अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ २.५.३
१५ इंद्रं॑ वृ॒त्रं ज॑घ्नि॒वाꣳसं॒ मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं
वै॑मृ॒धं पू॒र्णमा॑सेऽनु निर्वा॒प्य॑मपश्य॒त् तं निर॑वप॒त् तेन॒ वै स
मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनु निर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व
तेन॒ यज॑मा॒नोऽप॑ हत॒ इंद्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेंद्रि॒येण॑
च॒ व्या᳚र्ध्यत॒ स ए॒तमा᳚ग्ने॒यम॒ष्टा क॑पालममावा॒स्या॑यामपश्यदैं॒द्रं दधि॒
१६ तं निर॑वप॒त्तेन॒ वै स दे॒वता᳚श्चेंद्रि॒यं चावा॑रुन्ध॒
यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑यां॒ भव॑त्यैं॒द्रं दधि॑ दे॒वता᳚श्चै॒व
तेनें᳚द्रि॒यं च॒ यज॑मा॒नोऽव॑ रुन्ध॒ इंद्र॑स्य वृ॒त्रं ज॒घ्नुष॑
इंद्रि॒यं वी॒र्यं॑ पृथि॒वीमनु॒ व्या᳚र्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्थ्स
प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रं मे॑ ज॒घ्नुष॑ इंद्रि॒यं वी॒र्यं॑
१७ पृथि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स
प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ सं न॑य॒तेति॒ तत्प॒शव॒
ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नय॒न् तत्प्रत्य॑दुह॒न्॒, यथ्स॒मन॑य॒न्
तथ्सां᳚ना॒य्यस्य॑ सांनाय्य॒त्वं यत्प्र॒त्यदु॑ह॒न् तत्प्र॑ति॒धुषः॑
प्रतिधु॒क्त्वꣳ सम॑नैषुः॒ प्रत्य॑धुक्ष॒न्न तु मयि॑ श्रयत॒
इत्य॑ब्रवीदे॒तद॑स्मै
१८ शृ॒तं कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निंद्रि॒यं
वावास्मि॑न्वी॒र्यं॑ तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वꣳ सम॑नैषुः॒
प्रत्य॑धुक्षञ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑
कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वं
ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नः पूर्व॑स्याव॒देयं॒
१९ दधि॒ हि पूर्वं॑ क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व
पूर्व॒स्याव॑द्येदिंद्रि॒यमे॒वास्मि॑न् वी॒र्यꣳ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति
यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यं तद्यत्क्व॑लै
राक्ष॒सं तद्यत्त॑ण्डु॒लैर्वै᳚श्वदे॒वं तद्यदा॒तञ्च॑नेन मानु॒षं तद्यद्द॒ध्ना
तथ्सेंद्रं॑ द॒ध्नात॑नक्ति
२० सेंद्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ संत॑त्या॒ इंद्रो॑
वृ॒त्रꣳ ह॒त्वा परां᳚ परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तं
दे॒वताः॒ प्रैष॑मैच्छ॒न्थ्सो᳚ऽब्रवीत्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनु वि॒न्दति॒
तस्य॑ प्रथ॒मं भा॑ग॒धेय॒मिति॒ तं पि॒तरोऽन्व॑विन्द॒न्तस्मा᳚त्पि॒तृभ्यः॑
पूर्वे॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छ॒त्तं दे॒वा अ॒भि
सम॑गच्छन्ता॒मा वै नो॒
२१ ऽद्य वसु॑ वस॒तीतींद्रो॒ हि दे॒वानां॒ वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वं
ब्र॑ह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यꣳ॑ सांना॒य्यमिति॑ वैश्वदे॒वमिति॑
ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒
खल्वैं॒द्रमित्ये॒व ब्रू॑या॒दिंद्रं॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि
सम॑गच्छ॒न्तेति॑ ॥ २। ५। ३॥ दधि॑ मे ज॒घ्नुष॑ इंद्रि॒यं
वी॒र्य॑मित्य॑ब्रवीदे॒तद॑स्मा अव॒देयं॑ तनक्ति नो॒ द्विच॑त्वारिꣳशच्च ॥TS 2.5.3॥
॥१॥