मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूर्यनारायण पूजा

सूर्यनारायण पूजा. Also called surya puja, suryanarayana puja, ratha saptami, pongal puja.

3

मकरसङ्क्रान्तौ उत्तरायणपुण्यकाले आचर्यते। तद्दिने पितृतर्पणमपि। नवतण्डुलैः पायसं (पोङ्गल्) पक्त्वा मध्याह्ने गोमयमण्डले सूर्यनारायणं पूजयेत्। परेद्युः गोपूजा।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं छायासंज्ञासमेतसूर्यनारायणप्रीत्यर्थं उत्तरायणपुण्यकाले यावच्छक्ति ध्यानावाहनादिषोडशोपचारैः छायासंज्ञासमेतसूर्यनारायणपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

सूर्यनारायणध्यानम्

अप उपस्पृश्य पूर्वाङ्गपूजां कृत्वा। छायासंज्ञासमेतं श्रीसूर्यनारायणं ध्यायामि।

ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः।

केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

पद्मासनं पद्मकरं पद्मगर्भसमद्युतिम्।

सप्ताश्वरथ आसीनं तं ध्यायामि दिवाकरम् ॥

आवाहनम्

आवाहयामि देवेड्यमाश्रिताभीष्टदायिनम्।

आदित्यमखिलाराध्यं आरोग्यप्रदमच्युतम् ॥

श्रीसूर्यनारायणं आवाहयामि।

आसनम्

आसनं सङ्गृहाणेदं द्वादशात्मन् दिवाकर।

छायानायक लोकेश मया भक्त्या समर्पितम् ॥

सूर्यनारायणाय नमः। आसनं समर्पयामि।

पाद्यम्

पाद्यं ददामि भगवन् पद्मादिकुसुमैर्युतम्।

पद्मबन्धो गृहाण त्वं प्रभाकर नमोऽस्तु ते ॥

सूर्यनारायणाय नमः। पाद्यं समर्पयामि।

अर्घ्यम्

अर्घ्यं गृह्णीष्व देवेश गन्धाक्षतफलान्वितम्।

अघनाशक विश्वात्मन् हरिदश्व प्रसीद मे ॥

सूर्यनारायणाय नमः। अर्घ्यं समर्पयामि।

आचमनीयम्

ददाम्याचमनं तुभ्यं चराचरविबोधक।

भक्त्याहं भास्करायाद्य जगद्ध्वान्तविनाशिने ॥

सूर्यनारायणाय नमः। आचमनीयं समर्पयामि।

मधुपर्कः

मध्वाज्यदधिसंयुक्तं मधुपर्कं प्रभाकर।

लोकनाथ मया दत्तं गृहाण मुनिसेवित ॥

सूर्यनारायणाय नमः। मधुपर्कं समर्पयामि।

पञ्चामृतम्

मध्वाज्यशर्करायुक्तं फलक्षीरसमन्वितम्।

पञ्चामृतं प्रदास्यामि पञ्चपातकनाशिने ॥

सूर्यनारायणाय नमः। पञ्चामृतं समर्पयामि।

स्नानम्

गङ्गादिसरिदानीतं विमलं च सुवासितम्।

स्नानार्थमर्पये तोयं वेदात्मन् प्रतिगृह्यताम् ॥

सूर्यनारायणाय नमः। स्नानं समर्पयामि। आचमनीयं समर्पयामि।

वस्त्रम्

दिव्याम्बरयुगं सूक्ष्मं हेमसूत्रविराजितम्।

स्वीकुरुष्व जगद्बन्धो दिवाकर नमोऽस्तु ते ॥

सूर्यनारायणाय नमः। वस्त्रं समर्पयामि।

उपवीतम्

ब्रह्मविष्णुमहेशानवपुषे विश्वचक्षुषे।

साक्षिणे कर्मणां तुभ्यं उपवीतं ददाम्यहम् ॥

सूर्यनारायणाय नमः। उपवीतं समर्पयामि।

आभरणानि

हारकुण्डलकेयूरकिरीटवलयानि च।

अनेकरत्नखचितान्यर्पयामि दिवाकर ॥

सूर्यनारायणाय नमः। आभरणानि समर्पयामि।

गन्धः

कस्तूरीकुंकुमोपेतं घनसारविमिश्रितम्।

गन्धं गृहाण भगवन् पुण्यगन्ध दिवाकर ॥

सूर्यनारायणाय नमः। गन्धं समर्पयामि। हरिद्राकुंकुमं समर्पयामि। अक्षतान् समर्पयामि।

पुष्पाणि

जाजीचम्पकपुन्नागमल्लिकावकुलानि च।

अर्पयामि सुरश्रेष्ठ सरसीरुहनायक ॥

सूर्यनारायणाय नमः। पुष्पाणि समर्पयामि।

द्वादशनामपूजा
मित्राय नमः
रवये नमः
सूर्याय नमः
भानवे नमः
खगाय नमः
पूष्णे नमः
हिरण्यगर्भाय नमः
मरीचये नमः
आदित्याय नमः
सवित्रे नमः
अर्काय नमः
भास्कराय नमः
अङ्गपूजा
पावनाय नमःपादौ पूजयामि।
ग्रहपतये नमःगुल्फौ पूजयामि।
जगदानन्दाय नमःजानुनी पूजयामि।
अनूरुसारथये नमःऊरू पूजयामि।
त्रयीमयाय नमःकटिं पूजयामि।
छायाप्रियाय नमःनाभिं पूजयामि।
आकाशचारिणे नमःउदरं पूजयामि।
जगच्चक्षुषे नमःवक्षस्स्थलं पूजयामि।
दिवाकराय नमःहस्तौ पूजयामि।
कालात्मने नमःकण्ठं पूजयामि।
सप्ताश्वाय नमःमुखं पूजयामि।
सुकपोलाय नमःकपोलौ पूजयामि।
विशालाक्षाय नमःअक्षिणी पूजयामि।
कर्णजनकाय नमःकर्णौ पूजयामि।
रश्मिमालिने नमःललाटं पूजयामि।
एकचक्ररथाय नमःशिरः पूजयामि।
सर्वसाक्षिणे नमःसर्वाण्यङ्गानि पूजयामि ॥
अष्टोत्तरशतनामार्चना
सूर्य अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ अरुणाय नमः
  2. २ॐ शरण्याय नमः
  3. ३ॐ करुणारससिन्धवे नमः
  4. ४ॐ असमानबलाय नमः
  5. ५ॐ आर्तरक्षकाय नमः
  6. ६ॐ आदित्याय नमः
  7. ७ॐ आदिभूताय नमः
  8. ८ॐ अखिलागमवेदिने नमः
  9. ९ॐ अच्युताय नमः
  10. १०ॐ अखिलज्ञाय नमः
  11. ११ॐ अनन्ताय नमः
  12. १२ॐ इनाय नमः
  13. १३ॐ विश्वरूपाय नमः
  14. १४ॐ इज्याय नमः
  15. १५ॐ इन्द्राय नमः
  16. १६ॐ भानवे नमः
  17. १७ॐ इन्दिरामन्दिराप्ताय नमः
  18. १८ॐ वन्दनीयाय नमः
  19. १९ॐ ईशाय नमः
  20. २०ॐ सुप्रसन्नाय नमः
  21. २१ॐ सुशीलाय नमः
  22. २२ॐ सुवर्चसे नमः
  23. २३ॐ वसुप्रदाय नमः
  24. २४ॐ वसवे नमः
  25. २५ॐ वासुदेवाय नमः
  26. २६ॐ उज्ज्वलाय नमः
  27. २७ॐ उग्ररूपाय नमः
  28. २८ॐ ऊर्ध्वगाय नमः
  29. २९ॐ विवस्वते नमः
  30. ३०ॐ उद्यत्किरणजालाय नमः
  31. ३१ॐ हृषीकेशाय नमः
  32. ३२ॐ ऊर्जस्वलाय नमः
  33. ३३ॐ वीराय नमः
  34. ३४ॐ निर्जराय नमः
  35. ३५ॐ जयाय नमः
  36. ३६ॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः
  37. ३७ॐ ऋषिवन्द्याय नमः
  38. ३८ॐ रुग्घन्त्रे नमः
  39. ३९ॐ ऋक्षचक्रचराय नमः
  40. ४०ॐ ऋजुस्वभावचित्ताय नमः
  41. ४१ॐ नित्यस्तुत्याय नमः
  42. ४२ॐ ऋकारमातृकावर्णरूपाय नमः
  43. ४३ॐ उज्ज्वलतेजसे नमः
  44. ४४ॐ ऋक्षाधिनाथमित्राय नमः
  45. ४५ॐ पुष्कराक्षाय नमः
  46. ४६ॐ लुप्तदन्ताय नमः
  47. ४७ॐ शान्ताय नमः
  48. ४८ॐ कान्तिदाय नमः
  49. ४९ॐ घनाय नमः
  50. ५०ॐ कनत्कनकभूषाय नमः
  51. ५१ॐ खद्योताय नमः
  52. ५२ॐ लूनिताखिलदैत्याय नमः
  53. ५३ॐ सत्यानन्दस्वरूपिणे नमः
  54. ५४ॐ अपवर्गप्रदाय नमः
  55. ५५ॐ आर्तशरण्याय नमः
  56. ५६ॐ एकाकिने नमः
  57. ५७ॐ भगवते नमः
  58. ५८ॐ सृष्टिस्थित्यन्तकारिणे नमः
  59. ५९ॐ गुणात्मने नमः
  60. ६०ॐ घृणिभृते नमः
  61. ६१ॐ बृहते नमः
  62. ६२ॐ ब्रह्मणे नमः
  63. ६३ॐ ऐश्वर्यदाय नमः
  64. ६४ॐ शर्वाय नमः
  65. ६५ॐ हरिदश्वाय नमः
  66. ६६ॐ शौरये नमः
  67. ६७ॐ दशदिक्सम्प्रकाशाय नमः
  68. ६८ॐ भक्तवश्याय नमः
  69. ६९ॐ ओजस्कराय नमः
  70. ७०ॐ जयिने नमः
  71. ७१ॐ जगदानन्दहेतवे नमः
  72. ७२ॐ जन्ममृत्युजराव्याधिवर्जिताय नमः
  73. ७३ॐ औच्चस्थान-समारूढ-रथस्थाय नमः
  74. ७४ॐ असुरारये नमः
  75. ७५ॐ कमनीयकराय नमः
  76. ७६ॐ अब्जवल्लभाय नमः
  77. ७७ॐ अन्तर्बहिः प्रकाशाय नमः
  78. ७८ॐ अचिन्त्याय नमः
  79. ७९ॐ आत्मरूपिणे नमः
  80. ८०ॐ अच्युताय नमः
  81. ८१ॐ अमरेशाय नमः
  82. ८२ॐ परस्मै ज्योतिषे नमः
  83. ८३ॐ अहस्कराय नमः
  84. ८४ॐ रवये नमः
  85. ८५ॐ हरये नमः
  86. ८६ॐ परमात्मने नमः
  87. ८७ॐ तरुणाय नमः
  88. ८८ॐ वरेण्याय नमः
  89. ८९ॐ ग्रहाणां पतये नमः
  90. ९०ॐ भास्कराय नमः
  91. ९१ॐ आदिमध्यान्तरहिताय नमः
  92. ९२ॐ सौख्यप्रदाय नमः
  93. ९३ॐ सकलजगतां पतये नमः
  94. ९४ॐ सूर्याय नमः
  95. ९५ॐ कवये नमः
  96. ९६ॐ नारायणाय नमः
  97. ९७ॐ परेशाय नमः
  98. ९८ॐ तेजोरूपाय नमः
  99. ९९ॐ श्रीं हिरण्यगर्भाय नमः
  100. १००ॐ ह्रीं सम्पत्कराय नमः
  101. १०१ॐ ऐं इष्टार्थदाय नमः
  102. १०२ॐ अं सुप्रसन्नाय नमः
  103. १०३ॐ श्रीमते नमः
  104. १०४ॐ श्रेयसे नमः
  105. १०५ॐ सौख्यदायिने नमः
  106. १०६ॐ दीप्तमूर्तये नमः
  107. १०७ॐ निखिलागमवेद्याय नमः
  108. १०८ॐ नित्यानन्दाय नमः
धूपः

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

सूर्यनारायणाय नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥

सूर्यनारायणाय नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।

नैवेद्यम्

अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।

दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥

सूर्यनारायणाय नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

सूर्यनारायणाय नमः। कर्पूरताम्बूलं समर्पयामि।

नीराजनम्

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।

त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥

सूर्यनारायणाय नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।

पुष्पाञ्जलिः

मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।

पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देव त्वदंघ्रौ विनिवेशयामि ॥

सूर्यनारायणाय नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।

प्रदक्षिणनमस्काराः

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।

प्रदक्षिणं करोमि त्वां प्रसीद परमेश्वर ॥

नमो नमः सुरवरपूजिताङ्घ्रये

नमो नमो निरुपममङ्गलात्मने।

नमो नमो विपुलपदैकसिद्धये

नमो नमः परमदयानिधे नमः ॥

सूर्यनारायणाय नमः। प्रदक्षिणनमस्कारान् समर्पयामि।

प्रार्थना

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे।

त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशंकरात्मने ॥

यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं दीप्तमनादिरूपम्।

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥

सूर्यनारायणाय नमः। नमस्कारान् समर्पयामि ॥ प्रार्थना ॥

समर्पणम्

अनया पूजया भगवान् सर्वात्मकः श्रीसूर्यनारायणः प्रीयताम् ॥