पारम्परिकम्
चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञी महादेवः सदाराध्या सदाशिवः ॥
॥१॥शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥
॥२॥कामकोटि-सुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरिः शूलिनी शूलधारकः ॥
॥३॥ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमद्गणेशजननी षडानन-सुजन्मभूः ॥
॥४॥पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥
॥५॥सिंहवाहा वृषारूढः श्यामाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ॥
॥६॥महाबलाचलावासा महाकैलासवासभूः ।
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥
॥७॥भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः ।
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥
॥८॥कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः ।
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥
॥९॥विशालाक्षी विश्वनाथः पुष्पास्त्रा विष्णुमार्गणः ।
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥
॥१०॥मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान् ।
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥
॥११॥मनोरूपेक्षुकोदण्डा महामेरुधनुर्धरः ।
चन्द्रचूडा चन्द्रमौलिर्महामाया महेश्वरः ॥
॥१२॥महाकाली महाकालो दिव्यरूपा दिगम्बरः ।
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥
॥१३॥हरिद्राकुङ्कुमालिप्ता भस्मोद्धूलितविग्रहः ।
महापद्माटवीलोला महाबिल्वाटवीप्रियः ॥
॥१४॥सुधामयी विषधरो मातङ्गी मकुटेश्वरः ।
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥
॥१५॥जगन्मयी जगद्रूपो मृडानी मृत्युनाशनः ।
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥
॥१६॥रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः ।
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ॥
॥१७॥चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः ।
कम्बुकण्ठी कालकण्ठो वज्रेशी वज्रिपूजितः ॥
॥१८॥त्रिकण्टकी त्रिभङ्गीशो भस्मरक्षा स्मरान्तकः ।
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः ॥
॥१९॥चिन्तामणिगृहावासा मन्दराचलमन्दिरः ।
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥
॥२०॥मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता ।
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥
॥२१॥श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः ।
श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ॥
॥२२॥दशशीर्षसमायुक्ता पञ्चविंशतिशीर्षवान् ।
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः ॥
॥२३॥ब्राह्म्यादिमातृकारूपा शताष्टेकादशात्मवान् ।
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥
॥२४॥शिवा शिवश्च रुद्राणी रुद्रश्चैवेश्वरीश्वरः ।
कदम्बकाननावासा दारुकारण्यलोलुपः ॥
॥२५॥नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः ।
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥
॥२६॥देहस्थषट्चक्रदेवी दहराकाशमध्यगः ।
योगिनीगणसंसेव्या भृग्वादिप्रमथावृतः ॥
॥२७॥उग्रताराघोररूपः शर्वाणी शर्वमूर्तिमान् ।
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥
॥२८॥ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः ।
पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ॥
॥२९॥पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः ।
बाणपुत्रीवरोद्धात्री बाणासुरवरप्रदः ॥
॥३०॥व्यालकञ्चुकसंवीता व्यालयज्ञोपवीतवान् ।
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥
॥३१॥नाट्यप्रिया नाट्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः ।
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ॥
॥३२॥नववल्लीष्टवरदा नववीरसुजन्मभूः ।
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥
॥३३॥निशुम्भशुम्भदमनी नीचापस्मारमर्दनः ।
सहस्राराम्बुजारूढा सहस्रकमलार्चितः ॥
॥३४॥गङ्गासहोदरी गङ्गाधरो गौरी त्रियम्बकः ।
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥
॥३५॥भवतापप्रशमनी भवरोगनिवारकः ।
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥
॥३६॥प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् ।
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥
॥३७॥सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः ।
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥
॥३८॥सर्वमङ्गलरूपाढ्या सर्वकल्याणदायकः ।
राजराजेश्वरी श्रीमद्राजराजप्रियङ्करः ॥
॥३९॥अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् ।
पठन्नर्चन् सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥
॥४०॥इति श्रीस्कान्दपुराणे श्री-अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्