मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

जगन्नाथाष्टकम्

Also spelled: Jagannathashtakam

3

श्रीशङ्करभगवत्पादकृतम्

कदाचित्कालिन्दीतटविपिनसङ्गीतकरवो

मुदा गोपीनारीवदनकमलास्वादमधुपः ।

रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥१॥

भुजे सव्ये वेणुं शिरसि शिखिपिंछं कटितटे

दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते ।

सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥२॥

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे

वसन् प्रासादान्तस्सहजबलभद्रेण बलिना ।

सुभद्रामध्यस्थस्सकलसुरसेवावसरदो

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥३॥

कृपापारावारास्सजलजलदश्रेणिरुचिरो

रमावाणीसौमस्सुरदमलपद्मोद्भवमुखैः ।

सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥४॥

रथारूढो गच्छन् पथि मिलितभूदेवपटलैः

स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः ।

दयासिन्धुर्बन्धुस्सकलजगता सिन्धुसुतया

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥५॥

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो

निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।

रसानन्दो राधासरसवपुरालिङ्गनसखो

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥६॥

न वै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं

न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् ।

सदा काले काले प्रमथपतिना गीतचरितो

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥७॥

हर त्वं संसारं द्रुततरमसारं सुरपते

हर त्वं पापानां विततिमपरां यादवपते ।

अहो दीनानाथं निहितमचलं निश्चितपदं

जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥

॥८॥

इति श्रीमच्छङ्कराचार्यप्रणीतं जगन्नाथाष्टकं सम्पूर्णम् ।