मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री गणेश पञ्चरत्नम्

3

श्रीशङ्करभगवत्पादकृतम्

श्रीगणेशाय नमः

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंसकम् विलासिलोकरक्षकम् ।

अनायकैकनायकं विनाशितेभदैत्यकं

नताशुभाशुनाशकं नमामि तं विनायकम् ॥

॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परातपरं निरन्तरम् ॥

॥२॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं

दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥

॥३॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।

प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं

कपोलदानवारणं भजे पुराणवारणम् ॥

॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम्

अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥

॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं

प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।

अरोगतामदोषतां सुसाहितीं सुपुत्रतां

समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥

॥६॥

इति श्रीशङ्करभगवतः कृतौ श्रीगणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ।