मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

वरलक्ष्मी व्रत पूजा

वरलक्ष्मीव्रतपूजा. Also called varalakshmi, varalakshmi vratam, varalakshmi vrata, varalakshmi puja.

3

श्रावणपूर्णिमायाः (आवणिपौर्णमास्याः) पूर्वस्मिन् शुक्रवासरे सुवासिनीभिः आचर्यते। कलशे वरलक्ष्मीमावाह्य पूजयेत्। नवग्रन्थियुक्तं दोरकं दक्षिणहस्ते बध्नीयात्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सर्वमङ्गलप्राप्त्यर्थं श्रीवरलक्ष्मीप्रीत्यर्थं श्रीवरलक्ष्मीपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्राणप्रतिष्ठा

प्रतिमासु देवतां ध्यात्वा प्राणप्रतिष्ठां कुर्यात्।

अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुस्सामाथर्वाणि छन्दांसि। सकलजगत्सृष्टिस्थितिसंहारकारिणी प्राणशक्तिः परा देवता। ओं बीजम्। ह्रीं शक्तिः। क्रों कीलकम्। प्राणप्रतिष्ठायां विनियोगः।

करन्यासः
ओं अङ्गुष्ठाभ्यां नमः
ह्रीं तर्जनीभ्यां नमः
क्रों मध्यमाभ्यां नमः
ओं अनामिकाभ्यां नमः
ह्रीं कनिष्ठाभ्यां नमः
क्रों करतलकरपृष्ठाभ्यां नमः
अङ्गन्यासः

भूर्भुवस्सुवरोमिति दिग्बन्धः। ध्यानम्।

ओं हृदयाय नमः
ह्रीं शिरसे स्वाहा
क्रों शिखायै वषट्
ओं कवचाय हुम्
ह्रीं नेत्रत्रयाय वौषट्
क्रों अस्त्राय फट्
प्राणशक्तिध्यानम्

रक्ताम्भोधिस्यपोतोद्यद्दारुणसरोजाधिरूढा कराम्बुजैः

पाशं कोदण्डमिक्षुं सृणिमपि दधती मण्यङ्कुशं पुष्पबाणान्।

बिभ्राणा सृक्कपालं विमलनखलसिता पीनवक्षोरुहाढ्या

देवी बाला त्रिनेत्रा भवतु सुखकरी प्राणशक्तिः परा नः ॥

तत्त्वोपचाराः
लं पृथिव्यात्मिकायैगन्धं समर्पयामि।
हं आकाशात्मिकायैपुष्पैः पूजयामि।
यं वाय्वात्मिकायैधूपमाघ्रापयामि।
रं अग्न्यात्मिकायैदीपं दर्शयामि।
वं अमृतात्मिकायैअमृतं महानैवेद्यं निवेदयामि।
सं सर्वात्मिकायैसर्वोपचारपूजां समर्पयामि।
जीवस्थापनम्

पञ्चदशसंस्कारार्थं पञ्चदशवारं प्रणवजपं कृत्वा।

ओं ह्रीं क्रों क्रों ह्रीं आं। यं रं लं वं शं षं सं हों। हंससोऽहं सोऽहं हंसः। अस्यां मूर्तौ जीवस्तिष्ठतु। अस्यां मूर्तौ सर्वेन्द्रियाणि मनस्त्वक्चक्षुःश्रोत्रजिह्वाप्राणवाक्पाणिपादपायूपस्थाख्यानि प्राणापानव्यानोदानसमानाश्चागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥

असुं नीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम्। ज्योक् पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥

आवाहनस्थापनम्

आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। सुप्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद। स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥

इति पूर्वाङ्गपूजा।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

वरलक्ष्मीध्यानम्

पद्मासनां पद्मकरां पद्ममालाविभूषिताम्।

क्षीरसागरसम्भूतां क्षीरवर्णसमप्रभाम् ॥

क्षीरवर्णसमं वस्त्रं दधानां हरिवल्लभाम्।

भावये भक्तियोगेन कलशेऽस्मिन् मनोहरे ॥

वरलक्ष्म्यै नमः। ध्यायामि।

दोरस्थापनम्

बालभानुप्रतीकाशे पूर्णचन्द्रनिभानने।

सूत्रेऽस्मिन् सुस्थिता भूत्वा प्रयच्छ बहुलान् वरान् ॥

इति दोरस्थापनम्।

आवाहनम्

सर्वमङ्गलमाङ्गल्ये विष्णुवक्षःस्थलालये।

आवाहयामि देवि त्वामभीष्टफलदा भव ॥

वरलक्ष्मीमावाहयामि।

आसनम्

अनेकरत्नखचितं क्षीरसागरसम्भवे।

स्वर्णसिंहासनं देवि स्वीकुरुष्व हरिप्रिये ॥

वरलक्ष्म्यै नमः। आसनं समर्पयामि।

पाद्यम्

गङ्गादिसरिदानीतं गन्धपुष्पसमन्वितम्।

पाद्यं ददामि ते देवि प्रसीद परमेश्वरि ॥

वरलक्ष्म्यै नमः। पाद्यं समर्पयामि।

अर्घ्यम्

गङ्गानदीसमानीतं सुवर्णकलशस्थितम्।

गृहाणार्घ्यं मया दत्तं पुत्रपौत्रफलप्रदे ॥

वरलक्ष्म्यै नमः। अर्घ्यं समर्पयामि।

आचमनीयम्

प्रसन्नं शीतलं तोयं प्रसन्नमुखपङ्कजे।

गृहाणाचमनार्थाय गरुडध्वजवल्लभे ॥

वरलक्ष्म्यै नमः। आचमनीयं समर्पयामि।

मधुपर्कः

महालक्ष्मि महादेवि मध्वाज्यदधिसंयुतम्।

मधुपर्कं गृहाणेमं मधुसूदनवल्लभे ॥

वरलक्ष्म्यै नमः। मधुपर्कं समर्पयामि।

पञ्चामृतम्

पयोदधिघृतैर्युक्तं शर्करामधुसंयुतम्।

पञ्चामृतं गृहाणेदं वरलक्ष्मि नमोऽस्तु ते ॥

वरलक्ष्म्यै नमः। पञ्चामृतं समर्पयामि।

स्नानम्

हेमकुम्भस्थितं स्वच्छं गङ्गादिसरिदाहृतम्।

स्नानार्थं सलिलं देवि गृह्यतां सागरात्मजे ॥

वरलक्ष्म्यै नमः। स्नानं समर्पयामि।

वस्त्रम्

दिव्याम्बरयुगं सूक्ष्मं कञ्चुकं च मनोहरम्।

वरलक्ष्मि महादेवि गृहाणेदं मयार्पितम् ॥

वरलक्ष्म्यै नमः। वस्त्रं समर्पयामि।

कण्ठसूत्रम्

माङ्गल्यमणिसंयुक्तं मुक्ताविद्रुमसंयुतम्।

दत्तं मङ्गलसूत्रं च गृहाण हरिवल्लभे ॥

वरलक्ष्म्यै नमः। कण्ठसूत्रं समर्पयामि।

आभरणानि

रत्नताटङ्ककेयूरहारकङ्कणभूषिते।

भूषणानि महार्हाणि गृहाण करुणानिधे ॥

वरलक्ष्म्यै नमः। आभरणानि समर्पयामि।

गन्धः

कर्पूरचन्दनोपेतं कस्तूरीकुङ्कुमान्वितम्।

सर्वगन्धं गृहाणाद्य सर्वमङ्गलदायिनि ॥

वरलक्ष्म्यै नमः। गन्धं समर्पयामि।

अक्षताः

शालिजातान् चन्द्रवर्णान् स्निग्धमौक्तिकसन्निभान्।

अक्षतान् देवि गृह्णीष्व पङ्कजाक्षस्य वल्लभे ॥

वरलक्ष्म्यै नमः। अक्षतान् समर्पयामि।

पुष्पमाला

मन्दारपारिजाताब्जैः केतक्युत्पलपाटलैः।

मल्लिकाजातिबकुलैः पुष्पैस्त्वां पूजयाम्यहम् ॥

वरलक्ष्म्यै नमः। पुष्पमालां समर्पयामि।

अङ्गपूजा
वरलक्ष्म्यै नमःपादौ पूजयामि।
महालक्ष्म्यै नमःगुल्फौ पूजयामि।
इन्दिरायै नमःजङ्घे पूजयामि।
चण्डिकायै नमःजानुनी पूजयामि।
क्षीराब्धितनयायै नमःऊरू पूजयामि।
पीताम्बरधारिण्यै नमःकटिं पूजयामि।
सागरसम्भवायै नमःगुह्यं पूजयामि।
नारायणप्रियायै नमःनाभिं पूजयामि।
जगत्कुक्ष्यै नमःकुक्षिं पूजयामि।
विश्वजनन्यै नमःवक्षः पूजयामि।
सुस्तन्यै नमःस्तनौ पूजयामि।
कम्बुकण्ठ्यै नमःकण्ठं पूजयामि।
सुन्दर्यै नमःस्कन्धौ पूजयामि।
पद्महस्तायै नमःहस्तान् पूजयामि।
बहुप्रदायै नमःबाहून् पूजयामि।
चन्द्रवदनायै नमःवक्त्रं पूजयामि।
चञ्चलायै नमःचुबुकं पूजयामि।
बिम्बोष्ठ्यै नमःओष्ठं पूजयामि।
अनघायै नमःअधरं पूजयामि।
सुकपोलायै नमःकपोलौ पूजयामि।
फलप्रदायै नमःफालं पूजयामि।
नीलालकायै नमःअलकान् पूजयामि।
शिवायै नमःशिरः पूजयामि।
सर्वमङ्गलायै नमःसर्वाण्यङ्गानि पूजयामि।
अष्टोत्तरशतनामार्चना
लक्ष्मी अष्टोत्तरशत नामावलिःपृथक्पृष्ठे पठ
  1. १ॐ प्रकृत्यै नमः
  2. २ॐ विकृत्यै नमः
  3. ३ॐ विद्यायै नमः
  4. ४ॐ सर्वभूतहितप्रदायै नमः
  5. ५ॐ श्रद्धायै नमः
  6. ६ॐ विभूत्यै नमः
  7. ७ॐ सुरभ्यै नमः
  8. ८ॐ परमात्मिकायै नमः
  9. ९ॐ वाचे नमः
  10. १०ॐ पद्मालयायै नमः
  11. ११ॐ पद्मायै नमः
  12. १२ॐ शुचये नमः
  13. १३ॐ स्वाहायै नमः
  14. १४ॐ स्वधायै नमः
  15. १५ॐ सुधायै नमः
  16. १६ॐ धन्यायै नमः
  17. १७ॐ हिरण्मय्यै नमः
  18. १८ॐ लक्ष्म्यै नमः
  19. १९ॐ नित्यपुष्टायै नमः
  20. २०ॐ विभावर्यै नमः
  21. २१ॐ अदित्यै नमः
  22. २२ॐ दित्यै नमः
  23. २३ॐ दीप्तायै नमः
  24. २४ॐ वसुधायै नमः
  25. २५ॐ वसुधारिण्यै नमः
  26. २६ॐ कमलायै नमः
  27. २७ॐ कान्तायै नमः
  28. २८ॐ क्षमायै नमः
  29. २९ॐ क्षीरोदसम्भवायै नमः
  30. ३०ॐ अनुग्रहप्रदायै नमः
  31. ३१ॐ बुद्धये नमः
  32. ३२ॐ अनघायै नमः
  33. ३३ॐ हरिवल्लभायै नमः
  34. ३४ॐ अशोकायै नमः
  35. ३५ॐ अमृतायै नमः
  36. ३६ॐ दीप्तायै नमः
  37. ३७ॐ लोकशोकविनाशिन्यै नमः
  38. ३८ॐ धर्मनिलयायै नमः
  39. ३९ॐ करुणायै नमः
  40. ४०ॐ लोकमात्रे नमः
  41. ४१ॐ पद्मप्रियायै नमः
  42. ४२ॐ पद्महस्तायै नमः
  43. ४३ॐ पद्माक्ष्यै नमः
  44. ४४ॐ पद्मसुन्दर्यै नमः
  45. ४५ॐ पद्मोद्भवायै नमः
  46. ४६ॐ पद्ममुख्यै नमः
  47. ४७ॐ पद्मनाभप्रियायै नमः
  48. ४८ॐ रमायै नमः
  49. ४९ॐ पद्ममालाधरायै नमः
  50. ५०ॐ देव्यै नमः
  51. ५१ॐ पद्मिन्यै नमः
  52. ५२ॐ पद्मगन्धिन्यै नमः
  53. ५३ॐ पुण्यगन्धायै नमः
  54. ५४ॐ सुप्रसन्नायै नमः
  55. ५५ॐ प्रसादाभिमुख्यै नमः
  56. ५६ॐ प्रभायै नमः
  57. ५७ॐ चन्द्रवदनायै नमः
  58. ५८ॐ चन्द्रायै नमः
  59. ५९ॐ चन्द्रसहोदर्यै नमः
  60. ६०ॐ चतुर्भुजायै नमः
  61. ६१ॐ चन्द्ररूपायै नमः
  62. ६२ॐ इन्दिरायै नमः
  63. ६३ॐ इन्दुशीतलायै नमः
  64. ६४ॐ आह्लादजनन्यै नमः
  65. ६५ॐ पुष्ट्यै नमः
  66. ६६ॐ शिवायै नमः
  67. ६७ॐ शिवकर्यै नमः
  68. ६८ॐ सत्यै नमः
  69. ६९ॐ विमलायै नमः
  70. ७०ॐ विश्वजनन्यै नमः
  71. ७१ॐ तुष्ट्यै नमः
  72. ७२ॐ दारिद्र्यनाशिन्यै नमः
  73. ७३ॐ प्रीतिपुष्करिण्यै नमः
  74. ७४ॐ शान्तायै नमः
  75. ७५ॐ शुक्लमाल्याम्बरायै नमः
  76. ७६ॐ श्रियै नमः
  77. ७७ॐ भास्कर्यै नमः
  78. ७८ॐ बिल्वनिलयायै नमः
  79. ७९ॐ वरारोहायै नमः
  80. ८०ॐ यशस्विन्यै नमः
  81. ८१ॐ वसुन्धरायै नमः
  82. ८२ॐ उदाराङ्गायै नमः
  83. ८३ॐ हरिण्यै नमः
  84. ८४ॐ हेममालिन्यै नमः
  85. ८५ॐ धनधान्यकर्यै नमः
  86. ८६ॐ सिद्ध्यै नमः
  87. ८७ॐ स्त्रैणसौम्यायै नमः
  88. ८८ॐ शुभप्रदायै नमः
  89. ८९ॐ नृपवेश्मगतानन्दायै नमः
  90. ९०ॐ वरलक्ष्म्यै नमः
  91. ९१ॐ वसुप्रदायै नमः
  92. ९२ॐ शुभायै नमः
  93. ९३ॐ हिरण्यप्राकारायै नमः
  94. ९४ॐ समुद्रतनयायै नमः
  95. ९५ॐ जयायै नमः
  96. ९६ॐ मङ्गलायै देव्यै नमः
  97. ९७ॐ विष्णुवक्षःस्थलस्थितायै नमः
  98. ९८ॐ विष्णुपत्न्यै नमः
  99. ९९ॐ प्रसन्नाक्ष्यै नमः
  100. १००ॐ नारायणसमाश्रितायै नमः
  101. १०१ॐ दारिद्र्यध्वंसिन्यै नमः
  102. १०२ॐ देव्यै नमः
  103. १०३ॐ सर्वोपद्रवहारिण्यै नमः
  104. १०४ॐ नवदुर्गायै नमः
  105. १०५ॐ महाकाल्यै नमः
  106. १०६ॐ ब्रह्मविष्णुशिवात्मिकायै नमः
  107. १०७ॐ त्रिकालज्ञानसम्पन्नायै नमः
  108. १०८ॐ भुवनेश्वर्यै नमः
धूपः

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

वरलक्ष्म्यै नमः। धूपं समर्पयामि। आचमनीयं समर्पयामि।

दीपः

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।

गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥

वरलक्ष्म्यै नमः। दीपं समर्पयामि। आचमनीयं समर्पयामि।

नैवेद्यम्

अन्नं चतुर्विधं सूपफलभक्ष्यसमन्वितम्।

दधिमध्वाज्यसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥

वरलक्ष्म्यै नमः। अमृतं महानैवेद्यं समर्पयामि। मध्ये मध्ये पानीयं समर्पयामि। आचमनीयं समर्पयामि।

ताम्बूलम्

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।

कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

वरलक्ष्म्यै नमः। कर्पूरताम्बूलं समर्पयामि।

नीराजनम्

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।

त्वमेव सर्वज्योतींषि कुर्यां नीराजनं तव ॥

वरलक्ष्म्यै नमः। सर्वमङ्गलप्राप्त्यर्थं सर्वापराधक्षमापणार्थं कर्पूरनीराजनं दर्शयामि। आचमनीयं समर्पयामि।

पुष्पाञ्जलिः

मन्दारनीलोत्पलकुन्दजातीपुन्नागमल्लीकरवीरपङ्कजैः।

पुष्पाञ्जलिं बिल्वदलैस्तुलस्या देवि त्वदंघ्रौ विनिवेशयामि ॥

वरलक्ष्म्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।

प्रदक्षिणनमस्काराः

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।

प्रदक्षिणं करोमि त्वां प्रसीद परमेश्वरि ॥

नमो नमः सुरवरपूजिताङ्घ्रये

नमो नमो निरुपममङ्गलात्मिके।

नमो नमो विपुलपदैकसिद्धये

नमो नमः परमदयानिधे नमः ॥

वरलक्ष्म्यै नमः। प्रदक्षिणनमस्कारान् समर्पयामि।

प्रार्थना

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु नारायणवल्लभायै।

नमोऽस्तु रत्नाकरसम्भवायै नमोऽस्तु लक्ष्म्यै जगतां जनन्यै ॥

नमस्कारान् समर्पयामि। (प्रार्थना)

दोरग्रन्थिपूजा
कमलायै नमःप्रथमग्रन्थिं पूजयामि।
रमायै नमःद्वितीयग्रन्थिं पूजयामि।
लोकमात्रे नमःतृतीयग्रन्थिं पूजयामि।
विश्वजनन्यै नमःचतुर्थग्रन्थिं पूजयामि।
महालक्ष्म्यै नमःपञ्चमग्रन्थिं पूजयामि।
क्षीराब्धितनयायै नमःषष्ठग्रन्थिं पूजयामि।
विश्वसाक्षिण्यै नमःसप्तमग्रन्थिं पूजयामि।
चन्द्रसहोदर्यै नमःअष्टमग्रन्थिं पूजयामि।
हरिवल्लभायै नमःनवमग्रन्थिं पूजयामि।
दोरकबन्धनम्

सर्वमङ्गलमाङ्गल्ये सर्वपापप्रणाशिनि।

दोरकं प्रतिगृह्णामि सुप्रीता भव सर्वदा ॥

(इति दोरकं हस्तेन गृहीत्वा)

नवतन्तुसमायुक्तं नवग्रन्थिसमन्वितम्।

बध्नीयां दक्षिणे हस्ते दोरकं हरिवल्लभे ॥

इति दोरकं बध्नीयात्।

क्षीरार्घ्यप्रदानम्

ममोपात्त … वरलक्ष्मीप्रीत्यर्थं क्षीरार्घ्यप्रदानं करिष्ये। इति सङ्कल्प्य।

गोक्षीरेण युतं देवि गन्धपुष्पसमन्वितम्।

अर्घ्यं गृहाण वरदे वरलक्ष्मि नमोऽस्तु ते ॥

वरलक्ष्म्यै नमः। इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम् ॥

उपायनदानम्

इन्दिरा प्रतिगृह्णाति इन्दिरा वै ददाति च।

इन्दिरा तारयेद्द्वाभ्यामिन्दिरायै नमो नमः ॥

इत्युपायनं दत्त्वा सुवासिनीश्च सम्पूजयेत्।