ललितागमः
अष्टोत्तरशतं भूमौ स्थितं क्षेत्रं वदाम्यहम् ।
कैवल्यशैले श्रीकण्ठः केदारो हिमवत्यपि ॥
॥१॥काशीपुर्यां विश्वनाथः श्रीशैले मल्लिकार्जुनः ।
प्रयागे नीलकण्ठेशो गयायां रुद्रनामकः ॥
॥२॥नीलकण्ठेश्वरः साक्षात् कालञ्जरपुरे शिवः ।
द्राक्षारामे तु भीमेशो मायूरे चाम्बिकेश्वरः ॥
॥३॥ब्रह्मावर्ते देवलिङ्गः प्रभासे शशिभूषणः ।
वृषध्वजाभिधः श्रीमतिः श्वेतहस्तिपुरेश्वरः ॥
॥४॥गोकर्णेशस्तु गोकर्णे सोमेशः सोमनाथके ।
श्रीरूपाख्ये त्यागराजो वेदे वेदपुरीश्वरः ॥
॥५॥भीमारामे तु भीमेशो मन्थने कालिकेश्वरः ।
मधुरायां चोक्कनाथो मानसे माधवेश्वरः ॥
॥६॥श्रीवाञ्छके चम्पकेशः पञ्चवट्यां वटेश्वरः ।
गजारण्ये तु वैद्येशस्तीर्थाद्रौ तीर्थकेश्वरः ॥
॥७॥कुम्भकोणे तु कुम्भेशो लेपाक्ष्यां पापनाशनः ।
कण्वपुर्यां तु कण्वेशो मध्ये मध्यार्जुनेश्वरः ॥
॥८॥हरिहरपुरे श्रीशङ्करनारायणेश्वरः ।
विरञ्चिपुर्यां मार्गेशः पञ्चनद्यां गिरीश्वरः ॥
॥९॥पम्पापुर्यां विरूपाक्षः सोमाद्रौ मल्लिकार्जुनः ।
त्रिमकूटे त्वगस्त्येशः सुब्रह्मण्येऽहिपेश्वरः ॥
॥१०॥महाबलेश्वरः साक्षान्महाबलशिलोच्चये ।
रविणा पूजितो दक्षिणावर्तेऽर्केश्वरः स्वयम् ॥
॥११॥वेदारण्ये महापुण्ये वेदारण्येश्वराभिधः ।
मूर्तित्रयात्मकः सोमपुर्यां सोमेश्वराभिधः ॥
॥१२॥अवन्त्यां रामलिङ्गेशः काश्मीरे विजयेश्वरः ।
महानन्दिपुरे साक्षान्महानन्दिपुरेश्वरः ॥
॥१३॥कोटितीर्थे तु कोटीशो वृद्धे वृद्धाचलेश्वरः ।
महापुण्ये तत्र ककुद्गिरौ गङ्गाधरेश्वरः ॥
॥१४॥चामराज्याख्यनगरे चामराजेश्वरः स्वयम् ।
नन्दीश्वरो नन्दिगिरौ चण्डेशो बधिराचले ॥
॥१५॥नञ्जुण्डेशो गरपुरे शतशृङ्गे ।
घनानन्दाचले सोमो नल्लूरे विमलेश्वरः ॥
॥१६॥नीडानाथपुरे साक्षान्नीडानाथेश्वरः स्वयम् ।
एकान्ते रामलिङ्गेशः श्रीनागे कुण्डलीश्वरः ॥
॥१७॥श्रीकन्यायां त्रिभङ्गीश उत्सङ्गे राघवेश्वरः ।
मत्स्यतीर्थे तु तीर्थेशस्त्रिकूटे ताण्डवेश्वरः ॥
॥१८॥प्रसन्नाख्यपुरे मार्गसहायेशो वरप्रदः ।
गण्डक्यां शिवनाभस्तु श्रीपतौ श्रीपतीश्वरः ॥
॥१९॥धर्मपुर्यां धर्मलिङ्गः कन्याकुब्जे कलाधरः ।
वाणिग्रामे विरिञ्चेशो नेपाले नकुलेश्वरः ॥
॥२०॥मार्कण्डेयो जगन्नाथे स्वयम्भूर्नर्मदातटे ।
धर्मस्थले मञ्जुनाथो व्यासेशस्तु त्रिरूपके ॥
॥२१॥स्वर्णावत्यां कलिङ्गेशो निर्मले पन्नगेश्वरः ।
पुण्डरीके जैमिनीशोऽयोध्यायां मधुरेश्वरः ॥
॥२२॥सिद्धवट्यां तु सिद्धेशः श्रीकूर्मे त्रिपुरान्तकः ।
मणिकुण्डलतीर्थे तु मणिमुक्तानदीश्वरः ॥
॥२३॥वटाटव्यां कृत्तिवासास्त्रिवेण्यां सङ्गमेश्वरः ।
स्तनिताख्ये तु मल्लेश इन्द्रकीलेऽर्जुनेश्वरः ॥
॥२४॥शेषाद्रौ कपिलेशस्तु पुष्पे पुष्पगिरीश्वरः ।
भुवनेशश्चित्रकूटे तूज्जिन्यां कालिकेश्वरः ॥
॥२५॥ज्वालामुख्यां शूलटङ्को मङ्गल्यां सङ्गमेश्वरः ।
बृहतीशस्तञ्जापुर्यां रामेशो वह्निपुष्करे ॥
॥२६॥लङ्काद्वीपे तु मत्स्येशः कूर्मेशो गन्धमादने ।
विन्ध्याचले वराहेशो नृसिंहः स्यादहोबिले ॥
॥२७॥कुरुक्षेत्रे वामनेशस्ततः कपिलतीर्थके ।
तथा परशुरामेशः सेतौ रामेश्वराभिधः ॥
॥२८॥साकेते बलरामेशो बौद्धेशो वारणावते ।
तत्त्वक्षेत्रे च कल्कीशः कृष्णेशः स्यान्महेन्द्रके ॥
॥२९॥इति ललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्