- १ॐ कालकण्ठ्यै नमः
- २ॐ त्रिपुरायै नमः
- ३ॐ बालायै नमः
- ४ॐ मायायै नमः
- ५ॐ त्रिपुरसुन्दर्यै नमः
- ६ॐ सुन्दर्यै नमः
- ७ॐ सौभाग्यवत्यै नमः
- ८ॐ क्लीङ्कार्यै नमः
- ९ॐ सर्वमङ्गलायै नमः
- १०ॐ ऐङ्कार्यै नमः
- ११ॐ स्कन्दजनन्यै नमः
- १२ॐ परायै नमः
- १३ॐ पञ्चदशाक्षर्यै नमः
- १४ॐ त्रैलोक्यमोहनाधीशायै नमः
- १५ॐ सर्वाशापूरवल्लभायै नमः
- १६ॐ सर्वसङ्क्षोभणाधीशायै नमः
- १७ॐ सर्वसौभाग्यवल्लभायै नमः
- १८ॐ सर्वार्थसाधकाधीशायै नमः
- १९ॐ सर्वरक्षाकराधिपायै नमः
- २०ॐ सर्वरोगहराधीशायै नमः
- २१ॐ सर्वसिद्धिप्रदाधिपायै नमः
- २२ॐ सर्वानन्दमयाधीशायै नमः
- २३ॐ योगिनीचक्रनायिकायै नमः
- २४ॐ भक्तानुरक्तायै नमः
- २५ॐ रक्ताङ्ग्यै नमः
- २६ॐ शङ्करार्धशरीरिण्यै नमः
- २७ॐ पुष्पबाणेक्षुकोदण्डपाशाङ्कुशकरायै नमः
- २८ॐ उज्वलायै नमः
- २९ॐ सच्चिदानन्दलहर्यै नमः
- ३०ॐ श्रीविद्यायै नमः
- ३१ॐ परमेश्वर्यै नमः
- ३२ॐ अनङ्गकुसुमोद्यानायै नमः
- ३३ॐ चक्रेश्वर्यै नमः
- ३४ॐ भुवनेश्वर्यै नमः
- ३५ॐ गुप्तायै नमः
- ३६ॐ गुप्ततरायै नमः
- ३७ॐ नित्यायै नमः
- ३८ॐ नित्यक्लिन्नायै नमः
- ३९ॐ मदद्रवायै नमः
- ४०ॐ मोहिन्यै नमः
- ४१ॐ परमानन्दायै नमः
- ४२ॐ कामेश्यै नमः
- ४३ॐ तरुणीकलायै नमः
- ४४ॐ श्रीकलावत्यै नमः
- ४५ॐ भगवत्यै नमः
- ४६ॐ पद्मरागकिरीटायै नमः
- ४७ॐ रक्तवस्त्रायै नमः
- ४८ॐ रक्तभूषायै नमः
- ४९ॐ रक्तगन्धानुलेपनायै नमः
- ५०ॐ सौगन्धिकलसद्वेण्यै नमः
- ५१ॐ मन्त्रिण्यै नमः
- ५२ॐ तन्त्ररूपिण्यै नमः
- ५३ॐ तत्वमय्यै नमः
- ५४ॐ सिद्धान्तपुरवासिन्यै नमः
- ५५ॐ श्रीमत्यै नमः
- ५६ॐ चिन्मय्यै नमः
- ५७ॐ देव्यै नमः
- ५८ॐ कौलिन्यै नमः
- ५९ॐ परदेवतायै नमः
- ६०ॐ कैवल्यरेखायै नमः
- ६१ॐ वशिन्यै नमः
- ६२ॐ सर्वेश्वर्यै नमः
- ६३ॐ सर्वमातृकायै नमः
- ६४ॐ विष्णुस्वस्रे नमः
- ६५ॐ वेदमय्यै नमः
- ६६ॐ सर्वसम्पत्प्रदायिन्यै नमः
- ६७ॐ किङ्करीभूतगीर्वाण्यै नमः
- ६८ॐ सुतवापिविनोदिन्यै नमः
- ६९ॐ मणिपूरसमासीनायै नमः
- ७०ॐ अनाहताब्जवासिन्यै नमः
- ७१ॐ विशुद्धिचक्रनिलयायै नमः
- ७२ॐ आज्ञापद्मनिवासिन्यै नमः
- ७३ॐ अष्टत्रिंशत्कलामूर्त्यै नमः
- ७४ॐ सुषुम्नाद्वारमध्यकायै नमः
- ७५ॐ योगीश्वरमनोध्येयायै नमः
- ७६ॐ परब्रह्मस्वरूपिण्यै नमः
- ७७ॐ चतुर्भुजायै नमः
- ७८ॐ चन्द्रचूडायै नमः
- ७९ॐ पुराणागमरूपिण्यै नमः
- ८०ॐ ओङ्कार्यै नमः
- ८१ॐ विमलायै नमः
- ८२ॐ विद्यायै नमः
- ८३ॐ पञ्चप्रणवरूपिण्यै नमः
- ८४ॐ भूतेश्वर्यै नमः
- ८५ॐ भूतमय्यै नमः
- ८६ॐ पञ्चाशत्पीठरूपिण्यै नमः
- ८७ॐ षोडान्यासमहारूपिण्यै नमः
- ८८ॐ कामाक्ष्यै नमः
- ८९ॐ दशमातृकायै नमः
- ९०ॐ आधारशक्त्यै नमः
- ९१ॐ अरुणायै नमः
- ९२ॐ लक्ष्म्यै नमः
- ९३ॐ त्रिपुरभैरव्यै नमः
- ९४ॐ रहःपूजासमालोलायै नमः
- ९५ॐ रहोयन्त्रस्वरूपिण्यै नमः
- ९६ॐ त्रिकोणमध्यनिलयायै नमः
- ९७ॐ बिन्दुमण्डलवासिन्यै नमः
- ९८ॐ वसुकोणपुरावासायै नमः
- ९९ॐ दशारद्वयवासिन्यै नमः
- १००ॐ चतुर्दशारचक्रस्थायै नमः
- १०१ॐ वसुपद्मनिवासिन्यै नमः
- १०२ॐ स्वराब्जपत्रनिलयायै नमः
- १०३ॐ वृत्तत्रयवासिन्यै नमः
- १०४ॐ चतुरस्रस्वरूपास्यायै नमः
- १०५ॐ नवचक्रस्वरूपिण्यै नमः
- १०६ॐ महानित्यायै नमः
- १०७ॐ विजयायै नमः
- १०८ॐ श्रीराजराजेश्वर्यै नमः
इति श्री-कामाक्ष्यष्टोत्तरशतनामावलिः सम्पूर्णा