पारम्परिकम्
प्रातः स्मरामि गणनाथमनाथबन्धुं
सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डम्
आखण्डलादिसुरनायकवृन्दवन्द्यम् ॥
॥१॥प्रातर्नमामि चतुराननवन्द्यमानम्
इच्छानुकूलमखिलं च वरं ददानम् ।
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं
पुत्रं विलासचतुरं शिवयोः शिवाय ॥
॥२॥प्रातर्भजाम्यभयदं खलु भक्तशोकदावानलं
गणविभुं वरकुञ्जरास्यम् ।
अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं
सुतमीश्वरस्य ॥
॥३॥श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।
प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥
॥४॥