सङ्कष्टहर इत्यपि गणपतेर्नाम। कृष्णपक्षचतुर्थ्यां दिवा उपोष्य रात्रौ चन्द्रोदये पूजां कृत्वा अर्घ्यं दत्त्वा भुञ्जीत। माघकृष्णचतुर्थी विशेषतः प्रशस्ता। अर्घ्यानन्तरं विप्रं पीठे उपवेश्य उपायनं दद्यात्।
पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा
पूर्वाङ्गपूजा
संवृणु
आचमनम्
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामः — सङ्कल्पः
अप उपस्पृश्य
ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।
महद्भन्दनम्
आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥
आसनपूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।
पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥
घण्टापूजा
घण्टानादं कृत्वा।
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥
विघ्नेश्वरपूजा
अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।
आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
| सुमुखाय नमः |
| एकदन्ताय नमः |
| कपिलाय नमः |
| गजकर्णिकाय नमः |
| लम्बोदराय नमः |
| विकटाय नमः |
| विघ्नराजाय नमः |
| विनायकाय नमः |
| धूमकेतवे नमः |
| गणाध्यक्षाय नमः |
| फालचन्द्राय नमः |
| गजाननाय नमः |
| वक्रतुण्डाय नमः |
| शूर्पकर्णाय नमः |
| हेरम्बाय नमः |
| स्कन्दपूर्वजाय नमः |
| सिद्धिविनायकाय नमः |
| श्रीमहागणपतये नमः |
उपचाराः
धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।
प्रार्थना
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
इति प्रार्थ्य। प्राणायामः।
सङ्कल्पः
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं संकटहरगणपतिप्रीत्यर्थं संकटहरगणपतिपूजां करिष्ये।
अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।
कलशपूजा
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
| गङ्गायै नमः | |
| यमुनायै नमः | |
| गोदावर्यै नमः | |
| सरस्वत्यै नमः | |
| नर्मदायै नमः | |
| सिन्धवे नमः | |
| कावेर्यै नमः | पुष्पैः पूजयामि। |
शङ्खपूजा
कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥
आत्मपूजा
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥
पीठपूजा
| ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः |
| आधारशक्त्यै नमः |
| मूलप्रकृत्यै नमः |
| आदिवराहाय नमः |
| आदिकूर्माय नमः |
| अनन्ताय नमः |
| पृथिव्यै नमः |
| आदित्यादिनवग्रहदेवताभ्यो नमः |
| दशदिक्पालेभ्यो नमः |
गुरुध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
श्रीगुरुं ध्यायामि।
प्रधानपूजा
ध्यानम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
ध्यानम्
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्।
नानारत्नैः सुवेषाढ्यं प्रसन्नास्यं विचिन्तये ॥
संकटहरगणपतिं ध्यायामि।
आवाहनम्
आगच्छ त्वं जगन्नाथ सुरासुरनमस्कृत।
अनाथनाथ सर्वज्ञ विघ्नराज कृपां कुरु ॥
गजास्यं आवाहयामि।
आसनम्
गोप्ता त्वं सर्वलोकानां इन्द्रादीनां विशेषतः।
भक्तदारिद्र्यविच्छेत्ता एकदन्त नमोऽस्तु ते ॥
विघ्नराजाय नमः — आसनं समर्पयामि।
अर्घ्यम्
मोदकान् धारयन् हस्ते भक्तानां वरदायक।
देवदेव नमस्तेऽस्तु सर्वेषां पापनाशन ॥
शङ्करसूनवे नमः — अर्घ्यं समर्पयामि।
आचमनीयम्
कुरुष्वाचमनं देव सुरवन्द्याखुवाहन।
सर्वाघदलन स्वामिन् नीलकण्ठ नमोऽस्तु ते ॥
उमासुताय नमः — आचमनीयं समर्पयामि।
स्नानम्
गङ्गा च यमुना चैव गोदावरी सरस्वती।
नर्मदा सिन्धुः कावेरी तज्जं स्नानाय कल्पितम् ॥
हेरम्बाय नमः — स्नानं समर्पयामि। आचमनीयं समर्पयामि।
पञ्चामृतस्नानम्
स्नानं पञ्चामृतेनैव गृहाण गणनायक।
अनाथनाथ सर्वज्ञ नमो मूषकवाहन ॥
पयो दधि घृतं चैव मधु शर्करया युतम्।
पञ्चामृतेन स्नपनं गृह्यतां गणनायक ॥
वक्रतुण्डाय नमः — पञ्चामृतस्नानं समर्पयामि।
वस्त्रम्
रक्तवस्त्रयुगं दत्तं देवानामपि दुर्लभम्।
गृहाण मङ्गलं देव लम्बोदर हरात्मज ॥
शूर्पकर्णाय नमः — वस्त्रं समर्पयामि।
यज्ञोपवीतम्
ब्रह्मसूत्रं सोत्तरीयं गृहाण गणनायक।
आरक्तं ब्रह्मसूत्रं च कनकस्योत्तरीयकम् ॥
कुब्जाय नमः — यज्ञोपवीतं समर्पयामि।
गन्धः अक्षताश्च
गृहाणेश्वर सर्वज्ञ दिव्यं चन्दनमुत्तमम्।
करुणाकर पद्माक्ष गौरीसुत नमोऽस्तु ते ॥
गणेश्वराय नमः — गन्धान् धारयामि। गणनायकाय नमः — अक्षतान् समर्पयामि।
पुष्पमाला
सुगन्धिदिव्यमालां च गृहाण गणनायक।
विनायक नमस्तुभ्यं शिवसूनो नमोऽस्तु ते ॥
शिवसूनवे नमः — पुष्पमालां समर्पयामि।
अङ्गपूजा
| गणेश्वराय नमः | पादौ पूजयामि। |
| विघ्नराजाय नमः | जानुनी पूजयामि। |
| आखुवाहनाय नमः | ऊरू पूजयामि। |
| हेरम्बाय नमः | कटिं पूजयामि। |
| कामारिसूनवे नमः | नाभिं पूजयामि। |
| लम्बोदराय नमः | उदरं पूजयामि। |
| गौरीसुताय नमः | स्तनौ पूजयामि। |
| गणनायकाय नमः | हृदयं पूजयामि। |
| स्थूलकण्ठाय नमः | कण्ठं पूजयामि। |
| स्कन्दाग्रजाय नमः | स्कन्धौ पूजयामि। |
| पाशहस्ताय नमः | हस्तान् पूजयामि। |
| गजवक्त्राय नमः | वक्त्रं पूजयामि। |
| विघ्नहर्त्रे नमः | ललाटं पूजयामि। |
| सर्वेश्वराय नमः | शिरः पूजयामि। |
| गणाधिपाय नमः | सर्वाण्यङ्गानि पूजयामि। |
अष्टोत्तरशतनामार्चना
विनायक अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
- १ॐ विनायकाय नमः
- २ॐ विघ्नराजाय नमः
- ३ॐ गौरीपुत्राय नमः
- ४ॐ गणेश्वराय नमः
- ५ॐ स्कन्दाग्रजाय नमः
- ६ॐ अव्ययाय नमः
- ७ॐ पूताय नमः
- ८ॐ दक्षाय नमः
- ९ॐ अध्यक्षाय नमः
- १०ॐ द्विजप्रियाय नमः
- ११ॐ अग्निगर्वच्छिदे नमः
- १२ॐ इन्द्रश्रीप्रदाय नमः
- १३ॐ वाणीप्रदायकाय नमः
- १४ॐ सर्वसिद्धिप्रदाय नमः
- १५ॐ शर्वतनयाय नमः
- १६ॐ शर्वरीप्रियाय नमः
- १७ॐ सर्वात्मकाय नमः
- १८ॐ सृष्टिकर्त्रे नमः
- १९ॐ देवानीकार्चिताय नमः
- २०ॐ शिवाय नमः
- २१ॐ सिद्धिबुद्धिप्रदाय नमः
- २२ॐ शान्ताय नमः
- २३ॐ ब्रह्मचारिणे नमः
- २४ॐ गजाननाय नमः
- २५ॐ द्वैमातुराय नमः
- २६ॐ मुनिस्तुत्याय नमः
- २७ॐ भक्तविघ्नविनाशनाय नमः
- २८ॐ एकदन्ताय नमः
- २९ॐ चतुर्बाहवे नमः
- ३०ॐ चतुराय नमः
- ३१ॐ शक्तिसंयुताय नमः
- ३२ॐ लम्बोदराय नमः
- ३३ॐ शूर्पकर्णाय नमः
- ३४ॐ हरये नमः
- ३५ॐ ब्रह्मविदुत्तमाय नमः
- ३६ॐ काव्याय नमः
- ३७ॐ ग्रहपतये नमः
- ३८ॐ कामिने नमः
- ३९ॐ सोमसूर्याग्निलोचनाय नमः
- ४०ॐ पाशाङ्कुशधराय नमः
- ४१ॐ चण्डाय नमः
- ४२ॐ गुणातीताय नमः
- ४३ॐ निरञ्जनाय नमः
- ४४ॐ अकल्मषाय नमः
- ४५ॐ स्वयंसिद्धाय नमः
- ४६ॐ सिद्धार्चितपदाम्बुजाय नमः
- ४७ॐ बीजापूरफलासक्ताय नमः
- ४८ॐ वरदाय नमः
- ४९ॐ शाश्वताय नमः
- ५०ॐ कृतिने नमः
- ५१ॐ द्विजप्रियाय नमः
- ५२ॐ वीतभयाय नमः
- ५३ॐ गदिने नमः
- ५४ॐ चक्रिणे नमः
- ५५ॐ इक्षुचापधृते नमः
- ५६ॐ श्रीदाय नमः
- ५७ॐ अजाय नमः
- ५८ॐ उत्पलकराय नमः
- ५९ॐ श्रीपतिस्तुतिहर्षिताय नमः
- ६०ॐ कुलाद्रिभेत्त्रे नमः
- ६१ॐ जटिलाय नमः
- ६२ॐ चन्द्रचूडाय नमः
- ६३ॐ अमरेश्वराय नमः
- ६४ॐ नागयज्ञोपवीतवते नमः
- ६५ॐ कलिकल्मषनाशनाय नमः
- ६६ॐ स्थूलकण्ठाय नमः
- ६७ॐ स्वयङ्कर्त्रे नमः
- ६८ॐ सामघोषप्रियाय नमः
- ६९ॐ पराय नमः
- ७०ॐ स्थूलतुण्डाय नमः
- ७१ॐ अग्रण्याय नमः
- ७२ॐ धीराय नमः
- ७३ॐ वागीशाय नमः
- ७४ॐ सिद्धिदायकाय नमः
- ७५ॐ दूर्वाबिल्वप्रियाय नमः
- ७६ॐ कान्ताय नमः
- ७७ॐ पापहारिणे नमः
- ७८ॐ समाहिताय नमः
- ७९ॐ आश्रितश्रीकराय नमः
- ८०ॐ सौम्याय नमः
- ८१ॐ भक्तवाञ्छितदायकाय नमः
- ८२ॐ शान्ताय नमः
- ८३ॐ अच्युतार्च्याय नमः
- ८४ॐ कैवल्याय नमः
- ८५ॐ सच्चिदानन्दविग्रहाय नमः
- ८६ॐ ज्ञानिने नमः
- ८७ॐ दयायुताय नमः
- ८८ॐ दान्ताय नमः
- ८९ॐ ब्रह्मद्वेषविवर्जिताय नमः
- ९०ॐ प्रमत्तदैत्यभयदाय नमः
- ९१ॐ व्यक्तमूर्तये नमः
- ९२ॐ अमूर्तिमते नमः
- ९३ॐ शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसाय नमः
- ९४ॐ स्वलावण्यसुधासारजितमन्मथविग्रहाय नमः
- ९५ॐ समस्तजगदाधाराय नमः
- ९६ॐ मायिने नमः
- ९७ॐ मूषकवाहनाय नमः
- ९८ॐ रमार्चिताय नमः
- ९९ॐ विधये नमः
- १००ॐ श्रीकण्ठाय नमः
- १०१ॐ विबुधेश्वराय नमः
- १०२ॐ चिन्तामणिद्वीपपतये नमः
- १०३ॐ परमात्मने नमः
- १०४ॐ गजाननाय नमः
- १०५ॐ हृष्टाय नमः
- १०६ॐ तुष्टाय नमः
- १०७ॐ प्रसन्नात्मने नमः
- १०८ॐ सर्वसिद्धिप्रदायकाय नमः
धूपः
दशाङ्गं गुग्गुलुं धूपं उत्तमं गणनायक।
गृहाण देवदेवेश शिवासुत नमोऽस्तु ते ॥
विकटाय नमः — धूपमाघ्रापयामि।
दीपः
सर्वज्ञ सर्वरत्नाढ्य सर्वेश विबुधप्रिय।
गृहाण मङ्गलं दीपं घृतवर्तिसमन्वितम् ॥
वामनाय नमः — दीपं समर्पयामि।
नैवेद्यम्
नैवेद्यं गृह्यतां देव नानामोदकसंयुतम्।
पक्वान्नफलसंयुक्तं षड्रसैश्च समन्वितम् ॥
सर्वाय नमः — नैवेद्यं समर्पयामि। आचमनीयं समर्पयामि।
फलानि
फलान्यमृतकल्पानि सुगन्धीन्यघनाशन।
आनीतानि यथाशक्ति गृहाण गणनायक ॥
सर्वार्तिनाशिने नमः — फलानि समर्पयामि।
ताम्बूलम्
ताम्बूलं गृह्यतां देव नागवल्ल्या दलैर्युतम्।
कर्पूरेण समायुक्तं सुगन्धं मुखभूषणम् ॥
विघ्नहर्त्रे नमः — ताम्बूलं समर्पयामि।
कर्पूरनीराजनम्
पञ्चवर्तिसमायुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं विघ्नराज नमोऽस्तु ते ॥
जगद्धात्रे नमः — कर्पूरनीराजनं दर्शयामि।
प्रदक्षिणनमस्काराः
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥
सहस्रमूर्तये नमः — प्रदक्षिणनमस्कारान् समर्पयामि।
चन्द्रपूजा
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥
चन्द्रमसे नमः। सर्वोपचारान् समर्पयामि।
संकटहरगणेशार्घ्यम्
गणेशाय नमस्तुभ्यं सर्वसिद्धिप्रदायक।
संकटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥
संकटहरगणेशाय नमः — इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।
क्षिप्रप्रसादनार्घ्यम्
कृष्णपक्षे चतुर्थ्यां तु पूजितोऽसि विधूदये।
क्षिप्रं प्रसादितो देव गृहाणार्घ्यं नमोऽस्तु ते ॥
क्षिप्रप्रसादनाय नमः — इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।
चतुर्थीतिथ्यर्घ्यम्
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे।
सर्वसंकटनाशाय चतुर्थ्यर्घ्यं नमोऽस्तु ते ॥
चतुर्थीतिथये नमः — इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।
चन्द्रार्घ्यम्
क्षीरोदार्णवसंभूत लक्ष्मीबन्धो निशाकर।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥
रोहिणीसहितचन्द्राय नमः — इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।
उपायनदानम्
विप्रवर्य नमस्तुभ्यं मोदकान्वै ददाम्यहम्।
आपदुद्धरणार्थाय गृहाण द्विजसत्तम ॥
विप्रवर्याय नमः। उपायनं ददामि।
प्रार्थना
अशुद्धमतिरिक्तं वा द्रव्यहीनं मया कृतम्।
तत्सर्वं पूर्णतां यातु विप्ररूप गणेश्वर ॥
इति प्रार्थयेत्।
जपः
नमो हेरम्ब मदमोदित संकटं निवारय निवारय।
इति एकविंशतिवारं जपेत्।
उद्वासनम्
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं त्वं गणेश्वर।
व्रतेनानेन देवेश यथेष्टफलदो भव ॥
तत्सत् ब्रह्मार्पणमस्तु ॥
गणेशाय नमः — यथास्थानं प्रतिष्ठापयामि।