- १ॐ तरुणादित्यसङ्काशायै नमः
- २ॐ सहस्रनयनोज्ज्वलायै नमः
- ३ॐ विचित्रमाल्याभरणायै नमः
- ४ॐ तुहिनाचलवासिन्यै नमः
- ५ॐ वरदाभयहस्ताब्जायै नमः
- ६ॐ रेवातीरनिवासिन्यै नमः
- ७ॐ प्रणित्ययविशेषज्ञायै नमः
- ८ॐ यन्त्राकृतविराजितायै नमः
- ९ॐ भद्रपादप्रियायै नमः
- १०ॐ गोविन्दपदगामिन्यै नमः
- ११ॐ देवर्षिगणसंस्तुत्यायै नमः
- १२ॐ वनमालाविभूषितायै नमः
- १३ॐ स्यन्दनोत्तमसंस्थानायै नमः
- १४ॐ धीरजीमूतनिस्वनायै नमः
- १५ॐ मत्तमातङ्गगमनायै नमः
- १६ॐ हिरण्यकमलासनायै नमः
- १७ॐ धीजनाधारनिरतायै नमः
- १८ॐ योगिन्यै नमः
- १९ॐ योगधारिण्यै नमः
- २०ॐ नटनाट्यैकनिरतायै नमः
- २१ॐ प्रणवाद्यक्षरात्मिकायै नमः
- २२ॐ चोरचारक्रियासक्तायै नमः
- २३ॐ दारिद्र्यच्छेदकारिण्यै नमः
- २४ॐ यादवेन्द्रकुलोद्भूतायै नमः
- २५ॐ तुरीयपथगामिन्यै नमः
- २६ॐ गायत्र्यै नमः
- २७ॐ गोमत्यै नमः
- २८ॐ गङ्गायै नमः
- २९ॐ गौतम्यै नमः
- ३०ॐ गरुडासनायै नमः
- ३१ॐ गेयगानप्रियायै नमः
- ३२ॐ गौर्यै नमः
- ३३ॐ गोविन्दपदपूजितायै नमः
- ३४ॐ गन्धर्वनगराकारायै नमः
- ३५ॐ गौरवर्णायै नमः
- ३६ॐ गणेश्वर्यै नमः
- ३७ॐ गदाश्रयायै नमः
- ३८ॐ गुणवत्यै नमः
- ३९ॐ गह्वर्यै नमः
- ४०ॐ गणपूजितायै नमः
- ४१ॐ गुणत्रयसमायुक्तायै नमः
- ४२ॐ गुणत्रयविवर्जितायै नमः
- ४३ॐ गुहावासायै नमः
- ४४ॐ गुणाधारायै नमः
- ४५ॐ गुह्यायै नमः
- ४६ॐ गन्धर्वरूपिण्यै नमः
- ४७ॐ गार्ग्यप्रियायै नमः
- ४८ॐ गुरुपदायै नमः
- ४९ॐ गुह्यलिङ्गाङ्गधारिण्यै नमः
- ५०ॐ सावित्र्यै नमः
- ५१ॐ सूर्यतनयायै नमः
- ५२ॐ सुषुम्नानाडिभेदिन्यै नमः
- ५३ॐ सुप्रकाशायै नमः
- ५४ॐ सुखासीनायै नमः
- ५५ॐ सुमत्यै नमः
- ५६ॐ सुरपूजितायै नमः
- ५७ॐ सुषुप्त्यवस्थायै नमः
- ५८ॐ सुदत्यै नमः
- ५९ॐ सुन्दर्यै नमः
- ६०ॐ सागराम्बरायै नमः
- ६१ॐ सुधांशुबिम्बवदनायै नमः
- ६२ॐ सुस्तन्यै नमः
- ६३ॐ सुविलोचनायै नमः
- ६४ॐ सीतायै नमः
- ६५ॐ सर्वाश्रयायै नमः
- ६६ॐ सन्ध्यायै नमः
- ६७ॐ सुफलायै नमः
- ६८ॐ सुखदायिन्यै नमः
- ६९ॐ सुभ्रुवे नमः
- ७०ॐ सुनासायै नमः
- ७१ॐ सुश्रोण्यै नमः
- ७२ॐ संसारार्णवतारिण्यै नमः
- ७३ॐ सामगानप्रियायै नमः
- ७४ॐ साध्व्यै नमः
- ७५ॐ सर्वाभरणपूजितायै नमः
- ७६ॐ वैष्णव्यै नमः
- ७७ॐ विमलाकारायै नमः
- ७८ॐ महेन्द्र्यै नमः
- ७९ॐ मन्त्ररूपिण्यै नमः
- ८०ॐ महालक्ष्म्यै नमः
- ८१ॐ महासिद्ध्यै नमः
- ८२ॐ महामायायै नमः
- ८३ॐ महेश्वर्यै नमः
- ८४ॐ मोहिन्यै नमः
- ८५ॐ मधुसूदनचोदितायै नमः
- ८६ॐ मीनाक्ष्यै नमः
- ८७ॐ मधुरावासायै नमः
- ८८ॐ नगेन्द्रतनयायै नमः
- ८९ॐ उमायै नमः
- ९०ॐ त्रिविक्रमपदाक्रान्तायै नमः
- ९१ॐ त्रिस्वरायै नमः
- ९२ॐ त्रिलोचनायै नमः
- ९३ॐ सूर्यमण्डलमध्यस्थायै नमः
- ९४ॐ चन्द्रमण्डलसंस्थितायै नमः
- ९५ॐ वह्निमण्डलमध्यस्थायै नमः
- ९६ॐ वायुमण्डलसंस्थितायै नमः
- ९७ॐ व्योममण्डलमध्यस्थायै नमः
- ९८ॐ चक्रिण्यै नमः
- ९९ॐ चक्ररूपिण्यै नमः
- १००ॐ कालचक्रवितानस्थायै नमः
- १०१ॐ चन्द्रमण्डलदर्पणायै नमः
- १०२ॐ ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः
- १०३ॐ महामारुतवीजितायै नमः
- १०४ॐ सर्वमन्त्राश्रयायै नमः
- १०५ॐ धेनवे नमः
- १०६ॐ पापघ्न्यै नमः
- १०७ॐ परमेश्वर्यै नमः
इति श्रीगायत्र्यष्टोत्तरशतनामावलिः सम्पूर्णा