- १ॐ मातङ्ग्यै नमः
- २ॐ विजयायै नमः
- ३ॐ श्यामायै नमः
- ४ॐ सचिवेश्यै नमः
- ५ॐ शुकप्रियायै नमः
- ६ॐ नीपप्रियायै नमः
- ७ॐ कदम्बेश्यै नमः
- ८ॐ मदघूर्णितलोचनायै नमः
- ९ॐ भक्तानुरक्तायै नमः
- १०ॐ मन्त्रेश्यै नमः
- ११ॐ पुष्पिण्यै नमः
- १२ॐ मन्त्रिण्यै नमः
- १३ॐ शिवायै नमः
- १४ॐ कलावत्यै नमः
- १५ॐ रक्तवस्त्रायै नमः
- १६ॐ अभिरामायै नमः
- १७ॐ सुमध्यमायै नमः
- १८ॐ त्रिकोणमध्यनिलयायै नमः
- १९ॐ चारुचन्द्रावतंसिन्यै नमः
- २०ॐ रहःपूज्यायै नमः
- २१ॐ रहःकेलये नमः
- २२ॐ योनिरूपायै नमः
- २३ॐ महेश्वर्यै नमः
- २४ॐ भगप्रियायै नमः
- २५ॐ भगाराध्यायै नमः
- २६ॐ सुभगायै नमः
- २७ॐ भगमालिन्यै नमः
- २८ॐ रतिप्रियायै नमः
- २९ॐ चतुर्बाहवे नमः
- ३०ॐ सुवेण्यै नमः
- ३१ॐ चारुहासिन्यै नमः
- ३२ॐ मधुप्रियायै नमः
- ३३ॐ श्रीजनन्यै नमः
- ३४ॐ शर्वाण्यै नमः
- ३५ॐ शिवात्मिकायै नमः
- ३६ॐ राज्यलक्ष्मीप्रदायै नमः
- ३७ॐ नित्यायै नमः
- ३८ॐ नीपोद्याननिवासिन्यै नमः
- ३९ॐ वीणावत्यै नमः
- ४०ॐ कम्बुकण्ठ्यै नमः
- ४१ॐ कामेश्यै नमः
- ४२ॐ यज्ञरूपिण्यै नमः
- ४३ॐ सङ्गीतरसिकायै नमः
- ४४ॐ नादप्रियायै नमः
- ४५ॐ नीलोत्पलद्युतये नमः
- ४६ॐ मतङ्गतनयायै नमः
- ४७ॐ लक्ष्म्यै नमः
- ४८ॐ व्यापिन्यै नमः
- ४९ॐ सर्वरञ्जिन्यै नमः
- ५०ॐ दिव्यचन्दनदिग्धाङ्ग्यै नमः
- ५१ॐ यावकार्द्रपदाम्बुजायै नमः
- ५२ॐ कस्तूरीतिलकायै नमः
- ५३ॐ सुभ्रुवे नमः
- ५४ॐ बिम्बोष्ठ्यै नमः
- ५५ॐ मदालसायै नमः
- ५६ॐ विद्याराज्ञ्यै नमः
- ५७ॐ भगवत्यै नमः
- ५८ॐ सुधापानानुमोदिन्यै नमः
- ५९ॐ शङ्खताटङ्किन्यै नमः
- ६०ॐ गुह्यायै नमः
- ६१ॐ योषित्पुरुषमोहिन्यै नमः
- ६२ॐ किङ्करीभूतगीर्वाण्यै नमः
- ६३ॐ कौलिन्यै नमः
- ६४ॐ अक्षररूपिण्यै नमः
- ६५ॐ विद्युत्कपोलफलिकायै नमः
- ६६ॐ मुक्तारत्नविभूषितायै नमः
- ६७ॐ सुनासायै नमः
- ६८ॐ तनुमध्यायै नमः
- ६९ॐ श्रीविद्यायै नमः
- ७०ॐ भुवनेश्वर्यै नमः
- ७१ॐ पृथुस्तन्यै नमः
- ७२ॐ ब्रह्मविद्यायै नमः
- ७३ॐ सुधासागरवासिन्यै नमः
- ७४ॐ गुह्यविद्यायै नमः
- ७५ॐ अनवद्याङ्ग्यै नमः
- ७६ॐ यन्त्रिण्यै नमः
- ७७ॐ रतिलोलुपायै नमः
- ७८ॐ त्रैलोक्यसुन्दर्यै नमः
- ७९ॐ रम्यायै नमः
- ८०ॐ स्रग्विण्यै नमः
- ८१ॐ कीरधारिण्यै नमः
- ८२ॐ आत्मैक्यसुमुखीभूतजगदाह्लादकारिण्यै नमः
- ८३ॐ कल्पातीतायै नमः
- ८४ॐ कुण्डलिन्यै नमः
- ८५ॐ कलाधारायै नमः
- ८६ॐ मनस्विन्यै नमः
- ८७ॐ अचिन्त्यानन्तविभवायै नमः
- ८८ॐ रत्नसिंहासनेश्वर्यै नमः
- ८९ॐ पद्मासनायै नमः
- ९०ॐ कामकलायै नमः
- ९१ॐ स्वयम्भूकुसुमप्रियायै नमः
- ९२ॐ कल्याण्यै नमः
- ९३ॐ नित्यपुष्पायै नमः
- ९४ॐ शाम्भवीवरदायिन्यै नमः
- ९५ॐ सर्वविद्याप्रदायै नमः
- ९६ॐ वाच्यायै नमः
- ९७ॐ गुह्योपनिषदुत्तमायै नमः
- ९८ॐ नृपवश्यकर्यै नमः
- ९९ॐ भोक्त्र्यै नमः
- १००ॐ जगत्प्रत्यक्षसाक्षिण्यै नमः
- १०१ॐ ब्रह्मविष्ण्वीशजनन्यै नमः
- १०२ॐ सर्वसौभाग्यदायिन्यै नमः
- १०३ॐ गुह्यातिगुह्यगोप्त्र्यै नमः
- १०४ॐ नित्यक्लिन्नायै नमः
- १०५ॐ अमृतोद्भवायै नमः
- १०६ॐ कैवल्यदात्र्यै नमः
- १०७ॐ वशिन्यै नमः
- १०८ॐ सर्वसम्पत्प्रदायिन्यै नमः
इति श्रीश्यामलाष्टोत्तरशतनामावलिः