मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सङ्कटहर चतुर्थी पूजा (लघुः)

सङ्कटहर चतुर्थी पूजा (लघुः). Also called laghu sankatahara, short sankatahara chaturthi, sankashti laghu.

3

सङ्कल्पः पूर्वाङ्गपूजा च पूर्ववत्। कृष्णचतुर्थ्यां चन्द्रोदये पूजयेत्।

पूर्वाङ्गपूजा. इदं पूर्वाङ्गं सर्वासु पूजासु समानम् — आदौ आचर्य पश्चात् प्रधानपूजां कुर्यात्। पूर्वाङ्गपूजा

पूर्वाङ्गपूजा

संवृणु
आचमनम्
ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

प्राणायामः — सङ्कल्पः

अप उपस्पृश्य

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये।

महद्भन्दनम्

आब्रह्मलोकादारोहात् आलोकात् लोकपर्वतात्।

ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥

आसनपूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता। आसने विनियोगः।

पृथिवि त्वया धृता लोका देवि त्वं विष्णुना धृता।

त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥

घण्टापूजा

घण्टानादं कृत्वा।

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।

घण्टारवं करोम्यादौ देवताह्वानकारणम् ॥

विघ्नेश्वरपूजा

अस्मिन् हरिद्राबिम्बे श्रीविघ्नेश्वरं ध्यायामि।

आवाहयामि। आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। स्नानं समर्पयामि। आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। दिव्यपरिमलगन्धान् धारयामि। अक्षतान् समर्पयामि। पुष्पैः पूजयामि।

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णिकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
सिद्धिविनायकाय नमः
श्रीमहागणपतये नमः
उपचाराः

धूपमाघ्रापयामि। दीपं दर्शयामि। निवेदयामि। कर्पूरनीराजनं दर्शयामि। समस्तोपचारपूजां समर्पयामि।

प्रार्थना

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

इति प्रार्थ्य। प्राणायामः।

सङ्कल्पः

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपराधे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये …… नाम संवत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… शुभतिथौ …… वासरयुक्तायां …… नक्षत्रयुक्तायां शुभयोगशुभकरणसकलविशेषणविशिष्टायामस्यां शुभतिथौ ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं संकटहरगणपतिप्रीत्यर्थं संकटहरगणपतिपूजां करिष्ये।

अप उपस्पृश्य। श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। इति विघ्नेश्वरमुद्राम्।

कलशपूजा

कलशं गन्धपुष्पाक्षतैरभ्यर्च्य। कलशजलेन तत्तद्देवतानाम योजयेत्। पूजाद्रव्याणि आत्मानं च प्रोक्ष्य।

गङ्गे च यमुने चैव गोदावरि सरस्वति।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

गङ्गायै नमः
यमुनायै नमः
गोदावर्यै नमः
सरस्वत्यै नमः
नर्मदायै नमः
सिन्धवे नमः
कावेर्यै नमःपुष्पैः पूजयामि।
शङ्खपूजा

कलशोदकेन शङ्खं पूरयेत्। शङ्खजलेन पूजोपकरणानि द्रव्याणि आत्मानं च त्रिः प्रोक्ष्य, पुनः शङ्खं पूरयेत्।

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।

देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥

आत्मपूजा

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।

त्यजाम्यज्ञाननिर्मूल्यं सोऽहंभावेन पूजये ॥

पीठपूजा
ओं सकलगुणात्मशक्तियुक्ताय योगपीठाय नमः
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिवराहाय नमः
आदिकूर्माय नमः
अनन्ताय नमः
पृथिव्यै नमः
आदित्यादिनवग्रहदेवताभ्यो नमः
दशदिक्पालेभ्यो नमः
गुरुध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।

गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

श्रीगुरुं ध्यायामि।

प्रधानपूजा

ध्यानम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

ध्यानम्

लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम्।

नानारत्नैः सुवेषाढ्यं प्रसन्नास्यं विचिन्तये ॥

लम्बोदराय नमः। ध्यायामि।

उपचाराः
गणेशाय नमःआवाहयामि।
विघ्ननाशिने नमःआसनं समर्पयामि।
लम्बोदराय नमःपाद्यं समर्पयामि।
चन्द्रार्धधारिणे नमःअर्घ्यं समर्पयामि।
विश्वप्रियाय नमःआचमनीयं समर्पयामि।
ब्रह्मचारिणे नमःस्नानं समर्पयामि।
शूर्पकर्णाय नमःवस्त्रं समर्पयामि।
कुब्जाय नमःउपवीतं समर्पयामि।
रुद्रपुत्राय नमःगन्धान्धारयामि।
गुणशालिने नमःपुष्पैः पूजयामि।
नामपूजा
गणञ्जयाय नमः
गणपतये नमः
हेरम्बाय नमः
धरणीधराय नमः
महागणपतये नमः
लक्षप्रदाय नमः
क्षिप्रप्रसादनाय नमः
अमोघसिद्धये नमः
अमिताय नमः
मन्त्राय नमः
चिन्तामणये नमः
निधये नमः
सुमङ्गलाय नमः
बीजाय नमः
आशापूरकाय नमः
वरदाय नमः
शिवाय नमः
काश्यपाय नमः
नन्दनाय नमः
वाचासिद्धाय नमः
ढुण्ढिविनायकाय नमः
संकटहरगणपतये नमः

संकटहरगणपतये नमः — पुष्पाणि समर्पयामि।

उत्तराङ्गोपचाराः
विकटाय नमःधूपं समर्पयामि।
रुद्रप्रियाय नमःदीपं समर्पयामि।
विघ्ननाशाय नमःनैवेद्यं समर्पयामि।
सिद्धिदाय नमःताम्बूलं समर्पयामि।
संकटनाशाय नमःफलं समर्पयामि।
एकदन्ताय नमःस्वर्णपुष्पं समर्पयामि।
वामनाय नमःनीराजनं समर्पयामि।
हरसूनवे नमःप्रदक्षिणं समर्पयामि।
कुमाराय नमःपुष्पाञ्जलिं समर्पयामि।
विद्याधराय नमःनमस्कारान् समर्पयामि।
अर्घ्यप्रदानम्
चन्द्राय नमःइदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।
संकटहरगणेशाय नमःइदमर्घ्यं इदं अर्घ्यं इदं अर्घ्यम्।
प्रार्थना

अबुद्धमतिरिक्तं वा द्रव्यहीनं मया कृतम्।

तत्सर्वं पूर्णतां यातु विघ्नराज नमोऽस्तु ते ॥