्त॒मम॑र्त्यम्।
सीद॑न्तं ब॒र्॒हिषि॑ प्रि॒ये।
अ॒मृतेन्द्रं॑ वयो॒धसम्᳚।
बृ॒ह॒तीं छन्द॑ इन्द्रि॒यम्।
पञ्चा॑विं॒ गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑यक्ष॒द्व्यच॑स्वतीः।
सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑॥७९॥
द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः᳚।
ब्र॒ह्माण॒ इन्द्रं॑ वयो॒धसम्᳚।
प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यम्।
तु॒र्य॒वाहं॒ गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षथ्सु॒पेश॑से।
सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे।
नक्तो॒षासा॒ न द॑र्श॒ते।
विश्व॒मिन्द्रं॑ वयो॒धसम्᳚।
त्रि॒ष्टुभं॒ छन्द॑ इन्द्रि॒यम्॥८०॥
प॒ष्ठ॒वाहं॒ गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒त्प्रचे॑तसा।
दे॒वाना॑मुत्त॒मं यशः॑।
होता॑रा॒ दैव्या॑ क॒वी।
स॒युजेन्द्रं॑ वयो॒धसम्᳚।
जग॑तीं॒ छन्द॑ इ॒हेन्द्रि॒यम्।
अ॒न॒ड्वाहं॒ गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒त्पेश॑स्वतीः॥८१॥
ति॒स्रो दे॒वीर्हि॑र॒ण्ययीः᳚।
भार॑तीर्बृह॒तीर्म॒हीः।
पति॒मिन्द्रं॑ वयो॒धसम्᳚।
वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यम्।
धे॒नुं गां न वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षथ्सु॒रेत॑सम्।
त्वष्टा॑रं पुष्टि॒वर्ध॑नम्।
रू॒पाणि॒ बिभ्र॑तं॒ पृथ॑क्।
पुष्टि॒मिन्द्रं॑ वयो॒धसम्᳚॥८२॥
द्वि॒पदं॒ छन्द॑ इ॒हेन्द्रि॒यम्।
उ॒क्षाणं॒ गां न वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्षच्छ॒तक्र॑तुम्।
हिर॑ण्यपर्णमु॒क्थिनम्᳚।
र॒श॒नां बिभ्र॑तं व॒शिम्।
भग॒मिन्द्रं॑ वयो॒धसम्᳚।
क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यम्।
व॒शां वे॒हतं॒ गां न वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑।
होता॑ यक्ष॒थ्स्वाहा॑कृतीः।
अ॒ग्निं गृ॒हप॑तिं॒ पृथ॑क्।
वरु॑णं भेष॒जं क॒विम्।
क्ष॒त्रमिन्द्रं॑ वयो॒धसम्᳚।
अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यम्।
बृ॒हदृ॑ष॒भं गां वयो॒ दध॑त्।
वेत्वाऽऽज्य॑स्य॒ होत॒र्यज॑॥८३॥
अनुवाक 18
समि॑द्धो अ॒ग्निः स॒मिधा᳚।
सुष॑मिद्धो॒ वरे᳚ण्यः।
गा॒य॒त्री छन्द॑ इन्द्रि॒यम्।
त्र्यवि॒र्गौर्वयो॑ दधुः।
तनू॒नपा॒च्छुचि॑व्रतः।
त॒नू॒पाच्च॒ सर॑स्वती।
उ॒ष्णिक्छन्द॑ इन्द्रि॒यम्।
दि॒त्य॒वाड्गौर्वयो॑ दधुः।
इडा॑भिर॒ग्निरीड्यः॑।
सोमो॑ दे॒वो अम॑र्त्यः॥८४॥
अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम्।
त्रि॒व॒थ्सो गौर्वयो॑ दधुः।
सु॒ब॒र्॒हिर॒ग्निः पू॑ष॒ण्वान्।
स्ती॒र्णब॑र्हि॒रम॑र्त्यः।
बृ॒ह॒ती छन्द॑ इन्द्रि॒यम्।
पञ्चा॑वि॒र्गौर्वयो॑ दधुः।
दुरो॑ दे॒वीर्दिशो॑ म॒हीः।
ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑।
प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यम्।
तु॒र्य॒वाड्गौर्वयो॑ दधुः॥८५॥
उ॒षे य॒ह्वी सु॒पेश॑सा।
विश्वे॑ दे॒वा अम॑र्त्याः।
त्रि॒ष्टुप्छन्द॑ इन्द्रि॒यम्।
प॒ष्ठ॒वाद्गौर्वयो॑ दधुः।
दैव्या॑ होतारा भिषजा।
इन्द्रे॑ण स॒युजा॑ यु॒जा।
जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम्।
अ॒न॒ड्वान्गौर्वयो॑ दधुः।
ति॒स्र इडा॒ सर॑स्वती।
भार॑ती म॒रुतो॒ विशः॑॥८६॥
वि॒राट्छन्द॑ इ॒हेन्द्रि॒यम्।
धे॒नुर्गौर्न वयो॑ दधुः।
त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः।
इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना।
द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम्।
उ॒क्षा गौर्न वयो॑ दधुः।
श॒मि॒ता नो॒ वन॒स्पतिः॑।
स॒वि॒ता प्र॑सु॒वन्भगम्᳚।
क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम्।
व॒शा वे॒हद्गौर्न वयो॑ दधुः।
स्वाहा॑ य॒ज्ञं वरु॑णः।
सु॒क्ष॒त्रो भे॑ष॒जं क॑रत्।
अति॑च्छन्दा॒श्छन्द॑ इन्द्रि॒यम्।
बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः॥८७॥
अनुवाक 19
व॒स॒न्तेन॒र्तुना॑ दे॒वाः।
वस॑वस्त्रि॒वृता᳚ स्तु॒तम्।
र॒थ॒न्त॒रेण॒ तेज॑सा।
ह॒विरिन्द्रे॒ वयो॑ दधुः।
ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना᳚।
रु॒द्राः प॑ञ्चद॒शे स्तु॒तम्।
बृ॒ह॒ता यश॑सा॒ बलम्᳚।
ह॒विरिन्द्रे॒ वयो॑ दधुः।
व॒र्॒षाभि॑र्ऋ॒तुना॑ऽऽदि॒त्याः।
स्तोमे॑ सप्तद॒शे स्तु॒तम्॥८८॥
वै॒रू॒पेण॑ वि॒शौज॑सा।
ह॒विरिन्द्रे॒ वयो॑ दधुः।
शा॒र॒देन॒र्तुना॑ दे॒वाः।
ए॒क॒वि॒ꣳ॒श ऋ॒भवः॑ स्तु॒तम्।
वै॒रा॒जेन॑ श्रि॒या श्रियम्᳚।
ह॒विरिन्द्रे॒ वयो॑ दधुः।
हे॒म॒न्तेन॒र्तुना॑ दे॒वाः।
म॒रुत॑स्त्रिण॒वे स्तु॒तम्।
बले॑न॒ शक्व॑रीः॒ सहः॑।
ह॒विरिन्द्रे॒ वयो॑ दधुः।
शै॒शि॒रेण॒र्तुना॑ दे॒वाः।
त्र॒य॒स्त्रि॒ꣳ॒शे॑ऽमृतꣴ॑ स्तु॒तम्।
स॒त्येन॑ रे॒वतीः᳚ क्ष॒त्रम्।
ह॒विरिन्द्रे॒ वयो॑ दधुः॥८९॥
अनुवाक 20
दे॒वं ब॒र्॒हिरिन्द्रं॑ वयो॒धसम्᳚।
दे॒वं दे॒वम॑वर्धयत्।
गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम्।
तेज॒ इन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑।
दे॒वीर्द्वारो॑ दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वीर्दे॒वम॑वर्धयन्।
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम्।
प्रा॒णमिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑॥९०॥
दे॒वी दे॒वं व॑यो॒धसम्᳚।
उ॒षे इन्द्र॑मवर्धताम्।
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम्।
वाच॒मिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑।
दे॒वी जोष्ट्री॑ दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वी दे॒वम॑वर्धताम्।
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम्।
श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑॥९१॥
दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वी दे॒वम॑वर्धताम्।
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम्।
शु॒क्रमिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑।
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वा दे॒वम॑वर्धताम्।
त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम्।
त्विषि॒मिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑॥९२॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसम्᳚।
पति॒मिन्द्र॑मवर्धयन्।
जग॑त्या॒ छन्द॑सेन्द्रि॒यम्।
बल॒मिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒व॒ने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑।
दे॒वो नरा॒शꣳसो॑ दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वो दे॒वम॑वर्धयत्।
वि॒राजा॒ छन्द॑सेन्द्रि॒यम्।
रेत॒ इन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥९३॥
दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वो दे॒वम॑वर्धयत्।
द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम्।
भग॒मिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑।
दे॒वं ब॒र्॒हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वं दे॒वम॑वर्धयत्।
क॒कुभा॒ छन्द॑सेन्द्रि॒यम्।
यश॒ इन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्रं॑ वयो॒धसम्᳚।
दे॒वो दे॒वम॑वर्धयत्।
अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम्।
क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त्।
व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥९४॥
अनुवाक 1
त्रि॒वृथ्स्तोमो॑ भवति।
ब्र॒ह्म॒व॒र्च॒सं वै त्रि॒वृत्।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे।
अ॒ग्नि॒ष्टो॒मः सोमो॑ भवति।
ब्र॒ह्म॒व॒र्च॒सं वा अ॑ग्निष्टो॒मः।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे।
र॒थ॒न्त॒रꣳ साम॑ भवति।
ब्र॒ह्म॒व॒र्च॒सं वै र॑थन्त॒रम्।
ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे।
प॒रि॒स्र॒जी होता॑ भवति॥१॥
अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः।
ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम्।
रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे।
बृह॒स्पति॑रकामयत दे॒वानां᳚ पुरो॒धां ग॑च्छेय॒मिति॑।
स ए॒तं बृ॑हस्पतिस॒वम॑पश्यत्।
तमाऽह॑रत्।
तेना॑यजत।
ततो॒ वै स दे॒वानां᳚ पुरो॒धाम॑गच्छत्।
यः पु॑रो॒धाका॑मः॒ स्यात्।
स बृ॑हस्पतिस॒वेन॑ यजेत॥२॥
पु॒रो॒धामे॒व ग॑च्छति।
तस्य॑ प्रातः सव॒ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑।
एका॑दश॒ दक्षि॑णा नीयन्ते।
एका॑दश॒ माध्यं॑ दिने॒ सव॑ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑।
एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑।
त्रय॑स्त्रिꣳश॒थ्सं प॑द्यन्ते।
त्रय॑स्त्रिꣳश॒द्वै दे॒वताः᳚।
दे॒वता॑ ए॒वाव॑ रुन्धे।
अश्व॑श्चतुस्त्रि॒ꣳ॒शः।
प्रा॒जा॒प॒त्यो वा अश्वः॑॥३॥
प्र॒जाप॑तिश्चतुस्त्रि॒ꣳ॒शो दे॒वता॑नाम्।
याव॑तीरे॒व दे॒वताः᳚।
ता ए॒वाव॑ रुन्धे।
कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति।
ब्रह्म॑णो॒ वा ए॒तद्रू॒पम्।
यत्कृ॑ष्णाजि॒नम्।
ब्र॒ह्म॒व॒र्च॒सेनै॒वैन॒ꣳ॒ सम॑र्धयति।
आज्ये॑ना॒भिषि॑ञ्चति।
तेजो॒ वा आज्यम्᳚।
तेज॑ ए॒वास्मि॑न्दधाति॥४॥
अनुवाक 2
यदा᳚ग्ने॒यो भव॑ति।
अ॒ग्निमु॑खा॒ ह्यृद्धिः॑।
अथ॒ यत्पौ॒ष्णः।
पुष्टि॒र्वै पू॒षा।
पुष्टि॒र्वैश्य॑स्य।
पुष्टि॑मे॒वाव॑ रुन्धे।
प्र॒स॒वाय॑ सावि॒त्रः।
अथ॒ यत्त्वा॒ष्ट्रः।
त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑।
नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः॥५॥
अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते᳚।
स हि वा॑रु॒णः।
अथ॒ यद्वै᳚श्वदे॒वः।
वै॒श्व॒दे॒वो हि वैश्यः॑।
अथ॒ यन्मा॑रु॒तः।
मा॒रु॒तो हि वैश्यः॑।
स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति।
स॒प्तग॑णा॒ वै म॒रुतः॑।
पृश्ञिः॑ पष्ठौ॒ही मा॑रु॒त्या ल॑भ्यते।
विड्वै म॒रुतः॑।
विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते।
तस्मा॒द्वा ए॒ष वि॒शः प्रि॒यः।
वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते᳚।
ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति।
स हि प्र॑जनयि॒ता।
द॒ध्नाऽभिषि॑ञ्चति।
ऊर्ग्वा अ॒न्नाद्यं॒ दधि॑।
ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति॥६॥
अनुवाक 3
यदा᳚ग्ने॒यो भव॑ति।
आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः।
अथ॒ यथ्सौ॒म्यः।
सौ॒म्यो हि ब्रा᳚ह्म॒णः।
प्र॒स॒वायै॒व सा॑वि॒त्रः।
अथ॒ यद्बा॑र्हस्प॒त्यः।
ए॒तद्वै ब्रा᳚ह्म॒णस्य॑ वाक्प॒तीयम्᳚।
अथ॒ यद॑ग्नीषो॒मीयः॑।
आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः।
तौ य॒दा स॒ङ्गच्छे॑ते॥७॥
अथ॑ वी॒र्या॑वत्तरो भवति।
अथ॒ यथ्सा॑रस्व॒तः।
ए॒तद्धि प्र॒त्यक्षं॑ ब्राह्म॒णस्य॑ वाक्प॒तीयम्᳚।
नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः।
अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते᳚।
स हि वा॑रु॒णः।
अथ॒ यद्द्या॑वापृथि॒व्यः॑।
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत्।
तं द्यावा॑पृथि॒वी नान्व॑मन्येताम्।
तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम्॥८॥
वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑।
अनु॑मतवज्रः सूयाता॒ इति॑।
अ॒ष्टावे॒तानि॑ ह॒वीꣳषि॑ भवन्ति।
अ॒ष्टाक्ष॑रा गाय॒त्री।
गा॒य॒त्री ब्र॑ह्मवर्च॒सम्।
गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धे।
हिर॑ण्येन घृ॒तमुत्पु॑नाति।
तेज॑स ए॒व रु॒चे।
कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति।
ब्रह्म॑णो॒ वा ए॒तदृ॑ख्सा॒मयो॑ रू॒पम्।
यत्कृ॑ष्णाजि॒नम्।
ब्रह्म॑न्ने॒वैन॑मृख्सा॒मयो॒रध्य॒भिषि॑ञ्चति।
घृ॒तेना॒भिषि॑ञ्चति।
तथा॑ वी॒र्या॑वत्तरो भवति॥९॥
अनुवाक 4
न वै सोमे॑न॒ सोम॑स्य स॒वो᳚ऽस्ति।
ह॒तो ह्ये॑षः।
अ॒भिषु॑तो॒ ह्ये॑षः।
न हि ह॒तः सू॒यते᳚।
सौ॒मीꣳ सू॒तव॑शा॒मा ल॑भते।
सोमो॒ वै रे॑तो॒धाः।
रेत॑ ए॒व तद्द॑धाति।
सौ॒म्यर्चाऽभिषि॑ञ्चति।
रे॒तो॒धा ह्ये॑षा।
रेतः॒ सोमः॑।
रेत॑ ए॒वास्मि॑न्दधाति।
यत्किं च॑ राज॒सूय॑मृ॒ते सोमम्᳚।
तथ्सर्वं॑ भवति।
अषा॑ढं यु॒थ्सु पृत॑नासु॒ पप्रिम्᳚।
सु॒व॒र्॒षाम॒फ्स्वां वृ॒जन॑स्य गो॒पाम्।
भ॒रे॒षु॒जाꣳ सु॑क्षि॒तिꣳ सु॒श्रव॑सम्।
जय॑न्तं॒ त्वामनु॑ मदेम सोम॥१०॥
अनुवाक 5
यो वै सोमे॑न सू॒यते᳚।
स दे॑वस॒वः।
यः प॒शुना॑ सू॒यते᳚।
स दे॑वस॒वः।
य इष्ट्या॑ सू॒यते᳚।
स म॑नुष्यस॒वः।
ए॒तं वै पृथ॑ये दे॒वाः प्राय॑च्छन्।
ततो॒ वै सोऽप्या॑र॒ण्यानां᳚ पशू॒नाम॑सूयत।
याव॑तीः॒ किय॑तीश्च प्र॒जा वाचं॒ वद॑न्ति।
तासा॒ꣳ॒ सर्वा॑साꣳ सूयते॥११॥
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑।
ना॒रा॒श॒ꣴ॒स्यर्चाऽभिषि॑ञ्चति।
म॒नु॒ष्या॑ वै नरा॒शꣳसः॑।
नि॒ह्नुत्य॒ वावैतत्।
अथा॒भिषि॑ञ्चति।
यत्किं च॑ राज॒सूय॑मनुत्तरवे॒दीकम्᳚।
तथ्सर्वं॑ भवति।
ये मे॑ पञ्चा॒शतं॑ द॒दुः।
अश्वा॑नाꣳ स॒धस्तु॑तिः।
द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑।
बृ॒हत्कृ॑धि म॒घोना᳚म्।
नृ॒वद॑मृत नृ॒णाम्॥१२॥
अनुवाक 6
ए॒ष गो॑स॒वः।
ष॒ट्त्रि॒ꣳ॒श उ॒क्थ्यो॑ बृ॒हथ्सा॑मा।
पव॑माने कण्वरथन्त॒रं भ॑वति।
यो वै वा॑ज॒पेयः॑।
स स॑म्राट्थ्स॒वः।
यो रा॑ज॒सूयः॑।
स व॑रुणस॒वः।
प्र॒जाप॑तिः॒ स्वारा᳚ज्यं परमे॒ष्ठी।
स्वारा᳚ज्यं॒ गौरे॒व।
गौरि॑व भवति॥१३॥
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑।
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः।
तद्धि स्वारा᳚ज्यम्।
अ॒युतं॒ दक्षि॑णाः।
तद्धि स्वारा᳚ज्यम्।
प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति।
तद्धि स्वारा᳚ज्यम्।
अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तः स्तो॒त्रं प्रत्य॒भिषि॑ञ्चति।
इ॒यं वाव र॑थन्त॒रम्॥१४॥
अ॒सौ बृ॒हत्।
अ॒नयो॑रे॒वैन॒मन॑न्तर्हितम॒भिषि॑ञ्चति।
प॒शु॒स्तो॒मो वा ए॒षः।
तेन॑ गोस॒वः।
ष॒ट्त्रि॒ꣳ॒शः सर्वः॑।
रे॒वज्जा॒तः सह॑सा वृ॒द्धः।
क्ष॒त्राणां᳚ क्षत्र॒भृत्त॑मो वयो॒धाः।
म॒हान्म॑हि॒त्वे त॑स्तभा॒नः।
क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि।
प्र॒जाप॑तेस्त्वा परमे॒ष्ठिनः॒ स्वारा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह।
स्वारा᳚ज्यमे॒वैनं॑ गमयति॥१५॥
अनुवाक 7
सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ।
त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑।
सा न॒ आग॒न्वर्च॑सा संविदा॒ना।
या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम्।
अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑।
सा न॒ आग॒न्वर्च॑सा संविदा॒ना।
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये।
त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑॥१६॥
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑।
सा न॒ आग॒न्वर्च॑सा संविदा॒ना।
रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे᳚।
वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑।
सा न॒ आग॒न्वर्च॑सा संविदा॒ना।
राड॑सि वि॒राड॑सि।
स॒म्राड॑सि स्व॒राड॑सि।
इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣴ श्रीणामि।
इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣴ श्रीणामि॥१७॥
इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣴ श्रीणामि।
इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣴ श्रीणामि।
तेजो॑ऽसि।
तत्ते॒ प्र य॑च्छामि।
तेज॑स्वदस्तु मे॒ मुखम्᳚।
तेज॑स्व॒च्छिरो॑ अस्तु मे।
तेज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ्ङ्।
तेज॑सा॒ सम्पि॑पृग्धि मा।
ओजो॑ऽसि।
तत्ते॒ प्र य॑च्छामि॥१८॥
ओज॑स्वदस्तु मे॒ मुखम्᳚।
ओज॑स्व॒च्छिरो॑ अस्तु मे।
ओज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ्ङ्।
ओज॑सा॒ सं पि॑पृग्धि मा।
पयो॑ऽसि।
तत्ते॒ प्र य॑च्छामि।
पय॑स्वदस्तु मे॒ मुखम्᳚।
पय॑स्व॒च्छिरो॑ अस्तु मे।
पय॑स्वान् वि॒श्वतः॑ प्र॒त्यङ्ङ्।
पय॑सा॒ सं पि॑पृग्धि मा॥१९॥
आयु॑रसि।
तत्ते॒ प्र य॑च्छामि।
आयु॑ष्मदस्तु मे॒ मुखम्᳚।
आयु॑ष्म॒च्छिरो॑ अस्तु मे।
आयु॑ष्मान् वि॒श्वतः॑ प्र॒त्यङ्ङ्।
आयु॑षा॒ सं पि॑पृग्धि मा।
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि।
प्रि॒यꣳ रेतो॑ वरुण सोम राजन्।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ।
विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त्॥२०॥
आयु॑रसि वि॒श्वायु॑रसि।
स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि।
यतो॒ वातो॒ मनो॑जवाः।
यतः॒ क्षर॑न्ति॒ सिन्ध॑वः।
तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा।
स॒मु॒द्र इ॑वासि ग॒ह्मना᳚।
सोम॑ इवा॒स्यदा᳚भ्यः।
अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ्ङ्।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः॥२१॥
अ॒पां यो द्रव॑णे॒ रसः॑।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑।
तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि।
अ॒पां य ऊ॒र्मौ रसः॑।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑।
ओज॑से वी॒र्या॑य गृह्णामि।
अ॒पां यो म॑ध्य॒तो रसः॑।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑।
पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि।
अ॒पां यो य॒ज्ञियो॒ रसः॑।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॑।
आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि॥२२॥
अनुवाक 8
अ॒भिप्रेहि॑ वी॒रय॑स्व।
उ॒ग्रश्चेत्ता॑ सपत्न॒हा।
आति॑ष्ठ मित्र॒वर्ध॑नः।
तुभ्यं॑ दे॒वा अधि॑ब्रवन्।
अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथम्᳚।
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन्।
श्रियं॒ वसा॑नश्चरति॒ स्वरो॑चाः।
म॒हत्तद॒स्यासु॑रस्य॒ नाम॑।
आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ।
अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑॥२३॥
अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत्।
अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु।
अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः।
अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम्।
अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू।
सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु।
च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु।
द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु।
अनु॑ स्व॒धा चि॑किता॒ꣳ॒ सोमो॑ अ॒ग्निः।
आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थम्᳚॥२४॥
अनुवाक 9
प्र॒जाप॑तिः प्र॒जा अ॑सृजत।
ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्।
स ए॒तं प्र॒जाप॑तिरोद॒नम॑पश्यत्।
सोऽन्नं॑ भू॒तो॑ऽतिष्ठत्।
ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्वा।
प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त।
अन्न॑मे॒वैनं॑ भू॒तं पश्य॑न्तीः प्र॒जा उ॒पाव॑र्तन्ते।
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑।
सर्वा॒ण्यन्ना॑नि भवन्ति॥२५॥
सर्वे॒ पुरु॑षाः।
सर्वा᳚ण्ये॒वान्ना॒न्यव॑ रुन्धे।
सर्वा॒न्पुरु॑षान्।
राड॑सि वि॒राड॒सीत्या॑ह।
स्वारा᳚ज्यमे॒वैनं॑ गमयति।
यद्धिर॑ण्यं॒ ददा॑ति।
तेज॒स्तेनाव॑ रुन्धे।
यत्ति॑सृध॒न्वम्।
वी॒र्यं॑ तेन॑।
यदष्ट्रा᳚म्॥२६॥
पुष्टिं॒ तेन॑।
यत्क॑म॒ण्डलुम्᳚।
आयु॒ष्टेन॑।
यद्धिर॑ण्यमा ब॒ध्नाति॑।
ज्योति॒र्वै हिर॑ण्यम्।
ज्योति॑रे॒वास्मि॑न्दधाति।
अथो॒ तेजो॒ वै हिर॑ण्यम्।
तेज॑ ए॒वाऽऽत्मन्ध॑त्ते।
यदो॑द॒नं प्रा॒श्ञाति॑।
ए॒तदे॒व सर्व॑मव॒रुध्य॑॥२७॥
तद॑स्मिन्नेक॒धाऽधा᳚त्।
रो॒हि॒ण्यां का॒र्यः॑।
यद्ब्रा᳚ह्म॒ण ए॒व रो॑हि॒णी।
तस्मा॑दे॒व।
अथो॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति।
उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑।
उ॒द्यन्तं॒ वा ए॒तꣳ सर्वाः᳚ प्र॒जाः प्रति॑नन्दन्ति।
दि॒दृ॒क्षेण्यो॑ दर्श॒नीयो॑ भवति।
य ए॒वं वेद॑।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॥२८॥
अ॒वेत्यो॑ऽवभृ॒था(३) ना(३) इति॑।
यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति।
तथ्स्वि॑दे॒वावै॑ति।
तन्नावै॑ति।
त्रि॒भिः प॑वयति।
त्रय॑ इ॒मे लो॒काः।
ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति।
अथो॑ अ॒पां वा ए॒तत्तेजो॒ वर्चः॑।
यद्द॒र्भाः।
यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति।
अ॒पामे॒वैनं॒ तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति॥२९॥
अनुवाक 10
प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्स्या॒मिति॑।
स ए॒तं प॑ञ्चशार॒दीय॑मपश्यत्।
तमाऽह॑रत्।
तेना॑यजत।
ततो॒ वै स ब॒होर्भूया॑नभवत्।
यः का॒मये॑त ब॒होर्भूया᳚न्थ्स्या॒मिति॑।
स प॑ञ्चशार॒दीये॑न यजेत।
ब॒होरे॒व भूया᳚न्भवति।
म॒रु॒थ्स्तो॒मो वा ए॒षः।
म॒रुतो॒ हि दे॒वानां॒ भूयि॑ष्ठाः॥३०॥
ब॒हुर्भ॑वति।
य ए॒तेन॒ यज॑ते।
य उ॑चैनमे॒वं वेद॑।
प॒ञ्च॒शा॒र॒दीयो॑ भवति।
पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒रः।
ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठति।
अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः।
पाङ्क्तो॑ य॒ज्ञः।
य॒ज्ञमे॒वाव॑ रुन्धे।
स॒प्त॒द॒शꣴ स्तोमा॒ नाति॑ यन्ति।
स॒प्त॒द॒शः प्र॒जाप॑तिः।
प्र॒जाप॑ते॒राप्त्यै᳚॥३१॥
अनुवाक 11
अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णः प्रौक्ष॑त्।
तानिन्द्र॒ आद॑त्त।
त ए॑नं॒ वज्र॑मु॒द्यत्या॒भ्या॑यन्त।
तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम्।
ताञ्छा॒न्तानुपा᳚ह्वयत।
यत्क॑याशु॒भीयं॒ भव॑ति॒ शान्त्यै᳚।
तस्मा॑दे॒त ऐ᳚न्द्रामारु॒ता उ॒क्षाणः॑ सव॒नीया॑ भवन्ति।
त्रयः॑ प्रथ॒मेऽह॒न्ना ल॑भ्यन्ते।
ए॒वं द्वि॒तीये᳚।
ए॒वं तृ॒तीये᳚॥३२॥
ए॒वं च॑तु॒र्थे।
पञ्चो᳚त्त॒मेऽह॒न्ना ल॑भ्यन्ते।
वर्षि॑ष्ठमिव॒ ह्ये॑तदहः॑।
वर्षि॑ष्ठः समा॒नानां᳚ भवति।
य ए॒तेन॒ यज॑ते।
य उ॑चैनमे॒वं वेद॑।
स्वारा᳚ज्यं॒ वा ए॒ष य॒ज्ञः।
ए॒तेन॒ वा एक॒या वा॑ कान्द॒मः स्वारा᳚ज्यमगच्छत्।
स्वारा᳚ज्यं गच्छति।
य ए॒तेन॒ यज॑ते॥३३॥
य उ॑ चैनमे॒वं वेद॑।
मा॒रु॒तो वा ए॒षः स्तोमः॑।
ए॒तेन॒ वै म॒रुतो॑ दे॒वानां॒ भूयि॑ष्ठा अभवन्।
भूयि॑ष्ठः समा॒नानां᳚ भवति।
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑।
प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः।
आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति।
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑।
स॒प्त॒द॒शꣴ स्तोमा॒ नाति॑ यन्ति।
स॒प्त॒द॒शः प्र॒जाप॑तिः।
प्र॒जाप॑तेरे॒व नैति॑॥३४॥
अनुवाक 12
अ॒स्या जरा॑सो द॒मा म॒रित्राः᳚।
अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः।
श्वि॒ची॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवः॑।
व॒न॒र्॒षदो॑ वा॒यवो॒ न सोमाः᳚।
यजा॑ नो मि॒त्रावरु॑णा।
यजा॑ दे॒वाꣳ ऋ॒तं बृ॒हत्।
अग्ने॒ यक्षि॒ स्वन्दमम्᳚।
अश्वि॑ना॒ पिब॑तꣳ सु॒तम्।
दीद्य॑ग्नी शुचिव्रता।
ऋ॒तुना॑ यज्ञवाहसा॥३५॥
द्वे विरू॑पे चरतः॒ स्वर्थे᳚।
अ॒न्याऽन्या॑ व॒थ्समुप॑ धापयेते।
हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावान्॑।
शु॒क्रो अ॒न्यस्यां᳚ ददृशे सु॒वर्चाः᳚।
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम्।
विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒ चष्टे᳚।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑।
त्रीणि॑ श॒ता त्रीष॒हस्रा᳚ण्य॒ग्निम्।
त्रि॒ꣳ॒शच्च॑ दे॒वा नव॑ चाऽसपर्यन्॥३६॥
औक्षं॑ घृ॒तैरास्तृ॑णन्ब॒र्॒हिर॑स्मै।
आदिद्धोता॑रं॒ न्य॑षादयन्त।
अ॒ग्निना॒ऽग्निः समि॑ध्यते।
क॒विर्गृ॒हप॑ति॒र्युवा᳚।
ह॒व्य॒वाड्जु॒ह्वा᳚ऽऽस्यः।
अ॒ग्निर्दे॒वानां᳚ ज॒ठरम्᳚।
पू॒तद॑क्षः क॒विक्र॑तुः।
दे॒वो दे॒वेभि॒रा ग॑मत्।
अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः।
आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम्॥३७॥
ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्॒षनि॑र्णिजः।
सि॒ꣳ॒हा न हे॒षक्र॑तवः सु॒दान॑वः।
यदु॑त्त॒मे म॑रुतो मध्य॒मे वा᳚।
यद्वा॑ऽव॒मे सु॑भगासो दि॒वि ष्ठ।
ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑।
अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः।
ईडे॑ अ॒ग्निꣴ स्वव॑स॒न्नमो॑भिः।
इ॒ह प्र॑स॒प्तो वि च॑ यत्कृ॒तं नः॑।
रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑।
प्र॒द॒क्षि॒णिन्म॒रुता॒ꣴ॒ स्तोम॑मृद्ध्याम्॥३८॥
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः।
दे॒वैर॑ग्ने स॒याव॑भिः।
आसी॑दन्तु ब॒र्॒हिषि॑।
मि॒त्रो वरु॑णो अर्य॒मा।
प्रा॒त॒र्यावा॑णो अध्व॒रम्।
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम्।
विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम्।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः।
सु॒मृ॒डी॒को भ॑वतु वि॒श्ववे॑दाः।
त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणाः॥३९॥
दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः।
नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे।
कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सन्धुः॑।
त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यम्᳚।
त्वां जि॒ह्वाꣳ शुच॑यश्चक्रिरे कवे।
त्वाꣳ रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे।
त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम्।
नि त्वा॑ य॒ज्ञस्य॒ साध॑नम्।
अग्ने॒ होता॑रमृ॒त्विजम्᳚।
व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम्।
जी॒रं दू॒तमम॑र्त्यम्॥४०॥
अनुवाक 13
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि।
वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑।
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे।
इन्द्रः॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य।
कस्य॒ वृषा॑ सु॒ते सचा᳚।
नि॒युत्वा᳚न्वृष॒भो र॑णत्।
वृ॒त्र॒हा सोम॑पीतये।
इन्द्रं॑ व॒यं म॑हाध॒ने।
इन्द्र॒मर्भे॑ हवामहे।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिणम्᳚॥४१॥
द्वि॒ता यो वृ॑त्र॒हन्त॑मः।
वि॒द इन्द्रः॑ श॒तक्र॑तुः।
उप॑ नो॒ हरि॑भिः सु॒तम्।
स सूर॒ आज॒नयं॒ ज्योति॒रिन्द्रम्᳚।
अ॒या धि॒या त॒रणि॒रद्रि॑बर्हाः।
ऋ॒तेन॑ शु॒ष्मी नव॑मानो अ॒र्कैः।
व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद।
उ॒तत्यदा॒श्वश्वि॑यम्।
यदि॑न्द्र॒ नाहु॑षी॒ष्वा।
अग्रे॑ वि॒क्षु प्रतीद॑यत्॥४२॥
भरे॒ष्विन्द्रꣳ॑ सु॒हवꣳ॑ हवामहे।
अ॒ꣳ॒हो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒ जनम्᳚।
अ॒ग्निं मि॒त्रं वरु॑णꣳ सा॒तये॒ भगम्᳚।
द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚।
म॒हि क्षेत्रं॑ पु॒रुश्च॒न्द्रं वि वि॒द्वान्।
आदिथ्सखि॑भ्यश्च॒रथ॒ꣳ॒ समै॑रत्।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कम्।
सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम्।
उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्।
सुव॑र्व॒ज्ज्योति॒रभ॑यꣴ स्व॒स्ति॥४३॥
ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू।
उप॑स्थेयाम शर॒णा बृ॒हन्ता᳚।
आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषाः᳚।
ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि।
वरी॑वृज॒थ्स्थवि॑रेभिः सुशिप्र।
अ॒स्मे दध॒द्वृष॑ण॒ꣳ॒ शुष्म॑मिन्द्र।
इन्द्रा॑य॒ गाव॑ आ॒शिरम्᳚।
दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑।
यथ्सी॑मुपह्व॒रे वि॒दत्।
तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः॥४४॥
गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः।
अह॑रह॒र्भूय॒ इज्जोगु॑वानाः।
पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य।
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम्।
अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे।
तमु॑थ्स॒वे च॑ प्रस॒वे च॑ सास॒हिम्।
इन्द्रं॑ दे॒वासः॒ शव॑सा मदं॒ ननु॑॥४५॥
अनुवाक 14
प्र॒जाप॑तिः प॒शून॑सृजत।
ते᳚ऽस्माथ्सृ॒ष्टाः परां᳚ च आयन्।
तान॑ग्निष्टो॒मेन॒ नाऽऽप्नो᳚त्।
तानु॒क्थ्ये॑न॒ नाऽऽप्नो᳚त्।
तान्थ्षो॑ड॒शिना॒ नाऽऽप्नो᳚त्।
तान्रात्रि॑या॒ नाऽऽप्नो᳚त्।
तान्थ्स॒न्धिना॒ नाऽऽप्नो᳚त्।
सो᳚ऽग्निम॑ब्रवीत्।
इ॒मान्म॑ ई॒फ्सेति॑।
तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाऽऽप्नो᳚त्॥४६॥
स इन्द्र॑मब्रवीत्।
इ॒मान्म॑ ई॒फ्सेति॑।
तानिन्द्रः॑ पञ्चद॒शेन॒ स्तोमे॑न॒ नाऽऽप्नो᳚त्।
स विश्वा᳚न्दे॒वान॑ब्रवीत्।
इ॒मान्म॑ ईफ्स॒तेति॑।
तान् विश्वे॑दे॒वाः स॑प्तद॒शेन॒ स्तोमे॑न॒ नाऽऽप्नु॑वन्।
स विष्णु॑मब्रवीत्।
इ॒मान्म॑ ई॒फ्सेति॑।
तान् विष्णु॑रेकवि॒ꣳ॒शेन॒ स्तोमे॑नाऽऽप्नोत्।
वा॒र॒व॒न्तीये॑नावारयत॥४७॥
इ॒दं विष्णु॒र्वि च॑क्रम॒ इति॒ व्य॑क्रमत।
यस्मा᳚त्प॒शवः॒ प्रप्रेव॒ भ्रꣳशे॑रन्।
स ए॒तेन॑ यजेत।
यदाप्नो᳚त्।
तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम्।
ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा।
यं काम॒मका॑मयन्त॒ तमा᳚ऽऽप्नुवन्।
यं कामं॑ का॒मय॑ते।
तमे॒तेना᳚ऽऽप्नोति॥४८॥
अनुवाक 15
व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः।
ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा अ॒यम्।
न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि।
मा दे॒वानां᳚ मिथु॒याक॑र्म भा॒गम्।
सावी॒र्॒हि दे॑व प्रस॒वाय॑ पित्रे।
व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै।
अथा॒स्मभ्यꣳ॑ सवितः स॒र्वता॑ता।
दि॒वेदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः।
भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः।
स भू॒ताना॒मधि॑पतिर्बभूव॥४९॥
तस्य॑ मृ॒त्यौ च॑रति राज॒सूयम्᳚।
स राजा॑ रा॒ज्यमनु॑ मन्यतामि॒दम्।
येभिः॒ शिल्पैः᳚ पप्रथा॒नामदृꣳ॑हत्।
येभि॒र्द्याम॒भ्यपिꣳ॑शत्प्र॒जाप॑तिः।
येभि॒र्वाचं॑ वि॒श्वरू॑पाꣳ स॒मव्य॑यत्।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि।
येभि॑रादि॒त्यस्तप॑ति॒ प्र के॒तुभिः॑।
येभिः॒ सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः।
येभि॒र्वाचं॑ पुष्क॒लेभि॒रव्य॑यत्।
तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॥५०॥
आऽयं भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः।
इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावान्॑।
अ॒स्मा अ॑स्तु पुष्क॒लं चि॒त्रभा॑नु।
आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थम्᳚।
यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त्।
इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु।
यस्मि॒न्थ्सूर्या॒ अर्पि॑ताः स॒प्त सा॒कम्।
तस्मि॒न्राजा॑न॒मधि॒ विश्र॑ये॒मम्।
द्यौर॑सि पृथि॒व्य॑सि।
व्या॒घ्रो वैया॒घ्रेऽधि॑॥५१॥
विश्र॑यस्व॒ दिशो॑ म॒हीः।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु।
मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत्।
या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः।
या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः।
तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा।
अ॒भि त्वा॒ वर्च॑साऽसिचं दि॒व्येन॑।
पय॑सा स॒ह।
यथासा॑ राष्ट्र॒वर्ध॑नः॥५२॥
तथा᳚ त्वा सवि॒ता क॑रत्।
इन्द्रं॒ विश्वा॑ अवीवृधन्।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑।
र॒थीत॑मꣳ रथी॒नाम्।
वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पतिम्᳚।
वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा।
रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा।
आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा।
विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्चं॒ त्वाऽनु॑ष्टुभेन॒ छन्द॑सा।
बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा॥५३॥
अ॒रु॒णं त्वा॒ वृक॑मु॒ग्रङ्ख॑जङ्क॒रम्।
रोच॑मानं म॒रुता॒मग्रे॑ अ॒र्चिषः॑।
सूर्य॑वन्तं म॒घवा॑नं विषास॒हिम्।
इन्द्र॑मु॒क्थेषु॑ नाम॒हूत॑मꣳ हुवेम।
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ नः।
आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑।
आ नो॒ जने᳚ श्रवयतं युवाना।
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा।
इन्द्र॑स्य ते वीर्य॒कृतः॑।
बा॒हू उ॒पाव॑ हरामि॥५४॥
अनुवाक 16
अ॒भि प्रेहि॑ वी॒रय॑स्व।
उ॒ग्रश्चेत्ता॑ सपत्न॒हा।
आति॑ष्ठ वृत्र॒हन्त॑मः।
तुभ्यं॑ दे॒वा अधि॑ब्रवन्।
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ।
ध्वा॒न्तं वा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ।
दू॒रेहे॑तिरिन्द्रि॒यावा᳚न्पत॒त्री।
ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु।
नम॑स्त ऋषे गद।
अव्य॑थायै त्वा स्व॒धायै᳚ त्वा॥५५॥
मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः।
ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु।
तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः।
आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑।
आ ति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्तं॒ परि॑।
अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ।
द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा।
शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु।
अनु॑ स्व॒धा चि॑किता॒ꣳ॒ सोमो॑ अ॒ग्निः।
अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑॥५६॥
इन्द्रं॒ विश्वा॑ अवीवृधन्।
स॒मु॒द्रव्य॑चस॒ङ्गिरः॑।
र॒थीत॑मꣳ रथी॒नाम्।
वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पतिम्᳚।
परि॑मा से॒न्या घोषाः᳚।
ज्यानां᳚ वृञ्जन्तु गृ॒ध्नवः॑।
मे॒थि॒ष्ठाः पिन्व॑माना इ॒ह।
मां गोप॑तिम॒भि संवि॑शन्तु।
तन्मेऽनु॑मति॒रनु॑ मन्यताम्।
तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः॥५७॥
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुवः॑।
तद॑श्विना शृणुतꣳ सौभगा यु॒वम्।
अव॑ ते॒ हेड॒ उदु॑त्त॒मम्।
ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः।
सि॒ꣳ॒हꣳ हि॑न्वन्ति मह॒ते सौभ॑गाय।
स॒मु॒द्रं न सु॒हुव॑न्तस्थि॒वाꣳसम्᳚।
म॒र्मृ॒ज्यन्ते᳚ द्वी॒पिन॑म॒फ्स्व॑न्तः।
उद॒सावे॑तु॒ सूर्यः॑।
उदि॒दं मा॑म॒कं वचः॑।
उदि॑हि देव सूर्य।
स॒ह व॒ग्नुना॒ मम॑।
अ॒हं वा॒चो वि॒वाच॑नम्।
मयि॒ वाग॑स्तु धर्ण॒सिः।
यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः᳚।
सु॒पि॒प्प॒ला ओष॑धयो भवन्तु।
अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम्।
ए॒षाꣳ राजा॑ भूयासम्॥५८॥
अनुवाक 17
ये के॒शिनः॑ प्रथ॒माः स॒त्रमास॑त।
येभि॒राभृ॑तं॒ यदि॒दं वि॒रोच॑ते।
तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑।
रा॒यस्पोषे॑णे॒मं वर्च॑सा॒ सꣳ सृ॑जाथ।
नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः।
द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा।
प्र केशाः᳚ सु॒वते॑ का॒ण्डिनो॑ भवन्ति।
तेषां᳚ ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः।
आ रो॑ह॒ प्रोष्ठं॒ विष॑हस्व॒ शत्रून्॑।
अवा᳚स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा॥५९॥
दे॒हि दक्षि॑णां॒ प्रति॑र॒स्वायुः॑।
अथा॑मुच्यस्व॒ वरु॑णस्य॒ पाशा᳚त्।
येनाव॑पथ्सवि॒ता क्षु॒रेण॑।
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्।
तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम्।
र॒य्या वर्च॑सा॒ सꣳ सृ॑जाथ।
मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत्।
तथा॑ धा॒ता क॑रोतु ते।
तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑।
स॒वि॒ता वर्च॒ आद॑धात्॥६०॥
तेभ्यो॑ नि॒धानं॑ बहु॒धा व्यैच्छन्॑।
अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑।
द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑।
पौꣴस्ये॑ने॒मं वर्च॑सा॒ सꣳ सृ॑जाथ।
बलं॑ ते बाहु॒वोः स॑वि॒ता द॑धातु।
सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑।
स्त्री॒षु रू॒पम॑श्विनै॒तन्नि ध॑त्तम्।
पौꣴस्ये॑ने॒मं वर्च॑सा॒ सꣳसृ॑जाथ।
यथ्सी॒मन्तं॒ कङ्क॑तस्ते लि॒लेख॑।
यद्वा᳚ क्षु॒रः प॑रिव॒वर्ज॒ वपꣴ॑स्ते।
स्त्री॒षु रू॒पम॑श्विनै॒तन्नि ध॑त्तम्।
पौꣴस्ये॑ने॒मꣳ सꣳ सृ॑जाथो वी॒र्ये॑ण॥६१॥
अनुवाक 18
इन्द्रं॒ वै स्वाविशो॑ म॒रुतो॒ नापा॑चायन्।
सोऽन॑पचाय्यमान ए॒तं वि॑घ॒नम॑पश्यत्।
तमाऽह॑रत्।
तेना॑यजत।
तेनै॒वासा॒न्तꣳ सꣴ॑ स्त॒म्भं व्य॑हन्।
यद्व्यहन्॑।
तद्वि॑घ॒नस्य॑ विघन॒त्वम्।
वि पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते।
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑॥६२॥
यꣳ राजा॑नं॒ विशो॒ नाप॒चाये॑युः।
यो वा᳚ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑तः॒ स्यात्।
स ए॒तेन॑ यजेत।
वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑।
वि॒शामाधि॑पत्यं गच्छति।
तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः।
द्वे च॑तुर्वि॒ꣳ॒शे।
औद्भि॑द्यमे॒व तत्।
ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्यम्।
यद॑स्मै॒ स्वाविशो॑ ब॒लिꣳ हर॑न्ति॥६३॥
हर॑न्त्यस्मै॒ विशो॑ ब॒लिम्।
ऐन॒मप्र॑तिख्यातं गच्छति।
य ए॒वं वेद॑।
प्र॒बाहु॒ग्वा अग्रे᳚ क्ष॒त्राण्याते॑पुः।
तेषा॒मिन्द्रः॑ क्ष॒त्राण्याद॑त्त।
न वा इ॒मानि॑ क्ष॒त्राण्य॑भूव॒न्निति॑।
तन्नक्ष॑त्राणां नक्षत्र॒त्वम्।
आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यं द॑त्ते।
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑॥६४॥
तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता᳚म्।
ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ᳚।
अ॒युक्षु॒ स्तोमे॑षु क्रियेते।
पा॒प्मनोऽप॑हत्यै।
अप॑ पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते।
य ए॒तेन॒ यज॑ते।
य उ॑ चैनमे॒वं वेद॑।
तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑।
ए॒वं छन्दाꣳ॑सि।
तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः॥६५॥
स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन्।
प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व।
व्यति॑षक्ताभिः स्तुवते।
व्यति॑षक्तं॒ वै क्ष॒त्रं वि॒शा।
वि॒शैवैनं॑ क्ष॒त्रेण॒ व्यति॑षजति।
व्यति॑षक्ताभिः स्तुवते।
व्यति॑षक्तो॒ वै ग्रा॑म॒णीः स॑जा॒तैः।
स॒जा॒तैरे॒वैनं॒ व्यति॑षजति।
व्यति॑षक्ताभिः स्तुवते।
व्यति॑षक्तो॒ वै पुरु॑षः पा॒प्मभिः॑।
व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते॥६६॥
अनुवाक 1
पीवो᳚न्नाꣳ रयि॒वृधः॑ सुमे॒धाः।
श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः।
ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः।
विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः।
रा॒येऽनु यञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे।
रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम्।
अधा॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वाः।
उ॒त श्वे॒तं वसु॑धितिन्निरे॒के।
आ वा॑यो॒ प्र याभिः॑।
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा॥१॥
बृ॒हद्र॑यिं वि॒श्ववा॑राꣳ रथ॒प्राम्।
द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः।
क॒विः क॒विमि॑यक्षसि प्रयज्यो।
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रम्।
स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम्।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व।
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः।
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव।
यत्का॑मास्ते जुहु॒मस्तं नो॑ अस्तु॥२॥
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्।
र॒यी॒णां पतिं॑ यज॒तं बृ॒हन्तम्᳚।
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ।
प्र॒जाप॑तिं प्रथम॒जामृ॒तस्य॑।
यजा॑म दे॒वमधि॑ नो ब्रवीतु।
प्रजा॑पते॒ त्वन्नि॑धि॒पाः पु॑रा॒णः।
दे॒वानां᳚ पि॒ता ज॑नि॒ता प्र॒जाना᳚म्।
पति॒र्विश्व॑स्य॒ जग॑तः पर॒स्पाः।
ह॒विर्नो॑ देव विह॒वे जु॑षस्व।
तवे॒मे लो॒काः प्र॒दिशो॒ दिश॑श्च॥३॥
प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च।
प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दं नो॑ देव।
प्रति॑हर्य ह॒व्यम्।
प्र॒जाप॑तिं प्रथ॒मं य॒ज्ञिया॑नाम्।
दे॒वाना॒मग्रे॑ यज॒तं य॑जध्वम्।
स नो॑ ददातु॒ द्रवि॑णꣳ सु॒वीर्यम्᳚।
रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे।
यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑।
यः प॑शू॒नाꣳ र॑क्षि॒ता विष्ठि॑तानाम्।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑॥४॥
स॒हस्र॑धामा जुषताꣳ ह॒विर्नः॑।
सोमा॑पूषणे॒मौ दे॒वौ।
सोमा॑पूषणा॒ रज॑सो वि॒मानम्᳚।
स॒प्तच॑क्र॒ꣳ॒ रथ॒मवि॑श्वमिन्वम्।
वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नम्।
तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम्।
दि॒व्य॑न्यः सद॑नं च॒क्र उ॒च्चा।
पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे।
ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुम्।
रा॒यस्पोषं॒ विष्य॑ता॒न्नाभि॑म॒स्मे॥५॥
धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वः।
र॒यिꣳ सोमो॑ रयि॒पति॑र्दधातु।
अव॑तु दे॒व्यदि॑तिरन॒र्वा।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚।
विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॑।
विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति।
सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे।
यु॒वभ्यां॒ विश्वाः॒ पृत॑ना जयेम।
उदु॑त्त॒मं व॑रु॒णास्त॑भ्ना॒द्द्याम्।
यत्किं चे॒दं कि॑त॒वासः॑।
अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि।
आ॒दि॒त्याना॒मव॑सा॒ न द॑क्षि॒णा।
धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमी᳚र्धारयन्।
य॒ज्ञो दे॒वाना॒ꣳ॒ शुचि॑र॒पः॥६॥
अनुवाक 2
ते शु॒क्रासः॒ शुच॑यो रश्मि॒वन्तः॑।
सीद॑न्नादि॒त्या अधि॑ ब॒र्॒हिषि॑ प्रि॒ये।
कामे॑न दे॒वाः स॒रथं॑ दि॒वो नः॑।
आ या᳚न्तु य॒ज्ञमुप॑ नो जुषा॒णाः।
ते सू॒नवो॒ अदि॑तेः पीव॒सामिषम्᳚।
घृ॒तं पिन्व॒त्प्रति॑हर्यन्नृते॒जाः।
प्र य॒ज्ञिया॒ यज॑मानाय येमुरे।
आ॒दि॒त्याः कामं॑ पितु॒मन्त॑म॒स्मे।
आ नः॑ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम्।
आ॒दि॒त्यासः॑ प॒थिभि॑र्देव॒यानैः᳚॥७॥
अ॒स्मे कामं॑ दा॒शुषे॑ स॒न्नम॑न्तः।
पुरो॒डाशं॑ घृ॒तव॑न्तं जुषन्ताम्।
स्क॒भा॒यत॒ निर्ऋ॑ति॒ꣳ॒ सेध॒ताम॑तिम्।
प्र र॒श्मिभि॒र्यत॑माना अमृध्राः।
आदि॑त्याः॒ काम॒ प्रय॑तां॒ वष॑ट्कृतिम्।
जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्राः।
आ॒दि॒त्यान्काम॒मव॑से हुवेम।
ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः।
सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थम्᳚।
स्ती॒र्णं ब॒र्॒हिर्ह॑वि॒रद्या॑य दे॒वाः॥८॥
स्ती॒र्णं ब॒र्॒हिः सी॑दता य॒ज्ञे अ॒स्मिन्।
ध्रा॒जाः सेध॑न्तो॒ अम॑तिं दु॒रेवा᳚म्।
अ॒स्मभ्यं॑ पुत्रा अदितेः॒ प्र यꣳ॑सत।
आदि॑त्याः॒ काम॑ ह॒विषो॑ जुषा॒णाः।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान्।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑।
भूयि॑ष्ठान्ते॒ नम॑ उक्तिं विधेम।
प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वम्।
ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम्॥९॥
यो दैव्या॑नि॒ मानु॑षा ज॒नूꣳषि॑।
अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति।
अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः᳚।
अ॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः।
सु॒स॒न्दृशꣳ॑ सु॒प्रती॑क॒ꣴ॒ स्वञ्चम्᳚।
ह॒व्य॒वाह॑मर॒तिं मानु॑षाणाम्।
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः।
अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः।
पुन॑र॒स्मभ्यꣳ॑ सुवि॒ताय॑ देव।
क्षां विश्वे॑भिर॒जरे॑भिर्यजत्र॥१०॥
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्।
स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी।
भवा॑ तो॒काय॒ तन॑याय॒ शं योः।
प्रका॑रवो मन॒ना व॒च्यमा॑नाः।
दे॒व॒द्रीचीं᳚ नयथ देव॒यन्तः॑।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति।
ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची᳚।
इन्द्रं॒ नरो॑ यु॒जे रथम्᳚।
ज॒गृ॒भ्णाते॒ दक्षि॑णमिन्द्र॒ हस्तम्᳚॥११॥
व॒सू॒यवो॑ वसुपते॒ वसू॑नाम्।
वि॒द्मा हि त्वा॒ गोप॑तिꣳ शूर॒ गोना᳚म्।
अ॒स्मभ्यं॑ चि॒त्रं वृष॑णꣳ र॒यिन्दाः᳚।
तवे॒दं विश्व॑म॒भितः॑ पश॒व्यम्᳚।
यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र।
भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑।
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑।
सꣳ सू॒रिभि॑र्मघव॒न्थ्सꣴ स्व॒स्त्या।
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॑॥१२॥
सं दे॒वानाꣳ॑ सुम॒त्या य॒ज्ञिया॑नाम्।
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रम्।
उ॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र।
कृ॒धीधियं॑ जरि॒त्रे वाज॑रत्नाम्।
आ वे॒धस॒ꣳ॒ स हि शुचिः॑।
बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः।
म॒हो ज्योति॑षः पर॒मे व्यो॑मन्।
स॒प्तास्य॑स्तुविजा॒तो रवे॑ण।
वि स॒प्तर॑श्मिरधम॒त्तमाꣳ॑सि॥१३॥
बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि।
म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः।
अ॒पः सिषा॑स॒न्थ्सुव॒रप्र॑तीत्तः।
बृह॒स्पति॒र्॒हन्त्य॒मित्र॑म॒र्कैः।
बृह॑स्पते॒ पर्ये॒वा पि॒त्रे।
आ नो॑ दि॒वः पावी॑रवी।
इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑।
सर॑स्वत्य॒भि नो॑ नेषि।
इ॒यꣳ शुष्मे॑भिर्बिस॒खा इ॑वारुजत्।
सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑।
पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑।
सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑॥१४॥
अनुवाक 3
सोमो॑ धे॒नुꣳ सोमो॒ अर्व॑न्तमा॒शुम्।
सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददातु।
सा॒द॒न्यं॑ विद॒थ्यꣳ॑ स॒भेयम्᳚।
पि॒तुः॒ श्रव॑णं॒ यो ददा॑शदस्मै।
अषा॑ढं यु॒थ्सु त्वꣳ सो॑म॒ क्रतु॑भिः।
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति।
त्वमि॒मा ओष॑धीः सोम॒ विश्वाः᳚।
त्वम॒पो अ॑जनय॒स्त्वङ्गाः।
त्वमात॑तन्थो॒र्व॑न्तरि॑क्षम्।
त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ॥१५॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम्।
या पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु।
तेभि॑र्नो॒ विश्वैः᳚ सु॒मना॒ अहे॑डन्।
राज᳚न्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय।
विष्णो॒र्नुकं॒ तद॑स्य प्रि॒यम्।
प्र तद्विष्णुः॑।
प॒रो मात्र॑या त॒नुवा॑ वृधान।
न ते॑ महि॒त्वमन्व॑श्ञुवन्ति।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम्।
प॒र॒मस्य॑ विथ्से॥१६॥
विच॑क्रमे॒ त्रिर्दे॒वः।
आ ते॑ म॒हो यो जा॒त ए॒व।
अ॒भि गो॒त्राणि॑।
आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्।
अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः।
आर्या॑य॒ विशोव॑तारी॒र्दासीः᳚।
अ॒यꣳ शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्।
अ॒यमु॒त प्र कृ॑णुते यु॒धा गाः।
य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रः॑॥१७॥
विश्वं॑ दृ॒ढं भ॑यत॒ एज॑दस्मात्।
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अस्य।
अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम्।
स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन।
हन्म॑नाहन्न॒भिद्यून्।
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम्।
अक॑वारिं दि॒व्यꣳ शा॒समिन्द्रम्᳚।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय।
उ॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम।
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑॥१८॥
म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः।
अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑।
मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा।
क्व॑स्यावो॑ मरुतः स्व॒धाऽऽसी᳚त्।
यन्मामेकꣳ॑ स॒मध॑त्ताहि॒हत्ये᳚।
अ॒हꣴ ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान्।
विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः।
वृ॒त्रस्य॑ त्वा श्व॒सथा॒ दीष॑माणाः।
विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः।
म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अस्तु॥१९॥
अथे॒मा विश्वाः॒ पृत॑ना जयासि।
वधीं᳚ वृ॒त्रं म॑रुत इन्द्रि॒येण॑।
स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान्।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः।
सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः।
स यो वृषा॒ वृष्णि॑येभिः॒ समो॑काः।
म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट्।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु।
म॒रुत्वां᳚ नो भव॒त्विन्द्र॑ ऊ॒ती।
इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये᳚॥२०॥
अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑।
अन्वे॑नं॒ विशो॑ अमदन्त पू॒र्वीः।
अ॒यꣳ राजा॒ जग॑तश्चर्षणी॒नाम्।
स ए॒व वी॒रः स उ॑ वी॒र्या॑वान्।
स ए॑करा॒जो जग॑तः पर॒स्पाः।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑।
अथा॑भवद्दमि॒ताभिक्र॑तूनाम्।
इन्द्रो॑ य॒ज्ञं व॒र्धय॑न्वि॒श्ववे॑दाः।
पु॒रो॒डाश॑स्य जुषताꣳ ह॒विर्नः॑।
वृ॒त्रं ती॒र्त्वा दा॑न॒वं वज्र॑बाहुः॥२१॥
दिशो॑ऽदृꣳहद्दृꣳहि॒ता दृꣳह॑णेन।
इ॒मं य॒ज्ञं व॒र्धय॑न्वि॒श्ववे॑दाः।
पु॒रो॒डाशं॒ प्रति॑ गृभ्णा॒त्विन्द्रः॑।
य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑।
अथै॑करा॒जो अ॑भव॒ज्जना॑नाम्।
इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत्।
इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः।
इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः।
वृ॒त्र॒तूर्नो॒ अभ॑य॒ꣳ॒ शर्म॑ यꣳसत्।
यः स॒प्त सिन्धू॒ꣳ॒ रद॑धात्पृथि॒व्याम्।
यः स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च।
इन्द्रो॑ ह॒विष्मा॒न्थ्सग॑णो म॒रुद्भिः॑।
वृ॒त्र॒तूर्नो॑ य॒ज्ञमि॒होप॑ यासत्॥२२॥
अनुवाक 4
इन्द्र॒स्तर॑स्वानभिमाति॒होग्रः।
हिर॑ण्यवाशीरिषि॒रः सु॑व॒र्॒षाः।
तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॑स्य।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म।
हिर॑ण्यवर्णो॒ अभ॑यं कृणोतु।
अ॒भि॒मा॒ति॒हेन्द्रः॒ पृत॑नासु जि॒ष्णुः।
स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यꣳ॑सत्।
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः।
इन्द्रꣴ॑ स्तुहि व॒ज्रिण॒ꣴ॒ स्तोम॑पृष्ठम्।
पु॒रो॒डाश॑स्य जुषताꣳ ह॒विर्नः॑॥२३॥
ह॒त्वाऽभिमा॑तीः॒ पृत॑नाः॒ सह॑स्वान्।
अथाभ॑यं कृणुहि वि॒श्वतो॑ नः।
स्तु॒हि शूरं॑ व॒ज्रिण॒मप्र॑तीत्तम्।
अ॒भि॒मा॒ति॒हनं॑ पुरुहू॒तमिन्द्रम्᳚।
य एक॒ इच्छ॒तप॑ति॒र्जने॑षु।
तस्मा॒ इन्द्रा॑य ह॒विरा जु॑होत।
इन्द्रो॑ दे॒वाना॑मधि॒पाः पु॒रोहि॑तः।
दि॒शां पति॑रभवद्वा॒जिनी॑वान्।
अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान्।
अ॒स्मभ्यं॑ चि॒त्रं वृष॑णꣳ र॒यिन्दा᳚त्॥२४॥
य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा।
बले॒नादृꣳ॑हदभिमाति॒हेन्द्रः॑।
स नो॑ ह॒विः प्रति॑ गृभ्णातु रा॒तये᳚।
दे॒वानां᳚ दे॒वो नि॑धि॒पा नो॑ अव्यात्।
अन॑वस्ते॒ रथं॒ वृष्णे॒ यत्ते᳚।
इन्द्र॑स्य॒ नु वी॒र्या᳚ण्यह॒न्नहिम्᳚।
इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा᳚।
शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः।
सेदु॒ राजा᳚ क्षेति चर्षणी॒नाम्।
अ॒रान्न ने॒मिः परि॒ ता ब॑भूव॥२५॥
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रून्॑।
विति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑भेत्।
सं वज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑।
प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः।
विष्णुं॑ दे॒वं वरु॑णमू॒तये॒ भगम्᳚।
मेद॑सा दे॒वा व॒पया॑ यजध्वम्।
ता नो॑ य॒ज्ञमाग॑तं वि॒श्वधे॑ना।
प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम्।
मेद॑सा दे॒वा व॒पया॑ यजध्वम्।
विष्णुं॑ च दे॒वं वरु॑णं च रा॒तिम्॥२६॥
ता नो॒ अमी॑वा अप॒ बाध॑मानौ।
इ॒मं य॒ज्ञं जु॒षमा॑णा॒वुपेतम्᳚।
विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः।
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम्।
दी॒र्घप्र॑यज्ज्यू ह॒विषा॑ वृधा॒ना।
ज्योति॒षाऽरा॑तीर्दहत॒न्तमाꣳ॑सि।
ययो॒रोज॑सा स्कभि॒ता रजाꣳ॑सि।
वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा।
याऽपत्ये॑ ते॒ अप्र॑तीत्ता॒ सहो॑भिः।
विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ॥२७॥
विष्णू॑वरुणावभिशस्ति॒पावा᳚म्।
दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑।
अपामी॑वाꣳ सेधतꣳ र॒क्षस॑श्च।
अथा॑धत्तं॒ यज॑मानाय॒ शं योः।
अ॒ꣳ॒हो॒मुचा॑ वृष॒भा सु॒प्रतू᳚र्ती।
दे॒वानां᳚ दे॒वत॑मा॒ शचि॑ष्ठा।
विष्णू॑वरुणा॒ प्रति॑हर्यतन्नः।
इ॒दं नरा॒ प्रय॑तमू॒तये॑ ह॒विः।
म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे᳚।
रु॒चा भ॑वताꣳ शु॒चय॑द्भिर॒र्कैः॥२८॥
यथ्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्।
नृ॒वद्भ्यो॒क्षा प॑प्रथा॒नेभि॒रेवैः᳚।
प्रपू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिः।
गी॒र्भिः कृ॑णुध्व॒ꣳ॒ सद॑ने ऋ॒तस्य॑।
आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न।
जने॑न यातं॒ महि॑ वां॒ वरू॑थम्।
स इथ्स्वपा॒ भुव॑नेष्वास।
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑।
उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚।
अ॒व॒ꣳ॒शे धीरः॒ शच्या॒ समै॑रत्॥२९॥
भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तम्।
प॒द्वन्तं॒ गर्भ॑म॒पदी॑दधाते।
नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे᳚।
तं पि॑पृतꣳ रोदसी सत्य॒वाचम्᳚।
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु।
पित॒र्मात॒र्यदि॒होप॑ ब्रु॒वे वा᳚म्।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिः।
विद्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्।
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते।
उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन्।
दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू᳚र्ती।
द्यावा॒ रक्ष॑तं पृथि॒वी नो॒ अभ्वा᳚त्।
या जा॒ता ओष॑ध॒योऽति॒ विश्वाः᳚ परि॒ष्ठाः।
या ओष॑धयः॒ सोम॑राज्ञीरश्वाव॒तीꣳ सो॑मव॒तीम्।
ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु॥३०॥
अनुवाक 5
शुचिं॒ नु स्तोम॒ꣴ॒ श्ञथ॑द्वृ॒त्रम्।
उ॒भा वा॑मिन्द्राग्नी॒ प्र च॑र्ष॒णिभ्यः॑।
आ वृ॑त्रहणा गी॒र्भिर्विप्रः॑।
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता।
सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व।
विश्वं॒ तद्भ॒द्रं यद॒वन्ति॑ दे॒वाः।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚।
स ईꣳ॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भिः॑।
गोधा॑यसं॒ विध॑न॒सैर॑तर्दत्।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः᳚॥३१॥
घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट्।
ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शम्।
स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः।
यो गा उ॒दाज॒थ्स दि॒वे वि चा॑भजत्।
म॒हीव॑ री॒तिः शव॑सा सर॒त्पृथ॑क्।
इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः।
कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत्।
जा॒तेन॑ जा॒तमति॒सृत्प्र सृꣳ॑सते।
यं यं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑।
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚॥३२॥
रा॒यः स्या॑म र॒थ्यो॑ विव॑स्वतः।
वी॒रेषु॑ वी॒राꣳ उप॑पृङ्ग्धि न॒स्त्वम्।
यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवम्᳚।
स इज्जने॑न॒ स वि॒शा स जन्म॑ना।
स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑।
दे॒वानां॒ यः पि॒तर॑मा॒ विवा॑सति।
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिम्᳚।
यास्ते॑ पूष॒न्नावो॑ अ॒न्तः।
शु॒क्रं ते॑ अ॒न्यत्पू॒षेमा आशाः᳚।
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा॥३३॥
प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः।
उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे᳚।
आ च॒ परा॑ च चरति प्रजा॒नन्।
पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः।
इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः।
तं दे॒वासो॒ अद॑दुः सू॒र्यायै᳚।
कामे॑न कृ॒तं त॒वस॒ꣴ॒ स्वञ्चम्᳚।
अ॒जाऽश्वः॑ पशु॒पा वाज॑बस्त्यः।
धि॒यं॒ जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः।
अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्॥३४॥
स॒ञ्चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते।
शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नाम्।
शुचिꣳ॑ हिनोम्यध्व॒रꣳ शुचि॑भ्यः।
ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन्।
शुचि॑जन्मानः॒ शुच॑यः पाव॒काः।
प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॑।
मारु॑ताय॒ स्वत॑वसे भरध्वम्।
ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते।
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑।
अꣳसे॒ष्वा म॑रुतः खा॒दयो॑ वः॥३५॥
वक्षः॑ सुरु॒क्मा उप॑ शिश्रिया॒णाः।
वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः।
अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः।
या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑।
त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑।
अ॒स्मभ्यं॒ तानि॑ मरुतो॒ विय॑न्त।
र॒यिं नो॑ धत्त वृषणः सु॒वीरम्᳚।
इ॒मे तु॒रं म॒रुतो॑ रामयन्ति।
इ॒मे सहः॒ सह॑स॒ आ न॑मन्ति।
इ॒मे शꣳसं॑वनुष्य॒तो नि पा᳚न्ति॥३६॥
गु॒रुद्वेषो॒ अर॑रुषे दधन्ति।
अ॒रा इ॒वेदच॑रमा॒ अहे॑व।
प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः।
पृश्ञेः᳚ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः।
स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः।
अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑।
स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚।
अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र।
इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚।
य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑॥३७॥
शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑।
त्वꣳ हि दृ॒ढा म॑घव॒न्विचे॑ताः।
अपा॑वृधि॒ परि॑वृतिं॒ न राधः॑।
इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नाम्।
अ॒धि॒क्षमि॒ विषु॑रूपं॒ यदस्ति॑।
ततो॑ ददातु दा॒शुषे॒ वसू॑नि।
चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक्।
तमु॑ष्टुहि॒ यो अ॒भिभू᳚त्योजाः।
व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑।
अषा॑ढमु॒ग्रꣳ सह॑मानमा॒भिः॥३८॥
गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम्।
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे᳚।
तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्रम्᳚।
यो वा॒युना॒ जय॑ति॒ गोम॑तीषु।
प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑।
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात्।
ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त्।
आ वि॒श्वतो॑ अ॒भिसमे᳚त्व॒र्वाङ्।
इन्द्र॑ द्यु॒म्नꣳ सुव॑र्वद्धेह्य॒स्मे॥३९॥
अनुवाक 6
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑।
अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः᳚।
हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑।
नि॒वे॒शयं॑ च प्रसु॒वं च॒ भूम॑।
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पम्।
हिर॑ण्यशम्यं यज॒तो बृ॒हन्तम्᳚।
आस्था॒द्रथꣳ॑ सवि॒ता चि॒त्रभा॑नुः।
कृ॒ष्णा रजाꣳ॑सि॒ तवि॑षीं॒ दधा॑नः।
सघा॑ नो दे॒वः स॑वि॒ता स॒वाय॑।
आ सा॑विष॒द्वसु॑पति॒र्वसू॑नि॥४०॥
वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम्।
म॒र्त॒भोज॑न॒मध॑रासतेन।
विजना᳚ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्यन्।
रथ॒ꣳ॒ हिर॑ण्यप्रउगं॒ वह॑न्तः।
शश्व॒द्दिशः॑ सवि॒तुर्दैव्य॑स्य।
उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः।
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत्।
ग॒भी॒रवे॑पा॒ असु॑रः सुनी॒थः।
क्वे॑दानी॒ꣳ॒ सूर्यः॒ कश्चि॑केत।
क॒त॒मान्द्याꣳ र॒श्मिर॒स्या त॑तान॥४१॥
भगं॒ धियं॑ वा॒जय॑न्तः॒ पुर॑न्धिम्।
नरा॒शꣳसो॒ ग्नास्पति॑र्नो अव्यात्।
आ ये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम्।
प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म।
आ नो॒ विश्वे॒ अस्क्रा॑गमन्तु दे॒वाः।
मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः᳚।
भुव॒न्॒ यथा॑ नो॒ विश्वे॑ वृ॒धासः॑।
कर᳚न्थ्सु॒षाहा॑ विथु॒रं न शवः॑।
शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु।
शꣳ सर॑स्वती स॒ह धी॒भिर॑स्तु॥४२॥
शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॑।
शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः᳚।
ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे᳚।
मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः।
ते सौभ॑गं वी॒रव॒द्गोम॒दप्नः॑।
दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे।
अग्ने॑ या॒हि दू॒त्यं॑ वारि॑षेण्यः।
दे॒वाꣳ अच्छा᳚ ब्रह्म॒कृता॑ ग॒णेन॑।
सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒ऽपः।
य॒क्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वान्॑॥४३॥
द्यौः पि॑तः॒ पृथि॑वि॒ मात॒रध्रु॑क्।
अग्ने᳚ भ्रातर्वसवो मृ॒डता॑ नः।
विश्व॑ आदित्या अदिते स॒जोषाः᳚।
अ॒स्मभ्य॒ꣳ॒ शर्म॑ बहु॒लं वि य॑न्त।
विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे।
ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः।
आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम्।
आ वां᳚ मित्रावरुणा ह॒व्यजु॑ष्टिम्।
नम॑सा देवा॒वव॑साऽऽववृत्याम्॥४४॥
अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकम्᳚।
वृ॒ष्टिर्दि॒व्या सु॑पा॒रा।
यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे।
यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚।
अवा॑तिरत॒मनृ॑तानि॒ विश्वा᳚।
ऋ॒तेन॑ मित्रावरुणा सचेथे।
तथ्सु वां᳚ मित्रावरुणा महि॒त्वम्।
ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे।
विश्वाः᳚ पिन्वथ॒ स्वस॑रस्य॒ धेनाः᳚।
अनु॑ वा॒मेकः॑ प॒विरा व॑वर्ति॥४५॥
यद्बꣳहि॑ष्ठ॒न्नाति॒ विदे॑ सुदानू।
अच्छि॑द्र॒ꣳ॒ शर्म॒ भुव॑नस्य गोपा।
ततो॑ नो मित्रावरुणाववीष्टम्।
सिषा॑सन्तो जीगि॒वाꣳसः॑ स्याम।
आ नो॑ मित्रावरुणा ह॒व्यदा॑तिम्।
घृ॒तैर्गव्यू॑तिमुक्षत॒मिडा॑भिः।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य।
पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः᳚।
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ नः।
आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑॥४६॥
आ नो॒ जने᳚ श्रवयतं युवाना।
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा।
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑।
क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚।
ति॒ग्मायु॑धाय भरता शृ॒णोत॑न।
त्वाद॑त्तेभी रुद्र॒ शन्त॑मेभिः।
श॒तꣳ हिमा॑ अशीय भेष॒जेभिः॑।
व्य॑स्मद्द्वेषो॑ वित॒रं व्यꣳहः॑।
व्यमी॑वाꣴश्चातयस्वा॒ विषू॑चीः॥४७॥
अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के।
आ ते॑ पितर्मरुताꣳ सु॒म्नमे॑तु।
मा नः॒ सूर्य॑स्य स॒न्दृशो॑ युयोथाः।
अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत।
प्र जा॑येमहि रुद्र प्र॒जाभिः॑।
ए॒वा ब॑भ्रो वृषभ चेकितान।
यथा॑ देव॒ न हृ॑णी॒षे न हꣳसि॑।
हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚।
परि॑ णो रु॒द्रस्य॑ हे॒तिः स्तु॒हि श्रु॒तम्।
मीढु॑ष्ट॒मार्ह॑न्बिभर्षि।
त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम्॥४८॥
अनुवाक 7
सूर्यो॑ दे॒वीमु॒षस॒ꣳ॒ रोच॑माना॒मर्यः॑।
न योषा॑म॒भ्ये॑ति प॒श्चात्।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑।
वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम्।
भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य।
चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः।
परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः।
तथ्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वम्।
म॒ध्या कर्तो॒र्वित॑त॒ꣳ॒ सञ्ज॑भार॥४९॥
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था᳚त्।
आद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚।
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे᳚।
सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑।
कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति।
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य।
निरꣳह॑सः पिपृ॒तान्निर॑व॒द्यात्।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम्।
अदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॥५०॥
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति।
दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः।
नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ताः।
आयन्नर्था॑नि कृ॒णव॒न्नपाꣳ॑सि।
शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना᳚।
शं भा॒नुना॒ शꣳ हि॒मा शं घृ॒णेन॑।
यथा॒ शम॒स्मै शमस॑द्दुरो॒णे।
तथ्सू᳚र्य॒ द्रवि॑णं धे॒हि चि॒त्रम्।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम्।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः॥५१॥
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम्।
सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च।
त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीपम्᳚।
त्वष्टा॑ वी॒रं पि॒शङ्ग॑रूपः।
दशे॒मन्त्वष्टु॑र्जनयन्त॒ गर्भम्᳚।
अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम्।
ति॒ग्मानी॑क॒ꣴ॒ स्वय॑शसं॒ जने॑षु।
वि॒रोच॑मानं॒ परि॑षीन्नयन्ति।
आविष्ट्यो॑ वर्धते॒ चारु॑रासु।
जि॒ह्माना॑मू॒र्ध्वस्वय॑शा उ॒पस्थे᳚॥५२॥
उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्।
प्र॒तीची॑ सि॒ꣳ॒हं प्रति॑जोषयेते।
मि॒त्रो जना॒न्प्र स मि॑त्र।
अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवः॑।
राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः।
तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॑स्य।
अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म।
अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः।
मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः।
आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑॥५३॥
व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म।
मि॒त्रं न ईꣳ शिम्या॒ गोषु॑ ग॒व्यव॑त्।
स्वा॒धियो॑ वि॒दथे॑ अ॒फ्स्वजी॑जनन्।
अरे॑जयता॒ꣳ॒ रोद॑सी॒ पाज॑सा गि॒रा।
प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑।
म॒हाꣳ आ॑दि॒त्यो नम॑सोप॒सद्यः॑।
या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्टम्᳚।
अ॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत।
आ वा॒ꣳ॒ रथो॒ रोद॑सी बद्बधा॒नः॥५४॥
हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚।
घृ॒तव॑र्तनिः प॒विभी॑रुचा॒नः।
इ॒षां वो॒ढा नृ॒पति॑र्वा॒जिनी॑वान्।
स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑।
त्रि॒व॒न्धु॒रो मन॒साऽऽया॑तु यु॒क्तः।
विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः᳚।
कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना।
स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक्।
दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः।
वि वा॒ꣳ॒ रथो॑ व॒ध्वा॑ याद॑मानः॥५५॥
अन्ता᳚न्दि॒वो बा॑धते वर्त॒निभ्या᳚म्।
यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत।
सूरो॑ दुहि॒ता परि॑तक्मियायाम्।
यद्दे॑व॒यन्त॒मव॑थः॒ शची॑भिः।
परि॑घ्र॒ꣳ॒ सवां॒ मना॑वां॒ वयो॑गाम्।
यो ह॒स्यवाꣳ॑ रथिरा॒वस्त॑ उ॒स्राः।
रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः।
तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ।
न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन्।
यु॒वं भु॒ज्युमव॑विद्धꣳ समु॒द्रे॥५६॥
उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः।
प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑।
द॒ꣳ॒सना॑भिरश्विना पा॒रय॑न्ता।
अग्नी॑षोमा॒ यो अ॒द्य वा᳚म्।
इ॒दं वचः॑ सप॒र्यति॑।
तस्मै॑ धत्तꣳ सु॒वीर्यम्᳚।
गवां॒ पोष॒ꣴ॒ स्वश्वि॑यम्।
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात्।
दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑।
तस्य॑ व्र॒तꣳ र॑क्षतं पा॒तमꣳह॑सः॥५७॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम्।
अग्नी॑षोमा॒ य आहु॑तिम्।
यो वां॒ दाशा᳚द्ध॒विष्कृ॑तिम्।
स प्र॒जया॑ सु॒वीर्यम्᳚।
विश्व॒मायु॒र्व्य॑श्ञवत्।
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वाम्।
यदमु॑ष्णीतमव॒सं प॒णिङ्गोः।
अवा॑तिरतं॒ प्रथ॑यस्य॒ शेषः॑।
अवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑।
अग्नी॑षोमावि॒मꣳ सु मेऽग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य॥५८॥
अनुवाक 8
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑।
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑।
यो मा॒ ददा॑ति॒ स इदे॒व माऽऽवाः᳚।
अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि।
पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्नम्᳚।
य॒त्तौ हा॑साते अहमुत्त॒रेषु॑।
व्यात्त॑मस्य प॒शवः॑ सु॒जम्भम्᳚।
पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚।
जहा᳚म्य॒न्यन्न ज॑हाम्य॒न्यम्।
अ॒हमन्नं॒ वश॒मिच्च॑रामि॥५९॥
स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत्।
को मामन्नं॑ मनु॒ष्यो॑ दयेत।
परा॑के॒ अन्नं॒ निहि॑तं लो॒क ए॒तत्।
विश्वै᳚र्दे॒वैः पि॒तृभि॑र्गु॒प्तमन्नम्᳚।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव।
म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ।
दिवं॑ च॒ पृश्ञि॑ पृथि॒वीं च॑ सा॒कम्।
तथ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः॥६०॥
अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः।
अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑माहुः।
अन्नं॑ ब्र॒ह्माणो॑ ज॒रसं॑ वदन्ति।
अन्न॑माहुः प्र॒जन॑नं प्र॒जाना᳚म्।
मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः।
स॒त्यं ब्र॑वीमि व॒ध इथ्स तस्य॑।
नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम्।
केव॑लाघो भवति केवला॒दी।
अ॒हं मे॒घः स्त॒नय॒न्वर्ष॑न्नस्मि।
माम॑दन्त्य॒हम॑द्म्य॒न्यान्॥६१॥
अ॒हꣳ सद॒मृतो॑ भवामि।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति।
दे॒वीं वाच॑मजनयन्त॒ यद्वाग्वद॑न्ती।
अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम्।
यस्यां᳚ दे॒वा अ॑दधु॒र्भोज॑नानि।
एका᳚क्षरां द्वि॒पदा॒ꣳ॒ षट्प॑दां च।
वाचं॑ दे॒वा उप॑ जीवन्ति॒ विश्वे᳚।
वाचं॑ दे॒वा उप॑ जीवन्ति॒ विश्वे᳚।
वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚।
वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता॥६२॥
सा नो॒ हवं॑ जुषता॒मिन्द्र॑पत्नी।
वाग॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑।
वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑।
सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त्।
अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु।
यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑।
अ॒न्वैच्छं॑ दे॒वास्तप॑सा॒ श्रमे॑ण।
तान्दे॒वीं वाचꣳ॑ ह॒विषा॑ यजामहे।
सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के।
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑॥६३॥
तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑।
गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति।
तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति।
श्र॒द्धया॒ऽग्निः समि॑ध्यते।
श्र॒द्धया॑ विन्दते ह॒विः।
श्र॒द्धां भग॑स्य मू॒र्धनि॑।
वच॒सा वे॑दयामसि।
प्रि॒यꣴ श्र॑द्धे॒ दद॑तः।
प्रि॒यꣴ श्र॑द्धे॒ दिदा॑सतः।
प्रि॒यं भो॒जेषु॒ यज्व॑सु॥६४॥
इ॒दं म॑ उदि॒तं कृ॑धि।
यथा॑ दे॒वा असु॑रेषु।
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे।
ए॒वं भो॒जेषु॒ यज्व॑सु।
अ॒स्माक॑मुदि॒तं कृ॑धि।
श्र॒द्धां दे॑वा॒ यज॑मानाः।
वा॒युगो॑पा॒ उपा॑सते।
श्र॒द्धाꣳ हृ॑द॒य्य॑याऽऽकू᳚त्या।
श्र॒द्धया॑ हूयते ह॒विः।
श्र॒द्धां प्रा॒तर्ह॑वामहे॥६५॥
श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑।
श्र॒द्धाꣳ सूर्य॑स्य नि॒म्रुचि॑।
श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚।
श्र॒द्धा दे॒वानधि॑ वस्ते।
श्र॒द्धा विश्व॑मि॒दं जग॑त्।
श्र॒द्धां काम॑स्य मा॒तरम्᳚।
ह॒विषा॑ वर्धयामसि।
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त्।
वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः॥६६॥
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑।
पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम्।
अ॒न्तरि॑क्षं वि॒श्वरू॑प॒ आवि॑वेश।
तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम्।
ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः।
ब्रह्म॑ दे॒वान॑जनयत्।
ब्रह्म॒ विश्व॑मि॒दं जग॑त्।
ब्रह्म॑णः क्ष॒त्रं निर्मि॑तम्।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚।
अ॒न्तर॑स्मिन्नि॒मे लो॒काः॥६७॥
अ॒न्तर्विश्व॑मि॒दं जग॑त्।
ब्रह्मै॒व भू॒तानां॒ ज्येष्ठम्᳚।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम्।
ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत्।
ब्रह्म॑न्निन्द्रप्रजाप॒ती।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑।
ना॒वीवा॒न्तः स॒माहि॑ता।
चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नयः॑।
इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्।
घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरम्᳚॥६८॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम्।
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्।
सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे।
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्युः।
इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः।
इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति।
उपेद्द॑दाति॒ न स्वं मु॑षायति।
भूयो॑भूयो र॒यिमिद॑स्य व॒र्धयन्॑।
अभि॑न्ने खि॒ल्ले नि द॑धाति देव॒युम्।
न ता न॑शन्ति॒ न ता अर्वा᳚॥६९॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात्।
गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः।
इ॒मा या गावः॒ सज॑नास॒ इन्द्रः॑।
इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्रम्᳚।
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑त्।
अ॒श्ली॒लं चि॑त्कृणुथा सु॒प्रती॑कम्।
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचः।
बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑।
प्र॒जाव॑तीः सू॒यव॑सꣳ रि॒शन्तीः᳚।
शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः।
मा वः॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑सः।
परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात्।
उपे॒दमु॑प॒पर्च॑नम्।
आ॒सु गोषूप॑पृच्यताम्।
उप॑र्ष॒भस्य॒ रेत॑सि।
उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚॥७०॥
अनुवाक 9
ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत्।
तेजो॒ वसु॑मद्राजतो दि॒वि।
सामा᳚त्माना चरतः सामचा॒रिणा᳚।
ययो᳚र्व्र॒तं न म॒मे जातु॑ दे॒वयोः᳚।
उ॒भावन्तौ॒ परि॑ यात॒ अर्म्या᳚।
दि॒वो न र॒श्मीꣴस्त॑नु॒तो व्य॑र्ण॒वे।
उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू।
सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती।
पती᳚ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः।
सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा॥७१॥
वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या।
ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता।
वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता।
सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी।
सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒षद॑र्शता।
म॒न॒स्विनो॒भानु॑चर॒तोनु॒ सन्दिवम्᳚।
अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति।
द्यावा॒ क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑।
अ॒स्मे सू᳚र्याचन्द्र॒मसा॑ऽभि॒चक्षे᳚।
श्र॒द्धेकमि॑न्द्र चरतो विचर्तु॒रम्॥७२॥
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ।
शिशू॒ क्रीड॑न्तौ॒ परि॑ यातो अध्व॒रम्।
विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒ चष्टे᳚।
ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑।
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासा॒ꣳ॒ राजा᳚।
यासां᳚ दे॒वाः शि॒वेन॑ मा॒ चक्षु॑षा पश्यत।
आपो॑ भ॒द्रा आदित्प॑श्यामि।
नास॑दासी॒न्नो सदा॑सीत्त॒दानी᳚म्।
नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत्।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्मन्॑॥७३॥
अम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम्।
न मृ॒त्युर॒मृतं॒ तर्हि॒ न।
रात्रि॑या॒ अह्न॑ आसीत्प्रके॒तः।
आनी॑दवा॒तꣴ स्व॒धया॒ तदेकम्᳚।
तस्मा᳚द्धा॒न्यं न प॒रः किं च॒ नाऽऽस॑।
तम॑ आसी॒त्तम॑सा गू॒ढमग्रे᳚ प्रके॒तम्।
स॒लि॒लꣳ सर्व॑मा इ॒दम्।
तु॒च्छेना॒भ्वपि॑हितं॒ यदासी᳚त्।
तम॑स॒स्तन्म॑हि॒ना जा॑य॒तैकम्᳚।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑॥७४॥
मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त्।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्।
हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा।
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम्।
अ॒धः स्वि॑दा॒सी(३)दु॒परि॑ स्विदासी(३)त्।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्।
स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता᳚त्।
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत्।
कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय॥७५॥
अथा॒ को वे॑द॒ यत॑ आब॒भूव॑।
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॑।
यदि॑ वा द॒धे यदि॑ वा॒ न।
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑मन्।
सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑।
किꣴस्वि॒द्वन॒ङ्क उ॒ स वृ॒क्ष आ॑सीत्।
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒तत्।
यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑।
ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒क्ष आ॑सीत्॥७६॥
यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः।
मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः।
ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑।
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे।
प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिम्᳚।
प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम।
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम।
व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॑त्॥७७॥
राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः।
भगे॒मां धिय॒मुद॑व॒ दद॑न्नः।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः᳚।
भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम।
उ॒तेदानीं॒ भग॑वन्तः स्याम।
उ॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म्।
उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य।
व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म।
भग॑ ए॒व भग॑वाꣳ अस्तु देवाः॥७८॥
तेन॑ व॒यं भग॑वन्तः स्याम।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि।
स नो॑ भग पुर ए॒ता भ॑वे॒ह।
सम॑ध्व॒रायो॒षसो॑ नमन्त।
द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नः।
रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु।
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑।
वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः।
यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः॥७९॥