skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

फलश्रुतिः

फलश्रुतिः. Also called phala shruti 1, Phalaśrutiḥ. Svara-marked text on Vaidhika Dharma. IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्

फलश्रुतिः

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १ ॥

॥१॥

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे । तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् ॥ २ ॥

॥२॥

अश्वदायी गोदायी धनदायी महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ ३ ॥

॥३॥

पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ॥ ४ ॥

॥४॥

पुत्रपौत्रधनं धान्यं हस्त्यश्वादिगवेरथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥ ५ ॥

॥५॥

धनमग्निधनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते ॥ ६ ॥

॥६॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥ ७ ॥

॥७॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥ ८ ॥

॥८॥

सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९ ॥

॥९॥