मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सिद्धि विनायक पूजा

सिद्धिविनायकपूजा. Also called ganesh chaturthi, ganesha chaturthi, ganesh chaturthi puja, vinayaka chaturthi.

3

आवणि-शुक्लचतुर्थ्यां (भाद्रपदशुक्लचतुर्थ्यां) आचर्यते। पूर्वाङ्गपूजा — आसनपूजा। घण्टापूजा। कलशपूजा। आत्मपूजा। पीठपूजा — तां पूर्वमाचर्य पश्चात् प्रधानपूजां कुर्यात्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसिद्धिविनायकप्रीत्यर्थं अस्माकं सहकुटुम्बानां क्षेमस्थैर्यवीर्यविजयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं समस्तमङ्गलावाप्त्यर्थं समस्तदुरितोपशान्त्यर्थं सिद्धिविनायकपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

सिद्धिविनायकध्यानम्

करिष्ये गणनाथस्य व्रतं संपत्करं शुभम्।

भक्तानामिष्टवरदं सर्वमङ्गलकारणम् ॥

एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्।

पाशांकुशधरं देवं नौमि सिद्धिविनायकम् ॥

वन्दे गजाननं देवं तप्तकाञ्चनसन्निभम्।

चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥

सिद्धिविनायकं ध्यायामि।

आवाहनम्

अत्रागच्छ जगद्वन्द्य सुरराजार्चितेश्वर।

अनाथनाथ सर्वज्ञ गीर्वाणासुरपूजित ॥

सिद्धिविनायकमावाहयामि।

आसनम्

अनेकरत्नखचितं मुक्तामणिविभूषितम्।

रत्नसिंहासनं चारु गणेश प्रतिगृह्यताम् ॥

सिद्धिविनायकाय नमः। आसनं समर्पयामि।

पाद्यम्

गौरीपुत्र नमस्तेऽस्तु दूर्वापद्मादि संयुतम्।

भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन ॥

सिद्धिविनायकाय नमः। पाद्यं समर्पयामि।

अर्घ्यम्

सिद्धार्थयवदूर्वाभिर्गन्धपुष्पाक्षतैर्युतम्।

तिलपुष्पसमायुक्तं गृहाणार्घ्यं गजानन ॥

सिद्धिविनायकाय नमः। अर्घ्यं समर्पयामि।

आचमनीयम्

कर्पूरागुरुपुष्पैश्च वासितं विमलं जलम्।

भक्त्या दत्तं मया देव कुरुष्वाचमनं प्रभो ॥

सिद्धिविनायकाय नमः। आचमनीयं समर्पयामि।

मधुपर्कः

दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम्।

गृहाण सर्वलोकेश गजवक्त्र नमोऽस्तु ते ॥

सिद्धिविनायकाय नमः। मधुपर्कं समर्पयामि।

पञ्चामृतम्

मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम्।

पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक ॥

सिद्धिविनायकाय नमः। पञ्चामृतं समर्पयामि।

स्नानम्

गङ्गादिपुण्यपानीयं गन्धपुष्पाक्षतैर्युतैः।

स्नानं कुरुष्व भगवन् उमापुत्र नमोऽस्तु ते ॥

सिद्धिविनायकाय नमः। स्नानं समर्पयामि। आचमनीयं समर्पयामि।

वस्त्रम्

रक्तवस्त्रद्वयं देव राजराजादिपूजित।

भक्त्या दत्तं गृहाणेदं भगवन् हरनन्दन ॥

सिद्धिविनायकाय नमः। वस्त्रयुग्मं समर्पयामि।

उपवीतम्

राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम्।

गृहाण चारु सर्वज्ञ भक्तानामिष्टदायक ॥

सिद्धिविनायकाय नमः। उपवीतं समर्पयामि।

गन्धः

चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमान्वितम्।

विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥

सिद्धिविनायकाय नमः। गन्धं समर्पयामि।

अक्षताः

अक्षतान् धवळान् दिव्यान् शालीयानक्षतान् शुभान्।

हरिद्राचूर्णसंयुक्तान् संगृहाण गणाधिप ॥

सिद्धिविनायकाय नमः। अक्षतान् समर्पयामि।

पुष्पम्

सुगन्धीनि च पुष्पाणि जाजीकुन्दमुखानि च।

एकविंशतिसद्रव्याणि गृहाण गणनायक ॥

सिद्धिविनायकाय नमः। पुष्पैः पूजयामि।

अङ्गपूजा
पार्वतीनन्दनाय नमःपादौ पूजयामि।
गणेशाय नमःगुल्फौ पूजयामि।
जगद्धात्रे नमःजङ्घे पूजयामि।
जगद्धल्लभाय नमःजानुनी पूजयामि।
उमापुत्राय नमःऊरू पूजयामि।
विकटाय नमःकटिं पूजयामि।
गुहाग्रजाय नमःगुह्यं पूजयामि।
महत्तमाय नमःमेढ्रं पूजयामि।
नाथाय नमःनाभिं पूजयामि।
उत्तमाय नमःउदरं पूजयामि।
विनायकाय नमःवक्षः पूजयामि।
पाशच्छिदे नमःपार्श्वौ पूजयामि।
हेरम्बाय नमःहृदयं पूजयामि।
कपिलाय नमःकण्ठं पूजयामि।
स्कन्दाग्रजाय नमःस्कन्धौ पूजयामि।
हरसूनवे नमःहस्तान् पूजयामि।
ब्रह्मचारिणे नमःबाहून् पूजयामि।
सुमुखाय नमःमुखं पूजयामि।
एकदन्ताय नमःदन्तौ पूजयामि।
विघ्ननेत्रे नमःनेत्रे पूजयामि।
शूर्पकर्णाय नमःकर्णौ पूजयामि।
फालचन्द्राय नमःफालं पूजयामि।
नागाभरणाय नमःनासिकां पूजयामि।
चिरन्तनाय नमःचुकं पूजयामि।
स्थूलौष्ठाय नमःओष्ठौ पूजयामि।
गळन्मदाय नमःगण्डौ पूजयामि।
कपिलाय नमःकचान् पूजयामि।
शिवप्रियाय नमःशिरः पूजयामि।
सर्वमङ्गळासुताय नमःसर्वाण्यङ्गानि पूजयामि।
अष्टोत्तरशतनामार्चना
विनायक अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ विनायकाय नमः
  2. २ॐ विघ्नराजाय नमः
  3. ३ॐ गौरीपुत्राय नमः
  4. ४ॐ गणेश्वराय नमः
  5. ५ॐ स्कन्दाग्रजाय नमः
  6. ६ॐ अव्ययाय नमः
  7. ७ॐ पूताय नमः
  8. ८ॐ दक्षाय नमः
  9. ९ॐ अध्यक्षाय नमः
  10. १०ॐ द्विजप्रियाय नमः
  11. ११ॐ अग्निगर्वच्छिदे नमः
  12. १२ॐ इन्द्रश्रीप्रदाय नमः
  13. १३ॐ वाणीप्रदायकाय नमः
  14. १४ॐ सर्वसिद्धिप्रदाय नमः
  15. १५ॐ शर्वतनयाय नमः
  16. १६ॐ शर्वरीप्रियाय नमः
  17. १७ॐ सर्वात्मकाय नमः
  18. १८ॐ सृष्टिकर्त्रे नमः
  19. १९ॐ देवानीकार्चिताय नमः
  20. २०ॐ शिवाय नमः
  21. २१ॐ सिद्धिबुद्धिप्रदाय नमः
  22. २२ॐ शान्ताय नमः
  23. २३ॐ ब्रह्मचारिणे नमः
  24. २४ॐ गजाननाय नमः
  25. २५ॐ द्वैमातुराय नमः
  26. २६ॐ मुनिस्तुत्याय नमः
  27. २७ॐ भक्तविघ्नविनाशनाय नमः
  28. २८ॐ एकदन्ताय नमः
  29. २९ॐ चतुर्बाहवे नमः
  30. ३०ॐ चतुराय नमः
  31. ३१ॐ शक्तिसंयुताय नमः
  32. ३२ॐ लम्बोदराय नमः
  33. ३३ॐ शूर्पकर्णाय नमः
  34. ३४ॐ हरये नमः
  35. ३५ॐ ब्रह्मविदुत्तमाय नमः
  36. ३६ॐ काव्याय नमः
  37. ३७ॐ ग्रहपतये नमः
  38. ३८ॐ कामिने नमः
  39. ३९ॐ सोमसूर्याग्निलोचनाय नमः
  40. ४०ॐ पाशाङ्कुशधराय नमः
  41. ४१ॐ चण्डाय नमः
  42. ४२ॐ गुणातीताय नमः
  43. ४३ॐ निरञ्जनाय नमः
  44. ४४ॐ अकल्मषाय नमः
  45. ४५ॐ स्वयंसिद्धाय नमः
  46. ४६ॐ सिद्धार्चितपदाम्बुजाय नमः
  47. ४७ॐ बीजापूरफलासक्ताय नमः
  48. ४८ॐ वरदाय नमः
  49. ४९ॐ शाश्वताय नमः
  50. ५०ॐ कृतिने नमः
  51. ५१ॐ द्विजप्रियाय नमः
  52. ५२ॐ वीतभयाय नमः
  53. ५३ॐ गदिने नमः
  54. ५४ॐ चक्रिणे नमः
  55. ५५ॐ इक्षुचापधृते नमः
  56. ५६ॐ श्रीदाय नमः
  57. ५७ॐ अजाय नमः
  58. ५८ॐ उत्पलकराय नमः
  59. ५९ॐ श्रीपतिस्तुतिहर्षिताय नमः
  60. ६०ॐ कुलाद्रिभेत्त्रे नमः
  61. ६१ॐ जटिलाय नमः
  62. ६२ॐ चन्द्रचूडाय नमः
  63. ६३ॐ अमरेश्वराय नमः
  64. ६४ॐ नागयज्ञोपवीतवते नमः
  65. ६५ॐ कलिकल्मषनाशनाय नमः
  66. ६६ॐ स्थूलकण्ठाय नमः
  67. ६७ॐ स्वयङ्कर्त्रे नमः
  68. ६८ॐ सामघोषप्रियाय नमः
  69. ६९ॐ पराय नमः
  70. ७०ॐ स्थूलतुण्डाय नमः
  71. ७१ॐ अग्रण्याय नमः
  72. ७२ॐ धीराय नमः
  73. ७३ॐ वागीशाय नमः
  74. ७४ॐ सिद्धिदायकाय नमः
  75. ७५ॐ दूर्वाबिल्वप्रियाय नमः
  76. ७६ॐ कान्ताय नमः
  77. ७७ॐ पापहारिणे नमः
  78. ७८ॐ समाहिताय नमः
  79. ७९ॐ आश्रितश्रीकराय नमः
  80. ८०ॐ सौम्याय नमः
  81. ८१ॐ भक्तवाञ्छितदायकाय नमः
  82. ८२ॐ शान्ताय नमः
  83. ८३ॐ अच्युतार्च्याय नमः
  84. ८४ॐ कैवल्याय नमः
  85. ८५ॐ सच्चिदानन्दविग्रहाय नमः
  86. ८६ॐ ज्ञानिने नमः
  87. ८७ॐ दयायुताय नमः
  88. ८८ॐ दान्ताय नमः
  89. ८९ॐ ब्रह्मद्वेषविवर्जिताय नमः
  90. ९०ॐ प्रमत्तदैत्यभयदाय नमः
  91. ९१ॐ व्यक्तमूर्तये नमः
  92. ९२ॐ अमूर्तिमते नमः
  93. ९३ॐ शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसाय नमः
  94. ९४ॐ स्वलावण्यसुधासारजितमन्मथविग्रहाय नमः
  95. ९५ॐ समस्तजगदाधाराय नमः
  96. ९६ॐ मायिने नमः
  97. ९७ॐ मूषकवाहनाय नमः
  98. ९८ॐ रमार्चिताय नमः
  99. ९९ॐ विधये नमः
  100. १००ॐ श्रीकण्ठाय नमः
  101. १०१ॐ विबुधेश्वराय नमः
  102. १०२ॐ चिन्तामणिद्वीपपतये नमः
  103. १०३ॐ परमात्मने नमः
  104. १०४ॐ गजाननाय नमः
  105. १०५ॐ हृष्टाय नमः
  106. १०६ॐ तुष्टाय नमः
  107. १०७ॐ प्रसन्नात्मने नमः
  108. १०८ॐ सर्वसिद्धिप्रदायकाय नमः
एकविंशतिपत्रपूजा
सुमुखाय नमःमालतीपत्रं समर्पयामि।
उमापुत्राय नमःमाचीपत्रं समर्पयामि।
हेरम्बाय नमःबृहतीपत्रं समर्पयामि।
लम्बोदराय नमःबिल्वपत्रं समर्पयामि।
द्विरदाननाय नमःदूर्वां समर्पयामि।
धूमकेतवे नमःदुर्धूरपत्रं समर्पयामि।
बृहते नमःबदरीपत्रं समर्पयामि।
अपवर्गदाय नमःअपामार्गपत्रं समर्पयामि।
ब्रह्मातुराय नमःतुलसीपत्रं समर्पयामि।
चिरन्तनाय नमःचूतपत्रं समर्पयामि।
कपिलाय नमःकरवीरपत्रं समर्पयामि।
विष्णुस्तुताय नमःविष्णुकान्तपत्रं समर्पयामि।
अमलाय नमःआमलकीपत्रं समर्पयामि।
महते नमःमरुवकपत्रं समर्पयामि।
सिन्धुराय नमःसिन्धूरपत्रं समर्पयामि।
गजाननाय नमःजातीपत्रं समर्पयामि।
गण्डगळन्दाय नमःगण्डलीपत्रं समर्पयामि।
शङ्करीप्रियाय नमःशमीपत्रं समर्पयामि।
भृङ्गराजकटाय नमःभृङ्गराजपत्रं समर्पयामि।
अर्जुनदन्ताय नमःअर्जुनपत्रं समर्पयामि।
अर्कप्रभाय नमःअर्कपत्रं समर्पयामि।
एकविंशतिपुष्पपूजा
पञ्चास्यगणपतये नमःपुन्नागपुष्पं समर्पयामि।
महागणपतये नमःमन्दारपुष्पं समर्पयामि।
धीरगणपतये नमःदाडिमपुष्पं समर्पयामि।
विष्वक्सेनगणपतये नमःबकुलपुष्पं समर्पयामि।
आमोदगणपतये नमःअमृणाळपुष्पं समर्पयामि।
प्रमथगणपतये नमःपाटलिपुष्पं समर्पयामि।
रुद्रगणपतये नमःद्रोणपुष्पं समर्पयामि।
विद्यागणपतये नमःदुर्धूरपुष्पं समर्पयामि।
विघ्नगणपतये नमःचम्पकपुष्पं समर्पयामि।
दुरितगणपतये नमःरसालपुष्पं समर्पयामि।
कामितार्थगणपतये नमःकेतकीपुष्पं समर्पयामि।
संमोहगणपतये नमःमाधवीपुष्पं समर्पयामि।
विष्णुगणपतये नमःश्यामकपुष्पं समर्पयामि।
ईशगणपतये नमःअर्कपुष्पं समर्पयामि।
गजास्यगणपतये नमःकल्हारपुष्पं समर्पयामि।
सर्वसिद्धिगणपतये नमःसेवन्तिकापुष्पं समर्पयामि।
वीरगणपतये नमःबिल्वपुष्पं समर्पयामि।
कन्दर्पगणपतये नमःकरवीरपुष्पं समर्पयामि।
ज्येष्ठगणपतये नमःकुन्दपुष्पं समर्पयामि।
ब्रह्मगणपतये नमःपारिजातपुष्पं समर्पयामि।
ज्ञानगणपतये नमःजातीपुष्पं समर्पयामि।
एकविंशतिदूर्वायुग्मपूजा
गणाधिपाय नमःदूर्वायुग्मं समर्पयामि।
पाशांकुशधराय नमःदूर्वायुग्मं समर्पयामि।
आखुवाहनाय नमःदूर्वायुग्मं समर्पयामि।
विनायकाय नमःदूर्वायुग्मं समर्पयामि।
ईशपुत्राय नमःदूर्वायुग्मं समर्पयामि।
सर्वसिद्धिप्रदाय नमःदूर्वायुग्मं समर्पयामि।
एकदन्ताय नमःदूर्वायुग्मं समर्पयामि।
इभवक्त्राय नमःदूर्वायुग्मं समर्पयामि।
मूषिकवाहनाय नमःदूर्वायुग्मं समर्पयामि।
कुमारगुरवे नमःदूर्वायुग्मं समर्पयामि।
कपिलवर्णाय नमःदूर्वायुग्मं समर्पयामि।
ब्रह्मचारिणे नमःदूर्वायुग्मं समर्पयामि।
मोदकहस्ताय नमःदूर्वायुग्मं समर्पयामि।
सुरश्रेष्ठाय नमःदूर्वायुग्मं समर्पयामि।
गजनासिकाय नमःदूर्वायुग्मं समर्पयामि।
कपित्थफलप्रियाय नमःदूर्वायुग्मं समर्पयामि।
गजमुखाय नमःदूर्वायुग्मं समर्पयामि।
सुप्रसन्नाय नमःदूर्वायुग्मं समर्पयामि।
सुराजाय नमःदूर्वायुग्मं समर्पयामि।
उमापुत्राय नमःदूर्वायुग्मं समर्पयामि।
स्कन्दप्रियाय नमःदूर्वायुग्मं समर्पयामि।
धूपः

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

सिद्धिविनायकाय नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥

सिद्धिविनायकाय नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।

नैवेद्यम्

अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।

दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥

सिद्धिविनायकाय नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

सिद्धिविनायकाय नमः। कर्पूरताम्बूलं समर्पयामि।

नीराजनम्

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।

त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥

सिद्धिविनायकाय नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।

पुष्पाञ्जलिः

मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।

पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देव त्वदंघ्रौ विनिवेशयामि ॥

सिद्धिविनायकाय नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।

प्रार्थना

नमो नमो गणेशाय नमस्ते विश्वरूपिणे।

निर्विघ्नं कुरु मे कामं नमामि त्वां गजानन ॥

अगजाननपद्मार्कं गजाननमहर्निशम्।

अनेकदन्तं भक्तानामेकदन्तमुपास्महे ॥

विनायक वरं देहि महात्मन् मोदकप्रिय।

अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

राजोपचाराः

छत्रचामरनृत्तगीतवाद्यादिसमस्तराजोपचारान् समर्पयामि।

क्षीरार्घ्यप्रदानम्

अर्घ्यं गृहाण हेरम्ब वरप्रद विनायक।

गन्धपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो ॥

सिद्धिविनायकाय नमः। इदमर्घ्यम् ॥

नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे।

इदमर्घ्यं प्रदास्यामि गृहाण गणनायक ॥

सिद्धिविनायकाय नमः। इदमर्घ्यम् ॥

नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक।

पुनरर्घ्यं प्रदास्यामि गृहाण गणनायक ॥

सिद्धिविनायकाय नमः। इदमर्घ्यम् ॥

गौरीगर्भसंभूत स्वामिन् ज्येष्ठ विनायक।

गणेश्वर गृहाणार्घ्यं गजानन नमोऽस्तु ते ॥

सिद्धिविनायकाय नमः। इदमर्घ्यम् ॥

अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः श्रीसिद्धिविनायकः प्रीयताम् ॥

महागणपतिपूजान्ते क्षीरार्घ्यप्रदानं करिष्ये। इति सङ्कल्प्य। हस्ते साक्षतपुष्पं क्षीरं गृहीत्वा। प्रत्येकमर्घ्यं त्रिः।

आचार्यपूजा

अद्य पूर्वोक्तएवंगुणविशेषणविशिष्टायां मस्यां चतुर्थ्यां शुभतिथौ सिद्धिविनायकपूजाफलसिद्ध्यर्थं ब्राह्मणपूजां उपायनदानं च करिष्ये।

महागणपतिस्वरूपस्य ब्राह्मणस्य इदमासनम्। गन्धादिसकलाराधनैः स्वर्चितम्।

गणेशः प्रतिगृह्णाति गणेशो वै ददाति च।

गणेशस्तारको द्वाभ्यां गणेशाय नमो नमः ॥

इदमुपायनं सदक्षिणाकं सताम्बूलं सिद्धिविनायककीर्तिं कामयमानः तुभ्यमहं संप्रददे। इत्युपायनदानम्।

समर्पणम्

यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु।

न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥

अनया पूजया सिद्धिविनायकः प्रीयताम्।

ओं तत् सत् ब्रह्मार्पणमस्तु ॥