मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

एकादशोऽध्यायः

3
मनुस्मृतिः · 11

सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम्

गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः

॥१॥

न वै तान्स्नातकान्विद्याद्ब्राह्मणान्धर्मभिक्षुकान्

निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः

॥२॥

एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम्

इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते

॥३॥

सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत्

ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम्

॥४॥

कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति

रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः

॥५॥

धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत्

वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते

॥६॥

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये

अधिकं वापि विद्येत स सोमं पातुमर्हति

॥७॥

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः

स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम्

॥८॥

शक्तः परजने दाता स्वजने दुःखजीविनि

मध्वापातो विषास्वादः स धर्मप्रतिरूपकः

॥९॥

भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम्

तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च

॥१०॥

यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः

ब्राह्मणस्य विशेषेन धार्मिके सति राजनि

॥११॥

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः

कुटुम्बात्तस्य तद्द्रव्यमाहरेद्यज्ञसिद्धये

॥१२॥

आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः

न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः

॥१३॥

योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः

तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्

॥१४॥

आदाननित्याच्चादातुराहरेदप्रयच्छतः

तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते

॥१५॥

तथाऐव सप्तमे भक्ते भक्तानि षडनश्नता

अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः

॥१६॥

खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते

आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति

॥१७॥

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन

दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति

॥१८॥

योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति

स कृत्वा प्लवमात्मानं संतारयति तावुभौ

॥१९॥

यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः

अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते

॥२०॥

न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः

क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा

॥२१॥

तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः

श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत्

॥२२॥

कल्पयित्वास्य वृत्तिं च रक्षेदेनं समन्ततः

राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात्

॥२३॥

न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हि चित्

यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते

॥२४॥

याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति

स याति भासतां विप्रः काकतां वा शतं समाः

॥२५॥

देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः

स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति

॥२६॥

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये

कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे

॥२७॥

आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः

स नाप्नोति फलं तस्य परत्रेति विचारितम्

॥२८॥

विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः

आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः

॥२९॥

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते

न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्

॥३०॥

न ब्राह्मणो वेदयेत किं चिद्राजनि धर्मवित्

स्ववीर्येणैव ताञ्शिष्यान्मानवानपकारिणः

॥३१॥

स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम्

तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन्द्विजः

॥३२॥

श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन्

वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः

॥३३॥

क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः

धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः

॥३४॥

विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते

तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत्

॥३५॥

न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः

होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा

॥३६॥

नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत्

तस्माद्वैतानकुशलो होता स्याद्वेदपारगः

॥३७॥

प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्

अनाहिताग्निर्भवति ब्राह्मणो विभवे सति

॥३८॥

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः

न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन

॥३९॥

इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून्

हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत्

॥४०॥

अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः

चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्

॥४१॥

ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते

ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः

॥४२॥

तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम्

पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत्

॥४३॥

अकुर्वन्विहितं कर्म निन्दितं च समाचरन्

प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः

॥४४॥

अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः

कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्

॥४५॥

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति

कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः

॥४६॥

प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा

न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः

॥४७॥

इह दुश्चरितैः के चित्के चित्पूर्वकृतैस्तथा

प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम्

॥४८॥

सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम्

ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः

॥४९॥

पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम्

धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः

॥५०॥

अन्नहर्तामयावित्वं मौक्यं वागपहारकः

वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः

॥५१॥

एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः

जडमूकान्धबधिरा विकृताकृतयस्तथा

॥५२॥

चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये

निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः

॥५३॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः

महान्ति पातकान्याहुः संसर्गश्चापि तैः सह

॥५४॥

अनृतं च समुत्कर्षे राजगामि च पैशुनम्

गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया

॥५५॥

ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः

गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट्

॥५६॥

निक्षेपस्यापहरणं नराश्वरजतस्य च

भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम्

॥५७॥

रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च

सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः

॥५८॥

गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः

गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च

॥५९॥

परिवित्तितानुजेऽनूढे परिवेदनमेव च

तयोर्दानं च कन्यायास्तयोरेव च याजनम्

॥६०॥

कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम्

तडागारामदाराणामपत्यस्य च विक्रयः

॥६१॥

व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च

भृत्या चाध्ययनादानमपण्यानां च विक्रयः

॥६२॥

सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम्

हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च

॥६३॥

इन्धनार्थमशुष्काणां द्रुमाणामवपातनम्

आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा

॥६४॥

अनाहिताग्निता स्तेयमृणानामनपक्रिया

असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया

॥६५॥

धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्

स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम्

॥६६॥

ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः

जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम्

॥६७॥

खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा

संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च

॥६८॥

निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम्

अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्

॥६९॥

कृमिकीटवयोहत्या मद्यानुगतभोजनम्

फलैधःकुसुमस्तेयमधैर्यं च मलावहम्

॥७०॥

एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक्

यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यङ्निबोधत

॥७१॥

ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत्

भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम्

॥७२॥

लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः

प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः

॥७३॥

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा

अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा

॥७४॥

जपन्वान्यतमं वेदं योजनानां शतं व्रजेत्

ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः

॥७५॥

सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत्

धनं हि जीवनायालं गृहं वा सपरिच्छदम्

॥७६॥

हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम्

जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम्

॥७७॥

कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा

आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः

॥७८॥

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत्

मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च

॥७९॥

त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा

विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते

॥८०॥

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः

समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति

॥८१॥

शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे

स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते

॥८२॥

धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते

तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति

॥८३॥

ब्रह्मणः संभवेनैव देवानामपि दैवतम्

प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम्

॥८४॥

तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम्

सा तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक्

॥८५॥

अतोऽन्यतममास्थाय विधिं विप्रः समाहितः

ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया

॥८६॥

हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत्

राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम्

॥८७॥

उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा

अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम्

॥८८॥

इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्

कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते

॥८९॥

सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत्

तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः

॥९०॥

गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा

पयो घृतं वा मरणाद्गोशकृद्रसमेव वा

॥९१॥

कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि

सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी

॥९२॥

सुरा वै मलमन्नानां पाप्मा च मलमुच्यते

तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्

॥९३॥

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा

यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः

॥९४॥

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम्

तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः

॥९५॥

अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत्

अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः

॥९६॥

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत्

तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति

॥९७॥

एषा विचित्राभिहिता सुरापानस्य निष्कृतिः

अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम्

॥९८॥

सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु

स्वकर्म ख्यापयन्ब्रूयान्मां भवाननुशास्त्विति

॥९९॥

गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम्

वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु

॥१००॥

तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम्

चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम्

॥१०१॥

एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः

गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत्

॥१०२॥

गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये

सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति

॥१०३॥

स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ

नैरृतीं दिशमातिष्ठेदा निपातादजिह्मगः

॥१०४॥

खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने

प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः

॥१०५॥

चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः

हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये

॥१०६॥

एतैर्व्रतैरपोहेयुर्महापातकिनो मलम्

उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः

॥१०७॥

उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत्

कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः

॥१०८॥

चतुर्थकालमश्नीयादक्षारलवणं मितम्

गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः

॥१०९॥

दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत्

शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत्

॥११०॥

तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत्

आसीनासु तथासीनो नियतो वीतमत्सरः

॥१११॥

आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः

पतितां पङ्कलग्नं वा सर्वोपायैर्विमोचयेत्

॥११२॥

उष्णे वर्षति शीते वा मारुते वाति वा भृशम्

न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः

॥११३॥

आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले

भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम्

॥११४॥

अनेन विधिना यस्तु गोघ्नो गामनुगच्छति

स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति

॥११५॥

वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः

अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत्

॥११६॥

एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः

अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा

॥११७॥

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे

पाकयज्ञविधानेन यजेत निरृतिं निशि

॥११८॥

हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा

वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः

॥११९॥

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः

अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः

॥१२०॥

मारुतं पुरुहूतं च गुरुं पावकमेव च

चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः

॥१२१॥

एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम्

सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन्

॥१२२॥

तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम्

उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति

॥१२३॥

जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया

चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया

॥१२४॥

संकरापात्रकृत्यासु मासं शोधनमैन्दवम्

मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्

॥१२५॥

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः

वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः

॥१२६॥

अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः

वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः

॥१२७॥

त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम्

वसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः

॥१२८॥

एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः

प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम्

॥१२९॥

एतदेव व्रतं कृत्स्नं षण्मासाञ्शूद्रहा चरेत्

वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः

॥१३०॥

मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च

श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत्

॥१३१॥

पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत्

उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत्

॥१३२॥

अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः

पलालभारकं षण्ढे सैसकं चैकमाषकम्

॥१३३॥

घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ

शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम्

॥१३४॥

हत्वा हंसं बलाकां च बकं बर्हिणमेव च

वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम्

॥१३५॥

वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम्

अजमेषावनड्वाहं खरं हत्वैकहायनम्

॥१३६॥

क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम्

अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्

॥१३७॥

जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये

चतुर्णामपि वर्णानां नारीर्हत्वानवस्थिताः

॥१३८॥

दानेन वधनिर्णेकं सर्पादीनामशक्नुवन्

एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये

॥१३९॥

अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे

पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत्

॥१४०॥

किं चिदेव तु विप्राय दद्यादस्थिमतां वधे

अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति

॥१४१॥

फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम्

गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम्

॥१४२॥

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः

फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्

॥१४३॥

कृष्टजानामोषधीनां जातानां च स्वयं वने

वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः

॥१४४॥

एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम्

ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे

॥१४५॥

अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति

मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः

॥१४६॥

अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा

पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः

॥१४७॥

स्पृष्ट्व दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च

शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम्

॥१४८॥

ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः

प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति

॥१४९॥

अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः

॥१५०॥

वपनं मेखला दण्डो भैक्षचर्या व्रतानि च

निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि

॥१५१॥

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च

जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान्पिबेत्

॥१५२॥

शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः

तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः

॥१५३॥

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः

प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत्

॥१५४॥

शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च

अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत्

॥१५५॥

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे

नरकाकखराणां च तप्तकृच्छ्रं विशोधनम्

॥१५६॥

मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः

स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत्

॥१५७॥

ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथं चन

स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत्

॥१५८॥

बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च

केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम्

॥१५९॥

अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता

अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः

॥१६०॥

एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः

स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः

॥१६१॥

धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः

स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति

॥१६२॥

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च

कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम्

॥१६३॥

द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः

चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये

॥१६४॥

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च

पुष्पमूलफलानां च पञ्चगव्यं विशोधनम्

॥१६५॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च

चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम्

॥१६६॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च

अयःकांस्योपलानां च द्वादशाहं कणान्नता

॥१६७॥

कार्पासकीटजोर्णानां द्विशफैकशफस्य च

पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः

॥१६८॥

एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः

अगम्यागमनीयं तु व्रतैरेभिरपानुदेत्

॥१६९॥

गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु

सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च

॥१७०॥

पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च

मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत्

॥१७१॥

एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्

ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः

॥१७२॥

अमानुषीषू पुरुष उदक्यायामयोनिषु

रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत्

॥१७३॥

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः

गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत्

॥१७४॥

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च

पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति

॥१७५॥

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि

यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्

॥१७६॥

सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता

कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम्

॥१७७॥

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः

तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति

॥१७८॥

एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः

पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः

॥१७९॥

संवत्सरेण पतति पतितेन सहाचरन्

याजनाध्यापनाद्यौनान्न तु यानासनाशनात्

॥१८०॥

यो येन पतितेनैषां संसर्गं याति मानवः

स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये

॥१८१॥

पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः

निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ

॥१८२॥

दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा

अहोरात्रमुपासीरन्नशौचं बान्धवैः सह

॥१८३॥

निवर्तेरंश्च तस्मात्तु संभाषणसहासने

दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी

॥१८४॥

ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम्

ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः

॥१८५॥

प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम्

तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये

॥१८६॥

स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम्

सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत्

॥१८७॥

एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि

वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके

॥१८८॥

एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत्

कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित्

॥१८९॥

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः

शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत्

॥१९०॥

येषां द्विजानां सावित्री नानूच्येत यथाविधि

तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत्

॥१९१॥

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः

ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत्

॥१९२॥

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्

तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च

॥१९३॥

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः

मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात्

॥१९४॥

उपवासकृशं तं तु गोव्रजात्पुनरागतम्

प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम्

॥१९५॥

सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम्

गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम्

॥१९६॥

व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च

अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति

॥१९७॥

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः

संवत्सरं यवाहारस्तत्पापमपसेधति

॥१९८॥

श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च

नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति

॥१९९॥

षष्ठान्नकालता मासं संहिताजप एव वा

होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम्

॥२००॥

उष्ट्रयानं समारुह्य खरयानं तु कामतः

स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति

॥२०१॥

विनाद्भिरप्सु वाप्यार्तः शारीरं संनिषेव्य च

सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति

॥२०२॥

वेदोदितानां नित्यानां कर्मणां समतिक्रमे

स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्

॥२०३॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः

स्नात्वानश्नन्नहः शेषमभिवाद्य प्रसादयेत्

॥२०४॥

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा

विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत्

॥२०५॥

अवगूर्य त्वब्दशतं सहस्रमभिहत्य च

जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते

॥२०६॥

शोणितं यावतः पांसून्संगृह्णाति महीतले

तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत्

॥२०७॥

अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने

कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम्

॥२०८॥

अनुक्तनिष्कृतीनां तु पापानामपनुत्तये

शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत्

॥२०९॥

यैरभ्युपायैरेनांसि मानवो व्यपकर्षति

तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान्

॥२१०॥

त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्

त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः

॥२११॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्

॥२१२॥

एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत्

त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन्द्विजः

॥२१३॥

तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान्

प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः

॥२१४॥

यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्

पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः

॥२१५॥

एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत्

उपस्पृशंस्त्रिषवणमेतच्चाण्द्रायणं स्मृतम्

॥२१६॥

एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे

शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम्

॥२१७॥

अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते

नियतात्मा हविष्याशी यतिचान्द्रायणं चरन्

॥२१८॥

चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः

चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्

॥२१९॥

यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः

मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम्

॥२२०॥

एतद्रुद्रास्तथादित्या वसवश्चाचरन्व्रतम्

सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः

॥२२१॥

महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्

अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्

॥२२२॥

त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत्

स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित्

॥२२३॥

स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा

ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः

॥२२४॥

सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः

सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः

॥२२५॥

एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः

अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत्

॥२२६॥

ख्यापनेनानुतापेन तपसाध्ययनेन च

पापकृन्मुच्यते पापात्तथा दानेन चापदि

॥२२७॥

यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते

तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते

॥२२८॥

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति

तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते

॥२२९॥

कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते

नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः

॥२३०॥

एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम्

मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत्

॥२३१॥

अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्

तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत्

॥२३२॥

यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम्

तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्

॥२३३॥

तपोमूलमिदं सर्वं दैवमानुषकं सुखम्

तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः

॥२३४॥

ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम्

वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम्

॥२३५॥

ऋषयः संयतात्मानः फलमूलानिलाशनाः

तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्

॥२३६॥

औषधान्यगदो विद्या दैवी च विविधा स्थितिः

तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम्

॥२३७॥

यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम्

सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम्

॥२३८॥

महापातकिनश्चैव शेषाश्चाकार्यकारिणः

तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः

॥२३९॥

कीताश्चाहिपतंगाश्च पशवश्च वयांसि च

स्थावराणि च भूतानि दिवं यान्ति तपोबलात्

॥२४०॥

यत्किं चिदेनः कुर्वन्ति मनोवाङ्गूर्तिभिर्जनाः

तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः

॥२४१॥

तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः

इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च

॥२४२॥

प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः

तथैव वेदानृषयस्तपसा प्रतिपेदिरे

॥२४३॥

इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते

सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम्

॥२४४॥

वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा

नाशयन्त्याशु पापानि महापातकजान्यपि

॥२४५॥

यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात्

तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित्

॥२४६॥

इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि

अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत

॥२४७॥

सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश

अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः

॥२४८॥

कौत्सं जप्त्वाप इत्येतद्वसिष्ठं च प्रतीत्यृचम्

माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति

॥२४९॥

सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च

अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः

॥२५०॥

हविष्पान्तीयमभ्यस्य न तमं ह इतीति च

जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः

॥२५१॥

एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्

अवेत्यृचं जपेदब्दं यत्किं चेदमितीति वा

॥२५२॥

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्

जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात्

॥२५३॥

सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति

स्रवन्त्यामाचरन्स्नानमर्यम्णामिति च तृचम्

॥२५४॥

अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत्

अप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्षभुक्

॥२५५॥

मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः

सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम्

॥२५६॥

महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः

अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति

॥२५७॥

अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम्

मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः

॥२५८॥

त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः

मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्षणम्

॥२५९॥

यथाश्वमेधः क्रतुराट्सर्वपापापनोदनः

तथाघमर्षणं सूक्तं सर्वपापापनोदनम्

॥२६०॥

हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः

ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किं चन

॥२६१॥

ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः

साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते

॥२६२॥

यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति

तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति

॥२६३॥

ऋचो यजूंषि चान्यानि सामानि विविधानि च

एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित्

॥२६४॥

आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता

स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित्

॥२६५॥