मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्री सत्यनारायण पूजा

श्री सत्यनारायण पूजा. Also called satyanarayana puja, satyanarayana pooja, satyanarayan katha, satya narayana vratam.

3

पौर्णमास्यां विशेषेण क्रियते। दीपावल्याममावास्यायामष्टम्यां द्वादश्यां भानुसोमशुक्रवासरेषु मासप्रवेशदिनेषु च रात्रौ कर्तुं शक्यते। सर्वमङ्गलधनधान्यवंशसमृद्धिकामैः सर्वैः पूज्यः। कथा अत्र न मुद्रिता।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसत्यनारायणप्रीत्यर्थं यथाशक्ति ध्यानावाहनादिषोडशोपचारैः सत्यनारायणपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

सत्यनारायणध्यानम्

सत्यनारायणं देवं वन्दे पक्षीन्द्रसंस्थितम्।

शुक्लवर्णं पीतवासं देवदेवं चतुर्भुजम् ॥

शङ्खचक्रगदापद्मं धारयन्तं मनोहरम्।

क्षीरोदतनयायुक्तं वनमालाविभूषितम् ॥

वन्दे सत्यं गुणातीतं गुणत्रयसमन्वितम्।

लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ॥

नीलवर्णं पीतवासं श्रीवत्सपदभूषितम्।

गोविन्दं गोकुलानन्दं ब्रह्माद्यैरपि पूजितम् ॥

आवाहनम्

आगच्छ देव देवेश तेजोराशे जगत्पते।

क्रियमाणां मया पूजां गृहाण सुरसत्तम ॥

श्रीलक्ष्मीसहितश्रीसत्यनारायणं साङ्गं सपरिवारं ध्यायामि, आवाहयामि ॥

आसनम्

नानारत्नसमायुक्तं कार्तस्वरविभूषितम्।

आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम् ॥

सत्यनारायणाय नमः। आसनं समर्पयामि ॥

पाद्यम्

गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनया हृतम्।

तोयमेतत् सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥

सत्यनारायणाय नमः। पाद्यं समर्पयामि ॥

अर्घ्यम्

नमस्ते देवदेवेश नमस्ते धरणीधर।

नमस्ते कमलाकान्त गृहाणार्घ्यं नमोऽस्तु ते ॥

सत्यनारायणाय नमः। अर्घ्यं समर्पयामि ॥

आचमनीयम्

कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम्।

आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ॥

सत्यनारायणाय नमः। आचमनीयं समर्पयामि ॥

स्नानम्

गङ्गा च यमुना चैव नर्मदा च सरस्वती।

तापी पयोष्णी रेवा च ताभ्यः स्नानार्थमाहृतम् ॥

सत्यनारायणाय नमः। पयःस्नानं, दधिस्नानं, घृतस्नानं, मधुस्नानं, शर्करास्नानं च समर्पयामि ॥ तदनन्तरं शुद्धोदकस्नानं समर्पयामि ॥

गन्धोदकस्नानम्

हरिचन्दनसम्भूतं हरिप्रीतेश्च गौरवात्।

सुरभिप्रिय गोविन्द गन्धं स्नानाय गृह्यताम् ॥

सत्यनारायणाय नमः। गन्धोदकस्नानं समर्पयामि ॥

अभ्यङ्गस्नानम्

अभ्यङ्गार्थं महीपाल तैलं पुष्पादिसम्भवम्।

सुगन्धद्रव्यसंमिश्रं संगृहाण जगत्पते ॥

सत्यनारायणाय नमः। अभ्यङ्गस्नानं समर्पयामि ॥ आचमनीयं समर्पयामि ॥ ओं नमो नारायणाय इति द्वादशवारं जपेत् ॥

वस्त्रम्

तप्तकाञ्चनवर्णाभे अनर्घमृदुले शुभे।

पाहि मां पुण्डरीकाक्ष वाससी प्रतिगृह्यताम् ॥

सत्यनारायणाय नमः। वस्त्रयुग्मं समर्पयामि ॥

कञ्चुकी

नवरत्नादिभिर्बद्धां सौवर्णैश्चैव तन्तुभिः।

निर्मितां कञ्चुकीं भक्त्या गृहाण परमेश्वरि ॥

महालक्ष्म्यै नमः। कञ्चुकीं समर्पयामि ॥ कण्ठसूत्रं समर्पयामि। हरिद्रां समर्पयामि ॥ कुङ्कुमं समर्पयामि ॥ कज्जलं समर्पयामि ॥ सिन्दूरं समर्पयामि। नानाभरणानि समर्पयामि ॥ नानापरिमलद्रव्यं समर्पयामि ॥

यज्ञोपवीतम्

ब्रह्मविष्णुमहेशैश्च निर्मितं ब्रह्मसूत्रकम्।

यज्ञोपवीतं तद्दानात् प्रीयतां कमलापतिः ॥

सत्यनारायणाय नमः। यज्ञोपवीतं समर्पयामि ॥

गन्धः

गोरोचनं चन्दनदेवदारुकर्पूरकृष्णागरुनागराणि।

कस्तूरिकाकेसरमिश्रितानि यथोचितं सत्य मयार्पितानि ॥

सत्यनारायणाय नमः। गन्धं समर्पयामि ॥

अक्षताः

श्वेतचन्दनसंयुक्तान् कुङ्कुमेन विराजितान्।

समर्पयेऽक्षतान् देव नारायण नमोऽस्तु ते ॥

सत्यनारायणाय नमः। अक्षतान् समर्पयामि ॥

पुष्पाणि

सेवन्तिकावकुलचम्पकपाटलाब्जैः पुन्नागजातिकरवीररसालपुष्पैः।

बिल्वप्रवालतुलसीदलमालतीभिस्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥

सत्यनारायणाय नमः। पुष्पाणि समर्पयामि ॥

वैजयन्तीमाला

तुलसीकुन्दमन्दारपारिजाताम्बुजैस्तथा।

पञ्चभिर्ग्रथिता माला वैजयन्तीति कथ्यते ॥

सत्यनारायणाय नमः। वैजयन्तीमालां समर्पयामि ॥

अलङ्काराः

कटिसूत्राङ्गुलीये च कुण्डले मकुटं तथा।

वनमालां कौस्तुभं च गृहाण पुरुषोत्तम ॥

सत्यनारायणाय नमः। नानालङ्कारान् समर्पयामि ॥

अङ्गपूजा
श्रीसत्यपरब्रह्मणे नमःपादौ पूजयामि।
संकर्षणाय नमःगुल्फौ पूजयामि।
कालात्मने नमःजानुनी पूजयामि।
विश्वरूपाय नमःजङ्घे पूजयामि।
विश्वाय नमःकटिं पूजयामि।
पद्मनाभाय नमःनाभिं पूजयामि।
परमात्मने नमःहृदयं पूजयामि।
वैकुण्ठाय नमःकण्ठं पूजयामि।
सर्वास्त्रधारिणे नमःबाहून् पूजयामि।
वाचस्पतये नमःमुखं पूजयामि।
हरये नमःजिह्वां पूजयामि।
दामोदराय नमःदन्तान् पूजयामि।
सहस्राक्षाय नमःनेत्रे पूजयामि।
केशवाय नमःललाटं पूजयामि।
सर्वात्मने नमःशिरः पूजयामि।
श्रीलक्ष्मीसहितश्रीसत्यनारायणाय नमःसर्वाण्यङ्गानि पूजयामि।
अष्टोत्तरशतनामार्चना

तुलसीदलैः अर्चना ॥

सत्यनारायण अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ नारायणाय नमः
  2. २ॐ नराय नमः
  3. ३ॐ शौरये नमः
  4. ४ॐ चक्रपाणये नमः
  5. ५ॐ जनार्दनाय नमः
  6. ६ॐ वासुदेवाय नमः
  7. ७ॐ जगद्योनये नमः
  8. ८ॐ वामनाय नमः
  9. ९ॐ ज्ञानपञ्जराय नमः
  10. १०ॐ श्रीवल्लभाय नमः
  11. ११ॐ जगन्नाथाय नमः
  12. १२ॐ चतुर्मूर्तये नमः
  13. १३ॐ व्योमकेशाय नमः
  14. १४ॐ हृषीकेशाय नमः
  15. १५ॐ शङ्कराय नमः
  16. १६ॐ गरुडध्वजाय नमः
  17. १७ॐ नारसिंहाय नमः
  18. १८ॐ महादेवाय नमः
  19. १९ॐ स्वयम्भुवे नमः
  20. २०ॐ भुवनेश्वराय नमः
  21. २१ॐ श्रीधराय नमः
  22. २२ॐ देवकीपुत्राय नमः
  23. २३ॐ पार्थसारथये नमः
  24. २४ॐ अच्युताय नमः
  25. २५ॐ शङ्खपाणये नमः
  26. २६ॐ परञ्ज्योतिषे नमः
  27. २७ॐ आत्मज्योतिषे नमः
  28. २८ॐ अचञ्चलाय नमः
  29. २९ॐ श्रीवत्साङ्काय नमः
  30. ३०ॐ अखिलाधाराय नमः
  31. ३१ॐ सर्वलोकप्रतिप्रभवे नमः
  32. ३२ॐ त्रिविक्रमाय नमः
  33. ३३ॐ त्रिकालज्ञानाय नमः
  34. ३४ॐ त्रिधाम्ने नमः
  35. ३५ॐ करुणाकराय नमः
  36. ३६ॐ सर्वज्ञाय नमः
  37. ३७ॐ सर्वगाय नमः
  38. ३८ॐ सर्वस्मै नमः
  39. ३९ॐ सर्वेशाय नमः
  40. ४०ॐ सर्वसाक्षिकाय नमः
  41. ४१ॐ हरये नमः
  42. ४२ॐ शार्ङ्गिणे नमः
  43. ४३ॐ हराय नमः
  44. ४४ॐ शेषाय नमः
  45. ४५ॐ हलायुधाय नमः
  46. ४६ॐ सहस्रबाहवे नमः
  47. ४७ॐ अव्यक्ताय नमः
  48. ४८ॐ सहस्राक्षाय नमः
  49. ४९ॐ अक्षराय नमः
  50. ५०ॐ क्षराय नमः
  51. ५१ॐ गजारिघ्नाय नमः
  52. ५२ॐ केशवाय नमः
  53. ५३ॐ केशिमर्दनाय नमः
  54. ५४ॐ कैटभारये नमः
  55. ५५ॐ अविद्यारये नमः
  56. ५६ॐ कामदाय नमः
  57. ५७ॐ कमलेक्षणाय नमः
  58. ५८ॐ हंसशत्रवे नमः
  59. ५९ॐ अधर्मशत्रवे नमः
  60. ६०ॐ काकुत्स्थाय नमः
  61. ६१ॐ खगवाहनाय नमः
  62. ६२ॐ नीलाम्बुदद्युतये नमः
  63. ६३ॐ नित्याय नमः
  64. ६४ॐ नित्यतृप्ताय नमः
  65. ६५ॐ नित्यानन्दाय नमः
  66. ६६ॐ सुराध्यक्षाय नमः
  67. ६७ॐ निर्विकल्पाय नमः
  68. ६८ॐ निरञ्जनाय नमः
  69. ६९ॐ ब्रह्मण्याय नमः
  70. ७०ॐ पृथिवीनाथाय नमः
  71. ७१ॐ पीतवाससे नमः
  72. ७२ॐ गुहाश्रयाय नमः
  73. ७३ॐ वेदगर्भाय नमः
  74. ७४ॐ विभवे नमः
  75. ७५ॐ विष्णवे नमः
  76. ७६ॐ श्रीमते नमः
  77. ७७ॐ त्रैलोक्यभूषणाय नमः
  78. ७८ॐ यज्ञमूर्तये नमः
  79. ७९ॐ अमेयात्मने नमः
  80. ८०ॐ वरदाय नमः
  81. ८१ॐ वासवानुजाय नमः
  82. ८२ॐ जितेन्द्रियाय नमः
  83. ८३ॐ जितक्रोधाय नमः
  84. ८४ॐ समदृष्टये नमः
  85. ८५ॐ सनातनाय नमः
  86. ८६ॐ भक्तप्रियाय नमः
  87. ८७ॐ जगत्पूज्याय नमः
  88. ८८ॐ परमात्मने नमः
  89. ८९ॐ असुरान्तकाय नमः
  90. ९०ॐ सर्वलोकानामन्तकाय नमः
  91. ९१ॐ अनन्ताय नमः
  92. ९२ॐ अनन्तविक्रमाय नमः
  93. ९३ॐ मायाधाराय नमः
  94. ९४ॐ निराधाराय नमः
  95. ९५ॐ सर्वाधाराय नमः
  96. ९६ॐ धराधाराय नमः
  97. ९७ॐ निष्कलङ्काय नमः
  98. ९८ॐ निराभासाय नमः
  99. ९९ॐ निष्प्रपञ्चाय नमः
  100. १००ॐ निरामयाय नमः
  101. १०१ॐ भक्तवश्याय नमः
  102. १०२ॐ महोदाराय नमः
  103. १०३ॐ पुण्यकीर्तये नमः
  104. १०४ॐ पुरातनाय नमः
  105. १०५ॐ त्रिकालज्ञाय नमः
  106. १०६ॐ विष्टरश्रवसे नमः
  107. १०७ॐ चतुर्भुजाय नमः
  108. १०८ॐ श्रीसत्यनारायणस्वामिने नमः
धूपः

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

सत्यनारायणाय नमः। धूपम् आघ्रापयामि ॥

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।

त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥

सत्यनारायणाय नमः। दीपं दर्शयामि ॥

नैवेद्यम्

रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम्।

शर्करायुक्तनैवेद्यं सपादं भक्ष्यमुत्तमम् ॥

सत्यनारायणाय नमः। नैवेद्यं समर्पयामि। मध्ये पानीयं समर्पयामि।

ताम्बूलम्

पूगीफलं सकर्पूरं नागवल्लीदलैर्युतम्।

एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

सत्यनारायणाय नमः। ताम्बूलं समर्पयामि ॥

कर्पूरनीराजनम्

कर्पूरकं महाराज रम्भोद्भूतं च दीपकम्।

मङ्गलार्थं महीपाल संगृहाण जगत्पते ॥

सत्यनारायणाय नमः। कर्पूरनीराजनं समर्पयामि ॥

प्रदक्षिणम्

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम।

तस्मात् कारुण्यभावेन रक्ष रक्ष रमापते ॥

सत्यनारायणाय नमः। प्रदक्षिणं समर्पयामि ॥

नमस्कारः

नमः सर्वहितार्थाय जगदाधारहेतवे।

साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥

सत्यनारायणाय नमः। नमस्कारान् समर्पयामि ॥

राजोपचाराः

गृहाण परमेशान सरत्ने छत्रचामरे।

दर्पणं व्यजनं चैव राजभोगाय यत्नतः ॥

सत्यनारायणाय नमः। छत्रं समर्पयामि। चामरं समर्पयामि। गीतं समर्पयामि। नृत्यं समर्पयामि। वाद्यं समर्पयामि। समस्तराजोपचारान् समर्पयामि ॥

मन्त्रपुष्पम्

विद्याबुद्धिधनैश्वर्यपुत्रपौत्रादिसम्पदः।

पुष्पाञ्जलिप्रदानेन देहि मे ईप्सितं वरम् ॥

मन्त्रपुष्पं समर्पयामि ॥

प्रार्थना

यन्मया भक्तियुक्तेन पत्रं पुष्पं फलं जलम्।

निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया ॥

मन्त्रहीनं क्रियाहीनं विधिहीनं जनार्दन।

यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥

त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये।

गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम ॥

अमोघं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम्।

हृषीकेशं जगन्नाथं वागीशं वरदायकम्।

श्रीराधारमणं कृष्णं केशवं कमलापतिम्।

दामोदरं वासुदेवं मुकुन्दं पुरुषोत्तमम् ॥

प्रणमामि सदा भक्त्या नारायणमतः परम्।

दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते ॥

कुग्रामे च कुसङ्गे च कुरोगजनने विषे।

जलाग्निनृपचोरेभ्यः रक्ष रक्ष जनार्दन ॥

देवदानवभूतेभ्यः वनेषु वनवासिभिः।

शस्त्रेभ्यः सर्वदुःखेभ्यः पापेभ्यो रक्ष केशव।

निस्तारयस्व सर्वेषु तथाऽनिष्टभयेषु च।

नामान्येतानि संकीर्त्य चेप्सितं फलमाप्नुयात् ॥ ५ ॥

सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम्।

लीलया विततं विश्वं येन तस्मै नमो नमः ॥ ६ ॥

नवाम्भोजनेत्रं रमाकेलिपात्रं चतुर्बाहुचामीकरं चारुगात्रम्।

जगत्त्राणहेतुं रिपोर्धूमकेतुं सदा सत्यनारायणं नौमि देवम् ॥

विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम्।

पूर्णं भवतु तत्सर्वं त्वत्प्रसादात् जनार्दन ॥ ८ ॥

रूपं देहि यशो देहि भाग्यं केशव देहि मे।

धर्मान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे ॥ ९ ॥

आवाहनं न जानामि न जानामि विसर्जनम्।

पूजाविधिं न जानामि क्षमस्व पुरुषोत्तम ॥

समर्पणम्

अनया पूजया श्रीलक्ष्मीसहितश्रीसत्यनारायणः प्रीयताम् ॥