राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः
संभवश्च यथा तस्य सिद्धिश्च परमा यथा
॥१॥ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्
॥२॥अराजके हि लोकेऽस्मिन्सर्वतो विद्रुतो भयात्
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः
॥३॥इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः
॥४॥यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः
तस्मादभिभवत्येष सर्वभूतानि तेजसा
॥५॥तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्
॥६॥सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट्
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः
॥७॥बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः
महती देवता ह्येषा नररूपेण तिष्ठति
॥८॥एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम्
॥९॥कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः
॥१०॥यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः
॥११॥तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम्
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः
॥१२॥तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः
अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत्
॥१३॥तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः
॥१४॥तस्य सर्वाणि भूतानि स्थावराणि चराणि च
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च
॥१५॥तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु
॥१६॥स राजा पुरुषो दण्डः स नेता शासिता च सः
चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः
॥१७॥दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः
॥१८॥समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः
॥१९॥यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः
॥२०॥अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा
स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम्
॥२१॥सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते
॥२२॥देवदानवगन्धर्वा रक्षांसि पतगोरगाः
तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः
॥२३॥दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्
॥२४॥यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति
॥२५॥तस्याहुः संप्रणेतारं राजानं सत्यवादिनम्
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्
॥२६॥तं राजा प्रणयन्सम्यक्त्रिवर्गेणाभिवर्धते
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते
॥२७॥दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्
॥२८॥ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत्
॥२९॥सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च
॥३०॥शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता
॥३१॥स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः
॥३२॥एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि
॥३३॥अतस्तु विपरीतस्य नृपतेरजितात्मनः
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि
॥३४॥स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः
वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता
॥३५॥तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः
॥३६॥ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः
त्रैविद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने
॥३७॥वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन्
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते
॥३८॥तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः
विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित्
॥३९॥बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे
॥४०॥वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः
सुदाः पैजवनश्चैव सुमुखो निमिरेव च
॥४१॥पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च
कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः
॥४२॥त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम्
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः
॥४३॥इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः
॥४४॥दश कामसमुत्थानि तथाष्टौ क्रोधजानि च
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत्
॥४५॥कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु
॥४६॥मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः
॥४७॥पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः
॥४८॥द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ
॥४९॥पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे
॥५०॥दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा
॥५१॥सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः
पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान्
॥५२॥व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते
व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः
॥५३॥मौलाञ्शास्त्रविदः शूरांल्लब्धलक्षान्कुलोद्भवान्
सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्
॥५४॥अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्
विशेषतोऽसहायेन किं तु राज्यं महोदयम्
॥५५॥तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम्
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च
॥५६॥तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक्
समस्तानां च कार्येषु विदध्याद्धितमात्मनः
॥५७॥सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता
मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम्
॥५८॥नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निःक्षिपेत्
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत्
॥५९॥अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान्
सम्यगर्थसमाहर्तॄनमात्यान्सुपरीक्षितान्
॥६०॥निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः
तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान्
॥६१॥तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान्
शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने
॥६२॥दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम्
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम्
॥६३॥अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित्
वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते
॥६४॥अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया
नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ
॥६५॥दूत एव हि संधत्ते भिनत्त्येव च संहतान्
दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः
॥६६॥स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः
आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम्
॥६७॥बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम्
तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत्
॥६८॥जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम्
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत्
॥६९॥धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्
॥७०॥सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत्
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते
॥७१॥त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः
त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः
॥७२॥यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम्
॥७३॥एकः शतं योधयति प्राकारस्थो धनुर्धरः
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते
॥७४॥तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च
॥७५॥तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम्
॥७६॥तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम्
कुले महति संभूतां हृद्यां रूपगुणान्वीताम्
॥७७॥पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः
तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च
॥७८॥यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः
धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च
॥७९॥सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम्
स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु
॥८०॥अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः
तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम्
॥८१॥आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत्
नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते
॥८२॥न तं स्तेना न चामित्रा हरन्ति न च नश्यति
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः
॥८३॥न स्कन्दते न व्यथते न विनश्यति कर्हि चित्
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम्
॥८४॥सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे
प्राधीते शतसाहस्रमनन्तं वेदपारगे
॥८५॥पात्रस्य हि विशेषेण श्रद्दधानतयैव च
अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते
॥८६॥समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः
न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन्
॥८७॥संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम्
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम्
॥८८॥आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः
॥८९॥न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून्
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः
॥९०॥न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम्
न मुक्तकेशं नासीनं न तवास्मीति वादिनम्
॥९१॥न सुप्तं न विसंनाहं न नग्नं न निरायुधम्
नायुध्यमानं पश्यन्तं न परेण समागतम्
॥९२॥नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतं
न भीतं न परावृत्तं सतां धर्ममनुस्मरन्
॥९३॥यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः
भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते
॥९४॥यच्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम्
भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु
॥९५॥रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः
सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत्
॥९६॥राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः
राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम्
॥९७॥एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः
अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून्
॥९८॥अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत्
॥९९॥एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्
अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः
॥१००॥अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया
रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत्
॥१०१॥नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः
॥१०२॥नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत्
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत्
॥१०३॥अमाययैव वर्तेत न कथं चन मायया
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः
॥१०४॥नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
॥१०५॥बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमे
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत्
॥१०६॥एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः
॥१०७॥यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः
दण्डेनैव प्रसह्यैताञ्शनकैर्वशमानयेत्
॥१०८॥सामादीनामुपायानां चतुर्णामपि पण्डिताः
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये
॥१०९॥यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः
॥११०॥मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः
॥१११॥शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्
॥११२॥राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत्
सुसंगृहीतराष्ट्रे हि पार्थिवः सुखमेधते
॥११३॥द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम्
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम्
॥११४॥ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा
विंशतीशं शतेशं च सहस्रपतिमेव च
॥११५॥ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम्
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने
॥११६॥विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत्
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्
॥११७॥यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्
॥११८॥दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्
॥११९॥तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः
॥१२०॥नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम्
उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम्
॥१२१॥स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम्
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः
॥१२२॥राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः
॥१२३॥ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः
तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम्
॥१२४॥राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च
प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः
॥१२५॥पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम्
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः
॥१२६॥क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम्
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान्
॥१२७॥यथा फलेन युज्येत राजा कर्ता च कर्मणाम्
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान्
॥१२८॥यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः
॥१२९॥पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः
धान्यानामष्टमो भागः षष्ठो द्वादश एव वा
॥१३०॥आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्
गन्धौषधिरसानां च पुष्पमूलफलस्य च
॥१३१॥पत्रशाकतृणानां च चर्मणां वैदलस्य च
मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च
॥१३२॥म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम्
न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन्
॥१३३॥यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा
तस्यापि तत्क्षुधा राष्ट्रमचिरेनैव सीदति
॥१३४॥श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत्
संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवाउरसम्
॥१३५॥संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम्
तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च
॥१३६॥यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम्
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्
॥१३७॥कारुकाञ्शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः
एकैकं कारयेत्कर्म मासि मासि महीपतिः
॥१३८॥नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया
उच्छिन्दन्ह्यात्मनो मूलमाट्मानं तांश्च पीदयेत्
॥१३९॥तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः
तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः
॥१४०॥अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम्
स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम्
॥१४१॥एवं सर्वं विधायेदमितिकर्तव्यमात्मनः
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः
॥१४२॥विक्रोशन्त्यो यस्य राष्ट्राद्ह्रियन्ते दस्युभिः प्रजाः
संपश्यतः सभृत्यस्य मृतः स न तु जीवति
॥१४३॥क्षत्रियस्य परो धर्मः प्राजानामेव पालनम्
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते
॥१४४॥उत्थाय पश्चिमे यामे कृतशौचः समाहितः
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम्
॥१४५॥तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत्
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः
॥१४६॥गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः
अरण्ये निःशलाके वा मन्त्रयेदविभावितः
॥१४७॥यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः
॥१४८॥जडमूकान्धबधिरांस्तैर्यग्योनान्वयोऽतिगान्
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत्
॥१४९॥भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत्
॥१५०॥मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः
चिन्तयेद्धर्मकामार्थान्सार्धं तैरेक एव वा
॥१५१॥परस्परविरुद्धानां तेषां च समुपार्जनम्
कन्यानां संप्रदानं च कुमाराणां च रक्षणं
॥१५२॥दूतसंप्रेषणं चैव कार्यशेषं तथैव च
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम्
॥१५३॥कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः
अनुरागापरागौ च प्रचारं मण्डलस्य च
॥१५४॥मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम्
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः
॥१५५॥एताः प्रकृतयो मूलं मण्डलस्य समासतः
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः
॥१५६॥अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः
॥१५७॥अनन्तरमरिं विद्यादरिसेविनमेव च
अरेरनन्तरं मित्रमुदासीनं तयोः परम्
॥१५८॥तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च
॥१५९॥संधिं च विग्रहं चैव यानमासनमेव च
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा
॥१६०॥आसनं चैव यानं च संधिं विग्रहमेव च
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च
॥१६१॥संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च
उभे यानासने चैव द्विविधः संश्रयः स्मृतः
॥१६२॥समानयानकर्मा च विपरीतस्तथैव च
तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः
॥१६३॥स्वयंकृतश्च कार्यार्थमकाले काल एव वा
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः
॥१६४॥एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया
संहतस्य च मित्रेण द्विविधं यानमुच्यते
॥१६५॥क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्
॥१६६॥बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः
॥१६७॥अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः
साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः
॥१६८॥यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत्
॥१६९॥यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम्
॥१७०॥यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्
परस्य विपरीतं च तदा यायाद्रिपुं प्रति
॥१७१॥यदा तु स्यात्परिक्षीणो वाहनेन बलेन च
तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्
॥१७२॥मन्येतारिं यदा राजा सर्वथा बलवत्तरम्
तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः
॥१७३॥यदा परबलानां तु गमनीयतमो भवेत्
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम्
॥१७४॥निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा
॥१७५॥यदि तत्रापि संपश्येद्दोषं संश्रयकारितम्
सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत्
॥१७६॥सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः
॥१७७॥आयतिं सर्वकार्याणां तदात्वं च विचारयेत्
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः
॥१७८॥आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते
॥१७९॥यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः
तथा सर्वं संविदध्यादेष सामासिको नयः
॥१८०॥तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः
तदानेन विधानेन यायादरिपुरं शनैः
॥१८१॥मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम्
॥१८२॥अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम्
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः
॥१८३॥कृत्वा विधानं मूले तु यात्रिकं च यथाविधि
उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च
॥१८४॥संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम्
सांपरायिककल्पेन यायादरिपुरं प्रति
॥१८५॥शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत्
गतप्रत्यागते चैव स हि कष्टतरो रिपुः
॥१८६॥दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा
वराहमकराभ्यां वा सूच्या वा गरुडेन वा
॥१८७॥यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम्
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्
॥१८८॥सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत्
यतश्च भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम्
॥१८९॥गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः
स्थाने युद्धे च कुशलानभीरूनविकारिणः
॥१९०॥संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत्
॥१९१॥स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले
॥१९२॥कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ्शूरसेनजान्
दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत्
॥१९३॥प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत्
चेष्टाश्चैव विजानीयादरीन्योधयतामपि
॥१९४॥उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत्
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्
॥१९५॥भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा
॥१९६॥उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम्
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः
॥१९७॥साम्ना दानेन भेदेन समस्तैरथ वा पृथक्
विजेतुं प्रयतेतारीन्न युद्धेन कदा चन
॥१९८॥अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत्
॥१९९॥त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे
तथा युध्येत संपन्नो विजयेत रिपून्यथा
॥२००॥जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान्
प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च
॥२०१॥सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम्
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्
॥२०२॥प्रमाणानि च कुर्वीत तेषां धर्मान्यथोदितान्
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह
॥२०३॥आदानमप्रियकरं दानं च प्रियकारकम्
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते
॥२०४॥सर्वं कर्मेदमायत्तं विधाने दैवमानुषे
तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया
॥२०५॥सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः
मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम्
॥२०६॥पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले
मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात्
॥२०७॥हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्
॥२०८॥धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते
॥२०९॥प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च
कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः
॥२१०॥आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता
स्थौललक्ष्यं च सततमुदासीनगुणोदयः
॥२११॥क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्
॥२१२॥आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि
आत्मानं सततं रक्षेद्दारैरपि धनैरपि
॥२१३॥सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः
॥२१४॥उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः
एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये
॥२१५॥एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः
व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत्
॥२१६॥तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः
॥२१७॥विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत्
विषघ्नानि च रत्नानि नियतो धारयेत्सदा
॥२१८॥परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः
॥२१९॥एवं प्रयत्नं कुर्वीत यानशय्यासनाशने
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च
॥२२०॥भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत्
॥२२१॥अलंकृतश्च संपश्येदायुधीयं पुनर्जनम्
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च
॥२२२॥संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत्
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम्
॥२२३॥गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम्
प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः
॥२२४॥तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः
संविशेत्तं यथाकालमुत्तिष्ठेच्च गतक्लमः
॥२२५॥एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः
अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत्
॥२२६॥