मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

पञ्चमोऽध्यायः

3
मनुस्मृतिः · 5

श्रुत्वैतानृषयो धर्मान्स्नातकस्य यथोदितान्

इदमूचुर्महात्मानमनलप्रभवं भृगुम्

॥१॥

एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम्

कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो

॥२॥

स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः

श्रूयतां येन दोषेण मृत्युर्विप्रान्जिघांसति

॥३॥

अनभ्यासेन वेदानामाचारस्य च वर्जनात्

आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति

॥४॥

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च

अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च

॥५॥

लोहितान्वृक्षनिर्यासान्वृश्चनप्रभवांस्तथा

शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत्

॥६॥

वृथा कृसरसंयावं पायसापूपमेव च

अनुपाकृतमांसानि देवान्नानि हवींषि च

॥७॥

अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा

आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः

॥८॥

आरण्यानां च सर्वेषां मृगाणां माहिषं विना

स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि

॥९॥

दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम्

यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः

॥१०॥

क्रव्यादाञ्शकुनान्सर्वांस्तथा ग्रामनिवासिनः

अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत्

॥११॥

कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम्

सारसं रज्जुवालं च दात्यूहं शुकसारिके

॥१२॥

प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान्

निमज्जतश्च मत्स्यादान्सौनं वल्लूरमेव च

॥१३॥

बकं चैव बलाकां च काकोलं खञ्जरीटकम्

मत्स्यादान्विड्वराहांश्च मत्स्यानेव च सर्वशः

॥१४॥

यो यस्य मांसमश्नाति स तन्मांसाद उच्यते

मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत्

॥१५॥

पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः

राजीवान्सिंहतुण्डाश्च सशल्काश्चैव सर्वशः

॥१६॥

न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्

भक्ष्येष्वपि समुद्दिष्टान्सर्वान्पञ्चनखांस्तथा

॥१७॥

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा

भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतह्

॥१८॥

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम्

पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः

॥१९॥

अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत्

यतिचान्द्रायाणं वापि शेषेषूपवसेदहः

॥२०॥

संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः

अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः

॥२१॥

यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः

भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा

॥२२॥

बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम्

पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च

॥२३॥

यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम्

तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत्

॥२४॥

चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः

यवगोधूमजं सर्वं पयसश्चैव विक्रिया

॥२५॥

एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः

मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने

॥२६॥

प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया

यथाविधि नियुक्तस्तु प्राणानामेव चात्यये

॥२७॥

प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत्

स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्

॥२८॥

चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः

अहस्ताश्च सहस्तानां शूराणां चैव भीरवः

॥२९॥

नात्ता दुष्यत्यदन्नाद्यान्प्राणिनोऽहन्यहन्यपि

धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च

॥३०॥

यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः

अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते

॥३१॥

क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा

देवान्पितॄंश्चार्चयित्वा खादन्मांसं न दुष्यति

॥३२॥

नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः

जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः

॥३३॥

न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः

यादृशं भवति प्रेत्य वृथामांसानि खादतः

॥३४॥

नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः

स प्रेत्य पशुतां याति संभवानेकविंशतिम्

॥३५॥

असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कदा चन

मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः

॥३६॥

कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा

न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदा चन

॥३७॥

यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम्

वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि

॥३८॥

यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा

यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः

॥३९॥

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा

यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः

॥४०॥

मधुपर्के च यज्ञे च पितृदैवतकर्मणि

अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः

॥४१॥

एष्वर्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः

आत्मानं च पशुं चैव गमयत्युत्तमं गतिम्

॥४२॥

गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः

नावेदविहितां हिंसामापद्यपि समाचरेत्

॥४३॥

या वेदविहिता हिंसा नियतास्मिंश्चराचरे

अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ

॥४४॥

योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया

स जीवांश्च मृतश्चैव न क्व चित्सुखमेधते

॥४५॥

यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति

स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते

॥४६॥

यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च

तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन

॥४७॥

नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित्

न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत्

॥४८॥

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम्

प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात्

॥४९॥

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत्

न लोके प्रियतां याति व्याधिभिश्च न पीड्यते

॥५०॥

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी

संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः

॥५१॥

स्वमांसं परमांसेन यो वर्धयितुमिच्छति

अनभ्यर्च्य पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत्

॥५२॥

वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः

मांसानि च न खादेद्यस्तयोः पुण्यफलं समम्

॥५३॥

फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः

न तत्फलमवाप्नोति यन्मांसपरिवर्जनात्

॥५४॥

मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम्

एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः

॥५५॥

न मांसभक्षणे दोषो न मद्ये न च मैथुने

प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला

॥५६॥

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च

चतुर्णामपि वर्णानां यथावदनुपूर्वशः

॥५७॥

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते

अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते

॥५८॥

दशाहं शावमाशौचं सपिण्डेषु विधीयते

अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा

॥५९॥

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते

समानोदकभावस्तु जन्मनाम्नोरवेदने

॥६०॥

यथेदं शावमाशौचं सपिण्डेषु विधीयते

जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम्

॥६१॥

सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्

सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः

॥६२॥

निरस्य तु पुमाञ्शुक्रमुपस्पृस्यैव शुध्यति

बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम्

॥६३॥

अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः

शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः

॥६४॥

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन्

प्रेतहारैः समं तत्र दशरात्रेण शुध्यति

॥६५॥

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति

रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला

॥६६॥

नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता

निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते

॥६७॥

ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः

अलंकृत्य शुचौ भूमावस्थिसंचयनादृते

॥६८॥

नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया

अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहमेव तु

॥६९॥

नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया

जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति

॥७०॥

सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम्

जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते

॥७१॥

स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः

यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः

॥७२॥

अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम्

मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ

॥७३॥

संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः

असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः

॥७४॥

विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम्

यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत्

॥७५॥

अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत्

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति

॥७६॥

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च

सवासा जलमाप्लुत्य शुद्धो भवति मानवः

॥७७॥

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते

सवासा जलमाप्लुत्य सद्य एव विशुध्यति

॥७८॥

अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी

तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम्

॥७९॥

त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति

तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः

॥८०॥

श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत्

मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च

॥८१॥

प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः

अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ

॥८२॥

शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः

वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति

॥८३॥

न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः

न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत्

॥८४॥

दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा

शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति

॥८५॥

आचम्य प्रयतो नित्यं जपेदशुचिदर्शने

सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः

॥८६॥

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति

आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा

॥८७॥

आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात्

समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति

॥८८॥

वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम्

आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया

॥८९॥

पाषण्डमाश्रितानां च चरन्तीनां च कामतः

गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम्

॥९०॥

आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम्

निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते

॥९१॥

दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत्

पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः

॥९२॥

न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम्

ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा

॥९३॥

राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते

प्रजानां परिरक्षार्थमासनं चात्र कारणम्

॥९४॥

डिम्भाहवहतानां च विद्युता पार्थिवेन च

गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः

॥९५॥

सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च

अष्टानां लोकपालानां वपुर्धारयते नृपः

॥९६॥

लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते

शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ

॥९७॥

उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च

सद्यः संतिष्ठते यज्ञस्तथाशौचमिति स्थितिः

॥९८॥

विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम्

वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः

॥९९॥

एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः

असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत

॥१००॥

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत्

विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्

॥१०१॥

यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति

अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत्

॥१०२॥

अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च

स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति

॥१०३॥

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत्

अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता

॥१०४॥

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम्

वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम्

॥१०५॥

सर्वेषामेव शौचानामर्थशौचं परं स्मृतं

योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः

॥१०६॥

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः

प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः

॥१०७॥

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति

रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः

॥१०८॥

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति

विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति

॥१०९॥

एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः

नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम्

॥११०॥

तैजसानां मणीनां च सर्वस्याश्ममयस्य च

भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः

॥१११॥

निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति

अब्जमश्ममयं चैव राजतं चानुपस्कृतम्

॥११२॥

अपामग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ

तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः

॥११३॥

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च

शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः

॥११४॥

द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्

प्रोक्षणं संहतानां च दारवाणां च तक्षणम्

॥११५॥

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि

चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु

॥११६॥

चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा

स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च

॥११७॥

अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम्

प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते

॥११८॥

चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च

शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते

॥११९॥

कौशेयाविकयोरूषैः कुतपानामरिष्टकैः

श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः

॥१२०॥

क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च

शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा

॥१२१॥

प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति

मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम्

॥१२२॥

मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैह्पूयशोणितैः

संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम्

॥१२३॥

संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च

गवां च परिवासेन भूमिः शुध्यति पञ्चभिः

॥१२४॥

पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम्

दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति

॥१२५॥

यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः

तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु

॥१२६॥

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्

अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते

॥१२७॥

आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत्

अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः

॥१२८॥

नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्

ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः

॥१२९॥

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने

प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः

॥१३०॥

श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत्

क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः

॥१३१॥

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः

यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः

॥१३२॥

मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः

रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत्

॥१३३॥

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत्

दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि

॥१३४॥

वसा शुक्रमसृङ्मज्जा मूत्रविट्घ्राणकर्णविट्

श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः

॥१३५॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश

उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता

॥१३६॥

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्

त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम्

॥१३७॥

कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत्

वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा

॥१३८॥

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्

शरीरं शौचमिच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत्

॥१३९॥

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम्

वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम्

॥१४०॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः

न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम्

॥१४१॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्

भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत्

॥१४२॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन

अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात्

॥१४३॥

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत्

आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम्

॥१४४॥

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च

पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन्

॥१४५॥

एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च

उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत

॥१४६॥

बालया वा युवत्या वा वृद्धया वापि योषिता

न स्वातन्त्र्येण कर्तव्यं किं चिद्कार्यं गृहेष्वपि

॥१४७॥

बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने

पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम्

॥१४८॥

पित्रा भर्त्रा सुतैर्वापि नेच्छेद्विरहमात्मनः

एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले

॥१४९॥

सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया

सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया

॥१५०॥

यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः

तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत्

॥१५१॥

मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः

प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम्

॥१५२॥

अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः

सुखस्य नित्यं दातेह परलोके च योषितः

॥१५३॥

विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः

उपचार्यः स्त्रिया साध्व्या सततं देववत्पतिः

॥१५४॥

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्

पतिं शुश्रूषते येन तेन स्वर्गे महीयते

॥१५५॥

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा

पतिलोकमभीप्सन्ती नाचरेत्किं चिदप्रियम्

॥१५६॥

कामं तु क्सपयेद्देहं पुष्पमूलफलैः शुभैः

न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु

॥१५७॥

आसीता मरणात्क्सान्ता नियता ब्रह्मचारिणी

यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्

॥१५८॥

अनेकानि सहस्राणि कुमारब्रह्मचारिणाम्

दिवं गतानि विप्राणामकृत्वा कुलसंततिम्

॥१५९॥

मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता

स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः

॥१६०॥

अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते

सेह निन्दामवाप्नोति परलोकाच्च हीयते

॥१६१॥

नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे

न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते

॥१६२॥

पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते

निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते

॥१६३॥

व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्

शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते

॥१६४॥

पतिं या नाभिचरति मनोवाग्देहसंयुता

सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते

॥१६५॥

अनेन नारी वृत्तेन मनोवाग्देहसंयता

इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च

॥१६६॥

एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम्

दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित्

॥१६७॥

भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि

पुनर्दारक्रियां कुर्यात्पुनराधानमेव च

॥१६८॥

अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत्

द्वितीयमायुषो भागं कृतदारो गृहे वसेत्

॥१६९॥