मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गणेश सहस्र नाम स्तोत्रम्

Also spelled: Ganesha Sahasra Nama Stotram · Ganesha Sahasra Nama Sthothram

3

गणेशपुराणम्

मुनिरुवाच

कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।

शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥

॥१॥

ब्रह्मोवाच

देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।

अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥

॥२॥

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।

महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥

॥३॥

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।

सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥

॥४॥

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।

ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥

॥५॥

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य । गणेशऋषिः । महागणपतिर्देवता । नानाविधानिच्छन्दांसि । हुमिति बीजम् । तुङ्गमिति शक्तिः । स्वाहाशक्तिरिति कीलकम् ॥ सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः

गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः । कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः । रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः ॥ सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः । लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः

छन्दश्छन्दोद्भव इति हृदयाय नमः । निष्कलो निर्मल इति शिरसे स्वाहा । सृष्टिस्थितिलयक्रीड इति शिखायै वषट् । ज्ञानं विज्ञानमानन्द इति कवचाय हुम् । अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् । अनन्तशक्तिसहित इत्यस्त्राय फट् । भूर्भुवः स्वरोम् इति दिग्बन्धः ॥

ध्यानम्

गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं

बृहदुदरमशेषं भूतिराजं पुराणम् ।

अमरवरसुपूज्यं रक्तवर्णं सुरेशं

पशुपतिसुतमीशं विघ्नराजं नमामि ॥

॥६॥

रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरुढं त्रिनेत्रं

पाशं चैवाङ्कुशाख्यं परशुमभयदं बाहुभिर्धारयन्तम् ।

शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं

रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥

॥७॥

श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानन्देशाय ब्रह्मणस्पतये साङ्गाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः । इति नाममन्त्रेण मानसैः पञ्चोपचारैः सम्पूज्य पठेत् ।

श्रीमहागणपतिरुवाच

ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।

एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥

॥८॥

लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।

सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥

॥९॥

भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।

हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥

॥१०॥

नन्दनोऽलम्पटोऽभीरूर्मेघनादो गणञ्जयः ।

विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥

॥११॥

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।

रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥

॥१२॥

कुमारगुरुरीशानपुत्रो मूषकवाहनः ।

सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥

॥१३॥

अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।

कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥

॥१४॥

कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।

भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥

॥१५॥

विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।

कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥

॥१६॥

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।

हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥

॥१७॥

कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।

उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥

॥१८॥

किरीटी कुण्डली हारी वनमाली मनोमयः ।

वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥

॥१९॥

सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।

दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥

॥२०॥

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।

पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥

॥२१॥

चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।

योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥

॥२२॥

गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी ।

देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥

॥२३॥

विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।

वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥

॥२४॥

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।

शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥

॥२५॥

शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।

उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥

॥२६॥

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।

सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥

॥२७॥

ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।

जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥

॥२८॥

गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।

ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥

॥२९॥

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।

कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥

॥३०॥

नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ।

व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥

॥३१॥

कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।

पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥

॥३२॥

पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।

ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥

॥३३॥

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।

सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥

॥३४॥

प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।

यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥

॥३५॥

चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।

रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥

॥३६॥

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।

नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥

॥३७॥

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।

तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥

॥३८॥

सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।

लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥

॥३९॥

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।

पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥

॥४०॥

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥

॥४१॥

भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।

ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥

॥४२॥

स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।

सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥

॥४३॥

सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।

सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥

॥४४॥

रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।

रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥

॥४५॥

श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।

श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥

॥४६॥

सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।

सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥

॥४७॥

सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।

सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥

॥४८॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।

किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥

॥४९॥

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।

पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥

॥५०॥

कल्पवल्लीधरो विश्वाभयदैककरो वशी ।

अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥

॥५१॥

पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ।

करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥

॥५२॥

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।

भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥

॥५३॥

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।

रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥

॥५४॥

महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।

आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥

॥५५॥

संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।

दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥

॥५६॥

मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ।

विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥

॥५७॥

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।

तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥

॥५८॥

मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।

कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥

॥५९॥

वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ।

नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥

॥६०॥

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।

ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥

॥६१॥

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।

ऐरावतादिसर्वाशावारणो वारणप्रियः ॥

॥६२॥

वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।

जयाजयपरिकरो विजयाविजयावहः ॥

॥६३॥

अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।

विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥

॥६४॥

अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।

ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥

॥६५॥

सुभगासंश्रितपदो ललिताललिताश्रयः ।

कामिनीपालनः कामकामिनीकेलिलालितः ॥

॥६६॥

सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।

गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥

॥६७॥

नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।

रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥

॥६८॥

विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।

अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥

॥६९॥

उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।

सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥

॥७०॥

अनापायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।

अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥

॥७१॥

अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।

अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥

॥७२॥

अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।

आधारपीठमाधार आधाराधेयवर्जितः ॥

॥७३॥

आखुकेतन आशापूरक आखुमहारथः ।

इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥

॥७४॥

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।

इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥

॥७५॥

इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।

इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥

॥७६॥

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।

ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥

॥७७॥

ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।

उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥

॥७८॥

उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ।

ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥

॥७९॥

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।

ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥

॥८०॥

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।

लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥

॥८१॥

एकारपीठमध्यस्थ एकपादकृतासनः ।

एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥

॥८२॥

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।

ऐरंमदसमोन्मेष ऐरावतसमाननः ॥

॥८३॥

ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः ।

औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥

॥८४॥

अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ।

अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥

॥८५॥

कमण्डलुधरः कल्पः कपर्दी कलभाननः ।

कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥

॥८६॥

कदम्बगोलकाकारः कूष्माण्डगणनायकः ।

कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥

॥८७॥

खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।

खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥

॥८८॥

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।

गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥

॥८९॥

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।

गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥

॥९०॥

घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।

ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥

॥९१॥

चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।

चराचरपिता चिन्तामणिश्चर्वणलालसः ॥

॥९२॥

छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।

जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥

॥९३॥

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।

स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥

॥९४॥

टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ।

ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥

॥९५॥

डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।

ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥

॥९६॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।

तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥

॥९७॥

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ।

दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥

॥९८॥

दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।

दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥

॥९९॥

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।

धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥

॥१००॥

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।

ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥

॥१०१॥

नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।

निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥

॥१०२॥

परं व्योम परं धाम परमात्मा परं पदम् ॥

॥१०३॥

परात्परः पशुपतिः पशुपाशविमोचनः ।

पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥

॥१०४॥

पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।

प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥

॥१०५॥

फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।

बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।

ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥

॥१०६॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।

बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥

॥१०७॥

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।

भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥

॥१०८॥

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।

मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥

॥१०९॥

मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।

महाबलो महावीर्यो महाप्राणो महामनाः ॥

॥११०॥

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।

यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥

॥१११॥

रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।

राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥

॥११२॥

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।

लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥

॥११३॥

वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।

विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥

॥११४॥

वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।

विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥

॥११५॥

शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।

शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥

॥११६॥

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।

संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥

॥११७॥

सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ।

सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥

॥११८॥

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।

स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥

॥११९॥

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।

हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥

॥१२०॥

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।

क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥

॥१२१॥

धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ।

विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥

॥१२२॥

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।

सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥

॥१२३॥

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।

प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥

॥१२४॥

पराभिचारशमनो दुःखहा बन्धमोक्षदः ।

लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥

॥१२५॥

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।

पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥

॥१२६॥

राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।

लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥

॥१२७॥

राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।

कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥

॥१२८॥

भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् ।

ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥

॥१२९॥

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।

सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥

॥१३०॥

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।

साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥

॥१३१॥

वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।

आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥

॥१३२॥

वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ।

शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥

॥१३३॥

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।

सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥

॥१३४॥

बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।

स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड् वौषड् वषण्णमः ॥

॥१३५॥

ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः ।

एक एकाक्षराधार एकाक्षरपरायणः ॥

॥१३६॥

एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् ।

द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥

॥१३७॥

द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ।

त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥

॥१३८॥

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।

चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥

॥१३९॥

चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ।

चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः ।

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥

॥१४०॥

पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥

॥१४१॥

पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।

पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥

॥१४२॥

पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।

पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥

॥१४३॥

षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।

षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥

॥१४४॥

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।

षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥

॥१४५॥

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।

सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥

॥१४६॥

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।

सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥

॥१४७॥

सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।

सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥

॥१४८॥

सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ।

अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥

॥१४९॥

अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ।

अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥

॥१५०॥

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।

अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥

॥१५१॥

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।

अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।

नवनागासनाध्यासी नवनिध्यनुशासितः ॥

॥१५२॥

नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।

नवनाथमहानाथो नवनागविभूषितः ॥

॥१५३॥

नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।

नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥

॥१५४॥

दशात्मको दशभुजो दशदिक्पतिवन्दितः ।

दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥

॥१५५॥

दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।

एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥

॥१५६॥

द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ।

त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥

॥१५७॥

चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।

चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥

॥१५८॥

सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।

तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥

॥१५९॥

षोडशाधारनिलयः षोडशस्वरमातृकः ।

षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥

॥१६०॥

कलासप्तदशी सप्तदशसप्तदशाक्षरः ।

अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥

॥१६१॥

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।

अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥

॥१६२॥

अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ।

एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥

॥१६३॥

चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।

सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥

॥१६४॥

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।

षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥

॥१६५॥

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।

द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।

पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥

॥१६६॥

चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ।

नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥

॥१६७॥

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।

अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥

॥१६८॥

चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ।

शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥

॥१६९॥

शतानीकः शतमखः शतधारावरायुधः ।

सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥

॥१७०॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥

॥१७१॥

दशसाहस्रफणिभृत्फणिराजकृतासनः ।

अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥

॥१७२॥

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।

चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥

॥१७३॥

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।

कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥

॥१७४॥

शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ।

सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥

॥१७५॥

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।

अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥

॥१७६॥

अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः ।

अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥

॥१७७॥

अनन्तमुनिसंस्तुत ॐ नम इति ।

इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।

इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥

॥१७८॥

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।

आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥

॥१७९॥

मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ।

सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥

॥१८०॥

जगत्संवननं विश्वसंवादो वेदपाटवम् ।

सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥

॥१८१॥

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।

ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥

॥१८२॥

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।

वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥

॥१८३॥

राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ।

जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥

॥१८४॥

धर्मार्थकाममोक्षाणामनायासेन साधनम् ।

शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥

॥१८५॥

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।

समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥

॥१८६॥

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।

षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥

॥१८७॥

परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।

सङ्ग्राममार्गे सर्वेषामिदमेकं जयावहम् ॥

॥१८८॥

सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।

पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥

॥१८९॥

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।

न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥

॥१९०॥

क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ।

गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥

॥१९१॥

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।

शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥

॥१९२॥

वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ।

आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥

॥१९३॥

इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ।

सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥

॥१९४॥

प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।

सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥

॥१९५॥

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।

इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥

॥१९६॥

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।

चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥

॥१९७॥

कामरूपः कामगतिः कामदः कामदेश्वरः ।

भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥

॥१९८॥

गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।

नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥

॥१९९॥

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।

शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥

॥२००॥

जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।

निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥

॥२०१॥

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।

निरन्तरे निराबाधे परमानन्दसंज्ञिते ॥

॥२०२॥

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।

लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥

॥२०३॥

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेन्नरः ।

राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥

॥२०४॥

तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ।

मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥

॥२०५॥

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।

दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥

॥२०६॥

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।

तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥

॥२०७॥

भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ।

इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥

॥२०८॥

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ।

इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥

॥२०९॥

स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ।

स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥

॥२१०॥

लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ।

तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥

॥२११॥

दानैरशेषैरखिलैर्व्रतैश्च

तीर्थैरशेषैरखिलैर्मखैश्च ।

न तत्फलं विन्दति यद्गणेश-

सहस्रनामस्मरणेन सद्यः ॥

॥२१२॥

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं

प्रोज्जिहाने सायं मध्यन्दिने वा

त्रिषवणमथवा सन्ततं वा जनो यः ।

स स्यादैश्वर्यधुर्यः प्रभवति वचसां

कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं

वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥

॥२१३॥

अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः ।

प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥

॥२१४॥

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।

लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥

॥२१५॥

आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः

कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ।

पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तन्

नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥

॥२१६॥

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥

॥२१७॥

अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ।

सुमङ्गलो बीजमाशापूरको वरदः कलः ॥

॥२१८॥

काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।

मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥

॥२१९॥

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।

वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥

॥२२०॥

यः स्तौति मद्गतमना ममाराधनतत्परः ।

स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥

॥२२१॥

नमो नमः सुरवरपूजिताङ्घ्रये

नमो नमो निरुपममङ्गलात्मने ।

नमो नमो विपुलदयैकसिद्धये

नमो नमः करिकलभाननाय ते ॥

॥२२२॥

किङ्किणीगणरचितचरणः

प्रकटितगुरुमितचारुकरणः ।

मदजललहरीकलितकपोलः

शमयतु दुरितं गणपतिनाम्ना ॥

॥२२३॥

इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः