मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

दशमः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 10

अग्निष्टोमः

पाठः आरभ्यताम्

कण्डिकासूत्राणि
प्रथमा कण्डिका14
द्वितीया कण्डिका11
तृतीया कण्डिका8
चतुर्थी कण्डिका15
पञ्चमी कण्डिका16
षष्ठी कण्डिका13
सप्तमी कण्डिका15
अष्टमी कण्डिका16
नवमी कण्डिका19
दशमी कण्डिका7
एकादशी कण्डिका6
द्वादशी कण्डिका14
त्रयोदशी कण्डिका11
चतुर्दशी कण्डिका10
पञ्चदशी कण्डिका16
षोडशी कण्डिका16
सप्तदशी कण्डिका13
अष्टादशी कण्डिका10
एकोनविंशी कण्डिका17
विंशी कण्डिका19
एकविंशी कण्डिका18
द्वाविंशी कण्डिका12
त्रयोविंशी कण्डिका10
चतुर्विंशी कण्डिका15
पञ्चविंशी कण्डिका16
षड्विंशी कण्डिका17
सप्तविंशी कण्डिका10
अष्टाविंशी कण्डिका7
एकोनत्रिंशी कण्डिका11
त्रिंशी कण्डिका15
एकत्रिंशी कण्डिका16

प्रथमा कण्डिका

सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः स्थविरान्वानूचानानूर्ध्ववाचोऽनङ्गहीनान्

॥१॥

तेभ्यः सोमं प्राह

॥२॥

तं पृच्छति क ऋत्विजः के याजयन्ति कच्चिन्नाहीनः कच्चिन्न न्यस्तमार्त्विज्यं कच्चित्कल्याण्यो दक्षिणा इति छन्दोगब्राह्मणं भवति

॥३॥

अथ जपति महन्मेऽवोचो भर्गो मेऽवोचो यशो मे वोचः स्तोमं मेऽवोचः कॢप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्वं मेऽवोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीयेति

॥४॥

यद्वा नामासि स्रुतिः सोमसरणी सोमं गमेयमिति पन्थानमातिष्ठते

॥५॥

देवो देवमेतु सोमः सोममेत्वृतस्य एथा विहाय दौष्कृत्यमित्यभिप्रव्रजति

॥६॥

पितरो भूरिति दक्षिणावृत्तः पितॄनुपतिष्ठते

॥७॥

तान्वृणीते चतुरः सर्वान्वैकैकशः

॥८॥

अध्वर्युं प्रतिप्रस्थातारं नेष्टारमुन्नेतारमित्यध्वर्यून् । ब्रह्माणं ब्राह्मणाच्छंसिनमाग्नीध्रं पोतारमिति ब्रह्मणः । होतारं मैत्रावरुणमच्छावाकं ग्रावस्तुतमिति होतॄन् । उद्गातारं प्रस्तोतारं प्रतिहर्तारं सुब्रह्मण्यमित्युद्गातॄन्

॥९॥

सदस्यं सप्तदशं कौषीतकिनः समामनन्ति

॥१०॥

स कर्मणामुपद्रष्टा भवति

॥११॥

यदि चतुर आद्यान्

॥१२॥

अथ वरणाः

॥१३॥

अग्निर्मे होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्जन्यो म उद्गाताकाशो मे सदस्य आपो मे होत्राशंसिनो रश्मयो मे चमसाध्वर्यव इत्युपांशु देवतादेशनम् । असौ मानुष इत्युच्चैः

॥१४॥

द्वितीया कण्डिका

स्वर्गकामो ज्योतिष्टोमेन यजेत । एककामः सर्वकामो वाऽयुगपत्कामयेताहारपृथक्त्वे वा

॥१॥

वसन्ते ज्योतिष्टोमेन यजेत

॥२॥

अग्निष्टोमः प्रथमयज्ञः

॥३॥

अतिरात्रमेके पूर्वं समामनन्ति

॥४॥

वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति छन्दोगब्राह्मणं भवति

॥५॥

रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वा प्रथमं यजेत

॥६॥

न रथंतरसामानमकृत्वा बृहत्सामानमाहरेदित्येके

॥७॥

यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत

॥८॥

देव वरुण देवयजनं मे देहीति यजमानो राजानं देवयजनं याचेत्

॥९॥

स यदि ददाति देवयजनवान्भूया इत्येनमाह । यदि न ददाति यदहं देवयजनम् वेद तस्मिंस्त्वा देवयजन आ क्षिणोमीति

॥१०॥

अथैनमनुव्याहरन्ति । मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा । वाचमुपावधीर्वाक्त्वा हास्यतीति होता । प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युः । चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता । आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्यः । प्रजातिमुपावधीः प्रजा त्वा हास्यतीति यजमानः । अङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति होत्रकाः । भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्व ऋत्विजः

॥११॥

तृतीया कण्डिका

राजा देवयजनं याचति । अग्निर्होता स मे होता होतर्देवयजनं मे देहीति होतारम् । आदित्योऽध्वर्युः स मेऽध्वर्युरध्वर्यो देवयजनं मे देहीत्यध्वर्युम् । चन्द्रमा ब्रह्मा स मे ब्रह्मा ब्रह्मन्देवयजनं मे देहीति ब्रह्माणम् । पर्जन्य उद्गाता स म उद्गातोद्गातर्देवयजनं मे देहीत्युद्गातारम् । आकाशः सदस्यः स मे सदस्यः सदस्य देवयजनं मे देहीति सदस्यम् । आपो होत्राशंसिनस्ते मे होत्राशंसिनो होत्राशंसिनो देवयजनं मे दत्तेति होत्रकान् । रश्मयश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवश्चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून्

॥१॥

अपि वा न देवयजनं याचेत् । देवता एवोपतिष्ठेत सक्षेदं पश्य विधर्तरिदं पश्य नाकेदं पश्य । रमतिः पनिष्ठर्तं वर्षिष्ठममृता यान्याहुः सूर्यो वरिष्ठो अक्षभिर्विभात्यनु द्यावापृथिवी देवपुत्रे इति

॥२॥

एदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यति

॥३॥

प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम्

॥४॥

ततः संभारयजूंषि जुहोति

॥५॥

अग्निर्यजुर्भिः सविता स्तोमैरित्येषोऽनुवाक आम्नातः

॥६॥

अत्र राजानमाहृत्य पयसौदनेन परिवेविषन्त्या क्रयात्

॥७॥

स्वे दक्षे दक्षपितेह सीद देवानां सुम्नो महते रणाय । स्वासस्थस्तनुवा संविशस्व पितेवैधि सूनव आ सुशेवः । शिवो मा शिवमाविश सत्यं म आत्मा श्रद्धा मेऽक्षितिस्तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु सत्यमस्मीति पुरस्ताद्दीक्षणीयाया आहवनीयं यजमान उपतिष्ठते । सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वा

॥८॥

चतुर्थी कण्डिका

दीक्षणीयायास्तन्त्रं प्रक्रमयति

॥१॥

आग्नावैष्णवमेकादशकपालं निर्वपति । आग्नावैष्णवं वा घृते चरुम्

॥२॥

पुरोडाशो ब्रह्मवर्चसकामस्य । घृते चरुः प्रजाकामस्य पशुकामस्य वा

॥३॥

आदित्यं घृते चरुं द्वितीयं प्रजाकामपशुकामस्यैके समामनन्ति

॥४॥

पञ्चदश सप्तदश वा सामिधेन्यः

॥५॥

प्राग्वंशमेके पूर्वं समामनन्ति । दीक्षणीयामेके

॥६॥

पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते

॥७॥

धारयति ध्रौवमाज्यम्

॥८॥

यत्प्रागग्नीषोमीयात्तेनोपांशु चरति

॥९॥

अथैकेषाम् । यावत्यस्य वाग्भवति तावतीं दीक्षणीयायामन्वाह । ततो नीचैस्तरां प्रायणीयायाम् । नीचैस्तरामातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये

॥१०॥

मन्द्रेण दीक्षणीयायाम् । मन्द्रतरेण प्रायणीयायाम् । मन्द्रतरेणातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये । उपांशु वा दीक्षणीयायाम् । उपांशुतरं प्रायणीयायाम् । उपांशुतरमातिथ्यायाम् । उपांशूपसत्सु । उच्चैरग्नीषोमीये

॥११॥

दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनमारण्याशनं जागरणमन्वाहार्यस्य च दानं पत्न्याः संनहनं विमोचनमिति न विद्यन्ते

॥१२॥

अग्न्यन्वाधानं तु दीक्षणीयायां क्रियेत पत्न्याश्च संनहनम्

॥१३॥

दीक्षासु यूपं कारयति

॥१४॥

क्रीते राजन्युपसत्सु वा

॥१५॥

पञ्चमी कण्डिका

प्राचीनवंशं करोति पुरस्तादुन्नतं पश्चान्निनतं सर्वतः परिश्रितम्

॥१॥

अवान्तरदिक्षु स्रक्तयः

॥२॥

स्रक्तिष्वारोकान्करोति

॥३॥

प्रतिदिशं द्वाराणि

॥४॥

पुरस्ताद्द्वारं स्वर्गकामः । दक्षिणतो यः कामयेत पितृलोक ऋध्रुयामिति । पश्चान्मनुष्यलोककामः । उत्तरतो यः कामयेत देवलोक ऋध्नुयामिति । उत्तरतः पुरस्ताद्यः कामयेतोभयोर्लोकयोरृध्नुयामिति । सर्वतो यः कामयेत सर्वासु दिक्ष्वृध्नुयामिति

॥५॥

उत्तरेण बहिः प्राग्वंशं म्परिश्रिते यजमानः केशश्मश्रु वापयते

॥६॥

उपपक्षावग्रेऽथ श्मश्रूण्यथ केशान् । अपि वा श्मश्रूण्युपपक्षावथ केशान्

॥७॥

आप उन्दन्त्विति दक्षिणं गोदानमुनत्ति । ओषधे त्रायस्वैनमिति प्रागग्रं दर्भमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिनाभिनिधाय देवश्रूरिति प्रवपति

॥८॥

एवमुत्तरं गोदानम्

॥९॥

ओषधे त्रायस्व मा स्वधिते मा मा हिंसीः स्वस्त्युत्तराण्यशीयेति यजमानो जपति

॥१०॥

अभ्यन्तरं नखानि कारयते

॥११॥

सव्यस्याग्रे कनिष्ठिकातः

॥१२॥

हस्त्यान्यग्रेऽथ पद्यानि

॥१३॥

औदुम्बरेण दतो धावते लोहितमनभिगमयन्

॥१४॥

स्थावरास्वप्सु स्नाति शङ्खिनीष्ववकिनीषु लोमशे तीर्थे

॥१५॥

कुण्डे हिरण्यमवधाय तस्मिन्स्नातीति वाजसनेयकम्

॥१६॥

षष्ठी कण्डिका

आपो अस्मान्मातरः शुन्धन्त्विति । हिरण्यवर्णाः शुचयः पावकाः प्रचक्रमुर्हित्वावद्यमापः । शतं पवित्रा वितता ह्यासु ताभिर्नो देवः सविता पुनात्विति । हिरण्यवर्णाः शुचयः पावका इति चैताभ्याम्

॥१॥

उदाभ्यः शुचिरापूत एमीत्युद्गाहमानो जपति । अपोऽश्नाति

॥२॥

एवं पत्नी केशवर्जम्

॥३॥

अथास्मै क्षौममहतं महद्वासः प्रयच्छति

॥४॥

तत्प्रतिगृह्णाति दीक्षासि तपसो योनिस्तपोऽसि ब्रह्मणो योनिर्ब्रह्मासि क्षत्रस्य योनिः क्षत्रमस्यृतस्य योनिरृतमसि भूरारभे श्रद्धां मनसा दीक्षां तपसा विश्वस्य भुवनस्याधिपत्नीं सर्वे कामा यजमानस्य सन्त्विति

॥५॥

सोमस्य तनूरसि तनुवं मे पाहि दीक्षासि तनूरसि तां त्वां शिवां स्योनां परिधिषीयेति तत्परिधाय सोमस्य नीविरसीति नीविमनुपरिकल्पयते

॥६॥

ऊर्जे त्वेत्यन्नमश्नाति सर्पिर्मिश्रं दधि मधु चाभ्युपसेकम्

॥७॥

यदस्य मनसः प्रतिप्रियं तदश्नाति

॥८॥

तदेवास्यामुष्मिंल्लोके भवतीति विज्ञायते । तथाशितः स्याद्यथा ततो दीक्षासु कनीयःकनीयो व्रतमुपेयात्

॥९॥

पुरस्तात्केशवपनाद्वाससो वा परिधानाद्भोजनमेके समामनन्ति

॥१०॥

महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति

॥११॥

वर्चोधा असीति तेन पराचीनं त्रिरभ्यङ्क्ते । मुखमग्रे

॥१२॥

अनुलोममङ्गानि । स्वक्तो भवति

॥१३॥

सप्तमी कण्डिका

वृत्रस्य कनीनिकासीति त्रैककुदेनाञ्जनेनाङ्क्ते

॥१॥

यदि त्रैककुदं नाधिगच्छेद्येनैव केन चाञ्जनेनाञ्जीतेति वाजसनेयकम्

॥२॥

सतूलया दर्भेषीकया शरेषीकया दर्भपुञ्जीलेन वाभ्यन्तरं द्विर्दक्षिणमनिधावमानः । सकृत्सव्यम्

॥३॥

अपि वा द्विर्दक्षिणं त्रिः सव्यम् । त्रिस्त्रिर्वोभे

॥४॥

अथैनमुत्तरेण बहिः प्राग्वंशाद्दर्भपुञ्जीलैः पवयति

॥५॥

द्वाभ्यां पवयति त्रिभिः पवयतीत्युक्तम्

॥६॥

एकविंशत्या त्रेधा विभक्तया सप्तभिःसप्तभिर्द्विरूर्ध्वं नाभेरुन्मार्ष्टि । सकृदवाक्

॥७॥

अन्वञ्चं पावयतीत्येके

॥८॥

यं द्विष्यात्तं तिर्यञ्चमक्ष्णया वा पावयेत्

॥९॥

चित्पतिस्त्वा पुनात्वित्येतैः प्रतिमन्त्रम्

॥१०॥

अच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति

॥११॥

चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्विति पाव्यमानो जपति

॥१२॥

तस्य ते पवित्रपत इति च । पवमानः सुवर्जनः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । प्राजापत्यं पवित्रं शतोद्यामं हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमह इति च

॥१३॥

यद्देवा देवहेडनं त्वमग्ने अयासीति च पूतः

॥१४॥

प्राग्वा दीक्षणीयाया जुहुयात् । जपेदित्येके

॥१५॥

अष्टमी कण्डिका

आ वो देवास ईमह इति पूर्वया द्वारा प्राग्वंशं प्रविश्येन्द्राग्नी द्यावापृथिवी इत्यपरेणाहवनीयं दक्षिणातिक्रम्य त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति

॥१॥

एष एवात ऊर्ध्वं यजमानस्य संचरो भवति

॥२॥

अत्र दीक्षणीयामेके समामनन्ति

॥३॥

पुरस्ताद्दीक्षाहुतीभ्यः संभारयजूंष्येके

॥४॥

यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीः स्रुवेण चतस्रो जुहोति । स्रुचा पञ्चमीम् । आकूत्यै प्रयुजेऽग्नये स्वाहेत्येतैः प्रतिमन्त्रम्

॥५॥

द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुरिति पूर्णाहुतिं षष्ठीम्

॥६॥

यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य पञ्च जुहोति वाचा मे वाग्दीक्षतां स्वाहा । प्राणेन मे प्राणो दीक्षतां स्वाहा । चक्षुषा मे चक्षुर्दीक्षतां स्वाहा । श्रोत्रेण मे श्रोत्रं दीक्षतां स्वाहा । मनसा मे मनो दीक्षतां स्वाहेति

॥७॥

अध्वर्युं वा जुह्वतमनुमन्त्रयते

॥८॥

वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वंहसो ज्योग्जीवा जरामशीमहीति पूर्णाहुतिं हूयमानामनुमन्त्रयते

॥९॥

अत्र संभारयजूंष्येके

॥१०॥

कृष्णाजिनेन यजमानं दीक्षयति

॥११॥

द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्यां बहिर्लोमाभ्याम्

॥१२॥

यद्येकं स्याद्दक्षिणं पूर्वपादं प्रतिषीव्येत् । अन्तान्वा

॥१३॥

द्वे विषूची प्रतिमुञ्चेत पादं वा प्रतिषीव्येदित्येके

॥१४॥

अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति

॥१५॥

ऋक्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते । संमृशतीत्येके

॥१६॥

नवमी कण्डिका

इन्द्र शाक्वर गायत्रीं प्रपद्ये तां ते युनज्मीन्द्र शाक्वर त्रिष्टुभं प्रपद्ये तां ते युनज्मीन्द्र शाक्वर जनतीं प्रपद्ये तां ते युनज्मीन्द्र शाक्वरानुष्टुभं प्रपद्ये तां ते युनज्मीन्द्र शाक्वर पङ्क्तिं प्रपद्ये तां ते युनज्मीत्येतैः प्रतिमन्त्रं प्रतिदिशं कृष्णाजिनममिमृशति । मध्य उत्तमेन

॥१॥

अथ प्राङ्मुखो जान्वक्नोऽभिसर्पति

॥२॥

इमां धियं शिक्षमाणस्येति कृष्णाजिनं भसत्त आरोहति

॥३॥

सुत्रामाणमित्या रोहञ्जपति । इमां सु नावमारुहमित्यारूढः । आहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तं सत्येऽधायि सत्यमृतेऽधाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवं सुवरगमं सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगममिति च

॥४॥

अत्र पत्नी शिरसि कुम्बकुरीरमध्यूहते

॥५॥

कृष्णं जीवोर्णानामिति वाजसनेयकम्

॥६॥

जालं कुम्बकुरीरमित्याचक्षते

॥७॥

विष्णोः शर्मासीत्यहतेन वाससा दक्षिणमंसं यजमानः प्रोर्णुते । नक्षत्राणां मातीकाशात्पाहीति शिरः

॥८॥

उष्णीषेण प्रदक्षिणं शिरो वेष्टयत इति वाजसनेयकम्

॥९॥

न पुरा सोमस्य क्रयादपोर्ण्वीतेत्युक्तम्

॥१०॥

प्राचीनमात्रावाससा पत्नीं दीक्षयति

॥११॥

ऊर्ध्ववास्यं ब्रुवते

॥१२॥

शरमयी मौञ्जी वा मेखला त्रिवृत्पृथव्यन्यतरतःपाशा । तया यजमानं दीक्षयति । योक्त्रेण पत्नीम्

॥१३॥

ऊर्गसीति नाभिं प्रतिपरिव्ययति द्वेष्यं मनसा ध्यायन्

॥१४॥

उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थापयति

॥१५॥

अत्र दर्शपूर्णमासवत्पत्नीं संनह्यति । सं त्वा नह्यामीति विकारः

॥१६॥

इन्द्रस्य योनिरसि मा मा हिंसीरिति कृष्णविषाणां यजमानाय प्रयच्छति

॥१७॥

आबध्नातीत्येके

॥१८॥

त्रिवलिः पञ्चवर्लिवा दक्षिणावृद्भवति । सव्यावृदित्येके

॥१९॥

दशमी कण्डिका

कृष्यै त्वा सुसस्याया इति तया वेदेर्लोष्टमुद्धन्ति

॥१॥

सुपिप्पलाभ्यस्त्वौषधीभ्य इत्यर्थे प्राप्ते शिरसि कण्डूयते

॥२॥

विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्फितमित्यङ्गानि

॥३॥

ऊर्ध्वसदसि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहीत्यौदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति । यो वा यज्ञियो बृक्षः फलग्रहिः

॥४॥

आस्यदघ्नश्चुबुकदघ्नो वा

॥५॥

सूपस्था देवो वनस्पतिरिति तं यजमानः प्रतिगृह्योरुव्यचा असि जनधाः स्वभक्षो मा पाहीति चमसं व्रतप्रदानमभिमन्त्र्य केशिनीं दीक्षां जपत्यग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्ष । वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । चन्द्रमा दीक्षितः श्रोत्रं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षयतु दीक्षया दीक्षे । वाचा मे वाग्दीक्षतामग्नये समष्टवा उ । प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ । चक्षुषा मे चक्षुर्दीक्षतां सूर्याय समष्टवा उ । श्रोत्रेण मे श्रोत्रं दीक्षतां चन्द्रमसे समष्टवा उ । मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ । भूर्भुवः सुवस्तपो मे दीक्षा सत्यं गृहपतिरिति

॥६॥

अथैनमध्वर्युरभिमन्त्रयते

॥७॥

एकादशी कण्डिका

पृथिवी दीक्षा तयाग्निर्दीक्षया दीक्षितो ययाग्निर्दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा तया वायुर्दीक्षया दीक्षितो यया वायुर्दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । द्यौर्दीक्षा तयादित्यो दीक्षया दीक्षितो ययादित्यो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा तया चन्द्रमा दीक्षया दीक्षितो यया चन्द्रमा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितो यया वरुणो राजा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितो यया सोमो राजा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । वाग्दीक्षा तया प्राणो दीक्षया दीक्षितो यया प्राणो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणमनुदीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणमनुदीक्षताम् । द्यौस्त्वा दीक्षमाणमनुदीक्षताम् । दिशस्त्वा दीक्षमाणमनुदीक्षन्ताम् । आपस्त्वा दीक्षमाणमनुदीक्षन्ताम् । ओषधयस्त्वा दीक्षमाणमनुदीक्षन्ताम् । वाक्त्वा दीक्षमाणमनुदीक्षताम् । ऋचस्त्वा दीक्षमाणमनुदीक्षन्ताम् । सामानि त्वा दीक्षमाणमनुदीक्षन्ताम् । यजूंषि त्वा दीक्षमाणमनुदीक्षन्ताम् । अहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चापश्चौषधयश्चोर्क् च सूनृता च तास्त्वा दीक्षमाणमनुदीक्षन्तामिति

॥१॥

संभारयजूंषि चैनमध्वर्युर्वाचयति

॥२॥

अथाङ्गुलीर्न्यचति

॥३॥

स्वाहा यज्ञं मनस इति द्वे । स्वाहा दिव इति द्वे । स्वाहा पृथिव्या इति द्वे । स्वाहोरोरन्तरिक्षादिति द्वे । द्वाहा यज्ञं वातादारभ इति मुष्टीकरोति वाचं च यच्छति

॥४॥

अथैनं त्रिरुपांश्वावेदयति त्रिरुच्चैरदीक्षिष्टायं ब्राह्मणोऽसावमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्तामुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्तेति

॥५॥

ब्रह्मणो वा एष जायते यो दीक्षते । तस्माद्राजन्यवैश्यावपि ब्राह्मण इत्येवावेदयति

॥६॥

द्वादशी कण्डिका

अपराह्णे दीक्षयेत्

॥१॥

यं कामयेत तपस्वी स्यादिति तं पूर्वाह्णे

॥२॥

स वाग्यतस्तपस्तप्यमान आस्त आ नक्षत्रस्योदेतोः

॥३॥

वत्सस्यैकं स्तनमवशिष्येतरान्व्रतं दोहयित्वा याः पशूनामृषभे वाचस्ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्वो यथाभागं वो अत्र शिवा नस्ताः ह्पुनरायन्तु वाच इति जपित्वा व्रतं कृणुतेति वाचं विसृजते

॥४॥

एष्ट्रीः स्थेति चतस्रोऽङ्गुलीरुत्सृजति । द्वे अन्यतरतो द्वे अन्यतरतः

॥५॥

जागर्त्येतां रात्रिम् । क्रीते राजनि द्वितीयाम् । श्वःसुत्यायां तृतीयाम्

॥६॥

चनसितं विचक्षणमिति नामधेयान्तेषु निदधाति

॥७॥

चनसितेति ब्राह्मणम् । विचक्षणेति राजन्यवैश्यौ

॥८॥

परिणयेन मानुषीं वाचं वदति

॥९॥

न स्त्रिया न शूद्रेण संभाषेत

॥१०॥

नैनमनुप्रपद्येत

॥११॥

यद्येनं शूद्रेण संवाद उपपद्येत ब्राह्मणराजन्यवैश्यानामेकं ब्रूयादिममित्थं ब्रूहीति वाससनेयकम्

॥१२॥

कामं शूद्रेण संभाषेत यः पापेन कर्मणानभिलक्षितः स्यादिति शाट्यायनकम्

॥१३॥

अभिवदति नाभिवादयतेऽप्याचार्यं श्वशुरं राजानमिति शाट्यायनकम्

॥१४॥

त्रयोदशी कण्डिका

अग्निर्वै दीक्षितस्तस्मादेनं नोपस्पृशेत्

॥१॥

न चास्य नाम गृह्णीयात्

॥२॥

न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेत्

॥३॥

न च दन्तान्दर्शयते

॥४॥

हस्तेनापिगृह्य स्मयते

॥५॥

मधु मांसं स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमणं दीक्षितविमितात्प्रवासमिति वर्जयेत्

॥६॥

न दिवा मूत्रपुरीषे कुर्यात्

॥७॥

यदि कुर्याच्छायायाम्

॥८॥

मूत्रं चिकीर्षन्निय ते यज्ञिया तनूरिति तृणं लोष्टं वापादायापो मुञ्चामि न प्रजामंहोमुचः स्वाहाकृताः पृथिवीमाविशतेति मूत्रं विसृज्याचम्य पृथिव्या संभवेत्यपात्तं प्रतिनिदधाति

॥९॥

यन्मेऽत्र पयसः परीतोषात्तदर्पिथ । अग्निहोत्रमिव सोमेन तदहं पुनरादद इति रेतः स्कन्नमनुमन्त्रयते

॥१०॥

यदत्रापि रसस्य मे निरष्ठविषमस्मृतम् । अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु म इति छर्दित्वा ष्ठुत्वा वा । यदन्नमद्य ते नक्तं न तत्प्रातः क्षुधोऽवति । मरं तदस्मान्मा हिंसीर्नहि तद्ददृशे दिवेति स्वप्नेऽन्नं भुक्त्वा । रुद्रियाभ्योऽद्भ्यः स्वाहेति लोहितमुत्पतितं दृष्ट्वा

॥११॥

चतुर्दशी कण्डिका

बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानम् । कृपा णाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु । तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदम्

॥१॥

न प्रतीच्या द्वारा निष्क्रामति

॥२॥

नाक्रतुसंयुक्तामाहुतिं जुहोति

॥३॥

नाग्निहोत्रम्

॥४॥

न दर्शपूर्णमासाभ्यां यजते

॥५॥

न ददाति

॥६॥

न पचते

॥७॥

द्वादशाहमवरार्ध्यं दीक्षितो भवति । मासं संवत्सरं यदा वा कृशः स्यादित्यपरम्

॥८॥

विज्ञायते च । यदा वै दीक्षितः कृशो भवत्यथ मेध्यो भवति । यदास्मिन्नन्तर्न किंचन भवत्यथ मेध्यो भवति । यदास्य त्वचास्थि संधीयतेऽथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यत्यथ मेध्यो भवति

॥९॥

पीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते

॥१०॥

पञ्चदशी कण्डिका

एका दीक्षा तिस्र उपसदः पञ्चमीं प्रसुतः । तिस्रो वा दीक्षास्तिस्र उपसदः सप्तमीं प्रसुतः । चतस्रो वा दीक्षास्तिस्र उपसदोऽष्टमीं प्रसुतः

॥१॥

अमावास्यायां दीक्षा यजनीये वा । पौर्णमास्यां यजनीये वा सुत्यमहः

॥२॥

एतद्वा विपरीतम्

॥३॥

अमावास्यायां दीक्षा यजनीये वा । अमावास्यायां यजनीये वा सुत्यमहः । पौर्णमास्यां दीक्षा यजनीये वा । पौर्णमास्यां यजनीये वा सुत्यमहः

॥४॥

नैनमन्यत्र दीक्षितविमितादभिनिस्रोचेदभ्युदियाद्वा

॥५॥

वारुणीरभिनिम्रुक्तो जपेत् । सौरीरभ्युदितः

॥६॥

अबद्धं मन इत्यमेध्यं दृष्ट्वा जपति

॥७॥

उन्दतीर्बलं धत्तेत्यववृष्टः

॥८॥

दक्षिणेनाहवनीयं प्राङ् शेते न न्यङ्नोत्तानो नाग्नेरपपर्यावर्तेत

॥९॥

यद्यपपर्यावर्तेत विश्वे देवा अभि मामाववृत्रन्निति जपेत्

॥१०॥

नान्यत्र कृष्णाजिनादासीत । यद्यन्यत्रासीत देवां जनमगन्यज्ञ इति जपेत्

॥११॥

न दण्डात्कृष्णाजिनादिति विप्रच्छिद्येत । उभे निधाय मूत्रपुरीषे कुर्यात्

॥१२॥

यावदुक्तं पत्न्या दीक्षितव्यञ्जनानि

॥१३॥

समानं ब्रह्मचर्यम्

॥१४॥

न दीक्षितवसनं परिदधीत । नास्य पापं कीर्तयेत् । नान्नमश्नीयात्

॥१५॥

यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन् । संस्थिते वाग्नीषोमीये । हुतायां वा वपायाम्

॥१६॥

षोडशी कण्डिका

न पुरा नक्षत्रेभ्यो वाचं विसृजेत् । यदि विसृजेदिदं विष्णुस्त्वमग्ने व्रतपा असीति जपित्वा वाचं यच्छेत्

॥१॥

पुनर्वा दीक्षेत

॥२॥

अथैकेषाम् । वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामुत्तमामनूच्य वाग्यन्तव्येति

॥३॥

दुग्धमेवाभिविसृजेदित्यालेखनः

॥४॥

यवागू राजन्यस्येत्युक्तम्

॥५॥

यवागूमेकदुग्धं वा व्रतयेदित्यवर्णसंयोगेनैक उपदिशन्ति

॥६॥

तद्धैतदेके पयो व्रतयन्ति । तदु तथा न कुर्यात् । पयस्येव यवागूं श्रपयित्वा व्रतयेत्

॥७॥

यदि व्रतधुगल्पं दुहीतान्यां दुह्यात्

॥८॥

यद्यन्या न स्यादद्भिः संसृज्य श्रपयेत्

॥९॥

यदि पयो न स्यादप्स्वेव यवागूं श्रपयित्वा व्रतयेत्

॥१०॥

अप्यन्ततः पिप्पलानि । न त्वेव न व्रतयेदग्निहोत्रस्याविच्छेदायेति

॥११॥

यदि दधीयादेतदेवास्मै दधि कुर्युः

॥१२॥

यद्यन्नीयाद्धाना अस्मा अन्वावपेयुः सक्तूनस्मा अन्वावपेयुर्घृतमस्मा अन्वानयेयुः

॥१३॥

अप्यग्निहोत्रहविषामेवैकं व्रतयेन्मांसवर्जम्

॥१४॥

सोऽयं दैक्षो वादो भवतीति खल्वाहुः । सर्वेषामुपसस्त्वनारभ्य स्तनकल्प आम्नातः

॥१५॥

अपराह्णेऽधिवृक्षसूर्ये वा व्रतप्रदो वाचं यमयति । अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति संप्रेष्यति

॥१६॥

सप्तदशी कण्डिका

उदितेषु नक्षत्रेषु पूर्ववद्वाचो विसर्गः

॥१॥

एवमुपोदयं यमयति । उदित आदित्ये विसृजते

॥२॥

मध्यंदिने मध्यरात्रे च व्रतयति

॥३॥

अतिनीय वा मानुषं कालम्

॥४॥

सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्णे इत्येके

॥५॥

गार्हपत्ये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्याः

॥६॥

याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्य

॥७॥

अग्निहोत्रवत्तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन्नाह व्रत्य व्रतय व्रतमुपेहीति

॥८॥

दैवीं धियं मनामह इति हस्ताववनिज्य ये देवा मनोजाता मनोयुज इति दक्षिणेनाहवनीयं परिश्रिते व्रतयति

॥९॥

नैनमदीक्षिता व्रतयन्तं पश्यन्ति

॥१०॥

शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसः शिवा नो भवथ जीवस इति व्रतयित्वा नाभिदेशमभिमृशते

॥११॥

अपश्च पीत्वा जपति

॥१२॥

तूष्णीं पत्नी स्व आयतने व्रतयति

॥१३॥

अष्टादशी कण्डिका

अग्ने त्वं सु जागृहीति स्वप्स्यन्नाहवनीयमभिमन्त्रयते

॥१॥

त्वमग्ने व्रतपा असीति प्रबुध्य मुष्टी वाचं वा विसृज्यादीक्षितवादं वोदित्वा

॥२॥

विश्वे देवा अभि मामाववृत्रन्निति प्रबुध्य जपति । पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरोऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वेति च

॥३॥

तस्माद्दीक्षितो द्वादशाहं भृतिं वन्वीत । यज्ञमेव तत्संभरतीति विज्ञायते

॥४॥

पूषा सन्येति सनीहारान्संशास्ति

॥५॥

चन्द्रमसीत्येतैर्यथालिङ्गं प्रतिगृह्णाति

॥६॥

देवः सविता वसोर्वसुदावेत्यन्यानि

॥७॥

वायवे त्वेति तासां नष्टामनुदिशति

॥८॥

वरुणाय त्वेत्यप्सु मृताम्

॥९॥

निरृत्यै त्वेत्यवसन्नां संशीर्णां वा

॥१०॥

एकोनविंशी कण्डिका

मरुद्भ्यस्त्वेति ह्रादुनिहतां मेष्कहतामप्सु वा मग्नाम्

॥१॥

रुद्राय त्वेति महादेवहताम्

॥२॥

इन्द्राय त्वा प्रसह्वन इति यां सेनाभीत्वरी विन्देत

॥३॥

यमाय त्वेत्यविज्ञातेन यक्ष्मणा मृताम्

॥४॥

अनुदिष्टानामधिगतां न गोषु चारयेत्

॥५॥

पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति

॥६॥

तदभावे रथाङ्गमादाय

॥७॥

भद्रादभि श्रेय इति प्रयाणः

॥८॥

देवीराप इत्यपोऽतिगाहते

॥९॥

अच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति हस्तेन लोष्टं विमृद्नात्या पारात्

॥१०॥

पृथिव्या संभवेति सिकता लोष्टं वा मध्ये पारे च न्यस्यते

॥११॥

एवं नाव्यासीनस्तरन्

॥१२॥

अरणीभ्यामरणीभिरित्येके

॥१३॥

रथेन रथाङ्गेन वा न विप्रच्छिद्येत

॥१४॥

अत्र देवयजनाध्यवसानमेके समामनन्ति

॥१५॥

य इहाध्यवस्येत्स प्रयायात् । य आदितो न स प्रयाति

॥१६॥

नित्यानि देवयजनानि

॥१७॥

विंशी कण्डिका

दक्षिणतऽउन्नतमुदीचीनावनतं प्राक्प्रवणं प्रागुदक्प्रवणं वा देवयजनम्

॥१॥

यत्र वा बहवो ब्राह्मणाः संराधयेयुः

॥२॥

अग्नयो वाव देवयजनम् । यत्र क्वचाग्नीनाधाय यजते देवयजन एव यजत इति विज्ञायते

॥३॥

दक्षिणा वाव देवयजनम् । दक्षिणाश्चेत्कल्याणीर्ददाति देवयजन एव यजत इत्येके

॥४॥

पुरोहविषीति काम्यानि

॥५॥

निर्व्रस्केऽभिचरन्यजेत

॥६॥

यस्माद्वृक्षाद्वल्मीकानिति निर्हरेयुरथो अभिखनेयुः

॥७॥

परोक्षं गुहा वने याजयेदभिशस्यमानम्

॥८॥

परोक्षं पृष्ठान्युपेयुः । सर्वमुपांशु क्रियेत । स्थले यजेत

॥९॥

यः कामयेतोभयेषां देवमनुष्याणां प्रकाशं गच्छेयमिति न प्राचीनं देवयजनाद्देवयजनमात्रमुच्छिं षेत्

॥१०॥

यत्रापो देवयजनं चान्तरेण पन्था अभिविधावेत्तस्मिन्याजयेद्यं कामयेत नैनमुत्तरो यज्ञ उपनमेदिति

॥११॥

कौत्साद्राजानं क्रीणीयादन्यस्माद्वा ब्राह्मणादित्युक्त्वाहाप्यब्राह्मणादिति

॥१२॥

उत्तरवेदिदेश उपरवदेशे वा लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य दक्षिणे चर्मपक्षे राजानं निवपति । उत्तरस्मिन्नुपविशति सोमविक्रयी

॥१३॥

उदकुम्भं राजानं सोमविक्रयिणमिति सर्वतः परिश्रित्योत्तरेण द्वारं कृत्वा विचित्यः सोमा३ इत्युक्तम्

॥१४॥

सोमविक्रयिन्सोमं शोधयेत्युक्त्वा पराङावर्तते

॥१५॥

न साम्येक्षमुपेयात् । न यजमानः सोमं विचिनुयात्

॥१६॥

नास्य पुरुषो नाध्वर्युर्नाध्वर्युपुरुषः

॥१७॥

राज्ञो विचीयमानस्योपद्रष्टारः स्युः

॥१८॥

अहं त्वदस्म्याजुह्वान इत्येताभ्यामाहवनीयं यजमान उपतिष्ठते

॥१९॥

एकविंशी कण्डिका

प्रायणीयायास्तन्त्रं प्रक्रमयति

॥१॥

वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते

॥२॥

यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने

॥३॥

निर्वपणकालेऽदित्यै पयसि चरुः प्रायणीयः

॥४॥

प्राक् संप्रैषात्कृत्वा पत्नीवर्जं संप्रेष्यति

॥५॥

याः कृतायां वेद्यां चोद्यन्ते सैव तासां वेदिः । याः स्तीर्णे बर्हिषि तदेव तासां बर्हिः

॥६॥

आज्यग्रहणकालेऽननूयाजे प्रायणीये चतुर्जुह्वां गृह्णाति । चतुरुपभृति समानयनार्थम्

॥७॥

अप्रयाज उदयनीये न जुह्वां गृह्णाति । चतुरुपभृत्यनूयाजार्थम्

॥८॥

षड्ढोत्रा प्रायणीयमासादयति

॥९॥

प्रयाजवदननूयाजमित्युक्तम्

॥१०॥

चतुर आज्यभागान्प्रतिदिशं यजति । पथ्यां स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतः । मध्ये ऽदितिं हविषा

॥११॥

अदितिमिष्ट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यैता देवता यजति । ध्रौवाद्वा । स्विष्टकृतं षष्ठम्

॥१२॥

शंय्वन्ता संस्थाप्या वा

॥१३॥

पत्नीस्तु न संयाजयेत्

॥१४॥

ता उदयनीये संयाजयेत्

॥१५॥

समे वा कार्ये

॥१६॥

धारयति ध्रौवमाज्यम्

॥१७॥

प्राग्वंशे बर्हिः स्थालीमनिष्कसितां मेक्षणमित्युदयनीयार्थं निदधाति

॥१८॥

द्वाविंशी कण्डिका

प्रायणीयाया ध्रौवादष्टौ जुह्वां चतुरो वा गृहीत्वा तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बद्ध्वावदधातीयं ते शुक्र तनूरिति

॥१॥

पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवत्येकहायनी द्विहायनी वर्षीयसी वा

॥२॥

अकूटयाकर्णयेति रूपाणि

॥३॥

या रोहिणी बभ्रुलोम्नी पृश्निवाला पृश्निशफा शुच्यक्षा श्वित्रोपकाशा तया क्रीणीयादित्येके

॥४॥

द्विरूपया राजन्यस्य

॥५॥

शुण्ठयाधीलोधकर्ण्या षोडशिनः

॥६॥

तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति जूरसीति

॥७॥

अपरं चतुर्गृहीतं गृहीत्वा शुक्रमसीति हिरण्यं पश्चादुद्धृत्य वैश्वदेवं हविरित्याज्यमवेक्ष्य सूर्यस्य चक्षुरारुहमित्यादित्यमुपस्थाय चिदसि मनासीति सोमक्रयणीमभिमन्त्रयते

॥८॥

अकर्णगृहीतापदिबद्धा भवति

॥९॥

मित्रस्त्वा पदि बध्नात्विति दक्षिणं पूर्वपादं प्रेक्षते । पूषाध्वनः पात्विति प्राचीं यतीमनुमन्त्रयते

॥१०॥

षट् पदान्यनुनिक्रामति दक्षिणेन पदा दक्षिणानि वस्व्यसि रुद्रासीत्येतैः प्रतिमन्त्रम्

॥११॥

एकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मयोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेत्विति निक्रम्यमाणेषु यजमानोऽनुवर्तयित्वा

॥१२॥

त्रयोविंशी कण्डिका

सखायः सप्तपदा अभूम सख्यं ते गमेयं सखात्ते मा योषं सख्यान्मे मा योष्ठा इति सप्तमे पदे जपति

॥१॥

बृहस्पतिस्त्वा सुम्ने रण्वत्विति सप्तमं पदमध्वर्युरञ्जलिनाभिगृह्य पदे हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजिघर्मीति हिरण्ये हुत्वापादाय हिरण्यं देवस्य त्वा सवितुः प्रसव इति स्फ्यमादाय परिलिखितं रक्षः परिलिखिता अरातय इति त्रिः प्रदक्षिणं पदं परिलिखति यावद्घृतमनुविसृतं भवति

॥२॥

कृष्णविषाणया चानुपरिलिख्यास्मे राय इति स्थाल्यां यावत्त्मूतं समोप्य त्वे राय इति यजमानाय प्रयच्छति

॥३॥

तोते राय इति पत्नियै

॥४॥

माहं रायस्पोषेण वियोषमिति पत्नी पदं प्रदीयमानमनुमन्त्रयते

॥५॥

सं देवि देव्योर्वश्या पश्यस्वेति सोमक्रयण्या पत्नीं संख्यापयति

॥६॥

त्वष्टीमती ते सपेयेति पत्नी सोमक्रयणीमभिमन्त्रयते

॥७॥

त्वष्टुमन्तस्त्वा सपेमेति यजमानः

॥८॥

यतः पदमपात्तं तस्मिन्सहिरण्यौ पाणी प्रक्षाल्योन्नम्भय पृथिवीमित्यद्भिरुपनिनीय पदं त्रैधं विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति । तृतीयमाहवनीयस्य । तृतीयं पत्न्यै प्रयच्छति

॥९॥

तत्सा गृहेषु निदधाति

॥१०॥

चतुर्विंशी कण्डिका

अत्रादित्योपस्थानं राज्ञश्च निवपनादि कर्मैके समामनन्ति

॥१॥

अपि पन्थामगस्महीत्युद्धृतपूर्वफलकेनानसा परिश्रितेन छदिष्मता प्राञ्चः सोममच्छ यान्ति

॥२॥

शीर्ष्णा गिरौ क्रीतं हरन्ति

॥३॥

अपरेणोत्तरेण वा राजानं प्रागीषमुदगीषं वा नद्धयुगं शकटं चुबुकप्रतिष्ठितम्

॥४॥

अंशुना ते अंशुः पृच्यतामिति यजमानो राजानमभिमन्त्रयते

॥५॥

यं कामयेतापशुः स्यादित्यृक्षतस्तस्येत्युक्तम्

॥६॥

क्षौमं वासो द्विगुणं त्रिगुणं वा प्राग्दशमुत्तरदशं चर्मण्यास्तृणाति । उदग्दशं वा

॥७॥

तस्मिन्हिरण्यपाणिरङ्गुष्ठेन कनिष्ठिकया चाङ्गुल्यांशून्संगृह्यान्यचन्नभि त्यं देवं सवितारमित्यतिच्छन्दसर्चा मिमीते

॥८॥

एवमेकयैकयोत्सर्गम्

॥९॥

सर्वास्वङ्गुष्ठमुपनिगृह्णाति

॥१०॥

यया प्रथमं न तया पञ्चमं तयैवोत्तमम्

॥११॥

पञ्चकृत्वो य्जुषा मिमीते । पञ्चकृत्वस्तूष्णीम्

॥१२॥

एवं द्विस्त्रिरपरिमितकृत्वो वा

॥१३॥

प्रजाभ्यस्त्वेत्यवशिष्टानंशूनुपसमूह्य क्षौमेण वाससोपसंगृह्य प्राणाय त्वेति द्विगुणेनोष्णीषेणोपनह्य व्यानाय त्वेति विस्रस्यावेक्षते प्रजास्त्वमनुप्राणिहि प्रजास्त्वामनुप्राणन्त्विति

॥१४॥

एष ते गायत्रो भाग इत्येतैर्यजमानो राजानमुपतिष्ठते

॥१५॥

पञ्चविंशी कण्डिका

देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्यः क्रतून्कल्पय दक्षिणाः कल्पय यथर्तु यथादेवतमित्यादित्यमुपस्थाय सोमविक्रयिणे राजानं प्रदाय पणते

॥१॥

सोमविक्रयिन्क्रय्यस्ते सोमा इति

॥२॥

क्रय्य इतीतरः प्रत्याह

॥३॥

सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तमित्युक्त्वा कलया ते क्रीणानीत्येनमाह

॥४॥

भूयो वा अतः सोमो राजार्हतीति सरवेषु पणनेषु सोमविक्रयी प्रत्याहासंपदः

॥५॥

कुष्ठया ते क्रीणानीति द्वितीयम् । शफेन ते क्रीणानीति तृतीयम् । पदा ते क्रीणानीति चतुर्थम्

॥६॥

एवं त्रिः

॥७॥

एकैकशो वा त्रिस्त्रिः

॥८॥

गवा ते क्रीणानीत्यन्ततः

॥९॥

अपि वा न गवेति ब्रूयात् । एषेति निर्दिश्य जपति तस्या आत्मा तस्या रूपं तस्याः प्रजा तस्याः पयस्तस्या बन्धुरिति

॥१०॥

शुक्रं ते शुक्रेण क्रीणामीति जपित्वा हिरण्येन क्रीणाति

॥११॥

तपसस्तनूरसीति जपित्वाजया क्रीणाति

॥१२॥

अवशिष्टानामेकैकेन

॥१३॥

यदृषभेण क्रीणीयात्प्रजापतिना क्रीणीयात् । तत्स्थाने वत्सतरः साण्डः

॥१४॥

मिथुनाभ्यामिति वत्सतरो वत्सतरी च

॥१५॥

ताभ्यां युगपत्क्रीत्वा वाससान्ततः संपादयति

॥१६॥

षड्विंशी कण्डिका

दशभिर्द्वादशशतदक्षिणस्य

॥१॥

भूयसा वा

॥२॥

चतुर्भिर्वा गवा हिरण्येन वाससाजयेत्येकेषाम्

॥३॥

एकयैकविंशतिदक्षिणस्य । तिसृभिः षष्टिदक्षिणस्य । अपरिमिताभिरपरिमितदक्षिणस्य

॥४॥

चतुर्विंशत्या सहस्रे सर्ववेदसे वा

॥५॥

त्रिंशता वा सहस्रदक्षिणस्य

॥६॥

सप्तविंशतिर्गा हिरण्यं छागा वास इति त्रिंशत्

॥७॥

शतेन वाजपेयस्य । द्वाभ्यां राजसूयस्य

॥८॥

सहस्रेणाश्वमेधस्य

॥९॥

अस्मे चन्द्राणीति सोमविक्रयिणो हिरण्यमपादत्ते

॥१०॥

अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति । तां स काले दशापवित्रस्य नाभिं कुरुते

॥११॥

शुक्लं बलक्ष्याः पवित्रममोतं भवति

॥१२॥

यं द्विष्यात्तस्य कृष्णां लोहिनीं च पवित्रे कुर्यात्

॥१३॥

कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीत्युपग्रथ्य तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति

॥१४॥

स्वान भ्राजेति सोमक्रयणाननुदिश्य स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन मा पाहीति सोमविक्रयिणो राजानमपादत्ते

॥१५॥

यदि कृच्छ्रायेतापैव हरेत

॥१६॥

अत्र यजमानोऽपोर्णुते

॥१७॥

सप्तविंशी कण्डिका

वयः सुपर्णा इति

॥१॥

दीक्षितदण्डं च मैत्रावरुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छाम्यवक्रोऽविधुरो भूयासमिति

॥२॥

मित्रो न एहीति यजमानो राजानमादायेन्द्रस्योरुमाविशेति दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते

॥३॥

अत्रादित्योपस्थानं दण्डप्रदानं सोमक्रयणानामनुदेशनमेके समामनन्ति

॥४॥

रुद्रस्त्वावर्तयत्विति प्रदक्षिणं सोमक्रयणीमावर्त्यान्यया गवा निष्क्रीय यजमानस्य गोष्ठे विसृजति

॥५॥

यदि सोमविक्रयी प्रतिविवदेत पृषतैनं वरत्राकाण्डेनावक्षायं नाशयेयुः

॥६॥

लकुटैर्घ्नन्तीत्येके

॥७॥

नित्यवदेके वधं समामनन्ति

॥८॥

उदायुषा स्वायुषेति यजमानो राजानमादायोत्थायोर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति

॥९॥

अदित्याः सदो ऽसीत्यध्वर्युः शकटणीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्यादित्याः सद आसीदेति तस्मिन्राजानमासाद्य वनेषु व्यन्तरिक्षं ततानेति वाससा पर्यान्ह्योदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवं बहिष्टाद्विशसनम्

॥१०॥

अष्टाविंशी कण्डिका

अत्र दर्शपूर्णमासवद्धुरावभिमृश्य वारुणमसीति शकटमाखिद्य वरुणस्त्वोत्तभ्नात्वित्युपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यां प्रतिमुच्योस्रावेतं धूर्षाहावित्यनड्वाहावुपाज्य वारुणमसीति योक्त्वपाशं परिहृत्य प्रत्यस्तो वरुणस्य पाश इत्यभिधानीं प्रत्यस्यति

॥१॥

एवमुत्तरमनद्धाहं युनक्ति

॥२॥

हरिणी शाखे बिभ्रन्सुब्रह्मण्योऽन्तरेषे व सर्पति । पलाशशाखे शमीशाखे वा

॥३॥

अथाध्वर्युः शकटमन्वारभ्य संप्रेष्यति सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति

॥४॥

सर्वासु सुब्रह्मण्यासु सुब्रह्मण्यमन्वारभ्य यजमानो जपति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यमिति

॥५॥

एवं त्रिराहूतामाहूताम्

॥६॥

प्रथमायां त्रिरनूक्तायाम्

॥७॥

एकोनत्रिंशी कण्डिका

प्रच्यवस्व भुवस्पत इति प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते

॥१॥

श्येनो भूत्वा परापतेत्यध्वर्यू राजानमभिमन्त्रयते

॥२॥

अपि पन्थामगस्महीत्यध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः

॥३॥

अजेनाग्नीषोमीयेण कर्णगृहीतेन यजमानो राजानमोह्यमानं प्रतीक्षते नमो मित्रस्येति

॥४॥

लोहस्तूपरो भवति । अप्यतूपरः । कृष्णसारङ्गो लोहितसारङ्गो वा

॥५॥

स्थूलः पीवा स्मश्रुणः

॥६॥

औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना । तां सर्वेऽध्वर्यवोऽग्रेण प्राग्वंशं राजन्योह्यमान उद्गृह्णन्ति

॥७॥

अग्नीन्प्रज्वलयन्ति । अग्निमग्नी वा

॥८॥

अग्रेण प्राग्वंशं प्रागीषमुदगीषं वा शकटमवस्थाप्य पूर्ववदाखिद्योपस्तभ्य वरुणस्य स्कम्भनमसीति शम्यामुद्वृह्य विचृत्तो वरुणस्य पाश इति योक्त्रपाशं विचृत्योन्मुक्तो वरुणस्य पाश इत्यभिधानीमुन्मुञ्चति

॥९॥

एवमुत्तरमनड्वाहं विमुञ्चति

॥१०॥

विमुक्तः सव्यो ऽविमुक्तो वा

॥११॥

त्रिंशी कण्डिका

अथातिथ्यायास्तन्त्रं प्रक्रमयति

॥१॥

द्वाविंशतिदारुरध्मः

॥२॥

आश्ववालः प्रस्तरः । ऐक्षवी विधृती । कार्ष्मर्यमयाः परिधयः । वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते

॥३॥

यथार्थं पात्रप्रयोगः

॥४॥

निर्वपणकाले पत्नीं शकटमन्वारम्भयित्वातिथ्यं निर्वपति

॥५॥

पत्न्या वा हस्तेन

॥६॥

हस्ताद्वा । हस्तान्निर्वपन्हस्ते सर्वाञ्छकटमन्त्राञ्जपेत्

॥७॥

अग्नेरातिथ्यमसीत्येतैः प्रतिमन्त्रम्

॥८॥

देवतादेशनस्य प्रत्याम्नायो भवति

॥९॥

पञ्चसु सावित्रं जुष्टं चानुषजति

॥१०॥

नोत्तरयोरित्येके

॥११॥

वैष्णवो नवकपालः पुरोडाशो भवति

॥१२॥

विष्णुवदेवात ऊर्ध्वं संस्काराः

॥१३॥

हविष्कृता वाचं विसृज्योत्तरमनड्वाहं विमुच्य

॥१४॥

वारुणमसीति वासोऽपादाय वरुणोऽसि धृतव्रत इति राजानमादायाच्छिद्रपत्रः प्रजा उपावरोहोशन्नुशतीः स्योनः स्योनाः सोम राजन्विश्वस्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्त्वित्युपावहृत्योर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति

॥१५॥

एकत्रिंशी कण्डिका

आसन्दीमादाय प्रतिप्रस्थाता पूर्वः प्रतिपद्यते

॥१॥

या ते धामानीति पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेणाहवनीयं दक्षिणातिहृत्य वरुणस्यर्तसदन्यसीति दक्षिणेनाहवनीयं राजासन्दीं प्रतिष्ठापयति

॥२॥

तस्यां शकटवत्कृष्णाजिनास्तरणं राज्ञश्चासादनम्

॥३॥

वरुणोऽसि धृतव्रत इति राजानमभिमन्त्रयते

॥४॥

वारुणमसीति वाससा पर्यानह्यति

॥५॥

एवावन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् । स नः शर्म त्रिवरूथं वियंसत्पातं मा द्यावापृथिवी उपस्थ इत्येतया सर्वत्र राजानमासीदेत्

॥६॥

अग्निं राजानं चान्तरेण मा संचारिष्टेति संप्रेष्यति

॥७॥

अवहननादि कर्म प्रतिपद्यते

॥८॥

चतुर्गृहीतान्याज्यानि

॥९॥

चतुर्होत्रातिथ्यमासाद्य संभारयजूंषि व्याचष्टे

॥१०॥

यजमानं वाचयतीत्येके

॥११॥

पशुवन्निर्मन्थ्यः सामिधेन्यश्च

॥१२॥

पञ्च प्रयाजाः

॥१३॥

चतुर्थे सर्वमौपभृतं समानयति

॥१४॥

इडान्ता संतिष्ठते

॥१५॥

धारयति ध्रौवमाज्यमाज्यम्

॥१६॥