रुद्रयामलम्
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य। दुर्वासा ऋषिः। अनुष्टुप् छन्दः। श्री-गणपतिर्देवता। गं बीजम्। स्वाहा शक्तिः। ग्लौं कीलकम् । सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः
ओं अङ्गुष्ठाभ्यां नमः। श्रीं तर्जनीभ्यां नमः। ह्रीं मध्यमाभ्यां नमः। क्रीं अनामिकाभ्यां नमः। ग्लौं कनिष्ठिकाभ्यां नमः। गं करतलकरपृष्ठाभ्यां नमः। एवं हृदयादिन्यासः। अथवा षड्दीर्घभाजागमितिबीजेन कराङ्गन्यासः॥
ध्यानम्
ओङ्कार-सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तं ।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥
॥१॥स्तोत्रम्
ओं गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः ।
गणनाथो गणस्वामी गणेशो गणनायकः ॥
॥२॥गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥
॥३॥गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥
॥४॥गणबन्धुर्गणसुहृद्गणाधीशो गणप्रथः ।
गणप्रियसखः शश्वद्गणप्रियसुहृत् तथा ॥
॥५॥गणप्रियरतो नित्यं गणप्रीतिविवर्धनः ।
गणमण्डलमध्यस्थो गणकेलिपरायणः ॥
॥६॥गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः ।
गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥
॥७॥गणभीतिप्रमथनो गणभीत्यपहारकः ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥
॥८॥गणसेनो गणचरो गणप्रज्ञो गणैकराट् ।
गणाग्र्यो गणनामा च गणपालनतत्परः ॥
॥९॥गणजिद्गणगर्भस्थो गणप्रवणमानसः ।
गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥
॥१०॥गणार्चिताङ्घ्रियुगलो गणरक्षणकृत् सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥
॥११॥गणागणपरित्राता गणाधिहरणोद्धुरः ।
गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥
॥१२॥गणहेतुर्गणग्राही गणानुग्रहकारकः ।
गणागणानुग्रहभूर्गणागणवरप्रदः ॥
॥१३॥गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥
॥१४॥गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।
गणप्रथितनामा च गणाभीष्टकरः सदा ॥
॥१५॥गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।
गणपालो गणवरो गणगौरवदायकः ॥
॥१६॥गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा ।
गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥
॥१७॥गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः ।
गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥
॥१८॥गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः ॥
॥१९॥गुणागुणवपुर्गौणशरीरो गुणमण्डितः ।
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥
॥२०॥गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट् ।
गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः ॥
॥२१॥गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥
॥२२॥गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥
॥२३॥गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥
॥२४॥गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।
गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥
॥२५॥गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् ।
गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥
॥२६॥गुणाकरो गुणकरो गुणप्रवणवर्धनः ।
गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥
॥२७॥गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।
गुणहारी गुणकलो गुणसङ्घसखः सदा ॥
॥२८॥गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥
॥२९॥गुणाधीशो गुणलयो गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणदाता गुणप्रदः ॥
॥३०॥गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥
॥३१॥गुणचक्रधरो गौणावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥
॥३२॥गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपो गुणपालकः ॥
॥३३॥गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥
॥३४॥गुणवद्गीतकीर्तिश्च गुणवद् बद्धसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥
॥३५॥गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥
॥३६॥गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥
॥३७॥गुणवत्पोषणकरो गुणवच्छत्रुसूदनः ।
गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥
॥३८॥गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः ।
गुणवत्कुलविद्वेषिविनाशकरणक्षमः ॥
॥३९॥गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिःस्वनः ।
गजो गजपतिर्गर्जद्गजयुद्धविशारदः ॥
॥४०॥गजास्यो गजकर्णोऽथ गजराजो गजाननः ।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥
॥४१॥गजाधीशो गजाधारो गजासुरजयोद्धुरः ।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥
॥४२॥गजमायो गजमयो गजश्रीर्गजगर्जितः ।
गजामयहरो नित्यं गजपुष्टिप्रदायकः ॥
॥४३॥गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः ।
गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥
॥४४॥गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥
॥४५॥गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥
॥४६॥गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः ।
गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥
॥४७॥गर्जितोज्ञितदैत्यासुर्गर्जितत्रातविष्टपः ।
गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥
॥४८॥गानश्लाघी गानरसो गानज्ञानपरायणः ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥
॥४९॥गानकृद्गानचतुरो गानविद्याविशारदः ।
गानध्येयो गानगम्यो गानध्यानपरायणः ॥
॥५०॥गानभूर्गानशीलश्च गानशाली गतश्रमः ।
गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥
॥५१॥गानयत्तो गानमयो गानप्रणयवान् सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥
॥५२॥गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।
गानङ्गज्ञानवान् गानमानवान् गानपेशलः ॥
॥५३॥गानवत्प्रणयो गानसमुद्रो गानभूषणः ।
गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः ॥
॥५४॥गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक् ।
गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥
॥५५॥गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा ।
गानमयो गानधरो गानविद्याविशोधकः ॥
॥५६॥गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः ।
गानाधीशो गानलयो गानाधारो गतीश्वरः ॥
॥५७॥गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।
गानतानततो गानतानदानविमोहितः ॥
॥५८॥गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः ।
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥
॥५९॥गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः ।
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥
॥६०॥गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः ।
गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥
॥६१॥गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।
गुरुगौरवदायी च गुरुभीत्यपहारकः ॥
॥६२॥गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः ।
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥
॥६३॥गुरूरुर्गुरुपीनांसो गुरुप्रणयलालसः ।
गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा ॥
॥६४॥गुरुसंशयभेत्ता च गुरुमानप्रदायकः ।
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥
॥६५॥गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ॥
॥६६॥गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः ।
गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ॥
॥६७॥गुरुधर्मधरो गौरधर्माधारो गदापहः ।
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ॥
॥६८॥गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा ।
गुरुमन्त्रो गुरुशेष्ठो गुरुमन्त्रफलप्रदः ॥
॥६९॥गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः ।
गुरुसंसारसुखदो गुरुसंसारदुःखभित् ॥
॥७०॥गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् ।
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ॥
॥७१॥गुरुकान्तिर्गुरुमयो गुरुशासनपालकः ।
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥
॥७२॥गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः ।
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ॥
॥७३॥गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ॥
॥७४॥गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ।
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ॥
॥७५॥गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः ।
गुरुविज्ञानविभवो गौरभानुवरप्रदः ॥
॥७६॥गौरभानुस्तुतो गौरभानुत्रासापहारकः ।
गौरभानुप्रियो गौरभानुर्गौरववर्धनः ॥
॥७७॥गौरभानुपरित्राता गौरभानुसखः सदा ।
गौरभानुर्प्रभुर्गौरभानुभीतिप्रणाशनः ॥
॥७८॥गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः ।
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥
॥७९॥गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ।
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ॥
॥८०॥गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः ।
गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ॥
॥८१॥गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ।
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥
॥८२॥गौतमाभीष्टवरदो गौतमाभयदायकः ।
गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ॥
॥८३॥गौतमीतीरसञ्चारी गौतमीतीर्थनायकः ।
गौतमापत्परिहारो गौतमाधिविनाशनः ॥
॥८४॥गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः ।
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥
॥८५॥गोसहस्रो गोपवरो गोपगोपीसुखावहः ।
गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः ॥
॥८६॥गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।
गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ॥
॥८७॥गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः ।
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ॥
॥८८॥गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः ।
गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ॥
॥८९॥गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ।
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ॥
॥९०॥गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् ।
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ॥
॥९१॥गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः ।
गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ॥
॥९२॥गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः ।
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ॥
॥९३॥गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः ।
गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ॥
॥९४॥गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा ।
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ॥
॥९५॥गोत्रभिद्गोपनपरो गोत्रभित् सैन्यनायकः ।
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥
॥९६॥ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा ।
ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ॥
॥९७॥ग्रन्थादीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।
ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः ॥
॥९८॥ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ।
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥
॥९९॥ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भषोधकः ।
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ॥
॥१००॥ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ।
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ॥
॥१०१॥ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ।
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥
॥१०२॥ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ।
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ॥
॥१०३॥ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः ।
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥
॥१०४॥ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः ।
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ॥
॥१०५॥ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः ।
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः ॥
॥१०६॥गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः ।
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥
॥१०७॥गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः ।
गीतसंशयसञ्छेत्ता गीतसङ्गीतशासनः ॥
॥१०८॥गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः ।
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः ॥
॥१०९॥गीताशक्तो गीतलीनो गीताविगतसञ्ज्वरः ।
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः ॥
॥११०॥गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ।
गीतागीतविवेकज्ञो गीताप्रवणचेतनः ॥
॥१११॥गतभीर्गतविद्वेषो गतसंसारबन्धनः ।
गतमायो गतत्रासो गतदुःखो गतज्वरः ॥
॥११२॥गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः ।
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ॥
॥११३॥गताहङ्कारसञ्चारो गतदर्पो गताहितः ।
गतविघ्नो गतभयो गतागतनिवारकः ॥
॥११४॥गतव्यथो गतापायो गतदोषो गतेः परः ।
गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः ॥
॥११५॥गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः ।
गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ॥
॥११६॥गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः ।
गताभावो गतभवो गततत्त्वार्थसंशयः ॥
॥११७॥गयासुरशिरश्छेत्ता गयासुरवरप्रदः ।
गयावासो गयानाथो गयावासिनमस्कृतः ॥
॥११८॥गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः ।
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥
॥११९॥गयावासिस्तुतो गयान्मधुव्रतलसत्कटः ।
गायको गायकवरो गायकेष्टफलप्रदः ॥
॥१२०॥गायकप्रणयी गाता गायकाभयदायकः ।
गायकप्रवणस्वान्तो गायकः प्रथमः सदा ॥
॥१२१॥गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा ।
गानगेयो गानकेशो गायकान्तरसञ्चरः ॥
॥१२२॥गायकप्रियदः शश्वद्गायकाधीनविग्रहः ।
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥
॥१२३॥गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः ।
गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम् ॥
॥१२४॥गाढावगाढजलधिर्गाढप्रज्ञो गतामयः ।
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ॥
॥१२५॥गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः ।
गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ॥
॥१२६॥गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा ।
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ॥
॥१२७॥गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ।
गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः ॥
॥१२८॥गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ।
गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा ॥
॥१२९॥गन्धमादनसंवासो गन्धमादनकेलिकृत् ।
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ॥
॥१३०॥गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ।
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः ॥
॥१३१॥गकारबीजनिलयो गकारो गर्विगर्वनुत् ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥
॥१३२॥गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ।
गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ॥
॥१३३॥गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ।
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ॥
॥१३४॥गन्धर्वाभयदः शश्वद्गन्धर्वप्रतिपालकः ।
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ॥
॥१३५॥गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ।
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ॥
॥१३६॥गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा ।
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥
॥१३७॥गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ॥
॥१३८॥गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ।
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ॥
॥१३९॥गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ।
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ॥
॥१४०॥गीर्वाणगीतचरितो गीर्वाणगणसेवितः ।
गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥
॥१४१॥गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः ।
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् ॥
॥१४२॥गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ।
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ॥
॥१४३॥गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ।
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ॥
॥१४४॥गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ।
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् ॥
॥१४५॥गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ।
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ॥
॥१४६॥गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः ।
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ॥
॥१४७॥गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः ।
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ॥
॥१४८॥ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ।
ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ॥
॥१४९॥ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः ।
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ॥
॥१५०॥गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा ।
गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पती ॥
॥१५१॥गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः ।
गविरक्षणसन्नद्धो गवाम्भयहरः क्षणात् ॥
॥१५२॥गविगर्वहरो गोदो गोप्रदो गोजयप्रदः ।
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ॥
॥१५३॥गण्डस्थललसद्दानमिलन्मत्तालिमण्डितः ।
गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः ॥
॥१५४॥गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ।
गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः ॥
॥१५५॥गुडाकेशार्चितपदो गुडाकेशसखः सदा ।
गदाधरार्चितपदो गदाधरवरप्रदः ॥
॥१५६॥गदायुधो गदापाणिर्गदायुद्धविशारदः ।
गदहा गददर्पघ्नो गदगर्वप्रणाशनः ॥
॥१५७॥गदग्रस्तपरित्राता गदाडम्बरखण्डकः ।
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ॥
॥१५८॥गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ।
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः ॥
॥१५९॥गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः ।
गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः ॥
॥१६०॥गिरीशजो गिरौशायी गिरिराजसुखावहः ।
गिरिराजार्चितपदो गिरिराजनमस्कृतः ॥
॥१६१॥गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ।
गिरिराजेष्टवरदो गिरिराजप्रपालकः ॥
॥१६२॥गिरिराजसुतासूनुर्गिरिराजजयप्रदः ।
गिरिव्रजवनस्थायी गिरिव्रजचरः सदा ॥
॥१६३॥गर्गो गर्गप्रियो गर्गदेहो गर्गनमस्कृतः ।
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ॥
॥१६४॥गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ।
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ॥
॥१६५॥गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ।
गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः ॥
॥१६६॥गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः ।
गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥
॥१६७॥गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ।
गणकप्रवणस्वान्तो गणितो गणितागमः ॥
॥१६८॥गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ।
गललग्नमहानागो गलदर्चिर्गलन्मदः ॥
॥१६९॥गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः ।
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ॥
॥१७०॥गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ।
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ॥
॥१७१॥गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत् ।
गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरः सदा ॥
॥१७२॥गर्भाश्रयो गर्भमयो गर्भामयनिवारकः ।
गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ॥
॥१७३॥गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत् ।
गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ॥
॥१७४॥गरसन्तापशमनो गुरुराज्यसुखप्रदः।
फलश्रुतिः
नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ॥
॥१७५॥गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ।
य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ॥
॥१७६॥वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ।
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥
॥१७७॥विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ।
भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ॥
॥१७८॥चतुर्थां भौमवारो च चन्द्रसूर्योपरागके ।
पूजयित्वा गणधीशं यथोक्तविधिना पुरा ॥
॥१७९॥पूजयेद्यो यथाशक्त्या जुहुयाच्च शमीदलैः ।
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ॥
॥१८०॥धारयेद्यः प्रयत्नेन स साक्षाद्गणनायकः ।
सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ॥
॥१८१॥प्रणमन्ति सदा तं वै दुष्ट्वा विस्मितमानसाः ।
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ॥
॥१८२॥तस्य वंशो स्थिरा लक्ष्मीः कदाऽपि न विमुञ्चति ।
निष्कामो यः पठेदेतद्गणेश्वरपरायणः ॥
॥१८३॥स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ॥
॥१८४॥न देयं कृपणायाथ शठाय गुरुविद्विषे ।
दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥
॥१८५॥इति श्रुत्वा महादेवी तदा विस्मितमानसा ।
पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥
॥१८६॥इति श्री-रुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्री-गणपतिसहस्रनामस्तोत्रं सम्पूर्णम्