प्रथमा कण्डिका
Devanāgarīद्वादशाहेन प्रैव जायतेऽभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति
॥१॥ IAST
Devanāgarīसाग्निचित्यो भवति
॥२॥ IAST
Devanāgarīसत्त्रमहीनश्च
॥३॥ IAST
Devanāgarīदीक्षितमदीक्षिता याजयेयुरहीने । एत एवर्त्विजो यजमानश्च सत्त्रे
॥४॥ IAST
Devanāgarīतस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति विज्ञायते
॥५॥ IAST
Devanāgarīऋध्नोति यो द्वादशाहेन यजते
॥६॥ IAST
Devanāgarīऋध्नोति यः प्रतिगृह्णातीत्येके
॥७॥ IAST
Devanāgarīऋत्विजो यजमानं चाधिकृत्य वदति
॥८॥ IAST
Devanāgarīपीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते
॥९॥ IAST
Devanāgarīयोऽतपस्वी स्यादसंश्लिष्टोऽस्य यज्ञः स्यात् । तपस्वी स्यात् । यज्ञमेव तत्संश्लेषयत इति विज्ञायते
॥१०॥ IAST
Devanāgarīएको द्वादशाहेन यजेत । त्रयः षड् द्वादश त्रयोदश वा
॥११॥ IAST
Devanāgarīतेषामुपसत्सु त्रयोदशं दीक्षयन्ति
॥१२॥ IAST
Devanāgarīतस्माद्द्वादशाहे त्रयोदशेन न ब्रह्मणा भवितव्यमित्येके
॥१३॥ IAST
Devanāgarīपञ्चदश दीक्षेरन्नर्धमासायतनाः । सप्तदश प्रजाकामाः पशुकामा वा । एकविंशतिं प्रतिष्ठाकामा रुक्कामा वा । त्रिंशतं मासायतनाः । त्रयस्त्रिंशतमोजस्कामा वीर्यकामा वा । चत्वारिंशतं यज्ञकामाः । चतुश्चत्वारिंशतमिन्द्रियकामाः । अष्टाचत्वारिंशतं पशुकामाः
॥१४॥ IAST
Devanāgarīअपरिमिता दीक्षेरन्नित्यन्ततो वदति
॥१५॥ IAST
Devanāgarīयेऽन्ये सप्तदशभ्यो वादा अहीन एव ते स्थानिनः
॥१६॥ IAST
Devanāgarīसप्तदशानामेव याथाकामी
॥१७॥ IAST
Devanāgarīसर्वे याजमाने स्थानिनः
॥१८॥ IAST
Devanāgarīसर्वे याजमानं कुर्युर्यत्किंचार्त्विज्येनाविबाधकम्
॥१९॥ IAST
Devanāgarīविबाधमान आर्त्विज्यं बलीयः
॥२०॥ IAST
द्वितीया कण्डिका
Devanāgarīसर्व इष्टप्रथमयज्ञाः । अपि वा गृहपतिरेव
॥१॥ IAST
Devanāgarīगृहपतेरेव परार्थानि यथा यूपाञ्जनमृतुयाज्येति
॥२॥ IAST
Devanāgarīगृहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रक्रामेयुर्यानि चान्यान्येवंरूपाणि स्युः
॥३॥ IAST
Devanāgarīत्वं वरुण इति वसिष्ठराजन्यानां परिधानीया
॥४॥ IAST
Devanāgarīआजुहोतेतीतरेषां गोत्राणाम्
॥५॥ IAST
Devanāgarīनाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम्
॥६॥ IAST
Devanāgarīतनूनपादितरेषां गोत्राणाम्
॥७॥ IAST
Devanāgarīशिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्ति
॥८॥ IAST
Devanāgarīशिशिरे वा एतस्य प्रयाणं वसन्त उत्थानम्
॥९॥ IAST
Devanāgarīऋध्नोति य एवंविद्वाञ्शिशिरे दीक्षते वसन्त उत्तिष्ठत इति विज्ञायते
॥१०॥ IAST
Devanāgarīषड् व्युष्टाश्चैत्रस्यापूर्यमाणपक्षस्याथ दीक्षेरन्
॥११॥ IAST
Devanāgarīसावित्राणि होष्यमाणा निर्मथ्य संनिवपेरन् । ततो विनिवपेरन्
॥१२॥ IAST
Devanāgarīपञ्चपशुभिर्यक्ष्यमाणाः संनिवपेरन् । ततो विनिवपेरन्
॥१३॥ IAST
Devanāgarīदीक्षिष्यमाणाः संनिवपेरन्
॥१४॥ IAST
Devanāgarīतेषामेतत्संन्युप्ता एवाग्नयो भवन्त्योदवसानीयायाः
॥१५॥ IAST
Devanāgarīअध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति । तत उद्गातारम् । ततो होतारम्
॥१६॥ IAST
Devanāgarīततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति
॥१७॥ IAST
Devanāgarīततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति
॥१८॥ IAST
Devanāgarīततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति
॥१९॥ IAST
Devanāgarīततस्तं प्रतिप्रस्थाता दीक्षयति
॥२०॥ IAST
तृतीया कण्डिका
Devanāgarīअन्यो वा ब्राह्मणः
॥१॥ IAST
Devanāgarīदीक्षित आ तन्त्रीभावादेकैकमपवर्जयति
॥२॥ IAST
Devanāgarīएवमनुपूर्वा एवैषां याजमाना धर्मा ये केचाविभविनः
॥३॥ IAST
Devanāgarīनानागोत्रव्यवायादेव समानगोत्राणामार्षेयवरणमभ्यावर्तेतेत्येकम् । व्यवेतेऽपि तन्त्रमेवेत्य परम्
॥४॥ IAST
Devanāgarīसद्यो दीक्षामेके समामनन्ति । अन्वहं दीक्षामेके
॥५॥ IAST
Devanāgarīद्व्यहे दीक्षेत त्र्यहे दीक्षेतेत्येवं क्रामत्या द्वादशाहात्
॥६॥ IAST
Devanāgarīउपदीक्षमाणे सर्वं सदीक्षणीयमावर्तेतेत्याश्मरथ्यः
॥७॥ IAST
Devanāgarīअग्नीनुपन्युप्यात्मसंस्कारेणैव प्रतिपद्येत तन्त्रमाहुतयः स्युरित्यालेखनः
॥८॥ IAST
Devanāgarīपत्नीनामेव स्थाने पत्नीर्दीक्षयन्ति
॥९॥ IAST
Devanāgarīतासां याजमानैरेव धर्मानुपूर्व्यं व्याख्यातम्
॥१०॥ IAST
Devanāgarīअध्वर्युं दीक्षिता अन्वारभन्ते । दीक्षितान्पत्नयः
॥११॥ IAST
Devanāgarīअथ समन्वारब्धेषु गार्हपत्ये जुहोत्यपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । सचतां नः शचीपतिः स्वाहेति
॥१२॥ IAST
Devanāgarīऋते पत्नीभ्य इतरयोः
॥१३॥ IAST
चतुर्थी कण्डिका
Devanāgarīपरं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति दक्षिणाग्नौ
॥१॥ IAST
Devanāgarīइदमू नु श्रेयोऽवसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । सचतां नः शचीपतिः स्वाहेत्याहवनीये
॥२॥ IAST
Devanāgarīद्वादशाहं दीक्षिता भवन्ति
॥३॥ IAST
Devanāgarīन सनीहारान्प्रहिण्वन्ति सत्त्रे
॥४॥ IAST
Devanāgarīप्रायणीयया प्रचर्य राजानं क्रीत्वोपनह्य निदधाति द्वादशाहायाप्तम्
॥५॥ IAST
Devanāgarīषोडशिवत्सोमक्रयणी
॥६॥ IAST
Devanāgarīउपसत्सु द्वादशाहे संभारयजूंषि व्याचष्टे
॥७॥ IAST
Devanāgarīयजमानं वाचयतीत्येके
॥८॥ IAST
Devanāgarīद्वादशोपसदः
॥९॥ IAST
Devanāgarīचतुरहंचतुरहमेकैकेनोपसन्मन्त्रेण जुहोति
॥१०॥ IAST
Devanāgarīअनूपसदमग्निं चिनोति
॥११॥ IAST
Devanāgarīद्व्यहंद्व्यहमेकैका चितिः
॥१२॥ IAST
Devanāgarīचतुरहमुत्तमा
॥१३॥ IAST
Devanāgarīचतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्र्यहं त्र्यहं व्रतानि
॥१४॥ IAST
Devanāgarīय एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं स्रुवमुन्नीय नापरमुन्नयेत
॥१५॥ IAST
Devanāgarīएकविंशतिच्छदिः सदः
॥१६॥ IAST
Devanāgarīसंतृणे अधिषवण फलके भवतः
॥१७॥ IAST
Devanāgarīऋजुरुपवसथः
॥१८॥ IAST
पञ्चमी कण्डिका
Devanāgarīश्वो भूते प्रतायते ज्योतिष्टोमः
॥१॥ IAST
Devanāgarīवैश्वानरः प्रायणीयोऽतिरात्रः
॥२॥ IAST
Devanāgarīसमानमा राज्ञ उपावहरणात्
॥३॥ IAST
Devanāgarīयावन्तमेकस्मा अह्न आप्तं मन्यते
॥४॥ IAST
Devanāgarīतमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति
॥५॥ IAST
Devanāgarīएवमहरहस्तन्त्रमग्नेर्योगविमोकौ
॥६॥ IAST
Devanāgarīप्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चति
॥७॥ IAST
Devanāgarīअन्वहमेके योगविमोकौ समामनन्ति
॥८॥ IAST
Devanāgarīदक्षिणाकालेऽन्वहं द्वादशानि शतानि ददात्यहीने
॥९॥ IAST
Devanāgarīसत्त्रे तु दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि धून्वन्त उदञ्चो दक्षिणापथेनातियन्ति
॥१०॥ IAST
IAST
Devanāgarīउत्तम एवाहनि सख्यानि विसृजन्ते
॥१२॥ IAST
Devanāgarīकृष्णविषाणाश्च प्रविध्यन्ति
॥१३॥ IAST
Devanāgarīपूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति
॥१४॥ IAST
Devanāgarīवर्तमान एवातिरात्र उत्तरस्मा अह्ने पयांसि विशास्ति
॥१५॥ IAST
Devanāgarīयत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमेपेभ्यः सोमं प्रब्रूतात्सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति
॥१६॥ IAST
षष्ठी कण्डिका
Devanāgarīतदाग्नीध्र आग्नीध्रागारं प्रविश्य संप्रेष्यति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपभ्यः सोमं प्रब्रवीमि सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति
॥१॥ IAST
Devanāgarīस वै खलु श्वःसुत्यामिति ब्रूयादित्याश्मरथ्यः । अद्यसुत्यामित्यालेखनः
॥२॥ IAST
Devanāgarīतत ऊर्ध्वं श्वःसुत्यामित्येव ब्रूयात्
॥३॥ IAST
Devanāgarīपत्नीसंयाजान्तमहः संतिष्ठते
॥४॥ IAST
Devanāgarīसंस्थितेऽहनि ब्रह्मा वाचं विसृजते
॥५॥ IAST
Devanāgarīपरिहरन्ति पत्नीभ्य उदकम्
॥६॥ IAST
Devanāgarīयन्ति समिद्धाराः
॥७॥ IAST
Devanāgarīएत्याहवनीयेऽभ्यादधति
॥८॥ IAST
IAST
Devanāgarīतदानीमेव त्रिवृतमग्निष्टोमं रथंतरसामानमुपयन्ति
॥१०॥ IAST
Devanāgarīरथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति
॥११॥ IAST
Devanāgarīशब्दो मन्त्रस्थाने भवति
॥१२॥ IAST
Devanāgarīश्वो भूते पञ्चदशमुकथ्यं बृहत्सामानमुपयन्ति
॥१३॥ IAST
Devanāgarīदुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति
॥१४॥ IAST
Devanāgarīयद्यु वै स्तनयित्नुः स्यात्स एव स्याच्छब्दो मन्त्रस्थाने
॥१५॥ IAST
Devanāgarīश्वो भूते सप्तदशमुकथ्यं वैरूपसामानमुपयन्ति
॥१६॥ IAST
Devanāgarīबर्हिः स्थान आधावेन माहेन्द्रस्य स्तोत्रमुपाकरोति
॥१७॥ IAST
Devanāgarīउपाकृतं सामाप्रस्तुतं भवति
॥१८॥ IAST
Devanāgarīअथोद्गाताधावेनाधूनुते
॥१९॥ IAST
सप्तमी कण्डिका
Devanāgarīश्वो भूत एकविंशं षोडशिनं वैराजसामानमुपयन्ति
॥१॥ IAST
Devanāgarīन्यूङ्ख्यमेतदहर्भवति
॥२॥ IAST
Devanāgarīबर्हिःस्थानेऽरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति
॥३॥ IAST
Devanāgarīउपाकृतं सामाप्रस्तुतं भवति
॥४॥ IAST
Devanāgarīअथोद्गातुर्दक्षिणमूरुमवकाभिः प्रच्छाद्य तस्मिन्नग्निं मन्थति
॥५॥ IAST
Devanāgarīतं जातमुद्गाताभिहिङ्कृत्य प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे
॥६॥ IAST
Devanāgarīतमध्वर्युरुत्तरेण धिष्णियान्पर्याहृत्याहवनीये प्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाभिजुहोति
॥७॥ IAST
Devanāgarīश्वो भूते त्रिणवमुकथ्यं शाक्वरसामानमुपयन्ति
॥८॥ IAST
Devanāgarīबर्हिःस्थानेऽद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति
॥९॥ IAST
Devanāgarīउपाकृतं सामाप्रस्तुतं भवति
॥१०॥ IAST
Devanāgarīअथ तिस्रः सहर्षभा अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातियन्ति
॥११॥ IAST
Devanāgarīश्वो भूते त्रयस्त्रिंशमुकथ्यं रैवतसामानमुपयन्ति
॥१२॥ IAST
Devanāgarīन्यूङ्ख्यमेतदहर्भवति
॥१३॥ IAST
Devanāgarīस्वयमध्वर्युरृतुयाजं यजति । स्वयं गृहपतिः
॥१४॥ IAST
Devanāgarīअध्वर्यू यजतं गृहपते यजेत्यभिज्ञायाध्वर्युर्हविर्धानं प्रविश्य प्रैषोत्तरयर्चा यजति । ऋगुत्तरेण वा प्रैषेण
॥१५॥ IAST
Devanāgarīअश्विना पिबतं सुतं दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा । ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः
॥१६॥ IAST
Devanāgarīब्यूढे त्वर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू । ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति
॥१७॥ IAST
अष्टमी कण्डिका
Devanāgarīअगृहीतो माहेन्द्रः
॥१॥ IAST
Devanāgarīअथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीचीं तन्तिं वितत्य तस्यां वत्सान्बध्नाति
॥२॥ IAST
Devanāgarīदक्षिणेन मार्जालीयं मातॄरुपरुन्धन्ति
॥३॥ IAST
Devanāgarīबर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति
॥४॥ IAST
Devanāgarīउपाकृतं सामाप्रस्तुतं भवति
॥५॥ IAST
Devanāgarīअथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनं कुर्वन्ति
॥६॥ IAST
Devanāgarīता अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातिविच्छयन्ति
॥७॥ IAST
Devanāgarīसंतिष्ठते पृष्ठ्यः षडहण्
॥८॥ IAST
Devanāgarīसंस्थिते घृतं मधु वा प्राश्नन्ति
॥९॥ IAST
Devanāgarīयथोहुषो वहं प्रत्यञ्ज्यात्तादृक्तदिति विज्ञायते
॥१०॥ IAST
Devanāgarīततस्त्रींश्छन्दोमानुकथ्यानन्वहमुपयन्ति । चतुर्विंशं चतुश्चत्वारिंशमष्टाचत्वारिंशमिति
॥११॥ IAST
Devanāgarīरथंतरसामा प्रथमः । बृहद्रथंतरसामा द्वितीयः । बृहत्सामा तृतीयः
॥१२॥ IAST
नवमी कण्डिका
Devanāgarīततो दशममहरविवाक्यमुपयन्ति । चतुर्विंशमग्निष्टोमं रथंतरसामनम्
॥१॥ IAST
Devanāgarīनात्र कश्चन कस्मैचनोपहताय व्याहते
॥२॥ IAST
Devanāgarīये बाह्या दृशीकवः स्युस्ते विब्रूयुः
॥३॥ IAST
Devanāgarīयदि तत्र न विन्देयुरन्तःसदसाद्व्युच्यम्
॥४॥ IAST
Devanāgarīयदि तत्र न विन्देयुर्गृहपतिना व्युच्यम्
॥५॥ IAST
Devanāgarīतद्व्युच्यमेवेत्यन्ततो वदति
॥६॥ IAST
Devanāgarīअनुष्टुभा व्याहेति विज्ञायते
॥७॥ IAST
Devanāgarīअनुष्टुभमुक्त्वाथ तद्ब्रूयात्
॥८॥ IAST
Devanāgarīयस्मिन्नुपहतः स्यादनुष्टुभा वा एतत्संपादयति
॥९॥ IAST
Devanāgarīद्वयीरेतदहः समिध आहरन्ति । नित्या औदुम्बरीश्च
॥१०॥ IAST
Devanāgarīअभ्यादधति नित्याः
॥११॥ IAST
Devanāgarīउत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति
॥१२॥ IAST
Devanāgarīअथ समन्वारब्धेषु द्वाभ्यां गार्हपत्ये जुहोति । अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् । इह रतिरिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः स्वाहेति
॥१३॥ IAST
Devanāgarīउपसृजन्धरुणमित्येताभ्यामथाहवनीयं गत्वा
॥१४॥ IAST
Devanāgarīअतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा । ब्रध्नः समीचीरुषसः समैरयत् । अरेपसः समोकसः सचेतसः सरेतसः स्वसरे मन्युमन्तश्चिदाकोरिति
॥१५॥ IAST
दशमी कण्डिका
Devanāgarīततः प्राजापत्याय मनोग्रहाय संप्रसर्पन्ति
॥१॥ IAST
Devanāgarīप्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा पृथिव्या पात्रेण समुद्रं रसया प्रजापतये जुष्टं गृह्णामीति
॥२॥ IAST
Devanāgarīआकाशाद्गृह्णीयादित्येकम् । तार्तीयसवनिकस्य सोमस्य परिशाययेद्यावन्तमेकस्मै चमसगणाय सग्रहायाप्तं मन्येतेत्यपरम्
॥३॥ IAST
Devanāgarīमनसा स्तोत्रोपाकरणः प्रस्ताव उद्गीथः प्रतिहारश्च
॥४॥ IAST
Devanāgarīमनसा तिसृणां सर्पराज्ञीनां षट्कृत्वः प्रतिगृणाति यद्यर्धर्चशः शंसति । नवकृत्वो यदि पच्छः
॥५॥ IAST
Devanāgarīहोता चतुर्होतॄन्व्याचष्टे
॥६॥ IAST
Devanāgarīओमिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः
॥७॥ IAST
Devanāgarīमनसाश्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ च
॥८॥ IAST
Devanāgarīमनसा हुत्वा हरति भक्षम्
॥९॥ IAST
Devanāgarīते यत्समीक्षन्ते स समुपहवः
॥१०॥ IAST
Devanāgarīमनसा भक्षयन्ति
॥११॥ IAST
Devanāgarīब्रह्मवाद्यं वदन्तीति विज्ञायते
॥१२॥ IAST
Devanāgarīविनिविश्य कथा स्यादित्येकम् । गृहपतिमेव महर्त्विजः पर्युपविश्य पृच्छेयुरित्यपरम्
॥१३॥ IAST
Devanāgarīतमध्वर्युः पृच्छति
॥१४॥ IAST
एकादशी कण्डिका
Devanāgarīयद्दशहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन प्रजा असृजन्तेति
॥१॥ IAST
Devanāgarīप्रजापतिना वै ते गृहपतिनार्ध्नुवंस्तेन प्रजा असृजन्तेति प्रतिवचनः
॥२॥ IAST
Devanāgarīब्रह्मा पृच्छति यच्चतुर्होतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनौषधीरसृजन्तेति
॥३॥ IAST
Devanāgarīसोमेन वै ते गृहपतिनार्ध्नुवंस्तेनौषधीरसृजन्तेति प्रतिवचनः
॥४॥ IAST
Devanāgarīहोता पृच्छति यत्पञ्चहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनैभ्यो लोकेभ्यो ऽसुरान्प्राणुदन्त केनैषां पशूनवृञ्जतेति
॥५॥ IAST
Devanāgarīअग्निना वै ते गृहपतिनार्ध्नुवंस्तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेनैषां पशूनवृञ्जतेति प्रतिवचनः
॥६॥ IAST
Devanāgarīहोत्रकाः पृच्छन्ति यत्षड्ढोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनर्तूनकल्पयन्तेति
॥७॥ IAST
Devanāgarīधात्रा वै ते गृहपतिनार्ध्नुवंस्तेनर्तूनकल्पयन्तेति प्रतिवचनः
॥८॥ IAST
Devanāgarīउद्गाता पृच्छति यत्सप्तहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन सुवरायन्केनेमांल्लोकान्समतन्वन्निति
॥९॥ IAST
Devanāgarīअर्यम्णा वै ते गृहपतिनार्ध्नुवंस्तेन सुवरायंस्तेनेमांल्लोकान्समतन्वन्निति प्रतिवचनः
॥१०॥ IAST
Devanāgarīअपि वा यदे वैतत्तुष्णीकं मानसं तस्यैष वादः
॥११॥ IAST
Devanāgarīयद्वा होता चतुर्होतॄन्व्याचष्टे
॥१२॥ IAST
Devanāgarīप्रजापतिं परिवदन्तीति विज्ञायते
॥१३॥ IAST
द्वादशी कण्डिका
Devanāgarīअकुशलो वा अयं प्रजापतिर्यो दंशमशकान्ससृजे य स्तेनानिति प्रजापतिपरिवादः
॥१॥ IAST
Devanāgarīअपि वा प्रजापतिपरिवादान्मन्त्रानधीयते
॥२॥ IAST
Devanāgarīते प्रत्येतव्याः । यदरण्यानि प्रजापतिः पुरश्च ससृजे गिरीन् । कर्तानि च न तद्भद्रं यद्भद्रं तन्म आसुव । यदूषा तमसा युक्ता दिने तेक्ष्णिष्ठमातपत् । अम्भश्चात्यति घर्मश्च तथा तप्ते प्रजापतेः । यत्स्तेनान्यद्वृकान्दंशान्मशकान्यदघायवः । तदु ते वृजिनं त्वेतद्व्रतमेतन्न मे मतम् । प्रजापतिं दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम् । स सुष्टुतिं सुद्रविणं दधानः पूतो विपाप्मा विजहाति लोक इति
॥३॥ IAST
Devanāgarīअथ वरं वृणीतेऽदो नोऽस्त्विति यत्कामयते । उत वै ब्राह्मणोऽनेककामो भवति
॥४॥ IAST
Devanāgarīभूर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः ह्पोषैरित्येतद्विदधाति
॥५॥ IAST
Devanāgarīचतुर्होतॄन्व्याख्याय द्वारौ संवृत्य यथाधिष्णियं पत्नीर्व्यासाद्याथाभ्यो वाचमुपाकरोति
॥६॥ IAST
Devanāgarīइह धृतिरिह स्वधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरीं परिष्वज्योदरैरुपस्पृशन्तो वाग्यतास्तिष्ठन्ति
॥७॥ IAST
Devanāgarīअधिवृक्षसूर्ये प्राञ्चः समन्वारब्धाः सर्पन्ति
॥८॥ IAST
Devanāgarīयुवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् । दूरे चत्ताय छन्त्सद्गहनं यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इत्युत्तरेण हविर्धानं दक्षिणैर्हस्तैः कटांस्तेजनीर्वा निषेवमाणाः प्राञ्चो गत्वा पञ्च वचांसि व्याहरन्ति वाग्वागैतु वागुपैतु वाक् समैतूप मैतु वाग्भूर्भुवः सुवरिति
॥९॥ IAST
Devanāgarīअह्ना रात्रिं ध्यात्वाधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृज्यौदुम्बरीः समिध आदधाति
॥१०॥ IAST
Devanāgarīसंतिष्ठते दशममहः
॥११॥ IAST
त्रयोदशी कण्डिका
Devanāgarīप्रायणीयवदुदयनीयमुपयन्ति
॥१॥ IAST
Devanāgarīनात्राहीनसंततयो भवन्ति
॥२॥ IAST
Devanāgarīयत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते ता अहीनसंततयः
॥३॥ IAST
Devanāgarīसत्त्रं चेद्वपनकाले सशिखानि वपन्ते
॥४॥ IAST
Devanāgarīउदवसानीययेष्ट्वान्यानृत्विजो वृत्वा पृष्ठशमनीयेन यजन्ते ज्योतिष्टोमेनाग्निष्टोमेन सहस्रदक्षिणेन
॥५॥ IAST
Devanāgarīअथ ग्रहकॢप्तिः
॥६॥ IAST
Devanāgarīप्रायणीयोदयनीययोर्दशमेऽहन्निति पृश्निप्राणग्रहान्गृह्णाति । व्यतिषङ्गं सोममानैः
॥७॥ IAST
Devanāgarīप्राकृतं यजुर्मानमनुद्रुत्य वायुरसि प्राणो नामेति दशभिः पृश्निग्रहाणां मन्त्रैर्दश मानानि मिमीते
॥८॥ IAST
Devanāgarīउत्तरं यजुर्मानमनुद्रुत्यायं पुरो भुव इति दशभिः प्राणग्रहाणां मन्त्रैर्दश मानानि मिमीते
॥९॥ IAST
Devanāgarīएवमुत्तराणि मानानि व्यतिषजति
॥१०॥ IAST
Devanāgarīनवनवांशवो दश मन्त्राः
॥११॥ IAST
Devanāgarīअपि वा नवभिर्नवभिर्मिमीते
॥१२॥ IAST
Devanāgarīअवशिष्टा विकल्पार्थाः
॥१३॥ IAST
Devanāgarīअपि वा मानमनुद्रुत्य पृश्नी अथ प्राणेन निवपेत्
॥१४॥ IAST
Devanāgarīअथ प्राणं मानं पृश्निभ्यां निवपेत्
॥१५॥ IAST
Devanāgarīअथ पृश्नी प्राणं मानेन निवपेत्
॥१६॥ IAST
Devanāgarīएवं विहितावुत्तरौ पर्यायौ
॥१७॥ IAST
Devanāgarīयः प्रथमः स चतुर्थः । यो द्वितीयः स पञ्चमः
॥१८॥ IAST
Devanāgarīनवनवांशून्गृह्णाति
॥१९॥ IAST
Devanāgarīउत्तरेषु त्रिषु पृष्ठाहःसु त्रीनतिग्राह्यान्गृह्णाति आग्नेयमेकविंश ऐन्द्रं त्रिणवे सौर्यं त्रयस्त्रिंशे
॥२०॥ IAST
Devanāgarīपूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति
॥२१॥ IAST
Devanāgarīयत्र गौरिवीतं साम तद्बहूनतिग्राह्यान्गृह्णाति
॥२२॥ IAST
चतुर्दशी कण्डिका
Devanāgarīत्र्यनीकां व्याख्यास्यामः
॥१॥ IAST
Devanāgarīऐन्द्रवायवाग्नौ प्रायणीयोदयनीयौ दशमं चाहः
॥२॥ IAST
Devanāgarīअथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रम् । अथाग्रयणाग्रम्
॥३॥ IAST
Devanāgarīएवंविहिता त्रिस्त्र्यनीका परिवर्तते यद्यव्यूढः
॥४॥ IAST
Devanāgarīव्यूढे त्वैन्द्रवायवाग्रौ प्रायणीयोदयनीयौ । अथेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रम् । अथ द्वे आग्रयणाग्रे । अथैन्द्रवायवाग्रम् । अथ द्वे शुक्राग्रे । अथाग्रयणाग्रम् । अथ द्वे ऐन्द्रवायवाग्रे
॥५॥ IAST
Devanāgarīअथ पशुकॢप्तिः
॥६॥ IAST
Devanāgarīआग्नेयं प्रायणीय आलभन्ते । श्वो भूते सारस्वतीं मेषीम्
॥७॥ IAST
Devanāgarīएवंविहितानैकादशिनानन्वहमालभन्ते
॥८॥ IAST
Devanāgarīआग्नेयमुदयनीये । ऐन्द्राग्नं वा
॥९॥ IAST
Devanāgarīसौर्यं ब्रह्मवर्चसकामः
॥१०॥ IAST
Devanāgarīयदि यूपैकादशिनी स्यादन्वहमेकैकशो यूपान्संमिनुयात् । सर्वान्वौपवसथ्ये
॥११॥ IAST
Devanāgarīअहरहरुपशय उपावर्तते
॥१२॥ IAST
Devanāgarīअग्निष्ठ उदयनीये पशुमुपाकरोति
॥१३॥ IAST
Devanāgarīद्वादशाग्निष्टोमा रथंतरसामानः
॥१४॥ IAST
Devanāgarīस भरतद्वादशाहः
॥१५॥ IAST
पञ्चदशी कण्डिका
Devanāgarīगवामयनेन प्रजां भूतिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति
॥१॥ IAST
Devanāgarīतस्य द्वादशाहेन सत्त्रभूतेन कल्पो व्याख्यातः
॥२॥ IAST
Devanāgarīसप्तदशैके दीक्षाः समामनन्ति
॥३॥ IAST
Devanāgarīसंवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नित्युक्तम्
॥४॥ IAST
Devanāgarīचतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन्
॥५॥ IAST
Devanāgarīमाघ्या इत्याश्मरथ्यः । चैत्त्र्या इत्यालेखनः
॥६॥ IAST
Devanāgarīसमानमा प्रायणीयात्
॥७॥ IAST
Devanāgarīप्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति
॥८॥ IAST
Devanāgarīते द्वे शये अहनी भवतः
॥९॥ IAST
Devanāgarīअथाभिप्लवं षडहमुपयन्ति । ज्योतिषमग्निष्टोमं रथंतरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथंतरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथंतरसामानम् । ज्योतिषमग्निष्टोमं बृहत्सामानम्
॥१०॥ IAST
Devanāgarīएवंविहितांश्चतुरोऽभिप्लवानुपयन्ति । पृष्ट्यं षडहं समासे
॥११॥ IAST
Devanāgarīएवं विहितान्पञ्च मासानुपयन्ति
॥१२॥ IAST
Devanāgarīततः संभार्यम्
॥१३॥ IAST
Devanāgarīत्रीनभिप्लवान् । पृष्ट्यं षडहम् । अभिजितमग्निष्टोमम् । त्रीन्परःसाम्न उक्थ्यानग्निष्टोमान्वा । परे द्वे शये अहनी
॥१४॥ IAST
Devanāgarīइति षण्मासाः
॥१५॥ IAST
Devanāgarīततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमं दिवाकीर्त्यसामानम्
॥१६॥ IAST
Devanāgarīतस्योदित आदित्ये प्रातरनुवाकमुपाकरोति
॥१७॥ IAST
Devanāgarīदिवाकीर्त्यमेतदहर्भवति
॥१८॥ IAST
Devanāgarīउत्तरे पक्ष आवृत्ता गणा अन्यत्र द्वादशाहीयाद्दशरात्रात्
॥१९॥ IAST
Devanāgarīततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति । अग्निष्टोमान्वा
॥२०॥ IAST
Devanāgarīविश्वजितमग्निष्टोमम्
॥२१॥ IAST
Devanāgarīतानि चत्वारि शयान्यहानि
॥२२॥ IAST
Devanāgarīआवृत्तं पृष्ट्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे
॥२३॥ IAST
Devanāgarīएवंविहितान्पञ्च मासानुपयन्ति
॥२४॥ IAST
षोडशी कण्डिका
Devanāgarīततः संभार्यम्
॥१॥ IAST
Devanāgarīद्वावभिप्लवौ । गोआयुषी । द्वादशाहस्य दशाहानि । पराणि चत्वारि शयान्यहानि । महाव्रतमतिरात्रश्च
॥२॥ IAST
Devanāgarīइति द्वादश मासाः
॥३॥ IAST
Devanāgarīइति शाट्यायनकम्
॥४॥ IAST
Devanāgarīअथ ताण्डकम्
॥५॥ IAST
Devanāgarīउत्तरस्य पक्षस उपरिष्टाद्विश्वजित आवृत्तं पृष्ट्यं षडहमुपेत्य त्रीनभिप्लवानावृत्तान्
॥६॥ IAST
Devanāgarīतानि सह पूर्वैरष्टाविंशतिः शयान्यहानि
॥७॥ IAST
Devanāgarīआवृत्तं पृष्ठ्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे
॥८॥ IAST
Devanāgarīएवंविहितांश्चतुरो मासानुपयन्ति
॥९॥ IAST
Devanāgarīततः संभार्यौ
॥१०॥ IAST
Devanāgarīत्रयोऽभिप्लवा आयुर्गौर्द्वादशाहस्य दशाहानि
॥११॥ IAST
Devanāgarīपराण्यष्टाविंशतिः शयान्यहानि महाव्रतमतिरात्रश्च
॥१२॥ IAST
Devanāgarīइति द्वादश मासाः
॥१३॥ IAST
Devanāgarīइति ताण्डकम्
॥१४॥ IAST
Devanāgarīअथ भाल्लविकम्
॥१५॥ IAST
Devanāgarīपूर्वस्य पक्षसः पुरस्तादुत्तमात्पृष्ठ्यादभिजितमग्निष्टोमम्
॥१६॥ IAST
Devanāgarīउत्तरस्य पक्षस उपरिष्टात्प्रथमात्पृष्ठ्याद्विश्वजितमग्निष्टोमम्
॥१७॥ IAST
Devanāgarīसमानमितरच्छाट्यायनकेन
॥१८॥ IAST
Devanāgarīअपि वा संवत्सरं संपाद्योत्तमे मासि द्वादशाहीये दशरात्रे सकृत्पृष्ठान्युपेयुः
॥१९॥ IAST
Devanāgarīतत्र पृष्ठ्यानां स्थानेऽभिप्लवा निधीयेरन्
॥२०॥ IAST
Devanāgarīउपरिष्टाद्द्वादशाहीयाद्दशरात्रान्महाव्रतम्
॥२१॥ IAST
सप्तदशी कण्डिका
Devanāgarīततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम्
॥१॥ IAST
Devanāgarīअनु श्लोकेन स्तुवते
॥२॥ IAST
Devanāgarīनवभिरैन्द्रीभिरप्रतिहृताभिरध्वर्युरुद्गायति । न वा
॥३॥ IAST
Devanāgarīभद्रं साम पत्नय उपगायन्ति
॥४॥ IAST
Devanāgarīतस्य प्रचरितं मरुत्वतीयैर्भवति
॥५॥ IAST
Devanāgarīअगृहीतो माहेन्द्रः
॥६॥ IAST
Devanāgarīअथ प्रतिप्रस्थाता महाव्रतिकानि शिल्पानि व्यायातयति
॥७॥ IAST
Devanāgarīऔदुम्बरस्य वीणादण्डस्य दशातिमथितानि
॥८॥ IAST
Devanāgarīएकैकस्मिन्नतिमथिते दशदश मौञ्जांस्तन्तून्प्रवयति
॥९॥ IAST
Devanāgarīस वाणः शततन्तुः
॥१०॥ IAST
Devanāgarīअथैकेषाम् । भूस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमध्वर्युः प्रतनोति । भुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतं होता । सुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमुद्गाता । गृहपतिरुत्तमम्
॥११॥ IAST
Devanāgarīऔदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौञ्जविवानामध्यधि होतृषदने
॥१२॥ IAST
Devanāgarīऔदुम्बरं प्लेङ्खं होत्रे प्रबध्नाति मौञ्ज्या रज्ज्वा
॥१३॥ IAST
Devanāgarīऔदुम्बरे फलके अध्वर्यव उपनिदधाति । कूर्चौ वा
॥१४॥ IAST
Devanāgarīकूर्चेषु होत्रका उपगातारः पत्नय इत्यासते
॥१५॥ IAST
Devanāgarīनिकल्पन्ते पत्नयोऽपाघाटलिकास्तम्बलवीणाः पिच्छोला इति
॥१६॥ IAST
Devanāgarīनिकल्पन्ते वीणावादाः शङ्खान्नाळीस्तूणवानिति
॥१७॥ IAST
Devanāgarīनिकल्पेते ब्रह्मचारी पुंश्चली चाग्रेण सदसो दक्षिणां द्वार्बाहुमार्तिष्यमाणौ
॥१८॥ IAST
Devanāgarīउत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति
॥१९॥ IAST
अष्टादशी कण्डिका
Devanāgarīदिक्षु दुन्दुभीन्प्रबध्नन्ति । स्रक्तिषु वा महावेदेः
॥१॥ IAST
Devanāgarīअपरेणाग्नीध्रं भूमिदुन्दुभिमवटं खनन्ति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि
॥२॥ IAST
Devanāgarīतमार्द्रेण चर्मणोत्तरलोम्नाभिवितत्य शङ्कुभिः परिणिहत्यात्रैतत्पुच्छकाण्डमाहननार्थं निदधाति
॥३॥ IAST
Devanāgarīअग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते चर्मकर्ते व्यायंस्यमानौ
॥४॥ IAST
Devanāgarīउत्तरेणाग्नीध्रं कटसंघाते तेजनसंघाते वार्द्द्रं चर्म व्यधनार्थं वितत्योच्छ्रयन्ति
॥५॥ IAST
Devanāgarīअग्रेणाहवनीयं रथेषु कवचिनः संनह्यन्ते
॥६॥ IAST
Devanāgarīमार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते
॥७॥ IAST
Devanāgarīवाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत्
॥८॥ IAST
Devanāgarīकटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन वा वाणं संह्राद्य तेन माहेन्द्रस्य स्तोत्रमुपाकरोति
॥९॥ IAST
Devanāgarīउद्गाता वादयतीति विज्ञायते
॥१०॥ IAST
Devanāgarīतमुद्गाता प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे । तमध्वर्युरन्यस्मै
॥११॥ IAST
Devanāgarīतं सोऽग्रेण सदसो दक्षिणां द्वार्बाहुं प्रतिवादयन्नास्ते
॥१२॥ IAST
एकोनविंशी कण्डिका
Devanāgarīउपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्ति
॥१॥ IAST
Devanāgarīउत्क्रोदं यजमानाः कुर्वते
॥२॥ IAST
Devanāgarīअपाघाटलिकास्तम्बलवीणाः पिच्छोला इति पत्नयो वादयन्ति
॥३॥ IAST
Devanāgarīसंप्रवदन्ति वीणावादाः शङ्खान्नाळीस्तूणवानिति
॥४॥ IAST
Devanāgarīऋतीयेते ब्रह्मचारी पुंश्चली च दक्षिणां द्वार्बाहुमाश्लिष्यमाणौ
॥५॥ IAST
Devanāgarīसंवर्त्तेते पुंश्चलीमागधश्च
॥६॥ IAST
Devanāgarīआजिं धावन्ति
॥७॥ IAST
Devanāgarīदुन्दुभीन्समाघ्नन्ति । पुच्छकाण्डेन भूमिदुन्दुभिम्
॥८॥ IAST
Devanāgarīशूद्रार्यौ चर्मकर्ते व्यायच्छेते आर्द्रे श्वेते परिमण्डले । अन्तर्वेदि ब्राह्मणो बहिर्वेदि शूद्रः
॥९॥ IAST
Devanāgarīआक्रोशति शूद्रः । प्रशंसति ब्राह्मणः
॥१०॥ IAST
Devanāgarīइमेऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मणः । इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति शूद्रः
॥११॥ IAST
Devanāgarīतं ब्राह्मणः संजित्याग्नीध्रे चर्माध्यस्यति
॥१२॥ IAST
Devanāgarīविपरियान्त्येतच्चर्म कवचिनः
॥१३॥ IAST
Devanāgarīतेषामेकैकं संशास्ति मापरात्सीर्मातिव्यात्सीरिति
॥१४॥ IAST
Devanāgarīतते विद्ध्या नातिपातयन्ति
॥१५॥ IAST
Devanāgarīराजपुत्रा विध्यन्तीत्येकेषाम्
॥१६॥ IAST
Devanāgarīउदञ्चोऽपरिमितमध्वानं यात्वा प्रत्यायाय विमुञ्चन्ति
॥१७॥ IAST
Devanāgarīअत्रैता दासकुमार्य उदकुम्भानधिनिधाय त्रिः प्रदक्षिणं मार्जालीयं परिनृत्यन्ति दक्षिणान्पदो निघ्नन्तीरिदंमधुं गायन्त्यः
॥१८॥ IAST
Devanāgarīइदमेव सारघं मध्वयं सोमः सुतो इह । तस्येह पिब तातृपुर्हैमहा इदं मध्विदं मध्वित्येव गायेयुरित्याश्मरथ्यः
॥१९॥ IAST
IAST
विंशी कण्डिका
Devanāgarīहिल्लुकां द्वे गायेताम् । हिम्बिनीं द्वे । हस्तावारां द्वे । संवत्सरगाथां द्वे
॥१॥ IAST
Devanāgarīवाग्वेद हिल्लुकां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हिम्बिनीं सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हस्तावारां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावत्विति
॥२॥ IAST
Devanāgarīततः सम्वत्सरगाथा । गाव एव सुरभयो गावो गुल्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीः । ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे । इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये शर्श्यो यथा । यदा भङ्ग्यश्विनौ वदत ऋत पर्णक योऽवधीः । आविष्कृतस्य दूषणमुभयोरकृतस्य च । यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे व्यृद्धे ग्रामेणा नड्वांस्तप्यते वहन् । इदं कल्माष्यो अपिबन्निदं सोमो असूयत । इदं हिरण्यैः खीला आवायन्साक्थिभञ्जनम्
॥३॥ IAST
Devanāgarīहैमहा इदं मधु हिल्लु हिल्ल्विति सर्वासामृगन्तेषु समयः
॥४॥ IAST
Devanāgarīअत्रैता दासकुमार्य उदकुम्भानुपनिनीय यथार्थं गच्छन्ति
॥५॥ IAST
Devanāgarīमाहेन्द्रस्य स्तुतमनु घोषाः शाम्यन्ति
॥६॥ IAST
Devanāgarīअर्कः पवित्रं रजसो विमानः पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महदशीमहि गाधमुत प्रतिष्ठामिति फलके कूर्चौ वाधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति
॥७॥ IAST
Devanāgarīसंतिष्ठते महाव्रतम्
॥८॥ IAST
एकविंशी कण्डिका
Devanāgarīव्याख्यात उदयनीयः पृष्ठशमनीयश्च
॥१॥ IAST
Devanāgarīअथ ग्रहकॢप्तिः
॥२॥ IAST
Devanāgarīत्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति
॥३॥ IAST
Devanāgarīउपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णाति । ओषधीभ्यस्त्वा प्रजाभ्य इति द्वितीये । प्रजाभ्यस्त्वा प्रजापतय इति तृतीये
॥४॥ IAST
Devanāgarīएतानेवावृतानर्वाक्सामसु
॥५॥ IAST
Devanāgarīतानूर्ध्वानावृत्तांश्च विषुवति
॥६॥ IAST
Devanāgarīतेषां मध्ये सौर्यमुदु त्यं जातवेदसमिति
॥७॥ IAST
Devanāgarīएतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वकर्माणमूतय इति
॥८॥ IAST
Devanāgarīश्वो भूत आदित्यं महीमू षु मातरमिति
॥९॥ IAST
Devanāgarīतावेवमेव व्यत्यासं गृह्णात्या महाव्रतात्
॥१०॥ IAST
Devanāgarīतौ सह महाव्रते । प्राजापत्यं च पञ्चपात्रम्
॥११॥ IAST
Devanāgarīत्रयस्त्रिंशतमेतदहरतिग्राह्यान्गृह्णाति
॥१२॥ IAST
Devanāgarīदशाग्नेया दशैन्द्रा दश सौर्या वैश्वकर्मन आदित्यः पञ्चपात्र इति त्रयस्त्रिंशत्
॥१३॥ IAST
Devanāgarīअतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति । मध्ये पञ्चमम्
॥१४॥ IAST
Devanāgarīपूर्वार्धे गृह्णाति
॥१५॥ IAST
Devanāgarīइन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वार्कवते जुष्टं गृह्णामीति गृहीत्वैष ते योनिरिन्द्राय त्वार्कवत इति सादयति
॥१६॥ IAST
Devanāgarīएवं सर्वत्र ग्रहनसादनौ संनमति
॥१७॥ IAST
Devanāgarīअभि त्वा शूर नोनुम इति दक्षिणार्धे
॥१८॥ IAST
द्वाविंशी कण्डिका
Devanāgarīइमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करदिति पश्चार्धे
॥१॥ IAST
Devanāgarīत्वामिद्धि हवामह इत्युत्तरार्धे
॥२॥ IAST
Devanāgarīतदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे
॥३॥ IAST
Devanāgarīतानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति
॥४॥ IAST
Devanāgarīअथैकेषाम् । यन्नाना जुहुयादात्मनो ऽङ्गानि विच्छिन्द्यात् । यत्समाहृत्याहुतीः संरुन्ध्यात्तदनु यजमानाः संरुन्ध्येरन् । स्तोका एवात्मन्प्रत्यानीय होतव्याः । प्रत्यहाङ्गानि ददाति नाहुतीः संरुणद्धि न यज्ञं विच्छिनत्तीति विज्ञायते
॥५॥ IAST
Devanāgarīतं भक्षयति महस्ते भक्षयामि बर्गं ते भक्षयामि भुजं ते भक्षयाम्यन्नाद्यं ते भक्षयामीति
॥६॥ IAST
Devanāgarīत्र्यनीकां व्याख्यास्यामः
॥७॥ IAST
Devanāgarīऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाग्रयणाग्रम्
॥८॥ IAST
Devanāgarīएवंविहिता त्र्यनीका परिवर्तत इत ऊर्ध्वा प्राग्विषुवतः
॥९॥ IAST
Devanāgarīऊर्ध्वं विषुवत आवृत्तावृत्तेषु
॥१०॥ IAST
Devanāgarīशुक्राग्रो विषुवान्
॥११॥ IAST
Devanāgarīअथ पशुकॢप्तिः
॥१२॥ IAST
Devanāgarīआग्नेयं प्रायणीय आलभन्ते । श्वो भूते सारस्वतीं मेषीम्
॥१३॥ IAST
Devanāgarīएवंविहितानैकादशिनानन्वहमालभन्ते
॥१४॥ IAST
त्रयोविंशी कण्डिका
Devanāgarīसौर्यं विषुवत्युपालम्भ्यम्
॥१॥ IAST
Devanāgarīतेषामेवमुपाकुर्वतां द्वादशाहीयस्य दशरात्रस्य सप्तदश उक्थ्ये द्वात्रिंशतमेकादशिन्योऽपवृज्यन्ते
॥२॥ IAST
Devanāgarīनवाहान्यतिरिच्यन्ते
॥३॥ IAST
Devanāgarīतेषु गव्यानतिरिक्तपशूनालभन्ते । वैष्णवं वामनमेकविंशे । ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे । तस्या एव वायव्यं वत्सं मध्यमे । आदित्यामविं वशामुत्तमे । मैत्रावरुणीमविवाक्ये । प्राजापत्यमृषभं तूपरं महाव्रते । आग्नेयमुदयनीये
॥४॥ IAST
Devanāgarīइति पालिङ्गायनिकाः
॥५॥ IAST
IAST
Devanāgarīऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते
॥७॥ IAST
Devanāgarīआग्नेयमन्तर्धौ रथंतरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु
॥८॥ IAST
Devanāgarīअपि वाग्नेन्द्रं रथंतरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु
॥९॥ IAST
Devanāgarīतेष्वेव नवसु गव्यान्
॥१०॥ IAST
Devanāgarīतत्र विकारः
॥११॥ IAST
Devanāgarīबार्हस्पत्यं शितिपृष्ठं त्रयस्त्रिंशे । वाचे पृश्निमुत्तमे । वैश्वकर्मणमृषभं तूपरं महाव्रते द्विरूपमुभयतएतम्
॥१२॥ IAST
Devanāgarīक्रतुपशूनेव समभ्युच्चयवदन्वहमालभेरन्यदि विभवः पशवः स्युः । ऐकादशिनान्वा विहृतानिति वाजसनेयकम्
॥१३॥ IAST
Devanāgarīऐन्द्राग्नं वा सर्वत्र
॥१४॥ IAST
चतुर्विंशी कण्डिका
Devanāgarīउत्सर्गिणामयनं गवामयनं गुणविकृतम्
॥१॥ IAST
Devanāgarīउत्सृज्यां३ नोत्सृज्या३ मित्युक्तम्
॥२॥ IAST
Devanāgarīयद्यहान्युत्सृजेयुः प्रथमं पृष्ठ्यं संस्थाप्यापरस्मा अह्ने वसतीवरीः परिहृत्य वसतीवरीषु मृत्पिण्डमवधायैन्द्रं सांनाय्यं निरुप्योपवसन्ति
॥३॥ IAST
Devanāgarīश्वो भूतेऽहरुत्सृज्य प्राजापत्यं पशुमालभन्ते
॥४॥ IAST
Devanāgarīतस्य यथाकालं वपया प्रचर्याग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपत्यैन्द्रं च दधि
॥५॥ IAST
Devanāgarīतयोः समानं स्विष्टकृदिडम्
॥६॥ IAST
Devanāgarīउपहूतायामिडायां सांनाय्यं समुपहूय भक्षयन्ति
॥७॥ IAST
Devanāgarīमाध्यंदिन काले पशुपुरोडाशेन प्रचर्येन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपत्यैन्द्रं च चरुम्
॥८॥ IAST
Devanāgarīहविराहुतिप्रभृतीडान्तं संस्थाप्य तृतीयसवनकाले पशुना प्रचर्य वैश्वदेवं द्वादशकपालं निर्वपति वैश्वदेवं च चरुम्
॥९॥ IAST
Devanāgarīपूर्ववद्धविषी संस्थापयेत्
॥१०॥ IAST
Devanāgarīअपि वा सवनीयानेव पुरोडाशानेतेषां हविषां स्थाने । अध्वरकल्पान्वा
॥११॥ IAST
Devanāgarīअग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते
॥१२॥ IAST
पञ्चविंशी कण्डिका
Devanāgarīएवमत ऊर्ध्वं षडहैर्मासान्संपाद्य सप्तममुत्सृज्यैतत्कुर्वन्ति
॥१॥ IAST
Devanāgarīपञ्च ज्योतींषि प्राग्विषुवत उत्सृज्यन्ते
॥२॥ IAST
Devanāgarīचत्वारस्त्रयस्त्रिंशा उपरिष्टादेकं च ज्योतिः संभार्ये
॥३॥ IAST
Devanāgarīप्रथमसप्तमयोरेव नोत्सृजेयुरित्येके
॥४॥ IAST
Devanāgarīअथैकेषाम् । यान्यहान्युत्सर्गप्राप्तान्येकत्रिकस्तोत्राण्येव स्युः
॥५॥ IAST
Devanāgarīएकैकां वैषां स्तोत्रीयामुत्सृजेयुः । उक्थानि वा
॥६॥ IAST
Devanāgarīसंवत्सरस्योत्तमेऽहन्नेकामेव स्तोत्रीयामुत्सृजेयुः । तदुत्सृष्टं चानुत्सृष्टं च भवतीति
॥७॥ IAST
Devanāgarīअथैकेषाम् । यदहरुत्सृजेयुस्तदेव श्वो भूत उपेयुः
॥८॥ IAST
Devanāgarīतदु तथा न कुर्यात् विकस्तिः सा संवत्सरस्य भवतीति
॥९॥ IAST
Devanāgarīअवभृथादुदेत्य तान्येवोपेयुः
॥१०॥ IAST
Devanāgarīद्वादश यद्यमावास्यायामुत्सृजेयुः । यद्युभयत्र चतुर्विंशतिः
॥११॥ IAST
Devanāgarīतदेतत्पौत्रीयं पशव्यमायुष्यं स्वर्ग्यम्
॥१२॥ IAST
Devanāgarīसंतिष्ठत उत्सर्गिणामयनमुत्सर्गिणामयनम्
॥१३॥ IAST