मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सप्तमः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 7

निरूढपशुबन्धः

प्रथमा कण्डिका

सर्वांल्लोकान्पशुबन्धयाज्यभिजयति

॥१॥

तेन यक्ष्यमाणोऽमावास्यायां पौर्णमास्यां वा षड्ढोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति सूर्यं ते चक्षुरिति

॥२॥

आग्नावैष्णवमेकादशकपालं निर्वपति

॥३॥

अग्न्यन्वाधानस्य प्रत्याम्नायो भवति

॥४॥

सिद्धमिष्टिः संतिष्ठते

॥५॥

धारयत्याहवनीयम्

॥६॥

उरु विष्णो विक्रमस्वेति स्रुवेणाहवनीये यूपाहुतिं जुहोति

॥७॥

स्रुचा वा चतुर्गृहीतेन

॥८॥

न दीक्षितस्य जुहुयात्

॥९॥

वैष्णवीमृचमनूच्याच्छेत्यः

॥१०॥

जुहुयाद्वा

॥११॥

यूपसकाशे वाग्निं मथित्वा तस्मिञ्जुहुयात्

॥१२॥

स्रुवमाज्यशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम्

॥१३॥

यत्र यूपस्तद्यन्ति

॥१४॥

यूप्या वृक्षाः पलाशखदिरबिल्वरौहीतकाः

॥१५॥

पालाशं तेजस्कामो यज्ञकामो वा । खादिरं स्वर्गकामो वीर्यकामो वा । बैल्वमन्नाद्यकामो ब्रह्मवर्चसकामो वा । रौहीतकं प्रजाकामश्चक्षुष्कामो वा

॥१६॥

समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसुषिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्र ईषदुपावनतं प्रागुदक् प्रत्यग्वौपनतम्

॥१७॥

यं कामयेताप्रतिष्ठितः स्यादित्युक्तम्

॥१८॥

अतिक्रम्य यूप्यान्यं जोषयते तमभिमन्त्रयते

॥१९॥

द्वितीया कण्डिका

अत्यन्यानगामिति

॥१॥

अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्याया इति

॥२॥

देवस्त्वा सविता मध्वानक्त्विति स्रुवेण सर्वतो मूलं पर्यणक्ति

॥३॥

ओषधे त्रायस्वैनमित्यूर्ध्वाग्रं दर्भमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिना प्रहरति

॥४॥

प्रथमपरापातिनं शकलमाहरति

॥५॥

गुल्फदघे वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा

॥६॥

दिवमग्रेण मा लेखीरिति प्राञ्चं पातयत्युदञ्चं प्राञ्चमुदञ्चं वा

॥७॥

वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति

॥८॥

सहस्रवल्शा वि वयं रुहेमेत्यात्मानं प्रत्यभिमृश्य यं त्वायं स्वधितिरित्यन्वग्रमद्गांश्छिनत्ति

॥९॥

अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति

॥१०॥

पञ्चारत्निमिति काम्याः

॥११॥

एकारत्निप्रभृत्या त्रयस्त्रिंशदरत्नेरव्यवायेनैके समामनन्ति

॥१२॥

यावान्यजमान ऊर्ध्वबाहुस्तावान्

॥१३॥

यावान्वा रथे तिष्ठन्

॥१४॥

ऊर्ध्वबाहुर्वा

॥१५॥

पुरुषमात्री त्वेतस्यावमा मात्रा । अथ ततो वर्षीयान् । वर्षीयानेव कार्य इत्येके

॥१६॥

त्र्यरत्निश्चतुररत्निर्वा पालाशो निरूढपशुबन्धस्यातोऽन्यः सौम्यस्याध्वरस्येति वाजसनेयकम्

॥१७॥

तृतीया कण्डिका

मूलतोऽतष्टमुपरम्

॥१॥

अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान्प्रज्ञाताग्निष्ठाश्रिरस्थूलो ऽनणुः

॥२॥

अवतक्षणानां स्वरुरधिमन्थनश्च शकलः

॥३॥

अग्राच्चषालं पृथमात्रमष्टाश्रिमध्ये संनतम्

॥४॥

यं कामयेतान्योऽस्य लोकमभ्यारोहेदिति तस्यान्यवृक्षस्य स्वरुचषाले कुर्यात्

॥५॥

यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा

॥६॥

रथमात्री निरूढपशुबन्धस्य वेदिः

॥७॥

अक्षसंमिता पश्चात्तिर्यगीषया प्राची विपथयुगेन पुरस्ताद्यावता वा बाह्ये छिद्रे

॥८॥

अरत्निर्भिर्वा चतुर्भिः पश्चात् षड्भिः प्राची त्रिभिः पुरस्तात्

॥९॥

तां वेदं कृत्वा दर्शपूर्णमासवत्संनमनवर्जं प्रागुत्तरात्परिग्राहात्कृत्वापरेण यूपावटदेशं संचरमवशिष्य वेद्यामुत्तरवेदिं दशपदां सोमे करोति

॥१०॥

अंहीयसीं पुरस्तादित्येके

॥११॥

तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते

॥१२॥

शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः

॥१३॥

शम्यां पुरस्तादुदगग्रां निधाय स्फ्येनोदीचीमभ्यन्तरमुपलिखति वित्तायनी मेऽसीति । एवं दक्षिणतः प्राचीं तिक्तायनी मेऽसीति । पश्चादुदीचीमवतान्मा नाथितमिति । उत्तरतः प्राचीमवतान्मा व्यथितमिति

॥१४॥

चतुर्थी कण्डिका

उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः

॥१॥

तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादाय परिलिखितं रक्षं परिलिखिता अरातय इति त्रिः प्रदक्षिणं परिलिख्य तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तरवेद्यर्थान्पांसून्हरति विदेरिति

॥२॥

सिंहीरसीत्युत्तरवेद्यां निवपति

॥३॥

एतेनैव यो द्वितीयस्यामिति द्वितीयं यस्तृतीयस्यामिति तृतीयम्

॥४॥

तूष्णीं चतुर्थं हृत्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयित्वा ध्रुवासीति शम्यया संहत्य देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः शुन्धस्वेत्यद्भिरवोक्ष्य देवेभ्यः शुम्भस्वेति सिकताभिरवकीर्य प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीयापो रिप्रं निर्वहतेति स्फ्येनोदीचीमेकस्फ्यां निःसार्य विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति

॥५॥

संमृशतीत्येके

॥६॥

पञ्चमी कण्डिका

अथास्यामध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुःस्रक्तिं कृत्वा चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामित्युभे अभिमन्त्र्येन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्येतैर्यथालिङ्गमुत्तरवेदिं प्रोक्षति

॥१॥

त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति मध्यम्

॥२॥

प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेच्छुचा त्वार्पयामीति द्वेष्यं मनसा ध्यायन्

॥३॥

पूर्ववदेकस्फ्यां दक्षिणतो निःसार्य जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति

॥४॥

दक्षिणमंसमुत्तरां श्रोणिं दक्षिणामुत्तरमंसं मध्यमिति सिंहीरसीत्येतैः प्रतिमन्त्रम्

॥५॥

भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः परिधिभिरुत्तरवेदिं परिदधाति विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणमच्युतक्षिदसीत्युत्तरम्

॥६॥

परिधिसंधिना सर्वाहुतीर्जुहोति

॥७॥

षष्ठी कण्डिका

अग्नेर्भस्मासीत्युत्तरवेद्यां संभारान्निवपति गुल्गुलु सुगन्धितेजनं श्वेतामूर्णास्तुकां पेत्वस्यान्तराशृङ्गीयां लूनस्यालूनपूर्वस्य वा

॥१॥

व्याघारणप्रभृति संभारनिवपनान्तमुत्तरवेद्यामुपर्यग्नौ धार्यमाण एके समामनन्ति

॥२॥

प्रोक्षान्तां कृत्वोदुम्बरशाखाभिः लक्षशाखाभिर्वा प्रच्छाद्य वसति यद्यसद्यस्कालः पशुर्भवति

॥३॥

आहवनीये प्रणयनीयमिध्मामादीप्य सिकताभिरुपयम्याग्नये प्रणीयमानायानुब्रूहीति संप्रेष्यति । प्रणीयमानायानुब्रूहीति वा

॥४॥

उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिंसीरधिगतं पुरस्तात्स्वाहेति

॥५॥

प्रथमायां त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति

॥६॥

ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञायाग्ने बाधस्व विमृधो नुदस्वापामीवा अप रक्षांसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठादिति संभारेषु प्रतिष्ठाप्य

॥७॥

सप्तमी कण्डिका

अग्नेः पुरीषमसीत्युत्तरत उपयमनीर्न्युप्य मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यजेत्युपसमिध्य द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति

॥१॥

अग्निर्वायुरादित्यो विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहेति चतस्रोऽतिमुक्तीर्जुहोति

॥२॥

एष पशुबन्धस्याहवनीयो यतः प्रणयति स गार्हपत्यः

॥३॥

प्रणीते चेदग्निहोत्रकाल एतस्मिन्नेवाग्निहोत्रं जुहुयात्

॥४॥

एवमन्यत्र विप्रक्रान्ते तन्त्रे

॥५॥

इध्माबर्हिराहरति

॥६॥

त्रयोविंशतिदारुरिध्म आश्ववालः प्रस्तर ऐक्षवो विधृती कार्ष्मर्यमयाः परिधयः

॥७॥

अष्टमी कण्डिका

अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते

॥१॥

यथार्थं पात्राणि प्रयुनक्ति

॥२॥

स्फ्यमग्निहोत्रहवणीं वसाहोमहवनीं द्वितीयां जुहूं पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ हृदयशूलमसिं कुम्भीं प्लक्षशाखां शाकपवित्रं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां चौदुम्बरं मैत्रावरुणदण्डमास्यदघ्नं चुबुकदघ्नं वा रशने च

॥३॥

पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति

॥४॥

वाग्यतः ह्पात्राणि संमृश्य प्रोक्षणीः संस्कृत्य ब्राह्मणमामन्त्र्य पात्राणि प्रोक्षत्यत्र वाचं विसृजते । स्फ्यमादायोत्तरं परिग्राहं परिगृह्य दर्शपूर्णमासवत्संप्रेष्यति । आज्येन दध्नोदेहीति संप्रैषान्तं नमति

॥५॥

स्रुचां संमार्जनकाले स्रुवं संमृज्य तस्यावता स्वधितिम्

॥६॥

जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम् । आज्यं निरुप्य दधि निर्वपति

॥७॥

अधिश्रयणवर्जं दधनि क्रियते

॥८॥

नैतस्य दध्नः संस्कारो विद्यत इत्यपरम्

॥९॥

नवमी कण्डिका

आज्यग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति

॥१॥

दधन्याज्यमानीय महीनां पयोऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां समिदिति वा

॥२॥

चतुर्ध्रुवायाम्

॥३॥

सादनकाल आज्यानि सादयति

॥४॥

उपभृद्वत्पृषदाज्यधानीम्

॥५॥

पूर्ववदाज्यान्यभिमन्त्र्याग्रेणाहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि

॥६॥

पूर्ववदभ्रेरादानं परिलेखनश्च

॥७॥

अथ खनति यथा नाविरुपरं भविष्यतीति

॥८॥

अग्रेणावटं प्राञ्चं यूपं निधाय यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या । आपस्तत्सर्वं जीवलाः शुन्धन्तु शुचयः शुचिमिति यूपं प्रक्षाल्याथैनं यवमतीभिः प्रोक्षति । पृथिव्यै त्वेति मूलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम्

॥९॥

शुन्धतां लोकः पितृषदन इति प्रोक्षणीशेषमवटेऽवनीय यवोऽसीति यवमवास्य पितॄणां सदनमसीति बर्हिषावस्तीर्य स्वावेशोऽसीति प्रथमपरापातिनं शकलमवास्य घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण शकले हुत्वा

॥१०॥

दशमी कण्डिका

यूपायाज्यमानायानुब्रूहीति संप्रेष्यत्यज्यमानायानुब्रूह्यञ्ज्मो यूपमनुब्रूहीति वा

॥१॥

अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतः शकलेनानक्ति

॥२॥

ऐन्द्रमसीति चषालमक्त्वा सुपिप्पलाभ्यस्त्वौषधीभ्य इति प्रतिमुच्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण संततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात्

॥३॥

रशनादेशे त्रिः सर्वतो यूपं संमृशति

॥४॥

अञ्जनादि यूपं यजमानो नोत्सृजात्या परिव्ययणात्

॥५॥

यूपायोच्छ्रीयमाणायानुब्रूहीति संप्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा

॥६॥

उद्दिवं स्तभानान्तरिक्षं पृणेत्युच्छ्रयति

॥७॥

ते ते धामानीत्यवटेऽवदधाति

॥८॥

विष्णोः कर्माणि पश्यतेति द्वाभ्यामाहवनीयेनाग्निष्ठां संमिनोति

॥९॥

यं कामयेत तेजसैनमित्युक्तम्

॥१०॥

अग्रमाहवनीयमुपनतं यूपस्यावनतं मूलम्

॥११॥

अनाविरुपरं कृत्वा ब्रह्मवनिं त्वा क्षत्रवनिमिति प्रदक्षिणं पांसुभिः पर्यूह्य ब्रह्म दृंह क्षत्रं दृंहेति मैत्रावरुणदण्डेन समं भूमिपरिदृंहणं कृत्वा

॥१२॥

एकादशी कण्डिका

उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति

॥१॥

दर्भमय्यौ रशने भवतः । द्विगुना द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य

॥२॥

देवस्य त्वा सवितुः प्रसव इति रशनामादाय विष्णोः कर्माणि पश्यतेति सरशनेन पाणिना यूपमुन्मार्ष्टि

॥३॥

तद्विष्णोः परमं पदमित्यग्रं प्रेक्षते । यूपाय परिवीयमाणायानुब्रूहीति संप्रेष्यति । परिवीयमाणायानुब्रूहीति वा

॥४॥

परिवीरसीति नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति मध्यदेशे वा

॥५॥

यं कामयेतोर्जैनमित्युक्तम्

॥६॥

अधो दूरं परिव्ययेद्वृष्टिकामस्योपरि दूरमवृष्टिकामस्येत्येके

॥७॥

यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेत्

॥८॥

यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्याणिमति स्थविमत्प्रवीय दिवः सूनुरसीति स्वरुमादायान्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति

॥९॥

उत्तमे सर्वेषु वा । द्वयोरधरयोरिति वाजसनेयकम्

॥१०॥

द्वादशी कण्डिका

पशुं स्नपयन्ति कूटकर्णकाणखण्डबण्डश्लोणसप्तशफवर्जम्

॥१॥

यद्यङ्गहीनः स्यादङ्गतो वा विरुज्येत

॥२॥

अथैकेषां वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामिति च हुत्वा प्रयोजयेत्

॥३॥

योऽपन्नदन्मलं तत्पशूनामिति विज्ञायते

॥४॥

इषे त्वेति बर्हिषी आदत्ते । उपवीरसीति प्लक्षशाखां बहुपर्णशाखामप्रतिशुष्काग्रामसुषिराम्

॥५॥

यं कामयेतापशुः स्यादित्यपर्णया तस्य शुष्काग्रयोपाकुर्यात्

॥६॥

तृणेनोपाकरोतीत्येके

॥७॥

बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपाकरोति । उपो देवान्दैवीर्विशः प्रजापतेर्जायमाना इति चैताभ्यामुपस्पृशन्निन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमीति

॥८॥

पञ्चकृत्वो देवतोपदेशनमुपाकरणे नियोजने प्रोक्षणे वपाया उद्धरणे हृदयस्याभिघारण इति

॥९॥

प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पञ्च हुत्वाग्निं मन्थति

॥१०॥

अपि वाग्निं मथित्वोपाकुर्यात्

॥११॥

अग्नेर्जनित्रमसीत्यधिमन्थनं शकलं निदधाति । वृषणौ स्थ इति प्राञ्चौ दर्भौ

॥१२॥

उर्वश्यसीत्यधरारणिमादत्ते । पुरूरवा इत्युत्तरारणिम्

॥१३॥

देवो वां सविता मध्वानक्त्वित्याज्यस्थाल्या बिलेऽङ्क्त्वा घृतेनाक्ते वृषणं दधाथामित्युभे अभिमन्त्र्यायुरसीति समवधाय

॥१४॥

त्रयोदशी कण्डिका

अग्नये मथ्यमानायानुब्रूहीति संप्रेष्यति । मथ्यमानायानुब्रूहीति वा

॥१॥

प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्वेति प्रथमं त्रैष्टुभमिति द्वितीयं जागतमिति तृतीयम्

॥२॥

ततो यथा प्राशु मन्थति

॥३॥

यदि मथ्यमानो न जायेत राक्षोघ्नीरनुब्रूयात्

॥४॥

जातायानुब्रूहीति जाते संप्रेष्यति । प्रह्रियमाणायेति प्रहरन्

॥५॥

भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरति संधिना वा

॥६॥

अग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य स्रुवेणाभिजुहोति

॥७॥

सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनारभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति

॥८॥

दक्षिणत ऐकादशिनान्

॥९॥

अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति

॥१०॥

अपां पेरुरसीति पाययति

॥११॥

स्वात्तं चित्सदेवं हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रीक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते

॥१२॥

चतुर्दशी कण्डिका

स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति

॥१॥

सं ते प्राणो वायुना गच्छतामिति शिरसि । सं यजत्रैरङ्गानीत्यंसोच्चलयोः । सं यज्ञपतिराशिषेति श्रोण्याम्

॥२॥

ध्रुवासमञ्जनादि कर्म प्रतिपद्यते समानमा प्रवरात्

॥३॥

षडृत्विजः

॥४॥

दैवं च मानुषं च होतारौ वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति

॥५॥

तिष्ठति पशावेकादश प्रयाजान्यजति

॥६॥

समिद्भ्यः प्रेष्येति प्रथमं संप्रेष्यति । प्रेष्य प्रेष्येतीतरान्

॥७॥

चतुर्थाष्टमयोः प्रतिसमानीय दशेष्ट्वैकादशायाज्यमवशिनष्टि

॥८॥

तान्यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतींस्त्रीनुत्तमेन शेषम्

॥९॥

प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिः स्वरुं सकृत्स्वधितेरन्यतरां धाराम्

॥१०॥

स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति घृतेनाक्तौ पशुं त्रायेथामिति शिरसि

॥११॥

न वा स्वधितिना स्वरुणैव

॥१२॥

अक्तया शृतस्यावद्यति पशुमितरया विशास्ति

॥१३॥

शमित्रे स्वधितिं प्रयच्छन्नाह शमितरेषा तेऽश्रिः स्पष्टास्त्विति

॥१४॥

पञ्चदशी कण्डिका

पर्यग्नये क्रियमाणायानुब्रूहीति संप्रेष्यति पर्यग्नयेऽनुब्रूहीति वा

॥१॥

आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके

॥२॥

प्रत्यमिसृज्योल्मुकं त्रिः प्रतिपर्येति

॥३॥

प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोत्येकं द्वे त्रीणि चत्वारि वा

॥४॥

पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तं स्वराडनुमन्यतामिति द्वितीयाम्

॥५॥

ये बध्यमानमिति प्रमुच्यमाने । प्रमुञ्चमाना इति प्रणीयमाने

॥६॥

रेवतीर्यज्ञपतिं प्रियधा विशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च । आश्राव्य प्रत्याश्राविते संप्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इति

॥७॥

प्रास्मा अग्निं भरत स्तृणीत बर्हिरिति होतुरभिज्ञायाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते

॥८॥

शमिता पशुं नयति

॥९॥

उरो अंतरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति

॥१०॥

नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति

॥११॥

षोडशी कण्डिका

ऊवध्यगोहं पार्थिवं खनतादित्यभिज्ञायोवध्यगोहं खनति

॥१॥

अभिपर्यग्निकृते देश उल्मुकं निदधाति

॥२॥

स शामित्रः

॥३॥

तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति तस्याधस्ताद्बर्हिरुपास्यत्युपाकरणयोरन्यतरत्

॥४॥

तस्मिन्संज्ञपयन्ति प्रत्यक्शिरसमुदीचीनन्पादम्

॥५॥

अमायुं कृण्वन्तं संज्ञपयतेत्युक्त्वा पराङावर्ततेऽध्वर्युः

॥६॥

स्वर्विदसि स्वर्वित्त्वास्वरिहि स्वर्मह्यं स्वः पशुभ्यः । लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यः । गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यः । नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यः । न वा उवेतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविता दधातु । अशानां त्वाशापालेभ्य इत्येषा । विश्वा आशा मधुना संसृजाम्यनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यताम् । अगृभीताः पशवः सन्तु सर्व इत्युक्त्वा पराङावर्तते यजमानः । नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति

॥७॥

सप्तदशी कण्डिका

यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः सन्तु पयस्वतीरस्मिन्गोष्ठे वयोवृधः । इह पशवो विश्वरूपा रमन्तामस्मिन्यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेनेति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते अध्वर्युर्यजमानश्च

॥१॥

इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तं रवस्वानागसो यजमानस्य वीरा इति च वाश्यमानेऽवेक्षेते

॥२॥

यत्पशुर्मायुमकृतेति संज्ञप्ते संज्ञप्तहोमं जुहोति

॥३॥

शमितार उपेतनेति वपाश्रपणीभ्यां पशुमुपैतोऽध्वर्युर्यजमानश्च

॥४॥

पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति

॥५॥

संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य चात्वाल उदस्यत्यरातीयन्तमधरं करोमीति

॥६॥

यद्यभिचरेदरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशमिति तया वृक्षं स्थाणुं स्तम्भं वापिदध्यात्

॥७॥

अष्टादशी कण्डिका

ततः प्रतिप्रस्थाता पत्नीमुदानयति

॥१॥

नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते

॥२॥

अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत इत्येके

॥३॥

आपो देवीः शुद्धायुव इति चात्वाले पत्न्यपोऽवमृशत्यृत्विजो यजमानश्च

॥४॥

न पत्नीत्येके

॥५॥

अद्भिः पशोः सर्वान्प्राणानाप्याययति

॥६॥

सर्वाण्यङ्गान्यध्वर्युरभिषिञ्चति पत्न्याप्याययति । एतद्वा विपरीतम् । वाक्त आप्यायतामित्येतैर्यथालिङ्गम्

॥७॥

या ते प्राणाञ्छुग्जगामेति हृदयदेशम्

॥८॥

मेढ्रं त आप्यायतामिति मेढ्रम्

॥९॥

शुद्धाश्चरित्रा इति पादान्

॥१०॥

एकैकमाप्याय्य जपति शमद्भ्य इति पुरा स्तोकानां भूमेः प्रापणात्

॥११॥

शमोषधीभ्यः शं पृथिव्या इति भूम्यां शेषं निनीयौषधे त्रायस्वैनमित्युपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिना पार्श्वतस्तिर्यगाच्छति

॥१२॥

बर्हिषोऽग्रं सव्येन पाणिनादत्ते

॥१३॥

अथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा रक्षसां भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्याथैनत्सव्येन पदाभितिष्ठतीदमहं रक्षोऽवबाध इदमहं रक्षोऽधमं तमो नयामीति

॥१४॥

एकोनविंशी कण्डिका

इषे त्वेति वपामुत्खिद्य घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति वपया द्विशूलां प्रच्छाद्योर्जे त्वेति तनिष्ठेऽन्तत एकशूलयोपतृणत्ति

॥१॥

देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः शून्धस्वेत्यद्भिरवोक्ष्य देवेभ्यः शूम्भस्वेति स्वधितिना वपां निमृज्याच्छिन्नो रायः सुवीर इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामीत्युत्कृन्तति

॥२॥

मुष्टिना शमिता वपोद्धरणमपिधायास्त आ वपाया होमात्

॥३॥

प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इति शामित्रे वपां प्रतितप्य नमः सूर्यस्य संदृश इत्यादित्यमुपस्थायोर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति

॥४॥

उल्मुकैकदेशमादायाग्नीध्रः पूर्वः प्रतिपद्यते

॥५॥

वपाश्रपणी पुनरन्वारभते यजमानः

॥६॥

उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति

॥७॥

निर्दग्धं रक्षो निर्दग्धा अरातय इत्याहवनीयस्यान्तमेऽङ्गारे वपां निकूड्यान्तरा यूपमाहवनीयं च दक्षिणातिहृत्य प्रतिप्रस्थात्रे प्रयच्छति

॥८॥

तां दक्षिणत आसीनः प्रतिप्रस्थाताहवनीये श्रपयति

॥९॥

विंशी कण्डिका

वायो वीहि स्तोकानामिति बर्हिषोऽग्रमधस्ताद्वपाया उपास्यति

॥१॥

त्वामु ते दधिरे हव्यवाहमिति स्रुवेण वपामभिजुहोति

॥२॥

प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति संप्रेष्यति

॥३॥

अलोहिनीं सुशृतां कृत्वा सुपिप्पला ओषधीः कृधीति दक्षिणस्यां वेदिश्रोण्यां बर्हिषि लक्सशाखायामासाद्य प्रयुता द्वेषांसीति वपाश्रपणी प्रवृह्य निधाय घृतवति शब्दे जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्राविते संप्रेष्यति स्वाहाकृतीभ्यः प्रेष्य स्वाहाकृतिभ्यः प्रेष्येति वा

॥४॥

वषट्कृते हुत्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्य पृषदाज्यमभिघारयत्यथ वपाम् । एतद्वा विपरीतम्

॥५॥

नोपभृतम्

॥६॥

आज्यभागौ यजति

॥७॥

तौ न पशौ करोति । न सोम इत्येके

॥८॥

स्वाहा देवेभ्य इति पूर्वं परिवप्यं हुत्वा जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामवदाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयति

॥९॥

एवं पञ्चावत्ता भवति

॥१०॥

चतुरवत्तिनोऽपि पञ्चावत्तैव स्यात्

॥११॥

एकविंशी कण्डिका

इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति संप्रैषौ

॥१॥

जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा प्रत्याक्रम्य देवेभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन्

॥२॥

प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् । एतद्वा विपरीतम्

॥३॥

अथैने अध्वर्युः संस्रावेणाभिजुहोति

॥४॥

अत्र यजमानो वरं ददात्यनद्धाहं तिस्रो वा धेनूस्तिस्रो वा दक्षिणाः

॥५॥

समुत्क्रम्य सहपत्नीकाः ह्पञ्चभिश्चात्वाले मार्जयन्ते । आपो हि ष्ठा मयोभुव इति तिस्रः । इदमापः प्रवह तावद्यं च मलं च यत् । यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषादिति

॥६॥

द्वाविंशी कण्डिका

पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते

॥१॥

यथार्थं पात्रयोगः

॥२॥

निर्वपणकाले व्रीहिमयं पशुपुरोडाशं निर्वपत्येकादशकपालं द्वादशकपालं वा

॥३॥

हविष्कृता वाचं विसृज्य पशुं विशास्ति

॥५॥

हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि । दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि । क्लोमानं लीहानं पुरीततं वनिष्ठुमध्यूध्नीं मेदो जाघनीमित्युद्धरति

॥६॥

गुदं मा निर्व्लेषीरिति संप्रेष्यति

॥७॥

मा विपर्यास्त इत्यर्थो भवति

॥८॥

उदक् पवित्रे कुम्भ्यां पशुमवधाय शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयति

॥९॥

अवहननादि कर्म प्रतिपद्यते

॥१०॥

वपया प्रचर्य पुरोडाशेन प्रचरति । शृते वा पशौ

॥११॥

इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्येति संप्रैषौ । इन्द्राग्निभ्यां पुरोडाशस्यावदीयमानस्यानुब्रूहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्येति वा

॥१२॥

अग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृतः संप्रैषौ

॥१३॥

त्रयोविंशी कण्डिका

प्राशित्रमवदायेडां न यजमानभागम्

॥१॥

हविराहुतिप्रभृतीडान्तः संतिष्ठते

॥२॥

उपहुतां मैत्रावरुणषष्ठा भक्षयित्वा पुर्ववत्प्रस्तरे मार्जयित्वा स्रुवेण पृषदाज्यस्योपहत्य वेदेनोपयम्य त्रिः पृच्छति शृतं हवीः३ शमितरिति

॥३॥

शृतमितीतरः प्रत्याह

॥४॥

अर्धाध्वे द्वितीयं प्राप्य तृतीयम्

॥५॥

पूषा मा पशुपाः पात्विति प्रथमेऽभिप्रव्रजति । पूषा मा पथिपाः पात्विति द्वितीये । पूषा माधिपाः पात्विति तृतीये

॥६॥

शूलात्प्रवृह्य हृदयं कुम्भ्यामवधाय सं ते मनसा मन इति पृषदाज्येन हृदयमभिघारयत्युत्तरतः परिक्रम्य

॥७॥

आज्येन पशुं यस्त आत्मा पशुषु प्रविष्ट इति

॥८॥

स्वाहोष्मणो व्यथिष्या इत्युद्यन्तमूष्माणमनुमन्त्रयते

॥९॥

पशुं हरन्पार्श्वतो हृदयशूलं धारयत्यनुपस्पृशन्नात्मानमितरांश्च

॥१०॥

अन्तरा यूपमाहवनीयं च दक्षिणातिहृत्य पञ्चहोत्रा षड्ढोत्रा वा दक्षिणास्यां वेदिश्रोण्यामासाद्य चतसृषूपस्तृणीते जुहूपभृतोर्वसाहोमहवन्यां समवत्तधान्यामिति

॥११॥

जुहूपभृतोर्हिरण्यशकलाववधाय बर्हिषि प्लक्षशाखायामवदानान्यवद्यन्संप्रेष्यति

॥१२॥

चतुर्विंशी कण्डिका

मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति

॥१॥

हृदयस्याग्रेऽवद्यति । अथ जिह्वाया अथ वक्षसो याथाकामीतरेषाम्

॥२॥

मध्यतो गुदस्यावद्यतीत्युक्त

॥३॥

यथोद्धृतं वा

॥४॥

दैवतानां द्विर्द्विरवदाय जुह्वामवदधाति । उपभृति सौविष्टकृतानां सकृत्सकृत्

॥५॥

गुदं त्रैधं विभज्य स्थविमदुपयड्भ्यो निधाय मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति । अणिमत्सौविष्टकृतेषु

॥६॥

अपि वा द्वैधं विभज्य स्थविमदुपयड्भ्यो निधायेतरत्त्रैधं विभज्य मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति । अणिमत्सौविष्टकृतेषु स्थविष्ठमिडायाम्

॥७॥

त्रधा मेदोऽवद्यति द्विभागं स्रुचोस्तृतीयं समवत्तधात्याम्

॥८॥

यूषे मेदोऽवधाय मेदसा स्रुचौ प्रावृत्य हिरण्यशकलावुपरिष्टात्कृत्वाभिघारयति

॥९॥

समवत्तधान्यां षडाद्यानीडामवद्यति वनिष्ठुं सप्तमम् । षड्भ्यो वा वनिष्ठोः सप्तमात्

॥१०॥

अनस्थिभिरिडां वर्धयति

॥११॥

क्लोमानं प्लीहानं पुरीततमित्यन्ववधाय यूष्णोपसिच्याभिघारयति

॥१२॥

पञ्चविंशी कण्डिका

अपां त्वौषधीनां रसं गृह्णामीति वसाहोमहवन्यां वसाहोमं गृह्णाति

॥१॥

स्वधितिना धारां छिनत्ति

॥२॥

द्विः पञ्चावत्तिनः

॥३॥

श्रीरसीति पार्श्वेन वसाहोमं प्रयौति

॥४॥

वातस्य त्वा ध्रज्या इति तेनैवापिदधाति । स्वधितिना वा प्रयौति । स्वधितिनापिदधातीत्येके

॥५॥

अथ यन्न शीर्ष्णोऽवद्यति नांसयोर्नाणूकस्य नापरसक्थ्योरनवदानीयानि

॥६॥

तानि शृतैः संनिधाय संमृशत्यैन्द्रः प्राणो अङ्गेअङ्ग इति

॥७॥

अथ हविषा प्रचरति

॥८॥

इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीन्द्राग्निभ्यां छागस्य हविषः प्रेष्येति संप्रैषौ

॥९॥

याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबतेति

॥१०॥

उद्रेकेण दिशः प्रदिश इति प्रतिदिशं जुहोति । मध्ये पञ्चमेन

॥११॥

प्राञ्चमुत्तमं संस्थाप्य नमो दिग्भ्य इत्युपतिष्ठते

॥१२॥

वषट्कृते जुहोति

॥१३॥

अत्र वा दिशः प्रति यजेत् । उपरिष्टाद्वा वनस्पतेः स्विष्टकृतो वा

॥१४॥

प्रत्याक्रम्य जुह्वामुपस्तीर्य सकृत्पृषडाज्यस्योपहत्य द्विरभिघार्य वनस्पतये नुब्रूहि वनस्पतये प्रेष्येति संप्रैषौ । वषट्कृते जुहोति

॥१५॥

स्विष्टकृद्वद्यजमानोऽनुमन्त्रयते

॥१६॥

उपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाहाग्नये स्विष्टकृते ऽनुब्रूह्यग्नये स्विष्टकृते प्रेष्येति संप्रैषौ

॥१७॥

वषट्कृते हुत्वा प्रत्याक्रम्यायतने स्रुचौ सादयति

॥१८॥

षड्विंशी कण्डिका

अत्रेडाया निरवदानमेके समामनन्ति

॥१॥

अवान्तरेडामवद्यति

॥२॥

मेद उपस्तीर्य मेदसाभिघारयति

॥३॥

यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा इत्युक्तम्

॥४॥

उपहूतां मैत्रावरुणषष्ठा भक्षयन्ति । प्रतिप्रस्थाता सप्तमः

॥५॥

वनिष्ठुमग्नीधे षडवत्तं संपादयति

॥६॥

अध्यूध्नीं होत्रे हरति

॥७॥

अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निं च सकृत्सकृत्संमृड्ढीति संप्रेष्यति

॥८॥

आग्नीध्रादौपयजानङ्गारानाहरति । होत्रीय उपयजति

॥९॥

शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्याम्

॥१०॥

गुदकाण्डमेकादशधा तिर्यक् छित्त्वासंभिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृतेवषट्कृत एकैकं गुदकाण्डं प्रतिप्रास्थाता हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रम्

॥११॥

सर्वाणि हुत्वाद्भ्यस्त्वौषधीभ्य इति बर्हिषि लेपं निमृज्य मनो मे हार्दि यच्छेति जपति । पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेनैकादशानूयाजान्यजति

॥१२॥

देवेभ्यः प्रेष्येति प्रथमं संप्रेष्यति । प्रेष्य प्रेष्येतीतरान्

॥१३॥

तान्यजमानः प्राकृतैरनुमन्त्रयते

॥१४॥

सप्तविंशी कण्डिका

प्रथमेनाद्यांश्चतुरो दशमं च । द्वितीयेन प्राग्वनस्पतेः । उत्तमेन शेषम्

॥१॥

उत्तरयोर्विकारेषुभौ होतारं चोदयतोऽध्वर्युर्मैत्रावरुणश्च यजेति

॥२॥

अत्र स्वरोरञ्जनमेके समामनन्ति

॥३॥

प्रत्याक्रम्य जुह्वां स्वरुमवधायानूयाजान्ते जुहोति द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेति

॥४॥

समानमा प्रत्याश्रावणात्

॥५॥

सूक्तवाकप्रैषो विक्रियते

॥६॥

तं मैत्रावरुणो ब्रूयादग्निमद्य होतारमवृणीतेति

॥७॥

ध्रुवावर्जं चतसृभिः परिधीनभिजुहोति

॥८॥

दक्षिणेन विहारं जाघनीं हृत्वा तया पत्नीः संयाजयन्ति

॥९॥

आज्येन सोमत्वष्टाराविष्ट्वोत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये

॥१०॥

उत्तानायै होत्र इडामवद्यति नीच्या अग्नीधे

॥११॥

तां पत्न्यै प्रयच्छति तां साध्वर्यवेऽन्यस्मै वा ब्राह्मणाय

॥१२॥

बाहुं शमित्रे

॥१३॥

तं स ब्राह्मणाय यद्यब्राह्मणो भवति

॥१४॥

यज्ञ यज्ञं गच्छेति त्रीणि समिष्टयजूंषि हुत्वानुपस्पृशन्हृदयशूलमुदङ् परेत्यासंचरेऽप उपनिनीय शुष्कार्द्रयोः संधावुद्वासयति शुगसीति द्वेष्यं मनसा ध्यायन्

॥१५॥

सुमित्रा न आप ओषधय इति तस्मिंश्चात्वाले वा सहपत्नीका मार्जयित्वा धाम्नोधाम्नो राजन्नुदुत्तममित्यादित्यमुपस्थायैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते

॥१६॥

अष्टाविंशी कण्डिका

इष्टिविधो वा अन्यः पशुबन्धः सोमविधोऽन्यः । स यत्रैतदपः प्रणयति पूर्णपात्रं निनयति विष्णुक्रमान्क्रामति स इष्टिविधोऽतोऽन्यः सोमविध इति वाजसनेयकम्

॥१॥

यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः सन्नान्मावगातापश्चाद्दघ्वान्नं भूयासम् । शृङ्गाणीवेच्छृङ्गिणां संददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवांसो नमः सखिभ्यः सन्नान्मावगात । आशासानः सुवीर्यमिति च

॥२॥

उपस्थाय यज्ञ शं च म इति जपति

॥३॥

आहुत्यै वा एतं वनस्पतिभ्यः प्रच्यावयन्त्युपयज्य मनुष्याः ह्प्रयान्ति । यूपो वै यज्ञस्य दुरिष्टमामुञ्चते । यद्यूपमुपस्पृशेद्दुरिष्टं यज्ञस्यामुञ्चेत्तमभिमन्त्रयेत वायवेष ते वायवित्येकम् । वायवेतौ ते वायविति द्वौ । वायवेते ते वायविति बहून्

॥४॥

ऐन्द्राग्नी निरूढपशुबन्धः सौर्यः प्राजापत्यो वा

॥५॥

तेन संवत्सरेसंवत्सरे यजेत । षट्सुषट्सु मासेष्वित्वेके

॥६॥

ऋतुव्यावृत्तौ सूयवस आवृत्तिमुखआवृत्तिमुखे वा

॥७॥

मांसीयन्ति ह वा अग्नयोऽजुह्वतो यजमानस्य । ते यजमानमेव ध्यायन्ति । यजमानं संकल्पयन्ति । पचन्ति ह वा अन्येष्वग्निषु वृथामांसम् । अथैतेषां नान्या मांसाशा विद्यते । यस्यो चैते भवन्ति तं ततो नानीजानं पशुना संवत्सरोऽतीयात् । आयुष्यो ह वा अस्यैष आत्मनिष्क्रयण इति वाजसनेयकं भवति भवति

॥८॥