मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

तृतीयोऽध्यायः

3
पराशरस्मृतिः · 3

अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा

दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके

॥१॥

क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः

शूद्रः शुध्यति मासेन पराशरवचो यथा

॥२॥

उपासने तु विप्राणामङ्गशुद्धिश्च जायते

ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते

॥३॥

जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः

वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति

॥४॥

एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः

त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः

॥५॥

जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः

नामधारकविप्रस्तु दशाहं सूतकी भवेत्

॥६॥

एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः

जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत्

॥७॥

तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेण तु

दायाद्विच्छेदमाप्नोति पञ्चमो वात्मवंशजः

॥८॥

चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे

षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात्

॥९॥

भृग्वग्निमरणे चैव देशान्तरमृते तथा

बाले प्रेते च संन्यस्ते सद्यः शौचं विधीयते

॥१०॥

देशान्तरमृतः कश्चित्सगोत्रः श्रूयते यदि

न त्रिरात्रमहोरात्रं सद्यः स्नात्वा शुचिर्भवेत्

॥११॥

देशान्तरगतो विप्रः प्रयासात्कालकारितात्

देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि

॥१२॥

कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या

उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत्

॥१३॥

अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः

न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया

॥१४॥

यदि गर्भो विपद्येत स्रवते वापि योषितः

यावन्मासं स्थितो गर्भो दिनं तावत्तु सूतकम्

॥१५॥

आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः

अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत्

॥१६॥

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते

अग्निसंस्करणे तेषां त्रिरात्रमशुचिर्भवेत्

॥१६॥

आ दन्तजन्मनः सद्य आ चूडान्नैषिकी स्मृता

त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम्

॥१७॥

ब्रह्मचारी गृहे येषां हूयते च हुताशनः

संपर्कं न च कुर्वन्ति न तेषां सूतकं भवेत्

॥१८॥

संपर्काद्दुष्यते विप्रो जनने मरणे तथा

संपर्काच्च निवृत्तस्य न प्रेतं नैव सूतकम्

॥१९॥

शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः

राजानः श्रोत्रियाश्चैव सद्यः शौचाः प्रकीर्तिताः

॥२०॥

सव्रतः सत्रपूतश्च आहिताग्निश्च यो द्विजः

राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः

॥२१॥

उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः

तदैव ऋषिभिर्दृष्टं यथा कालेन शुध्यति

॥२२॥

प्रसवे गृहमेधी तु न कुर्यात्संकरं यदि

दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः

॥२३॥

सर्वेषां शावमाशौचं माता पित्रोस्तु सूतकम्

सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः

॥२४॥

यदि पत्न्यां प्रसूतायां संपर्कं कुरुते द्विजः

सूतकं तु भवेत्तस्य यदि विप्रः षडङ्गवित्

॥२५॥

संपर्काज्जायते दोषो नान्यो दोषोऽस्ति वै द्विजे

तस्मात्सर्वप्रयत्नेन संपर्कं वर्जयेद्बुधः

॥२६॥

विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके

पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति

॥२७॥

अन्तरा दशाहस्य पुनर्मरणजन्मनी

तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्

॥२८॥

ब्राह्मणार्थे विपन्नानां बन्दिगोग्रहणे तथा

आहवेषु विपन्नानामेकरात्रमशौचकम्

॥२९॥

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ

परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः

॥३०॥

यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः

अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते

॥३१॥

संन्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच्चलति भास्करः

एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति

॥३२॥

यस्तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः

परित्राता यदा गच्छेत्स च क्रतुफलं लभेत्

॥३३॥

यस्य च्छेदक्षतं गात्रं शरमुद्गरयष्टिभिः

देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च

॥३४॥

देवाङ्गनासहस्राणि शूरमायोधने हतम्

त्वरमाणाः प्रधावन्ति मम भर्ता ममेति च

॥३५॥

यं यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणो वात्र यथा यान्ति

क्षणेन यान्त्येव हि तत्र वीराः प्राणान्सुयुद्धेन परित्यजन्तः

॥३६॥

जितेन लभ्यते लक्ष्मीर्मृतेनापि सुराङ्गनाः

क्षणध्वंसिनि कायेऽस्मिन्का चिन्ता मरणे रणे

॥३७॥

ललाटदेशे रुधिरं स्रवच्च यस्याहवे तु प्रविशेच्च वक्त्रम्

तत्सोमपानेन किलास्य तुल्यं संग्रामयज्ञे विधिवच्च दृष्टम्

॥३८॥

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः

पदे पदे यज्ञफलमानुपूर्व्यांल्लभन्ति ते

॥३९॥

न तेषामशुभं किंचित्पापं वा शुभकर्मणाम्

जलावगाहनात्तेषां सद्यःशौचं विधीयते

॥४०॥

असगोत्रमबन्धुं च प्रेतीभूतं द्विजोत्तमम्

वहित्वा च दहित्वा च प्राणायामेन शुध्यति

॥४१॥

अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा

स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति

॥४२॥

क्षत्रियं मृतमज्ञानाद्ब्राह्मणो योऽनुगच्छति

एकाहमशुचिर्भूत्वा पञ्चगव्येन शुध्यति

॥४३॥

शवं च वैश्यमज्ञानाद्ब्राह्मणो योऽनुगच्छति

कृत्वाशौचं द्विरात्रं च प्राणायामान्षडाचरेत्

॥४४॥

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः

अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत्

॥४५॥

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम्

प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति

॥४६॥

विनिर्वर्त्य यदा शूद्रा उदकान्तमुपस्थिताः

द्विजैस्तदानुगन्तव्या एष धर्मः सनातनः

॥४७॥