मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवी मानस पूजा

देवी मानस पूजा. Also called devi manasa puja, devi manasa pooja, manasa puja, devi manasika puja.

3

चतुःषष्ट्युपचारात्मकाद् द्विसप्ततिश्लोकात्मकात् स्तोत्रात् प्रसिद्धोपचारप्रतिपादकाः श्लोका अत्र सङ्गृहीताः।

सुप्रभातम्

उषसि मागधमङ्गलगायनैः झटिति जागृहि जागृहि जागृहि।

अतिकृपार्द्रकटाक्षनिरीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥

आवाहनम्

कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम्।

मणिमयमण्टपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥

आसनम्

कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे।

भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं रत्नपीठे निधाय ॥ ३ ॥

पाद्यम्

दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम्।

पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ४ ॥

अर्घ्यम्

गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम्।

हेमपात्रनिहितं सह रत्नैः अर्घ्यमेतदुररीकुरु मातः ॥ ५ ॥

आचमनीयम्

जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धयुक्तैः।

अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥ ६ ॥

मधुपर्कः

निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत्।

तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ ७ ॥

स्नानम्

एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम्।

सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ८ ॥

मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः।

केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ ९ ॥

वस्त्रम्

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्।

मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १० ॥

अलङ्काराः

बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान् कङ्कतैर्मार्जयित्वा।

सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन् वेष्टयामि ॥ ११ ॥

मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले।

केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १२ ॥

धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम्।

मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ १३ ॥

चन्दनकुङ्कुमधारणम्

मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः।

वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥ १४ ॥

अक्षतसमर्पणम्

रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः।

अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ १५ ॥

सिन्दूरम्

सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति।

बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिः अन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ १६ ॥

पुष्पार्चनम्

पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः।

अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ १७ ॥

धूपः

लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैः गोसर्पिषा लोडितैः।

श्रीखण्डागरुगुग्गुलुप्रभृतिभिः नानाविधैर्वस्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात् त्वमङ्गीकुरु ॥

अलङ्कारदीपः

रत्नालङ्कृतहेमपात्रनिहितैः गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः।

आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ १९ ॥

नैवेद्यम्

मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः।

एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ २० ॥

उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे।

कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ २१ ॥

अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम्।

पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ २२ ॥

जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि।

सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ २३ ॥

ताम्बूलम्

एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि।

ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ २४ ॥

नीराजनम्

महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान्।

बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टान् भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ २५ ॥

सविनयमथ दत्त्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकं ते।

मुखकमलसमीपे तेऽम्ब सार्धं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ २६ ॥

स्वर्णपुष्पाञ्जलिः — दक्षिणा

अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः।

मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ २७ ॥

छत्रम्

मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्।

भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ २८ ॥

चामरम्

शरदिन्दुमरीचिगौरवर्णैः मणिमुक्ताविलसत्सुवर्णदण्डैः।

जगदम्ब विचित्रचामरैस्त्वाम् अहमानन्दभरेण वीजयामि ॥

दर्पणम्

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते।

पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीयम् अस्मिन् विलोकय विलोलविलोचने त्वम् ॥ ३० ॥

गीतम्

विपञ्चीषु सप्तस्वरान्वादयन्त्यः तव द्वारि गायन्ति गन्धर्वकन्याः।

क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥

स्तोत्रम्

तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः।

तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ३२ ॥

प्रदक्षिणम्

पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति।

तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ३३ ॥

नमस्कारः

रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम्।

अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ३४ ॥

पुष्पाञ्जलिः

चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा।

शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ३५ ॥

शयनम्

क्षणमथ जगदम्ब मञ्चकेऽस्मिन् मृदुतरतूलिकया विराजमाने।

अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती ॥

ध्यानम्

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ताम् अक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिणेत्राम्।

नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥

अपराधक्षमापणम्

एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व।

न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥

सायं दीपप्रार्थना

सायं दीपं प्रज्वाल्य।

शुभं करोतु कल्याणमारोग्यं सुखसंपदम्।

मम बुद्धिप्रकाशं च दीपज्योतिर्नमोऽस्तु ते ॥