मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

काशीपञ्चकम्

3

सम्प्रदायतः श्रीशङ्करकृता

मनोनिवृत्तिः परमोपशान्तिः

सा तीर्थवर्या मणिकर्णिका च ।

ज्ञानप्रवाहा विमलादिगङ्गा

सा काशिकाहं निजबोधरूपा ॥

॥१॥

यस्यामिदं कल्पितमिन्द्रजालं

चराचरं भाति मनोविलासम् ।

सच्चित्सुखैका परमात्मरूपा

सा काशिकाहं निजबोधरूपा ॥

॥२॥

कोशेषु पञ्चस्वधिराजमाना

बुद्धिर्भवानी प्रतिदेहगेहम् ।

साक्षी शिवः सर्वगतोऽन्तरात्मा

सा काशिकाहं निजबोधरूपा ॥

॥३॥

काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका ।

सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥

॥४॥

काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा ।

भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः ।

विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा

देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥

॥५॥

इति श्रीमद् शङ्कराचार्यविरचितं काशीपञ्चकं समाप्तम् ।