परम्परा
कमलाकुच-चूचुक-कुङ्कुमतो नियतारुणितातुल-नीलतनो ।
कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥
॥१॥सचतुर्मुख-षण्मुख-पञ्चमुख-प्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥
॥२॥अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥
॥३॥अधिवेङ्कटशैलमुदारमते जनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये ॥
॥४॥कलवेणुरवावशगोपवधू शतकोटिवृतात्स्मरकोटिसमात् ।
प्रतिवल्लविकाभिमतात्सुखदाद् वसुदेवसुतान्न परं कलये ॥
॥५॥अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥
॥६॥अवनीतनया-कमनीयकरं रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहिरं महनीयमहं रघुराम मये ॥
॥७॥सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुखायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥
॥८॥विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥
॥९॥अहं दूरतस्ते पदाम्भोजयुग्म
प्रणामेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥
॥१०॥अज्ञानिना मया दोषानशेषान् विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैल-शिखामणे ॥
॥११॥इति श्री-वेङ्कटेश-स्तोत्रं सम्पूर्णम्