मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

हरिहर अष्टोत्तरशत नाम स्तोत्रम्

3

स्कन्दपुराणम्

ध्यानम्

माधवोमाधवावीशौ सर्वसिद्धिविधायिनौ ।

वन्दे परस्परात्मानौ परस्परनुतिप्रियौ ॥

॥१॥

स्तोत्रम्

गोविन्द माधव मुकुन्द हरे मुरारे

शम्भो शिवेश शशिशेखर शूलपाणे ।

दामोदराच्युत जनार्दन वासुदेव

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥२॥

गङ्गाधरान्धकरिपो हर नीलकण्ठ

वैकुण्ठ कैटभरिपो कमठाब्जपाणे ।

भूतेश खण्डपरशो मृड चण्डिकेश

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥३॥

विष्णो नृसिंह मधुसूदन चक्रपाणे

गौरीपते गिरिश शङ्कर चन्द्रचूड ।

नारायणासुरनिबर्हणा शार्ङ्गपाणे

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥४॥

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो

श्रीकान्त पीतवसनाम्बुदनील शौरे ।

ईशान कृत्तिवसन त्रिदशैकनाथ

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥५॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य

श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।

आनन्दकन्द धरणीधर पद्मनाभ

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥६॥

सर्वेश्वर त्रिपुरसूदन देवदेव

ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।

त्र्यक्षोरगाभरण बालमृगाङ्कमौले

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥७॥

श्रीराम राघव रमेश्वर रावणारे

भूतेश मन्मथरिपो प्रमथाधिनाथ ।

चाणूरमर्दन हृषीकपते मुरारे

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥८॥

शूलिन् गिरीश रजनीशकलावतंस

कंसप्रणाशन सनातन केशिनाश ।

भर्ग त्रिनेत्र भव भूतपते पुरारे

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥९॥

गोपीपते यदुपते वसुदेवसूनो

कर्पूरगौर वृषभध्वज भालनेत्र ।

गोवर्धनोद्धरण धर्मधुरीण गोप

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥१०॥

स्थाणो त्रिलोचन पिनाकधर स्मरारे

कृष्णानिरुद्ध कमलाकर कल्मषारे ।

विश्वेश्वर त्रिपथगार्द्रजटाकलाप

त्याज्या भटा य इति सन्ततमामनन्ति ॥

॥११॥

अष्टोत्तराधिकशतेन सुचारुनाम्नां

सन्दर्भितां ललितरत्नकदम्बकोन ।

सन्नामकां दृढगुणां द्विजकण्ठगां यः

कुर्यादिमांस्रजमहो स यमं न पश्येत् ॥

॥१२॥

अगस्तिरुवाच

यो धर्मराजरचितां ललितप्रबन्धां

नामावलीं सकलकल्मषबीजहन्त्रीम् ।

धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य

नित्यं जपेत् स्तनरसं स पिबेन्न मातुः ॥

॥१३॥

इति श्रीस्कन्दमहापुराणे काशीखण्डपूर्वार्धे यमप्रोक्तं श्रीहरिहराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्