पारम्परिकम्
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
॥१॥मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥
॥२॥अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥
॥३॥चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥
॥४॥गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥
॥५॥मूषकोत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥
॥६॥यक्षकिन्नरगन्धर्वैः सिद्धविद्याधरैः सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥
॥७॥सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥
॥८॥गणनाष्टकमिदं पुण्यं यः पठेत्सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥
॥९॥इति श्रीगणनायकाष्टकं सम्पूर्णम् ।