मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

विष्णोः अष्टोत्तरशत दिव्यस्थानीय नाम स्तोत्रम्

3

पारम्परिकम्

अष्टोत्तरशतस्थानेष्वाविर्भूतं जगत्पतिम् ।

नमामि जगतामीशं नारायणमनन्यधीः ॥

॥१॥

श्रीवैकुण्ठे वासुदेवमामोदे कर्षणाह्वयम् ।

प्रद्युम्नं च प्रमोदाख्ये सम्मोदे चानिरुद्धकम् ॥

॥२॥

सत्यलोके तथा विष्णुं पद्माक्षं सूर्यमण्डले ।

क्षीराब्धौ शेषशयनं श्वेतद्वीपेतु तारकम् ॥

॥३॥

नारायणं बदर्याख्ये नैमिषे हरिमव्ययम् ।

शालग्रामं हरिक्षेत्रे अयोध्यायां रघूत्तमम् ॥

॥४॥

मथुरायां बालकृष्णं मायायां मधुसूदनम् ।

काश्यां तु भोगशयनमवन्त्यामवनीपतिम् ॥

॥५॥

द्वारवत्यां यादवेन्द्रं व्रजे गोपीजनप्रियम् ।

वृन्दावने नन्दसूनुं गोविन्दं कालियह्रदे ॥

॥६॥

गोवर्धने गोपवेषं भवघ्नं भक्तवत्सलम् ।

गोमन्तपर्वते शौरिं हरिद्वारे जगत्पतिम् ॥

॥७॥

प्रयागे माधवं चैव गयायां तु गदाधरम् ।

गङ्गासागरगे विष्णुं चित्रकूटे तु राघवम् ॥

॥८॥

नन्दिग्रामे राक्षसघ्नं प्रभासे विश्वरूपिणम् ।

श्रीकूर्मे कूर्ममचलं नीलाद्रौ पुरुषोत्तमम् ॥

॥९॥

सिंहाचले महासिंहं गदिनं तुलसीवने ।

घृतशैले पापहरं श्वेताद्रौ सिंहरूपिणम् ॥

॥१०॥

योगानन्दं धर्मपुर्यां काकुले त्वान्ध्रनायकम् ।

अहोबिले गारुडाद्रौ हिरण्यासुरमर्दनम् ॥

॥११॥

विट्ठलं पाण्डुरङ्गे तु वेङ्कटाद्रौ रमासखम् ।

नारायणं यादवाद्रौ नृसिंहं घटिकाचले ॥

॥१२॥

वरदं वारणगिरौ काञ्च्यां कमललोचनम् ।

यथोक्तकारिणं चैव परमेशपुराश्रयम् ॥

॥१३॥

पाण्डवानां तथा दूतं त्रिविक्रममथोन्नतम् ।

कामासिक्यां नृसिंहं च तथाष्टभुजसज्ञकम् ॥

॥१४॥

मेघाकारं शुभाकारं शेषाकारं तु शोभनम् ।

अन्तरा शितिकण्ठस्य कामकोट्यां शुभप्रदम् ॥

॥१५॥

कालमेघं खगारूढं कोटिसूर्यसमप्रभम् ।

दिव्यं दीपप्रकाशं च देवानामधिपं मुने ॥

॥१६॥

प्रवालवर्णं दीपाभं काञ्च्यामष्टादशस्थितम् ।

श्रीगृध्रसरसस्तीरे भान्तं विजयराघवम् ॥

॥१७॥

वीक्षारण्ये महापुण्ये शयानं वीरराघवम् ।

तोताद्रौ तुङ्गशयनं गजार्तिघ्नं गजस्थले ॥

॥१८॥

महाबलं बलिपुरे भक्तिसारे जगत्पतिम् ।

महावराहं श्रीमुष्णे महीन्द्रे पद्मलोचनम् ॥

॥१९॥

श्रीरङ्गे तु जगन्नाथं श्रीधामे जानकीप्रियम् ।

सारक्षेत्रे सारनाथं खण्डने हरचापहम् ॥

॥२०॥

श्रीनिवासस्थले पूर्णं सुवर्णं स्वर्णमन्दिरे ।

व्याघ्रपुर्यां महाविष्णुं भक्तिस्थाने तु भक्तिदम् ॥

॥२१॥

श्वेतह्रदे शान्तमूर्तिमग्निपुर्यां सुरप्रियम् ।

भर्गाख्यं भार्गवस्थाने वैकुण्ठाख्ये तु माधवम् ॥

॥२२॥

पुरुषोत्तमे भक्तसखं चक्रतीर्थे सुदर्शनम् ।

कुम्भकोणे चक्रपाणिं भूतस्थाने तु शार्ङ्गिणम् ॥

॥२३॥

कपिस्थले गजार्तिघ्नं गोविन्दं चित्रकूटके ।

अनुत्तमं चोत्तमायां श्वेताद्रौ पद्मलोचनम् ॥

॥२४॥

पार्थस्थले परब्रह्म कृष्णाकोट्यां मधुद्विषम् ।

नन्दपुर्यां महानन्दं वृद्धपुर्यां वृषाश्रयम् ॥

॥२५॥

असङ्गं सङ्गमग्रामे शरण्ये शरणं महत् ।

दक्षिणद्वारकायां तु गोपालं जगतां पतिम् ॥

॥२६॥

सिंहक्षेत्रे महासिंहं मल्लारिं मणिमण्डपे ।

निबिडे निबिडाकारं धानुष्के जगदीश्वरम् ॥

॥२७॥

मौहूरे कालमेघं तु मधुरायां तु सुन्दरम् ।

वृषभाद्रौ महापुण्ये परमस्वामिसज्ञकम् ॥

॥२८॥

श्रीमद्वरगुणे नाथं कुरुकायां रमासखम् ।

गोष्ठीपुरे गोष्ठपतिं शयानं दर्भसंस्तरे ॥

॥२९॥

धन्विमङ्गलके शौरिं बलाढ्यं भ्रमरस्थले ।

कुरङ्गे तु तथा पूर्णं कृष्णामेकं वटस्थले ॥

॥३०॥

अच्युतं क्षुद्रनद्यां तु पद्मनाभमनन्तके ।

एतानि विष्णोः स्थानानि पूजितानि महात्मभिः ॥

॥३१॥

अधिष्ठितानि देवेश तत्रासीनं च माधवम् ।

यः स्मरेत्सततं भक्त्या चेतसानन्यगामिना ॥

॥३२॥

स विधूयातिसंसारबन्धं याति हरेः पदम् ।

अष्टोत्तरशतं विष्णोः स्थानानि पठता स्वयम् ॥

॥३३॥

अधीताः सकला वेदाः कृताश्च विविधा मखाः ।

सम्पादिता तथा मुक्तिः परमानन्ददायिनी ॥

॥३४॥

अवगाढानि तीर्थानि ज्ञातः स भगवान् हरिः

आद्यमेतत्स्वयं व्यक्तं विमानं रङ्गसज्ञकम्

श्रीमुष्णं वेङ्कटाद्रिं च शालग्रामं च नैमिषम् ॥

॥३५॥

तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् ।

अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥

॥३६॥

इति श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्