मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवापराधक्षमापन-स्तोत्रम्

3

श्रीशङ्करभगवत्पादकृतम्

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां

विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।

यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥१॥

बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा

नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति ।

नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥२॥

प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ

दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।

शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥३॥

वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः

पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥४॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं

श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ।

ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥५॥

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं

पूजार्थं वा कदाचिद् बहुतरगहनात्खण्डबिल्वीदलानि ।

नानीता पद्ममाला सरसि विकसिता गन्धधूपैस्त्वदर्थं

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥६॥

दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं

नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।

धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥७॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो

हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।

नो तप्तं गङ्गातीरे व्रतजननियमै रुद्रजाप्यैर्न वेदैः

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥८॥

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके सूक्ष्ममार्गे

शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ।

लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥९॥

नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो

नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।

उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि

क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री-महादेव शम्भो ॥

॥१०॥

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे

सर्पैर्भूषितकण्ठकर्णयुगले नेत्रोत्थवैश्वानरे ।

दन्तित्वकृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे

मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥

॥११॥

किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं

किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः

स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥

॥१२॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं

प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।

लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं

तस्मात् त्वां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥

॥१३॥

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं

वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।

वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं

वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥

॥१४॥

गात्रं भस्मसितं च हसितं हस्ते कपालं सितं

खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ।

गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि

सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥

॥१५॥

करचरणकृतं वाक्कायजं कर्मजं वा

श्रवणनयनजं वा मानसं वाऽपराधम् ।

विहितमविहितं वा सर्वमेतत्क्ष्मस्व

जय जय करुणाब्धे श्री-महादेव शम्भो ॥

॥१६॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-शिवापराधक्षमापणस्तोत्रं सम्पूर्णम्