प्रथमः खण्डः
षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति
॥१॥वृषन्निन्द्रवृषपाणास इन्दवः सुषुमायातमद्रिभिर्वनोति हि सुन्वन् क्षयं परीणसो मोषुवो अस्मदभितानि पौंस्योषूणो अग्ने शृणुहि त्वमीडितोऽग्निं होतारं मन्ये दास्वन्तं दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इति
॥२॥एवमेव माध्यन्दिनेऽध्यर्धान्तु तत्रानवानं
॥३॥पिबा सोममिन्द्रसुवानमद्रिभिरिन्द्राय हि द्यौरसुरो अनम्नतेति षट्
॥४॥उपरिष्टात् त्वृच ऋतुयाजानां
॥५॥एवमेव यजन्ति
॥७॥तुभ्यं हिन्वानो वसिष्ट गा अप इति द्वादश
॥८॥अयम् जायत मनुषो धरीमणि इत्य् आज्यम्
॥९॥एकेन द्वाभ्याम् च विग्रहः
॥१०॥त्रिभिर् अवसानम् चतुर्भिः प्रणवो यत्र अर्धर्चशः पारुच्छेप्यः
॥११॥स्तीर्णम् बर्हिर् इति तृचौ सुषुमा आतम् अद्रिभिर् युवाम् स्तोमेभिर् देवयन्तो अश्विनाव् अर्मह इन्द्र वृषन्न् इन्द्रास्तु श्रौषळ् ओ षू णो अग्ने शृणुहि त्वम् ईळितो ये देवासो दिव्य् एकादश स्थेयम् अददाद् रभसम् ऋण च्युतम् इति प्रौगम् । द्वे च एका च पञ्चमे एक पातिन्य उपोत्तमे उत्तमे अन्वृचम् अभ्यासा अष्ट अक्षराः
॥१२॥न वा
॥१३॥स पूर्व्यो महोनाम् त्रय इन्द्रस्य सोम इति मरुत्वतीयस्य प्रतिपद् अनुचरौ यम् त्वम् रथम् इन्द्र स यो वृष इन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम्
॥१४॥एकेन अग्रे अवसाय द्वाभ्याम् प्रणुयाद् द्वाभ्याम् अवसाय द्वाभ्याम् प्रणुयाद् यत्र पच्छः पारुच्छेप्यः
॥१५॥रैवतम् चेत् पृष्ठम् रेवतीर् नः सधमादे रेवान् इद् रेवतः स्तोता इति स्तोत्रिय अनुरूपौ
॥१६॥एन्द्र याह्य् उप नः प्र घा न्व् अस्य अभूर् एक इति निष्केवल्यम्
॥१७॥अभि त्यम् देवम् सवितारम् ओण्योर् इत्य् एका तत् सवितुर् अवरेण्यम् इति द्वे दोषो आगाद् बृहद् गाय द्युमद् द्युमद्ध्येह्य् आथर्वण स्तुहि देवम् सवितारम् तम् उ ष्टुह्य् अन्तः सिन्धुम् सूनुम् सत्यस्य युवानम् । अदोरोघ वाचम् सुशेवम् स घानो देवः सविता साविषद् वसुपतिः । उभे सुक्षिती सुधातुर् इति वैश्वदेवस्य प्रतिपद् अनुचरौ
॥१८॥उद्धृत्य च उत्तमम् सूक्तम् त्रीणि
॥१९॥इदम् इत्था रौद्रम् इति
॥२०॥प्राग् उपोत्तमाया ये यज्ञेन इत्य् आवपते
॥२१॥तस्य अर्धर्चशः प्राग् उत्तमाया ऊर्ध्वम् चतुर्थ्याः
॥२२॥शिष्टे शस्त्वा स्वस्ति नो मिमीताम् अश्विना भग इति तृचः
॥२३॥इति वैश्वदेवम्
॥२४॥द्वितीयः खण्डः
होत्रकाणां द्विपदास्विहोक्थ्येषु स्तुवते
॥१॥अत ऊर्ध्वमनुरूपेभ्यो विकृतानि शिल्पानि शंसेयुः
॥२॥मैत्रावरुणस्याग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा समिद्ध इति स्तोत्रियानुरूपौ । अथ वालखिल्या विहरेत्
॥३॥तदुक्तं षोडशिना
॥४॥सूक्तानां प्रथमद्वितीये पच्छः
॥५॥तृतीयचतुर्थे अर्धर्चशः ऋक्शः पञ्चमषष्ठे । व्यतिमर्शं वा विहरेत्
॥६॥पूर्वस्य प्रथमामुत्तरस्य द्वितीयया
॥७॥उत्तरस्य प्रथमां पूर्वस्य द्वितीयया
॥८॥तयोर्नानर्चा
॥९॥प्रथमद्वितीयाभ्यां पादाभ्यामवस्येत् प्रथमद्वितीयाभ्यां प्रणुयात् तृतीयोत्तमाभ्यामवस्येत् तृतीयोत्तमाभ्यां प्रणुयात्
॥१०॥एवं व्यतिमर्शमर्धर्चशः उत्तरे । एवं व्यतिमर्शमृक्श उत्तरे
॥११॥विपरिहरेदेवोत्तमे सूक्ते गायत्रे सर्वत्र
॥१२॥इमानि वां भागधेयानीति प्रागुत्तमाया आहूय दूरोहणं रोहेत्
॥१३॥हंसः शुचिषदिति पच्छोऽर्धर्चशस्त्रिपद्या चतुर्थमनवानमुक्त्वा प्रणुत्यावस्येत् । पुनस्त्रिपद्याऽर्धर्चशः पच्छ एव सप्तमं
॥१४॥एतत् दूरोहणं
॥१५॥आवां राजानाविति नित्यमैकाहिकं
॥१६॥इति नु हौण्डिनौ
॥१७॥अथ महावालभित्
॥१८॥एतान्येव षट् सूक्तानि व्यतिमर्शं पच्छो विहरेद्व्यतिमर्शमर्धर्चशो व्यतिमर्शमृक्शः
॥१९॥प्रगाथान्तेषु चानुपसन्तानऋगावानमेकपदाः शंसेत्
॥२०॥इन्द्रो विश्वस्य गोपतिरिन्द्रोविश्वस्य भूपतिरिन्द्रोविश्वस्य चेततीन्द्रोविश्वस्य राजतीति चतस्रः
॥२१॥एकां महाव्रतादाहरेत्
॥२२॥त्रयोविंशतिमष्टाक्षरान् पादान् महानाम्नीभ्यः सपुरीषाभ्यः
॥२३॥षोडशिनोक्तः प्रतिगरोऽन्यत्रैकपदाभ्यः
॥२४॥अवकृष्यैकपदा अविहरंश्चतुर्थं शंसेत्
॥२५॥समानमन्यत्
॥२६॥तृतीयः खण्डः
ब्राह्मणाच्छंसिन इमानुकं भुवनासीषधामेति पञ्चायावाजं देवहितं सनेमेति स्तोत्रियानुरूपौ
॥१॥अपप्राच इन्द्रेति सुकीर्त्तिः
॥२॥तस्यार्धर्चशश्चतुर्थीं
॥३॥अथ वृषाकपिं शंसेद्यथा होताऽऽज्याद्यां चतुर्थे
॥४॥पङ्क्तिशंसन्त्विह
॥५॥अप्रणवान्तश्च प्रतिगरो द्वितीये पाङ्क्तावसाने
॥६॥तस्मादूर्ध्वं कुन्तापं
॥७॥तृतीयेषु पादेषूदात्तमनुदात्तपरं यत् प्रथमं तन्निनर्देत्
॥९॥तदपि निदर्शनायोदाहरिष्यामः । इदं जना उपश्रुत । नराशंसस्तविष्यते । षष्टिं सहस्रा नवतिञ्च कौरम आरुशमेषु दद्म हो३म्
॥१०॥ओथामो दैवोमित्यस्य प्रतिगरः
॥११॥चतुर्दश्यामेकेन द्वाभ्याञ्च विग्रहः
॥१२॥शेषोऽर्धर्चशः
॥१३॥एता अश्वा आप्लवन्त इति सप्ततिं पदानि
॥१४॥अष्टादश वा
॥१५॥नवाद्यानि
॥१६॥अलाबुकं निखातकमिति सप्त । यदीं हनत् कथं हनत् पर्याकारं पुनः पुनरिति चैते
॥१७॥विततौ किरणौ द्वाविति षडनुष्टुभः
॥१८॥दुन्दुभिमाहननाभ्यां जरितरोथामो दैव कोशबिले जरितरोथामो दैव रजनिग्रन्थेर्धानां जरितरोथामो दैवोपानहि पादं जरितरोथामो दैवोत्तरां जनीमाञ्जन्यां जरितरोथामो दैवोत्तरां जनीं वर्त्तन्यां जरितरोथामो दैवेति प्रतिगरा अवसानेषु
॥१९॥इहेत्थ प्रागपागुदगिति चतस्रो द्वेधाकारं प्रणवेनासन्तन्वन्
॥२०॥अलाबूनि जरितरोथामो दैवो३म् । पृषातकानि जरितरोथामो दैवो३म् । अश्वत्थपलाशं जरितरोथामो दैवो३म् । पिपीलिकावटो जरितरोथामो दैवो३म् । इति प्रतिगराः प्रणवेषु
॥२१॥भुगित्यभिगत इति त्रीणि पदानि सर्वाणि यथानिशान्तं
॥२२॥श्वा जरितरोथामो दैव पर्णशदो जरितरोथामो दैव गोशफो जरितरोथामो दैवेति प्रतिगराः । वीमे देवा अक्रंसतेत्यनुष्टुप्
॥२३॥पत्नी यीयप्स्यते जरितरोथामो दैव । होता विष्टीमेन जरितरोथामो दैवेति प्रतिगरौ
॥२४॥आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्निति सप्तदश पदानि । ॐ ह जरितरोथामो दैव । तथा ह जरितरोथामो दैवेति प्रतिगरौ व्यत्यासं मध्ये
॥२५॥प्रणव उत्तमः
॥२६॥त्वमिन्द्रशर्मरिणेति भूतेच्छदः
॥२७॥आज्याद्ययोक्ताश्चतुर्थे
॥२९॥कपृन्नरो यद्ध प्राचीरजगन्तेति चैते
॥३०॥ओमिट्टेड्
॥३१॥अधिक्राब्णो अकार्षमित्यनुष्टुप् । सुतासो मधुमत्तमा इति चतस्रः
॥३२॥अव द्रप्सो अंशुमतीमतिष्ठदिति तिस्रः
॥३३॥अच्छा म इन्द्रमिति नित्यमैकाहिकं
॥३४॥चतुर्थः खण्डः
अथाच्छावाकस्य । प्र व इन्द्राय वृत्रहन्तमायेति स्तोत्रियानरूपौ
॥१॥अथैवयामरुदुक्तो वृषाकपिना
॥२॥ओमिट्टेड्
॥३॥एवमुक्थ्यानि यत्र यत्र द्विपदासु स्तुवीरन्
॥४॥नित्यशिल्पं त्विदमहः
॥५॥विश्वजिच्च तौ चेदग्निष्टोमौ यदि वोक्थ्येष्वद्विपदासु स्तुवीरन् माध्यन्दिन एवोर्ध्वमारम्भणीयाभ्यः प्रकृत्या शिल्पानि शंसेयुः
॥७॥बार्हतान्येव सूक्तानि वालखिल्यानां मैत्रावरुणः
॥८॥सुकीर्त्तिं ब्राह्मणाच्छंसी । वृषाकपिञ्च पङ्क्तिशंसं
॥९॥द्यौर्नय इन्द्रेत्यच्छावाकः
॥१०॥प्रत्येवयामरुदित्येतदाचक्षते
॥११॥होतैवयामरुतमाग्निमारुते पुरस्तान्मारुतस्य पच्छः समासमुत्तमे पदे
॥१२॥षष्ठे त्वेव पृष्ठ्याहान्यहरहःशस्यैकभूयसीः शस्त्वा मैत्रावरुणो दूरोहणं रोहेत्
॥१३॥सम्पातसूक्त एकाहीभवत्सु
॥१४॥न ह्येकाहीभवत्स्व हरहःशस्यानि । नारम्भणीया न कद्वन्तः
॥१५॥कद्वतां स्थाने नित्यान् प्रगाथाञ्छस्त्वा सम्पातवत्स्व हीनसूक्तानीतरेषु ततोऽन्त्यान्यैकाहिकानि
॥१६॥सम्पातवत्सु तु सर्वस्तोमेषु प्राकृते वैकाहेऽहीनसूक्तानि । आदितस्तृतीयानि
॥१७॥सामसूक्तानि सप्रगाथानि सर्वपृष्ठेषु पृष्ठानि
॥१८॥पृष्ठे संस्थाः
॥१९॥अग्निष्टोमः प्रथमं । षोडशी चतुर्थं । उक्थ्या इतरे
॥२०॥इति पृष्ट्यः
॥२१॥प्रत्यक्षपृष्ठः
॥२२॥अन्यैः परोक्षपृष्ठः
॥२३॥एतैर्वोपसृष्टैः
॥२४॥वैरूपादीनामभावे पृष्ट्यस्तोमः
॥२५॥पवमानभाव आपर्क्यपृष्ठ्यः
॥२६॥तनूपृष्ट्यो होतुश्चेच्छ्यैतनौधसे
॥२७॥पञ्चमः खण्डः
अभिजिद्बृहत्पृष्ठः
॥१॥उभयसामा यद्यपि रथन्तरं यज्ञायज्ञीयस्य स्थाने
॥२॥पिबवांस्त्विह सामप्रगाथः
॥२॥पिबा सोमं तमु ष्टुहीति मध्यन्दिनः
॥४॥तयोरैकाहिके पुरस्तादन्ये वा शंसेयुः
॥५॥एते एवेति गौतमः सप्तदशत्वात् पृष्ट्यस्य
॥६॥यावत्यो यावत्यः कुशानां नवतो दशतो वा निष्केवल्ये तावतिसूक्ता मध्यन्दिनाः स्युरिति महान्यायः
॥७॥मरुत्वतीयस्योत्तमे विपरीते
॥८॥चातुर्विंशिकं तृतीयसवनं
॥९॥अभिप्लव त्त्र्यहः पूर्वः स्वरसामानः
॥१०॥स्वराणि त्विह पृष्ठानि
॥११॥तेषां स्तोत्रिया यज्जायथा अपूर्व्यमत्स्यपायि ते मह एनमेनं प्रत्येत नेति
॥१२॥आद्यो वा सर्वेषां
॥१३॥वयं घत्वा सुतावन्त इति तिस्रो बृहत्यो यस्ते साधिष्ठोऽवस इति षडनुष्टुभ इत्यनुरूपाः
॥१४॥स्तोत्रिये यथा युक्ता बृहती तथाऽनुरूपे
॥१५॥स्थायीन्येतानि यथा बृहद्रथन्तरे
॥१६॥षष्ठः खण्डः
विषुवान् दिवा कीर्त्यः
॥१॥१ उदिते प्रातरनुवाकः
॥२॥पृथुपाजा अमर्त्य इति षड् धाय्याः सामिधेनीनां
॥३॥सौर्यः सवनीयस्योपालभ्यः
॥४॥सोमापौष्णो वा
॥५॥समुद्रादूर्मिरित्याज्यं । त्यं सुमेषं कयाशुभेति च मरुत्वतीयं
॥६॥महादिवाकीर्त्यं पृष्ठं
॥७॥विभ्राड्बृहत् पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ यदि बृहद्रथन्तरे पवमानयोः कुर्युर्योनी एनयोः शंसेत्
॥८॥रथन्तरस्य पूर्वां
॥९॥आद्ये भवतोऽन्याभिरपि सन्निपाते
॥१०॥उत्तमस्त्विह सामप्रगाथः
॥११॥नृणामु त्वाऽनृतमङ्गीर्भिरुक्थैरिति तिस्रो यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीति
॥१२॥एतस्मिन्नैन्द्रीं निविदं शस्त्वा शंसेदेवोत्तराणि षड्दिवश्चिदस्य सुत इत् त्वमेष प्रपूर्वीर्वृषामदः प्र मंहिष्ठाय त्यमूष्विति
॥१३॥इह तार्क्ष्यमन्ततः
॥१४॥तस्यैकां शस्त्वाऽऽहूय दूरोहणं रोहेत्
॥१५॥इति निष्केवल्यं । विकर्णं चेद् ब्रह्मसामोर्ध्वमनुरूपात् तं वोदस्ममृतीषहमभि प्र वः सुराधसमिति ब्राह्मणाच्छंसी श्यैतनौधसयोर्योनी शंसेत्
॥१६॥नौधसस्य पूर्वाम् । श्यैतस्योत्तरां
॥१७॥एतद्धोत्रकाणां योनिस्थानं । यच्च प्रगाथ आह्वानमेताभ्यस्तत् पञ्चाहावपरिमितत्वात्
॥१८॥उत्तमेनाभिप्लविकेनोक्तं तृतीयसवनं
॥१९॥ऐकाहिकौ तु प्रतिपदनुचरौ
॥२०॥भासञ्च यज्ञायज्ञीयस्य स्थाने
॥२१॥पृक्षस्य वृष्णो अरुषस्य नू सह इति स्तोत्रियानुरूपौ
॥२२॥मूर्धानं दिवो अरतिं प्रथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा
॥२३॥अन्यासु चेदेवंलिङ्गास्वतोऽनुरूपः
॥२४॥आवृत्ताः स्वरसामानः
॥२५॥सप्तमः खण्डः
विश्वजितोऽग्निं नर इत्याज्यं
॥१॥चतुर्विंशेन मध्यन्दिनः
॥२॥वैराजं तु पृष्ठं सन्यूङ्खं
॥३॥बृहतश्च योनिं प्राग्वैरूपयोन्याः
॥४॥होत्रकाणां पृष्ठानि शाक्वरवैरूपरैवतानि
॥५॥ते योनीः शंसन्ति
॥६॥वामदेव्यस्य मैत्रावरुणः । उक्ते ब्राह्मणाच्छंसिनः
॥७॥काले यस्याच्छावाकः
॥८॥ऐकाहिकौ स्तोत्रियावेतयोर्योनी
॥९॥ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान्
॥१०॥सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि पुरस्तात् सूक्तानां । उक्तं तृतीयसवनमुत्तमेन पृष्ट्याह्ना । ऐकाहिकौ तु प्रतिपदनुचरौ । बृहच्चेदग्निष्टोमसाम त्वमग्ने यज्ञानामिति स्तोत्रियानुरुपौ । इति नवरात्रः
॥११॥सर्वेऽग्निष्टोमाः
॥१२॥उक्थानेके स्वरसाम्नः
॥१३॥द्वितीयमाभिप्लविकं गौः । आयुरुत्तरं
॥१४॥त्र्यहकॢप्ते पूर्वस्मात् त्र्यहात् सवनशो यथान्तरं गौरायुरुत्तरात्
॥१५॥षडहकॢप्ते युग्मेभ्यो गौरयुजेभ्य आयुः
॥१६॥दशरात्रे
॥१७॥पृष्ट्यः षडहः पूर्वत्र्यहः पुनश्छन्दोमाः
॥१८॥न त्वत्र स्थायि वैरूपं तृतीये
॥१९॥प्रथमस्य छान्दोमिकस्य द्विषूक्तो मध्यन्दिनः
॥२०॥वैषुवते निविद्धाने पूर्वे च
॥२१॥द्वितीयस्य शंसा महान् महश्चित्त्वमिन्द्रपिबा सोममभितमस्य द्यावापृथिवी महाँ इन्द्रो नृवदिति मरुत्वतीयं
॥२२॥अपूर्व्या पुरुतमानितां सुते कीर्त्तिं त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यं । तृतीयस्येन्द्रः स्वाहा गायत् साम तिष्ठा हरी प्रमंदिन इमां उ त्वेति मरुत्वतीयं
॥२३॥सञ्च त्वे जग्मुरिति सूक्ते आ सत्यो यात्वहं भुवं तत्त इन्द्रियमिति निष्केवल्यं । आयाहि वनसे मानुकं बभ्रुरेक इति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानां
॥२४॥इति नु समूल्हः
॥२५॥अष्टमः खण्डः
व्यूल्हश्चेत् पृष्ट्यस्योत्तरे त्र्यहे मध्यन्दिनेषु गायत्रांस्तृचानुपसंशस्य तेषु निविदो दध्यात्
॥१॥इमं नु मायिनं हुवे त्यमु वः सत्रासाहं मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामस्ययं ह येन वा इदमुप नो हरिभिः सुतमिति
॥२॥त्रैष्टुभान्येषां तृतीयसवनानि
॥३॥चतुर्थेऽहन्या देवो यातु प्र द्यावेति वासिष्ठं प्र ऋभुभ्यः प्रशुक्रैत्विति वैश्वदेवं । वैश्वानरस्य सुमतौ क ईं व्यक्ता अग्निं नर इत्याग्निमारुतं । अष्टादशोत्तमे विराजः
॥४॥द्विपदा एकादश मारुते । एकविंशतिवैश्वदेवसूक्ते
॥५॥पञ्चमस्योदुष्य देवः सविता दमूना इति तिस्रो मही द्यावापृथिवी इह ज्येष्ठे इति चतस्र ऋभुर्विभ्वास्तुषेजनमिति वैश्वदेवं । हविष्यान्तं वपुर्नु तदग्निर्होता गृहपतिः स राजेति तिस्र इत्याग्निमारुतं । उत्तमा वैश्वदेवसूक्ते साध्यासा । उत्तमा जातवेदस्ये
॥६॥सर्वत्राध्यासानुपसमस्य प्रणुयात्
॥७॥षष्ठस्योदुष्य देव इति गार्त्समदं किमु श्रेष्ठ उप नो वाजा इति त्रयोदशार्भवञ्चतस्रश्च वैश्वदेवसूक्ते तृचमन्त्यमुद्धरेदिति वैश्वदेवं
॥८॥अहश्च कृष्णं मध्वोवो नाम सप्रत्नथेत्याग्निमारुतं । इति पृष्ट्यः
॥९॥नवमः खण्डः
अथ छन्दोमाः
॥१॥समुद्रादूर्मिरित्याज्यं । आ वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छानौ नियुद्भिः शतिनीभिरध्वरं प्रसोतां जीरो अध्वरेष्वस्थाद्ये वायव इन्द्रमादनासो या वां शतं नियुतो याः सहस्रमित्येकपातिन्यः प्रयद्वां मित्रावरुणास्यूर्द्धन्ना गोमता नासत्या रथेना नो देव शवसायाहि शुष्मिन् प्रवो यज्ञेषु देवयन्तो अर्चन् प्रक्षोदसा धायसा सस्र एवेति प्रउगं
॥२॥माध्यन्दिने सूक्ते विपरिहृत्येतरयोर्निविदो दध्यात्
॥३॥एवमुत्तरयोश्चतुर्थपञ्चमे
॥४॥अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवाय जन्मन इति तृचा एभिरग्ने दुव इति वैश्वदेवं
॥५॥नित्यानि द्विपदासूक्तानि
॥६॥वैश्वानरो अजीजनदित्येका स विश्वं प्रति चाकॢपदृतूनुत्सृजते व्रशी । यज्ञस्य वय उत्तिरन् । वृषापावक दीदिह्यग्ने वैश्वानर द्युमत् । जमदग्निभिराहुतः । प्रयद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतं
॥७॥दशमः खण्डः
द्वितीयस्याग्निं वो देवमित्याज्यं । कुविदंग नमसा ये वृधासः पीवो अन्नाँ रयिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्रा इत्येकपातिन्य उशन्ता दूता नदभाय गोपा यावत्तरस्तन्वो यावदोज इत्येका द्वे च प्रति वाँ सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्राह्मण इन्द्रोपयाहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदु तस्या नः सरस्वती जुषाणेति प्रउगं
॥१॥हिरण्यपाणिमूतय इति चतस्रो मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ देवानामिदव इति वैश्वदेवं
॥२॥ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं । अजस्रं घर्ममीमहे । दिवि पृष्टो अरोचताग्निर्वैश्वानरो महान् । ज्योतिषा बाधते तमः । अग्निः प्रत्नेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको विराजति । क्रीडं वः शेर्द्धाग्ने मृडेत्याग्निमारुतं
॥३॥एकादशः खण्डः
तृतीयस्यागन्म महेत्याज्यं । प्रवीरया शुचयो दद्रिरेते ते सत्येन मनसा दीध्याना दिवि क्षयंता रजसः पृथिव्यामाविश्ववाराऽश्विनागतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आतु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादासरस्वत्यभि नो नेषिवस्य इति प्रउगं
॥१॥एकपातिन्य उत्तमः
॥२॥दोषो आगात् प्रवां महिद्यवी अभीति तृचाविन्द्रइषे ददातु नस्तेनो रत्नानि धत्तनेत्येका द्वे च ये त्रिंशतीति वैश्वदेवं
॥३॥वैश्वानरो न ऊतय आ प्रयातु परावतः । अग्निर्नः सुष्टुतीरुप । वैश्वानरो न आगमदिमं यज्ञं सजूरुप । अग्निंरुक्थेन वाहसा । वैश्वानरो अङ्गिरोभ्यः स्तोम उक्थञ्च चाकनत् । एषु द्युम्नं स्वर्यमत् । मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतं
॥४॥द्वादशः खण्डः
दशमेऽहनि अनुष्टुभां स्थाने । अग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये क्रतौ
॥१॥उषा अपस्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये
॥३॥आशुभ्रायातमश्विनास्वश्वेति तृचमाश्विने क्रतौ
॥४॥स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्ने घृतस्य धीतिभिरुभेसुश्चन्द्र सर्पिष इत्येते
॥५॥इदमापः प्रवहतेत्येतस्याः स्थान आपो अस्मान् मातरः शुन्धयन्त्विति । अच्छा वो अग्निमवसे प्रत्यस्मा इति तृचयोः स्थानेऽच्छा नः शीरशोचिषं प्रतिश्रुताय वो धृषदिति तृचावच्छावाकः
॥६॥परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणमिति । उत्तिष्ठतावपश्यतेत्येतस्याः स्थान उत्तिष्ठन्नोजसा सहेति । उरु विष्णो विक्रमस्वेति घृतयाज्यास्थाने भवामित्रो न शेव्यो घृतासुतिरिति
॥७॥अहरहश्चाहर्गणेषु यत्रैतदहः स्यात्
॥८॥सिनीवाल्या अभ्यस्येदित्येके
॥९॥नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यमविवाक्यमित्येतदाचक्षते
॥१०॥संशये बहिर्वेदि स्वाध्यायप्रयोगः
॥११॥अन्तर्वेदीत्येके
॥१२॥न व्यञ्जनेनोपहितेन वाऽर्थः
॥१३॥प्रत्यसि त्वा प्रायश्चित्तं जुहुयुः
॥१४॥अग्ने तमद्याश्वं न स्तोमैरित्याज्यं
॥१५॥पञ्चाक्षरेण विग्रहः । दशाक्षरेण वा । आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति
॥१६॥सखाय आशिषामहीति तिस्र उष्णिहो मरुत्वाँ इन्द्रेति मरुत्वतीयं
॥१७॥कया नश्चित्र आभूवदित्येतासु रथन्तरं पृष्ठं । तस्य योनिं शंसेत्
॥१८॥बृहतश्च गाणगारिर्दशरात्रे युग्मान्वयत्वात्
॥१९॥तार्क्ष्येणैकपदा उपसंशस्य ऋगावानमेकपदाः शंसेदिन्द्रोविश्वस्य गोपतिरिति चतस्रः
॥२०॥उत्तमयोपसन्तानः
॥२१॥य इन्द्र सोमपातम इति षडुष्णिहो युध्मस्य त इति निष्केवल्यं
॥२२॥तत् सवितुर्वृणीमह इत्येतस्याः स्थानेऽभि त्यं देवं सवितारमोण्योरिति
॥२३॥ऋभुक्षण इत्यार्भवं । पश्वानतायुमिति द्वैपदं समिद्धमग्निं समिधा गिरा गृण इति तृचश्च द्विप्रतीकं जातवेदस्यं
॥२४॥चतुर्थेन व्यूल्हस्येतराणि सूक्तानि
॥२५॥वामदेव्यमग्निष्टोमसामाऽग्निं नरो दीधितिभिररण्योरिति स्तोत्रियानुरूपौ । अग्निष्टोम इदमहः
॥२६॥ऊर्ध्वं पत्नीसंयाजेभ्यः
॥२७॥त्रयोदशः खण्डः
गार्हपत्ये जुह्वतीह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट् स्वाहा वाडिति
॥१॥आग्नीध्रीय उप सृजं धरुणं मातरं धरुणो धयन् । रायस्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति
॥२॥सदः प्रसृप्य मानसेन स्तुवते
॥३॥यर्हि स्तुतं मन्येताध्वर्यवित्याह्वयीत
॥४॥हो होतरितीतरः
॥५॥आयङ्गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा व्याख्यास्वरेण चतुर्होतॄन् व्याचक्षीत
॥६॥देवा वा अध्वर्योः प्रजापतिगृहपतयः सत्रमासत
॥७॥ॐ होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु
॥८॥तेषां चित्तिः स्रुगासी३त् । चित्तमाज्यमासी३त् । वाग्वेदिरासी३त् । आधीतं बहिरासी३त् । केतो अग्निरासी३त् । विज्ञातमग्नीदासी३त् । प्राणो हविरासी३त् । सामाध्वर्युरासी३त् । वाचस्पतिर्होतासी३त् । मन उपवक्तासी३त्
॥९॥ते वा एतं ग्रहमगृह्णत । वाचस्पते विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम्नाद्यां गच्छ । यां देवाः प्रजापतिगृहपतय ऋद्धिमराध्नुवंस्तामृद्धिं रात्स्याम इति
॥१०॥अपव्रजत्यध्वर्युः
॥११॥अथ प्रजापतेस्तनूरितर उपांश्वनुद्रवति
॥१२॥ब्रह्मोद्यञ्च । ब्रह्मोद्यञ्चोपांश्वेवानुद्रवति । अन्नादा चान्नपत्नी च भद्रा च कल्याणी चानिलया चापभया चानाप्ता चानाप्या चानाधृष्या चाप्रतिधृष्या चापूर्वा चाभ्रातृव्या चेति तन्वः
॥१३॥अग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपतिर्वायुर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहाः । येषां वै गृहपतिं देवं विद्वान् गृहपतिर्भवति राध्नोति स गृहपतीराध्नुवन्ति ते यजमानाः । येषां वा अपहतपाप्मानं देवं विद्वान् गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नते
॥१४॥अध्वर्यो अरात्स्मेत्युच्चैः
॥१५॥एषा याज्या
॥१६॥एष वषट्कारः
॥१७॥नानुवषट्करोति । उक्तं वषट्कारानुमन्त्रणं
॥१८॥अरात्स्म होतरित्यध्वर्युः प्रत्याह
॥१९॥मनसाऽध्वर्युर्ग्रहं गृहीत्वा । मनसा भक्षमाहरति
॥२०॥मानसेषु भक्षेषु मनसोपह्वानं भक्षणे
॥२१॥मनसात्मानमाप्याय्यौदुम्बरीं समन्वारभ्य वाचं यच्छन्त्यानक्षत्रदर्शनात् । तत्रानधरान् पाणॐश्चिकीर्षेरन्
॥२२॥दृश्यमानेष्वध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात् युवन्तमिन्द्रापर्वता पुरोयुधेति जपन्तः
॥२३॥अध्वर्युपथेनेत्येके
॥२४॥दक्षिणस्य हविर्धानस्याधोक्षेणेत्येके
॥२५॥प्राप्य वरान् वृत्वा वाचं विसृजन्ते यदिहोनमकर्म यदत्यरीरिचाम प्रजापतिं तत्पितरमप्येत्विति
॥२७॥अथ वाचं निह्नवन्ते वागैतु वागुपैतु वागुप मैतु वागिति
॥२७॥उत्करदेशे सुब्रह्मण्यां त्रिराहूय वाचं विसृजन्ते
॥२८॥नित्यस्त्विह वाग्विसर्गः
॥२९॥एतावत् सात्रं होतृकर्मान्यत्र महाव्रतात्
॥३०॥तद् एषा अभियज्ञ गाथा गीयन्ते । अतिरात्रश् चतुर्विंशम् षळहाव् अभिजित् स्वराः । विषुवान् विश्वजिच् चैव छन्दोमा दशम व्रतम् । प्रायणीयश् चतुर्विंशम् पृष्ठ्यो अभिप्लव एव च । अभिजित् स्वर सामानो विषुवान् विश्वजित् तथा
॥३१॥छन्दोमा दशमम् च अह उत्तमम् तु महा व्रतम् । अहीन एकाहः सत्राणाम् प्रकृतिः समुदाह्रियते । यद्य् अन्य धीयते पूर्व धीयते तम् प्रतिग्रामन्त्य् अहानि पञ्चविंशतिर् यैर् वै संवत्सरो मितः । एतेषाम् एव प्रभवस् त्रीणि षष्टि शतानि यद् इति
॥३२॥तद्ये केचन छान्दोग्ये वाऽऽध्वर्यवे वा हौत्रामर्शाः समाम्नाता न तान् कुर्यादकृत्स्नत्वाद्धौत्रस्य
॥३३॥छन्दोगप्रत्ययं स्तोम स्तोत्रियः पृष्ठं संस्थेति
॥३४॥अध्वर्युप्रत्ययन्तु व्याख्यानं कामकालदेशदक्षिणानां दीक्षोपसत्प्रसवसंस्थोत्थानानामेतावत्त्वं हविषामुच्चैरुपांशुतायां हविषा चानुपूर्वं
॥३५॥एतेभ्य एवाहोभ्योऽहीनैकाहान् पश्चात्तरान् व्याख्यास्यामः
॥३६॥चतुर्दशः खण्डः
एतद्विदं ब्रह्मचारिणमनिराकृतिनं संवत्सरावमञ्चारयित्वा व्रतमनुयुज्यानुक्रोशिने प्रब्रूयादुत्तरमहः
॥१॥महानाम्नीरग्रे
॥२॥उदगयने पूर्वपक्षे श्रोष्यन् बहिर्ग्रामात् स्थालीपाकं तिलमिश्रं श्रपयित्वाऽऽचार्याय वेदयीत
॥३॥विदिते व्रतसंशयान् पृष्ट्वा लघुमात्राच्चेदापत्कारिताः स्युरन्वारब्धे जुहुयादग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अविराज एषः । तस्मै जुहोमि हविषा घृतेन मा देवानां मोमुहद्भागधेयं मो अस्माकं मोमुहद्भागधेयं स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा । यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । अयन्नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं शत्रून् जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ स्वाहा । असूयन्त्यै चानुमत्यै च स्वाहा । प्रदात्रे स्वाहा । व्याहृतिभिश्च पृथक्
॥४॥हुत्वाऽऽहैतं स्थालीपाकं सर्वमशानेति
॥५॥भुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापये त्वं व्रतानां व्रतपतिरसि व्रतञ्चरिष्यामि तच्छकेयन्तेन शकेयन्तेन राध्यासमिति
॥६॥समाप्य संमील्य वाचं यच्छेत् कालमभिसमीक्षमाणो यदा समयिष्यादाचार्येण
॥७॥एकरात्रमध्यायोपवादनात्
॥८॥त्रिरात्रं वा नित्याध्यायेन
॥९॥तमेव कालमभिसमीक्षमाण आचार्योऽहतेन वाससा त्रिः प्रदक्षिणं शिरः स मुखं वेष्टयित्वाऽऽहैतं कालमेवंभूतोऽस्वपन् भवेति
॥१०॥तङ्कालमस्वपन्नासीत
॥११॥अनुवक्ष्यमाणेऽपराजितायां दिश्यग्निं प्रतिष्ठाप्यासिमुदकमण्डलुमश्मानमित्युत्तरतोऽग्नेः कृत्वा वत्सतरीः प्रत्यगुदगसंश्रवणेबद्ध्वा
॥१२॥पश्चादग्नेराचार्यस्तृणेषूपविशेदपराजितां दिशमभिसमीक्षमाणः
॥१३॥ब्रह्मचारी लेपान् परिमृज्य प्रदक्षिणमग्निमाचार्यञ्च कृत्वोपसंगृह्य पश्चादाचार्यस्योपविशेत् तृणेष्वेव प्रत्यग्दक्षिणामभिसमीक्षमाणः
॥१४॥पृष्ठेन पृष्ठं सन्धाय ब्रूयान्मनसा महानाम्नीर्भो अनुब्रूहीति
॥१५॥पुनः पृष्ट्वाऽनुक्रोशिने संमील्यैवानुब्रूयात् सपुरीषपदास्त्रिः
॥१६॥अनूच्योन्मुच्योष्णीषमादित्यमीक्षयेत् । मित्रस्य त्वा चक्षुषा प्रतीक्षे । मित्रस्य त्वा चक्षषा समोक्षे
॥१७॥मित्रस्य वश् चक्षुषा अनुवीक्ष इति दिशः सम्भाराः । पुनर् आदित्यम् मित्रस्य त्वा चक्षुषा प्रतिपश्यामि यो अस्मान् द्वेष्टि यम् च वयम् द्विष्मस् तम् चक्षुषोर् हेतुर् ऋच्छत्व् इति
॥१८॥भूमिम् उपस्पृशेद् अग्न इळा नम इळा नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो नमो वो अस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वति । मा ते व्योम संदृशि । भद्रम् कर्णेभिः शृणुयाम देवाः शम् न इन्द्र अग्नी भवताम् अवोभिः स्तुषे जनम् सुव्रतम् नव्यसीभिः । कया नश् चित्र आ भुवद् इति तिस्रः स्योना पृथिवि भव इति । समाप्य समानम् सम्भार वर्जम्
॥१९॥एष द्वयोः स्वाध्यायधर्मः
॥१९॥आचार्यवदेकः
॥२०॥फाल्गुनाद्याऽऽश्रवणाया अनधीतपूर्वाणामध्यायः
॥२१॥तैष्याद्यधीतपूर्वाणामधीतपूर्वाणां
॥२२॥