तृतीयकाण्डे प्रथमः प्रपाठकः
तृतीयकाण्डे प्रथमः प्रपाठकः
जुहूम् अग्रे सम्मार्ष्टि जुहूर् वै यज्ञमुखं मुखतो वा एतद् यज्ञम् आलब्ध जुह्वा वै देवा विराजम् अह्वयन्त तज् जुह्वा जुहूत्वम् अन्नं वै विराड् अन्नं जुहूर् अर्को ऽग्निर् यज् जुह्वा जुहोत्य् अन्नस्य चार्कस्य चावरुद्ध्यय् अष्टौ कृत्वो जुह्वां गृह्णात्य् अष्टाक्षरा गायत्री गायत्री यज्ञमुखं यज्ञमुखम् एवालब्ध यत् सावित्राणि हूयन्ते प्रसूत्यय् अथो यजुषाम् एव नानावीर्यत्वायाग्निर् वै यत्रयत्रागछत् तं सवितान्वपश्यद् यत् सावित्राणि हूयन्ते ऽग्नेर् एवानुक्शात्यय् अग्निं ज्योतिर् निचाय्य पृथिव्या अध्याभरद् इति सविता वा एतद् अग्रे ज्योतिः पृथिव्याः समभरत् तस्माद् एवम् आह युक्तिमन्ति च जुहोति मनस्वती च युक्तेन हि मनसा यज्ञस् तायते षड् ऋग्माणि भवन्ति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठय् एति वा एष यज्ञमुखाद् यो ऽन्याम् आग्नेय्या अग्रे देवताम् उपैति यत् सावित्राणि न स्युर् इयात् सावित्रात् प्रसवाद् अष्टौ वा एतानि यजूंष्य् अष्टाक्षरा गायत्री गायत्री यज्ञमुखं तेन यज्ञमुखान् नैति यद् उ सावित्राणि तेन सावित्रात् प्रसवान् नैति छन्दोभिर् जुहोति छन्दोभिर् वा एतद् अग्नये बलिं हारयति बहवो हास्य बलिहृतो भवन्त्य् ऋग् वै यज्ञस्य नेदीयो यजुर् यजमानस्य यदि कामयेत यज्ञं यज्ञयशसेनार्पयेयम् इत्य् ऋगुत्तमानि कुर्याद् यज्ञं वा एतद् यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयम् इति यजुरुत्तमानि कुर्याद् यजमानं वा एतद् यज्ञयशसेनार्पयत्य् आहुतीनां वा अभिक्रान्त्या यजमान ऋध्नोति यं कामयेत ऋध्नुयाद् इति तस्य सकृत् सर्वाण्य् अनुद्रुत्य जुहुयाद् ऋध्नोत्य् अथ यं कामयेत पापीयान्त् स्याद् इति तस्य नाना जुहुयात् पापीयान् भवत्य् ऋचा स्तोमं समर्धयेत्य् आह समृद्ध्या एव गायत्रेण रथन्तरम् इतीयं वै गायत्रीयं रथन्तरम् असौ बृहद् अनयोर् वा एष लोकयोर् व्याप्त्या अन्ततः क्रियते ऽष्टौ वा एतानि यजूंष्य् अष्टाक्षरा गायत्र्य् अक्षरशो वा एतद् गायत्रीं प्रीणात्य् अथ यद् आहुतिर् नवमी तेन त्रिवृतो यज्ञमुखान् नैत्य् अथ यद् एकाम् आहुतिम् अष्टाभिर् यजुर्भिर् जुहोति तस्माद् एकस्मै सते बहवो बलिं हरन्ति बहवो हास्य बलिहृतो भवन्ति यजुरुत्तमानि भवन्ति ब्रह्म वै यजुर् ब्रह्मणि वा एतद् अन्ततो यज्ञस्य यजमानः प्रतितिष्ठति
॥३.१.१॥सावित्रैर् अभ्रिम् आदत्ते प्रसूत्यै चतुर्भिर् आदत्ते चत्वारि वै छन्दांसि छन्दोभिर् एवादत्ते ऽथो ब्रह्म वै छन्दांसि ब्रह्मणैवादत्त इयं वै गायत्र्य् अन्तरिक्षं त्रिष्टुब् द्यौर् जगती दिशो ऽनुष्टुप् सवितृप्रसूतो वा एतद् एभ्यो लोकेभ्यश् छन्दोभिर् दिग्भ्यश् चाग्निं सम्भरति यत्र वा अदो ऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भुतेष्व् अवसद् यां वनस्पतिष्व् अवसत् तां वेणा अवसत् स यत्र निरदहत् तानि कल्माषाण्य् अभवन् येन समचरत् तत् सुषिरं यत्रावसत् तत् पर्व यद् वैणव्य् अभ्रिर् भवति स्वेनैवैनं योनिना सम्भरति यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो वेणुर् वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं सम्भरति व्याममात्री कार्यैतावद् वै पुरुषे वीर्यं वीर्यसम्मिता क्रियते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यय् अरत्निमात्री कार्या यज्ञपुरुषासम्मिता प्रादेशमात्री कार्या विष्णुना यज्ञेन सम्मितोभ्यतःक्ष्णुत् कार्योभयस्यान्नाद्यस्यावरुद्ध्यय् अन्यतःक्ष्णुत् कार्या अन्यतःक्ष्णुद् धि फालस् तावन्तम् अर्कं करोत्य् अन्नं वा अर्को ऽन्नाद्यस्यावरुद्ध्यय् औदुम्बरी कार्योर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यय् अपरिमिता कार्यापरिमितस्यावरुद्ध्यै य एव कश्च वृक्षः फलग्रहिस् तस्य कार्यान्नाद्यस्यावरुद्ध्यै
॥३.१.२॥अश्वेन वै देवा अग्रे विजितिम्ं व्यजयन्त यद् अश्वेन यन्ति विजित्यय् अग्निर् वै यत्रयत्रागछत् तं प्रजापतिर् अन्वपश्यत् प्राजापत्यो ऽश्वो यद् अश्वेन यन्त्य् अग्नेर् एवानुक्शात्यै प्रजाप्तिर् वा अग्निं सम्भरिष्यन्त् स एभ्यो लोकेभ्यो ऽश्वं निर्माय दिग्भ्यश् चाग्निं समभरद् यद् आह दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इद् इति यथादेवतं वा एतद् एभ्यो लोकेभ्यो ऽश्वं निर्माय दिग्भ्यश् चाग्निं सम्भरति युञ्जाथां रासभं युवम् इत्य् आह युक्त्या एव गर्दभेन सम्भरत्य् एष हि पशूनाम् अनुपजीवनीततमो ऽग्निर् वा एतस्याग्रे सृष्टस्य योने रेतो निरदहत् तस्माद् एष समावद् अन्यैः पशुभी रेतो धत्ते ऽथ कनिष्ठो ऽश्वं पूर्वं नयन्ति गर्दभम् अपरं पापवसीयसस्य व्यावृत्त्यै तस्माञ् श्रेयांसं पूर्वं यन्तं पापीयान् पश्चाद् अन्वेति यदि कामयेत पापवसीयसं स्याद् इति गर्दभं पूर्वं नयेयुर् अपरम् अश्वम् एतेन वै विपूजनः सौराकिः पापवसीयसं चकार तत् पापवसीयसम् एवैतेन करोति योगेयोगे तवस्तरम् इत्य् ऊतिमत्या वाजवत्या यन्त्य् अन्नं वै वाजो गातुर् ऊतिर् अन्नाय च खलु वै गातवे चाग्निश् चीयते यद् ऊतिमत्या वाजवत्या यन्ति अन्नस्य च गातोश् चावरुद्ध्यै भवति वा एष यो ऽग्निं चिनुते सर्वो वै भवत इरस्यति वज्री वा एष प्राजापत्यो यद् अश्वो यद् आह प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् इति वज्रेण वा एतद् अशस्तीर् अरातीयन्तम् अवक्रामति रौद्रा वै पशवो ऽग्नी रुद्रो यद् रुद्रात् पशून् अनिर्याच्याग्निं चिन्वीत रुद्रो ऽस्य पशून् अभिमानुकः स्याद् यद् आह रुद्रस्य गाणपत्यान् मयोभूर् एहीति रुद्राद् वा एतत् पशून् निर्याच्याग्निं चिनुते ऽघातुको ऽस्य पशुपतिः पशून् भवत्य् उर्व् अन्तरिक्षं वीहीत्य् आहैषां लोकानां विधृत्यै रक्षांसि वा एतौ जिघांसन्त्य् अग्निं सम्भरिष्यन्तौ यद् आह स्वस्तिगव्यूतिर् अभयानि कृण्वन्न् इति स्वस्तिम् एवाभ्यामकः पुरीषं वा अग्नेर् आयतनम् अङ्गिरस एतम् अग्रे समभरद् यद् आहाग्निं पुरीष्यम् अङ्गिरस्वद् आभरेति सायतनम् एवैनं देवताभिः सम्भरति येन पुरुषेण सङ्गछेत तम् अभिमन्त्रयेताग्निं पुरीष्यम् अङ्गिरस्वद् अछेमा इति वाजम् एव तेन तस्माद् वृङ्क्ते प्रजापतये प्रोच्याग्निश् चेतव्या इत्य् आहुर् यतः सूर्यस्योदयनं ततो वल्मीकवपाम् अपघ्नन् ब्रूयाद् अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामा इतीयं वै प्रजापतिस् तस्या एष कर्णो यद् वल्मीकस् तस्मा एव प्रोच्याग्निं चिनुते शृण्वन्ति हैनम् अग्निं चिक्यानम् असा अग्निम् अचेष्टेति तस्मात् पापीयाञ् श्रेयसः कर्ण आह कर्णः कर्णायाह
॥३.१.३॥वीहीत्य् : फ़्न् एमेन्देद्। एद्।: वीहीत्य्। च्फ़्। २।७।२:७५।८
अन्व् अग्निर् उषसाम् अग्रम् अक्शद् इत्य् आहानुक्शात्या एवागत्य वाज्य् अध्वानं सर्वा मृधो विधूनुता इति मृध एव व्यास्थतैछद् वा एतं प्रजापतिः पूर्वयर्चाविन्दद् उत्तरयैषीद् एवैनं पूर्वयर्चाविदद् उत्तरया द्यौस् ते पृष्ठं पृथिवी सधस्थम् इति द्यौर् ह्य् एतस्य पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षं समुद्रो योनिर् इत्य् आत्मा ह्य् एतस्यान्तरिक्षं समुद्रो योनिर् विक्शाय चक्षुषा त्वम् अभितिष्ठ पृतन्यत इति पृतन्यन्तम् एवाभितिष्ठति यं द्विष्यात् तं ब्रूयात् ॥ अमुम् अभितिष्ठ ॥ इति तम् एवाभितिष्ठत्य् उत्क्रामेत्य् आहोत्क्रान्त्या एव यत्र वै यज्ञस्यानुरूपं क्रियते तद् यजमान ऋध्नोत्य् उत्क्रामोदक्रमीद् इत्य् अनुरूपं वा एतत् क्रियते यज्ञस्यावरुद्ध्यै कृष्णो वै भूत्वाग्निर् अश्वं प्राविशत् स एतद् अगछद् यत्र मृगशफो यद् अश्वस्य पदे जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् एतद् वै तद् यद् आहुर् मृगशफम् अरेन्वराड् इति मनस्वतीभ्यां जुहोति मनसा ह्य् आहुतीर् आप्यन्ते त्रिष्टुब्भ्यां जुहोतीन्द्रियस्यावरुद्ध्यय् अन्नवतीभ्यां जुहोत्य् अन्नाद्यस्यावरुद्ध्यै गायत्र्या परिलिखत्य् अस्या एवैनं तेन परिगृह्णाति त्रिष्टुभान्तरिक्षात् तेनानुष्टुभा परिलिखत्य् अनुष्टुब् वै सर्वाणि छन्दांसि परिभूस् तस्माद् अनुष्टुभा परिलिखति सावित्रैर् अभ्रिम् आदत्ते प्रसूत्यै द्वाभ्यां खनति द्विपाद् यजमानः प्रतिष्ठित्यै शुग् वा अत्र प्रजा ऋछति यत्राग्निः खायते चीयते वा यद् आह शिवं प्रजाभ्यो ऽहिंसन्तम् इति प्रजाभ्य एवैनं शिवम् अकः
॥३.१.४॥अविदद् : फ़्न् चोर्रिगेन्द। एद्।: अविन्दद्।
अपां पृष्ठम् असीत्य् आहापां ह्य् एतत् पृष्ठं पृष्ठेनैवैनत् पृष्ठम् अकर् योनिर् अग्नेर् इति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं नाभिर् वधकः सयोनिर् एव सनाभिः सम्भ्रियते दिवो मात्रया वरिणा प्रथस्वेत्य् अनयोर् एवैनम् मात्रया वरिणा प्रथयति शर्म च स्थो वर्म च स्था इति कृष्णाजिनं च पुष्करपर्णं च संस्तृणातीमे एवास्मा एतद् द्यावापृथिवी संस्तृणाति व्यचस्वती संवसेथाम् इति न वा एतन् मनुष्या यन्तुम् अर्हन्त्य् आभ्याम् एवैनं परिगृह्णाति कृष्णाजिनेन सम्भरत्य् एष हि पशूनाम् अनुपजीवनीयतमो ऽथो आरण्यान् एव पशूञ् शुचार्पयति लोमतः सम्भरत्य् अतो वै कृष्णाजिनस्य सदेवं यज्ञेनैव यज्ञं सम्भरति पुष्करपर्णेन सम्भरति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं स्वेनैवैनं योनिना सम्भरति गायत्रीभिर् ब्राह्मणस्य सम्भरति गायत्रो हि ब्राह्मणस् त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो जगतीभिर् वैश्यस्य जागतो हि वैश्यस् यं कामयेत ऋध्नुयाद् इति तस्य गायत्रीभिश् च त्रिष्टुब्भिश् च सम्भरेद् ऋध्नोति पुरीष्यो ऽसि विश्वम्भरा अथर्वा त्वा प्रथमो निरमन्थद् अग्ना इति प्रजापतिर् वा अथर्वा स एतम् अग्रे ऽमन्थत् सो ऽजनयत् स्व एवैनं मन्थति स जनयति तिसृभिः सम्भरति त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्यः सम्भरति यजुस् तुरीयं दिग्भ्य एवैनं तेन सम्भरति पुरोवातं वै वातं वर्षम् अनुप्रतितिष्ठति वर्षम् अन्व् ओषधया ओषधीर् अनु पशवः पशून् अनु मनुष्या एता वै प्रतिष्ठास् ता यजमानो ऽवरुन्द्धे ऽपो देवीर् उपसृजा मधुमतीर् इत्य् आहौषधीनां प्रतिष्ठित्यै तासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पला इति तस्माद् एतासाम् आस्थानाद् उज्जिहताम् ओषधयः सुपिप्पलाः सं ते वायुर् मातरिश्वा दधात्व् इति तस्माद् एतस्या यत् कृष्यते यत् खायते तत् सन्धीयते यद् घृतेन जुहुयाञ् शुचेमाम् अर्पयेद् अथ यद् अप उपसृजति शमयत्य् एव यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् इति षड् वा ऋतव ऋतुषु वा एतद् वृष्टिं प्रतिष्ठापयति तस्मात् सर्व ऋतवो वृष्टिमन्तः सुजातो ज्योतिषेति स्वर्ग्यम् एवैनम् अकर् वासो अग्ने विश्वरूपं संव्ययस्व विभावसा इति छन्दांसि वा अग्नेर् वासश् छन्दांस्य् एष वस्ते छन्दोभिर् एवैनं परिददात्य् आगामुकम् एनम् अस्मिंल् लोके वासो भवत्य् अनग्नो ऽमुष्मिंल् लोके भवति य एवं वेद वरुणमेनिर् वा एष एतर्ह्य् उद् उ तिष्ठ स्वध्वरेत्य् ऊर्ध्वाम् एव वरुणमेनिम् उत्सृजति द्वाभ्याम् उत्सृजति द्विपाद् यजमानः प्रतिष्ठित्यै स जातो गर्भो असि रोदस्योर् इत्य् अनयोर् वा एष गर्भ आभ्याम् एषो ऽधिजायत आभ्याम् एवैनम् अधिजनयत्य् अग्ने चारुर् विभृता ओषधीष्व् इति तस्मात् सर्वास्व् ओषधीष्व् अग्निः प्र मातृभ्यो अधि कनिक्रदद् गा इत्य् ओषधयो वा एतस्य मातरस् ताभ्या एवैनम् अधि प्रच्यावयतैछद् वा एतं प्रजापतिः पूर्वेणार्धऋचेनानूत्तरेणातिष्ठतैषीद् एवैनं पूर्वेणार्धऋचेनानूत्तरेणास्थित
॥३.१.५॥स्थिरो भव वीड्वङ्गा इति गर्दभ आदधाति वीर्यम् अस्मिन् दधाति तस्मात् सर्वेषां पशूनां गर्दभो वीर्यवत्तमो वीर्यं ह्य् अस्मिन् दधातीश्वरो वा एषो ऽन्तरिक्षसद् भूत्वा प्रजा हिंसितोर् यद् आह शिवो भव प्रजाभ्या इति प्रजाभ्य एवैनं शिवम् अकर् मा पाद्य् आयुषः पुरेत्य् आयुर् एवास्मिन्दधाति समष्ट्यै वृषाग्निं वृषणं भरन्न् इति वृषा ह्य् एष वृषणं भरन्न् अपां गर्भं समुद्रियम् इत्य् अपां ह्य् एष गर्भः समुद्रियो ऽग्ना आयाहि वीतया इत्य् अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजयन्न् अग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अभिजयत्य् ऋतं सत्यम् ऋतं सत्यम् ऋते चैव सत्ये च प्रतितिष्ठतीयं वा ऋतम् असौ सत्यम् अनयोर् एव प्रतितिष्ठत्य् अहर् वा ऋतं रात्रिः सत्यम् अहोरात्रयोर् एव प्रतितिष्ठत्य् ओषधयः प्रतिगृभ्णीताग्निम् एतम् इत्य् ओषधीर् एवैनं सम्यञ्चं दधाति पुष्पवतीः सुपिप्पला इत्य् ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति वरुणमेनिर् वा एष एतर्ह्य् उपनद्धो वि पाजसा पृथुना शोशुचाना इत्य् अनुरूपेणैव वरुणमेनिं विष्यति द्वाभ्यां विष्यति द्विपाद् यजमानः प्रतिष्ठित्यय् आपो हि ष्ठा मयोभुवा इत्य् अप उपसृजत्य् आपो वा अशान्तस्य शमयित्रिकास् तस्माद् अप उपसृजति शान्त्यै तिसृभिर् उपसृजति त्रिवृद् ध्य् अग्निर् वरुणमेनिर् वा एष एतर्हि मित्रः संसृज्या पृथिवीम् इति मित्रेणैव वरुणमेनिं संसृजति रुद्राः संसृज्या पृथिवीम् इत्य् एता वा एताम् अग्रे देवताः प्रजापतये समसृजंस् ताभिर् एवैनां संसृजति पञ्चभिः संसृजति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध
॥३.१.६॥सत्यम् : फ़्न् प्रोबब्ल्य् सत्यम् इति
गृह्णन्ति : फ़्न् चोर्रिगेन्द। एद्।: गृह्णाति।
मखस्य शिरो ऽसीत्य् आह यज्ञो वै मखस् तस्य वा एतञ् शिरो यद् उखा मुखतो वा एतद् यज्ञम् आलब्ध वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसेति छन्दोभिश् च वा एषा देवताभिश् च क्रियते छन्दोभिश् चैवैनां देवताभिश् च करोति ध्रुवासि पृथिव्य् असीति छन्दसाम् एवैषाशीर् अदित्या रास्नास्य् अदितिष् टे बिलं गृभ्णात्व् इति यजुषा करोत्य् अयजुषा हि मनुष्याः कुर्वन्ति व्यावृत्त्यै तां पुत्रेभ्यः प्रायछद् अदितिः श्रपयान् इत्य् आदित्या वा इदं स्मो यन् मनुष्यांस् तेभ्य एवैनां सम्प्रादात् त्र्युद्धिः कार्या त्रयो वा इमे लोका एषां वा एषा लोकानाम् उखा प्रतिमा क्रियते ऽष्टस्तना कार्या गायत्र्या रूपं चतुस्तना कार्यादित्या दोहाय द्विस्तना कार्यान्तरिक्षं वा उखेमौ लोकौ स्तनौ प्रत्तौ ह वा इमौ लोकौ दुहे य एवं वेद व्याममात्री कार्यैतावद् वै पुरुषे वीर्यं वीर्यसम्मिता क्रियते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्धयय् अरत्निमात्री कार्या यज्ञपुरुषासम्मिता प्रादेशमात्री कार्या विष्णुना यज्ञेन सम्मिताथो प्रजापतेर् एवानतिवादाय सप्तभिर् धूपयति सप्त वै शीर्षन् प्राणाः शिर एतद् यज्ञस्य यजुषा शीर्षन् वा एतत् प्राणान् दधाति सप्तभिर् धूपयति सप्त वै छन्दसांसि छन्दोभिर् एवैनां धूपयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैवैनां धूपयति वैष्णवं वा एतत् पात्रं तत् स्वया देवतया व्यर्धयति यद् अन्याभिर् देवताभिर् धूपयति यद् आह विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् इति स्वयैवैनं देवतया समर्धयत्य् अस्वशकेन धूपयति वृषा ह्य् अश्वो वृषाग्निः समृद्ध्यय् अथो प्राजापत्यो वा अश्वः प्राजापत्यो ऽग्निस् तस्माद् अश्वशकेन धूपयति सयोनित्वाय
॥३.१.७॥प्रजापतिर् वा अमन्यत यो वा अस्या अग्रे विखनिष्यत्य् आर्तिं स आरिष्यतीति स एतद् यजुर् अपश्यद् अदितिष् ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्व् अवटेतीयं वा अदितिर् देवी विश्वदेव्यवत्य् अनया वै स तद् अस्याम् अखनद् अहिंसायै न हि स्वः स्वं हिनस्ति देवानां त्वा पत्नीर् देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखा इत्य् ओषधयो वै देवानां पत्नीर् देवीर् विश्वदेव्यवतीर् ओषधीष्व् एवैनां प्रतिष्ठापयति धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वद् अभीन्धाताम् उखा इति वाग् वै धिषणा देवी विश्वदेव्यवती वाचैवैनाम् अभीन्द्धे ग्नास् त्वा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वञ् श्रपयन्तूखा इति छन्दांसि वै ग्ना देवीर् विश्वदेव्यवतीश् छन्दोभिरेवैनां श्रपयति वरूत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखा इत्य् अहोरात्रे वै वरूत्री देवी विश्वदेव्यवती अहोरात्राभ्याम् एवैनां पचति जनयस् त्वाछिन्नपत्रा देवीर् विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखा इति नक्षत्राणि वै जनयो ऽछिन्नपत्रा देवीर् विश्वदेव्यवतीर् नक्षत्रैर् एवैनां पचत्य् एता वा एताम् अग्रे देवताः प्रजापतये ऽपचंस् तस्माद् एतानि पङ्क्तिमन्ति यजूंषि तैर् एवैनां पचति द्वाभ्यां पचति द्विपाद् यजमानः प्रतिष्ठित्यै वरुणमेनिर् वा एष एतर्ह्य् अभीद्धो मित्रस्य चर्षणीधृता इति मित्रेणैव वरुणमेनिम् उपैति देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिर् इति सवितृप्रसूत एवैनाम् उद्वपत्य् आत्मनो ऽहिंसायय् उत्तिष्ठ बृहती भवेत्य् आह धृत्या एवाव्यथमाना पृथिव्याम् आशा दिशा आपृणेति तस्माद् अग्निः सर्वा दिशा आभाति ॥
मित्रैतां त उखां परिददाम्य् अभित्त्यय् एषा मा भेदि ॥ इति मित्रायैवैनां परिददात्य् अभित्त्यै यद् धि मित्रायापरित्ता भिद्येत पुनः कार्या स्याद् वसवस् त्वाछृन्दन्तु गायत्रेण छन्दसेति छन्दोभिश् च वा एषा देवताभिश् च क्रियते छन्दोभिश् चैवैनां देवताभिश् चाछृणत्ति स्वेनायतनेनाजक्षीरेणाछृणत्त्य् आग्नेयं वा एतत् पयो यद् अजक्षीरम् आग्नेयम् एतत् पात्रं यद् उखा स्वेन वा एतत् पयसा स्वं पात्रम् आछृणत्ति परमं वा एतत् पयो यद् अजक्षीरं परमम् एतत् पात्रं यद् उखा परमेण वा एतत् पयसा परमं पात्रम् आछृणत्ति
॥३.१.८॥षड् एतान्य् आधीतयजूंषि जुहोति षड् वा ऋतव ऋतुभिर् वा एतत् पृथिव्या वीर्यम् उद्यछते नाना जुहोति नानावीर्या हीमे प्राणाः प्राणानां विधृत्यै यं कामयेत बधिरः स्याद् इति तस्य सकृत् सर्वाण्य् अनुद्रुत्य जुहुयात् प्राणान् अस्य सम्भिनत्ति बधिरो भवति तस्माद् बधिरो वाचा वदति न शृणोति वाचं ह्य् अस्येन्द्रियम् अनुपद्यते प्राणा वा एतानीतराणि छन्दांसि वाग् अनुष्टुब् यद् अनुष्टुभा सप्तमं जुहोति वाचं वा एतत् प्राणेषूपसन्दधाति तस्माद् इयं वाक् सप्तमी प्राणानां मा सु भित्था मा सु रिषा इति प्रवृणक्त्य् असुरमाया वा एषासीत् तां देवा एतेन यजुषावृञ्जतासुरी माया स्वधया कृतासीति तन् मायाम् एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते द्वाभ्यां प्रवृणक्ति द्विपाद् यजमानः प्रतिष्ठित्यै प्रवृञ्ज्याद् भूतिकामस्य भविष्यद् वा इदम् उपजीवामो भविष्यद् एवोपैति श्वःश्वः श्रेयान् भवति जातम् अवदध्याद् गतश्रीर् जातो वा एष यो गतश्रीर् जातेनैवैनं जनयति भ्रष्ट्राद् आहरेद् यं कामयेतान्नादः स्याद् इत्य् एष वा अग्नीनाम् अन्नादो ऽन्नकरणं भ्रष्ट्रम् अन्नाद्यम् अस्मा अवरुन्द्धे प्रदावाद् आहरेद् यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकं स्याद् इति प्रसेनेनास्य राष्ट्रं जायुकं भवति यतः कुतश्चाहृत्यावदध्याद् यं कामयेतास्य पाप्मा भ्रातृव्यो द्वितीयो जायेतेत्य् एतद् वै यजमानस्यायतनं स्वे वावास्मा एतद् आयतने पाप्मानं भ्रातृव्यं द्वितीयं जनयति द्र्वन्नः सर्पिरासुतिर् इति क्रुमुकं घृतान्वक्तम् आदधात्य् एषा वा अग्नेः प्रिया तनूर् यत् क्रुमुकस् तेजो घृतं प्रिययैवैनं तन्वा तेजसा च समर्धयति परस्या अधि संवता इत्य् औदुम्बरीं देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठद् यद् औदुम्बर्य् ऊर्जम् एवावरुन्द्धे परमस्याः परावता इति वैकङ्कतीम् अग्नेर् वै सृष्टस्य भा अपाक्रामत् तद् विकङ्कतं प्राविशद् यद् वैकङ्कती भा एवावरुन्द्धे यद् अग्ने यानि कानि चेति शमीमयीं शान्त्यय् अग्नये वै न किञ्चनापरशुवृक्णम् अस्वदन्त तस्मै वा एतयासङ्गः प्रायोगिः सर्वम् अस्वदयद् यद् अग्ने यानि कानि चेति तद् अग्नय एवैतया सर्वं स्वदयति सर्वम् अस्मै स्वदितं भवति रात्रींरात्रीम् अप्रयावं भरन्ता इत्य् आशिषम् एवाशास्ते नाभा पृथिव्याः समिधानो अग्निम् इति पृतनाजितम् एवैनम् अकर् अग्निं वै सृष्टं रक्षांस्य् अजिघांसंस् तानि वा एताभिर् एवापाहत याः सेना अभीत्वरीर् इति तद् अग्नेर् एवैताभी रक्षांस्य् अपहन्त्य् एता एव समिधा आदध्याद् यत्र रक्षोभ्यो बिभीयाद् रक्षसाम् अपहत्यय् अथो ग्राहुका ह तां समां स्तेनान् भवन्ति तैल्वकीम् अभिचरन्न् आदध्याद् एष वै वनस्पतीनां वज्रस् ताजग् घ प्रमीयते यं द्विष्यात् तं तर्हि मनसा ध्यायेन् मनो वा आशीर् यो वाच आहुतिम् एवैनं भूतम् अग्नये ऽपिदधाति यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जना इति तस्माद् अग्निचितो ऽश्लीलं न कीर्तयितव्यं नो अग्निविदः संशितं मे ब्रह्म संशितं वीर्यं बलम् इति ब्रह्मणा वा एतत् क्षत्रं संश्यति क्षत्रेण ब्रह्माथो ब्रह्म चैव क्षत्रं च सयुजा अकर् एतद् वा एषाभ्यनूक्ता ॥
प्रायोगिः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
ब्रह्म क्षत्रं सयुजा न व्यथेते इति ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।
क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि
॥३.१.९॥अग्निभ्यः ॥ इति कामायालभ्यन्ते यत्कामो भवति सं हास्मै स कामो नमत्य् आप्रीणन्ति यज्ञियान् एवैनान् मेध्यान् कुर्वन्ति पर्यग्निकृतान् उत्सृजन्त्य् अयातयामत्वायैकेन संस्थापयन्ति यज्ञस्य सन्तत्या अविछेदाय पुष्करा भवन्ति सेन्द्रियत्वाय त्रिष्टुभो याज्यानुवाक्या भवन्तीन्द्रियस्यावरुद्ध्यय् अथैषो ऽग्नये वैश्वानराय द्वादशकपालः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रिययैवैनं तन्वा समर्धयत्य् अथो अयातयामत्वायैवायातयामा हि वैश्वानरः श्वेतं वायवे नियुत्वता आलभेत तेजस्कामो वायुर् वा अग्नेस् तेजस् तस्माद् वायुम् अग्निर् अन्वेति यद् वायवे ऽग्नेः सतेजस्त्वाय यद् वायव एकधा स्याद् उन्मादुको यजमानः स्याद् यन् नियुत्वते द्वितीयत्वायाथो धृत्या अनुन्मादाय सर्वेषां वा एष पशूनां रूपाणि प्रति यद् वायव एकधा स्याद् उन्मादुको यजमानः स्याद् यद् एष प्राजापत्यो द्वादशकपालो द्वितीयत्वायाथो धृत्या अनुन्मादायाथैष आग्नावैष्णव एकादशकपालो ऽग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाथैष आदित्यो घृते चरुर् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् तेभ्य एव प्रोच्य स्वर्गं लोकम् एत्य् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन् पुरोडाशेन वै देवा अस्मिंल् लोक आर्ध्नुवंश् चरुणामुष्मिन्न् अस्मिन्न् एव लोके पुरोडाशेन ऋध्नोति चरुणामुष्मिन्न् अथैषो ऽग्नये वैश्वानराय द्वादशकपालो देवायतनं वा अग्निर् वैश्वानरो देवायतन एव प्रतिष्ठाप्याग्निं बिभर्त्य् अथो कामो वै वैश्वानरो यत्कामो भवति सं हास्मै स कामो नमति ॥
इत्य् उपरिकाण्डे जुहूमग्रीयः प्रथमः प्रपाठकः
॥३.१.१०॥तृतीयकाण्डे द्वितीयः प्रपाठकः
तृतीयकाण्डे द्वितीयः प्रपाठकः
दृशानो रुक्म उरुया विभातीति रुक्मं प्रतिमुञ्चते ऽमृतं वै हिरण्यं मृत्योर् एतद् रूपं यद् अग्निर् यत् पाशो ऽमृतेनैव मृत्युम् अन्तर्धत्ते ऽथैते निर्बाधा देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतान् निर्बाधान् अपश्यंस् तैर् असुरान् एभ्यो लोकेभ्यो निरबाधन्त तन् निर्बाधानां निर्बाधत्वं तद् एतैर् एव निर्बाधैर् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यो निर्बाधत एकविंशतिनिर्बाधो भवति प्रतिष्ठित्यय् उपरिष्टान् निर्बाधं बिभर्त्य् अधस्तान् निर्बाधं सादयति भ्रातृव्यस्य विनुत्त्यै नक्तोषासा समनसा विरूपा इत्य् अहोरात्राभ्याम् एवाग्निम् आधत्ते धापयेते शिशुम् एकं समीची इत्य् एतं ह्य् एते धापयेते शिशुम् एकं समीची द्यावाक्षामा रुक्मो अन्तर् विभातीत्य् एष ह्य् एतयो रुक्मो ऽन्तर् विभाति देवा अग्निं धारयन् द्रविणोदा इति प्राणा वै देवा द्रविणोदाः प्राणैर् एवाग्निम् उद्यछते विश्वा रूपाणि प्रतिमुञ्चते कविर् इति विश्वा हि रूपाण्य् अग्निः प्रासावीद् भद्रं द्विपदे चतुष्पदा इत्य् आह प्रसूत्या एव वि नाकम् अक्शत् सविता वरेण्या इति सवितृप्रसूत एवाग्निं बिभर्त्य् अनु प्रयाणम् उषसो विराजतीति तस्माद् उषसो व्युष्टिम् अन्व् अग्निर् आधीयते सुपर्णो ऽसि गरुत्मांस् त्रिवृत् ते शिरो गायत्रं चक्षुर् इत्य् अग्नेर् वा एषा सम्भृतिर् अग्निम् एतत् सम्भरति तस्मात् सम्भरति तस्मात् सर्वैर् अङ्गैः पशुर् जायते पशुर् ह्य् अग्निर् दिवं गछ स्वः पतेत्य् आह स्वर्गस्य लोकस्य समष्ट्यय् अथैते क्रमा देवाश् च वा असुराश् चास्पर्धन्त ते देवा एतान् क्रमान् अपश्यंस् तैर् असुरान् एभ्यो लोकेभ्यः प्राणुदन्त तान् अनपजय्यम् अजयंस् तद् एतैर् एव क्रमैर् यजमानो भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुदते ऽनपजय्यं ह जयति षडुद्यावं शिक्यं भवति षड् वा ऋतव ऋतुभिर् एवाग्निं परिगृह्णात्य् उपरिनाभि बिभर्त्य् उपरिनाभि ह्य् आत्मनः सदेवं सदेव एव देवता आत्मन् बिभर्ति यद् अधोनाभि बिभृयाद् योनिं निर्दहेद् अथो ऽवधैनं घातुकं स्यात् प्रक्रामति तस्माद् ग्राम्याः पशवः प्रेरते ऽथ यत् पुनर् अभ्यावर्तते तस्मात् पुनः समावर्तन्त ऊर्जा वा एष पशुभिर् उत्क्रामन्त् सहोत्क्रामति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे पुनर्वतीर् भवन्ति समृद्ध्यै चतसृभिर् अभ्यावर्तते चतुष्पादो वै पशवः पशून् एवावरुन्द्ध इत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तत आ त्वाहार्षम् अन्तर् अभूर् इत्य् अन्तर् ह्य् एष एतर्ह्य् उद् उत्तमं वरुण पाशम् अस्मद् इति वरुणपाशम् एवोन्मुञ्चत आत्मनो ऽहिंसायय् अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थाद् इति ज्योतिषैवैनं समर्धयति हंसः शुचिषद् वसुर् अन्तरिक्षसद् इति सादयति सप्त एवैनं होत्रासु प्रतिष्ठापयत्य् अथो सप्त वा एतेन साप्तान्य् अग्नेर् ऋध्नोत्य् आ सप्तमात् पुरुषाद् अन्नादो भवति रेतो वा अग्निर् अन्तरिक्षं वै रेतो ऽनुषिच्यते यद् अधो निदध्याद् अधृताः पशूनां गर्भाः प्रपादुकाः स्युर् अथ यद् उपरि सादयत्य् अन्तरिक्षसदम् एवैनम् अकर् गर्भाणां धृत्यै सूयते वा एषो ऽग्नीनां यश् चीयते तस्माद् एष आसन्दीसत् सीद त्वं मातुर् अस्या उपस्था इतीयं वा अग्नेर् योनिः स्व एवैनं योनौ संवेशयति तिसृभिर् उपतिष्ठते त्रिवृद् ध्य् अग्निः
॥३.२.१॥अग्रे : फ़्न् एमेन्देद्। एद्।: अग्ने। च्फ़्। २।७।८:८५।१४
अथैतद् वात्सप्रम् एतेन वै वत्सप्रीर् भालन्दनो ऽग्नेः प्रियं धामाराध्नोत् तद् अग्नेर् एवैतेन प्रियं धाम राध्नोत्य् आगामुकम् एनं प्रियं भवति वत्सप्रियं वै भालन्दनम् आशयो ऽध्यवदन् स्तेना इति स एतत् सूक्तम् अपश्यत् ते नाधिवादम् अपाजयत् तेनापचितिम् अगछत् तद् अधिवादम् एवैतेनापजयत्य् अपचितिम् एव गछति द्वादशभिर् उपतिष्ठते द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे त्रिष्टुभो भवन्तीन्द्रियस्यावरुद्ध्यय् अन्येद्युः प्रक्रामयत्य् अन्येद्युर् उपतिष्ठते योगक्षेमं वा एतत् प्रजानां दाधार तस्माद् यायावरा अन्याः प्रजाः क्षेम्या अन्या अथ यत् प्रक्रम्योपतिष्ठते तस्माद् यायावरः क्षेम्यम् अभिप्रयाति तस्माद् यायावरस्य क्षेम्यो ऽन्नं बभूव यद् अहश् चेष्यमाणः स्यात् तद् अहर् उभयं समस्येत् प्र च क्रामेद् उप च तिष्ठेत योगक्षेमं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्त उद् उ त्वा विश्वे देवा इति विश्वे हीदं देवाः स्मो यन् मनुष्या अग्ने भरन्तु चित्तिभिर् इति यस्मा एव चित्तायाग्निर् आधीयते तेनैनं चित्तेन समर्धयति प्रेद् अग्ने ज्योतिष्मान् याहीति ज्योतिषैवैनं समर्धयित्वा प्रवापयत्य् अक्रन्दद् अग्निः स्तनयन्न् इव द्यौर् इत्य् अनुब्रूयाद् यद्य् अक्ष उत्क्ष्वेदेद् ईश्वरो वा एष उत्क्ष्वेदन् यजमानस्य प्रजां पशून् निक्ष्वदस् तत् क्रदितम् एवास्याकर् अथो शमयित्वैवाशिषम् आशास्ते समिधाग्निं दुवस्यतेति गायत्र्या ब्राह्मणस्यादध्याद् गायत्रो हि ब्राह्मणस् त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यो द्वाभ्यां गायत्रीभ्यां वैश्यस्य ये हि द्वे गायत्र्यौ सा जगत्य् अथो ब्रह्मणे वा एतद् विशम् अन्नं करोति यदि भस्म प्रतिपूर्येताप्सु प्रवेशयेद् आपो वा अग्नेर् योनिः स्व एवैनद् योनौ दधाति पुरीषं कुर्यात् पशुकामस्य पशवो वै पुरीषं पशुमान् भवतीष्टका वा संयुयात् तेनास्य सर्वा आग्नेयीर् इष्टका भवन्त्य् ऊर्जा वा एष पशुभिर् उत्सीदन्त् सहोत्सीदति पुनर् ऊर्जा निवर्तस्वेति तद् ऊर्जम् एव पशून् पुनर् अवरुन्द्धे बोधा मे अस्य वचसो यविष्ठेति बोधद्वतीभ्याम् उपतिष्ठते तस्मात् प्रजाः सुप्त्वा पुनः प्रबुध्यन्ते द्वाभ्याम् उपतिष्ठते द्विपाद् यजमानः प्रतिष्ठित्यै
॥३.२.२॥भरन्तु : फ़्न् एमेन्देद्। एद्।: भरन्त। च्फ़्। २।७।१०:८७।९, ३।३।८:४०।१४
यद्य् : फ़्न् एमेन्देद्। एद्।: यद् ध्य्। च्फ़्। क्स्।१९।१२:१४।१८
अपेत वीत वि च सर्पताता इत्य् आह यमदेवत्यो वा अयं लोको यमो ऽमुष्य लोकस्याधिपत्यम् आनश यद् यमाद् देवयजनम् अनिर्याच्याग्निं चिन्वीतायमदेवत्यो ऽस्याग्निः स्याद् अस्वर्ग्यो यद् आहादाद् इदं यमो ऽवसानं पृथिव्या अक्रन्न् इमं पितरो लोकम् असा इति यमाद् वा एतेनास्या देवयजनं निरयाचिष्ट स्मृते देवयजने ऽग्निं चिनुते यमदेवत्यो ऽस्याग्निर् भवति स्वर्ग उद् उ घ्नन्ति यद् एवास्या अयज्ञियम् अमेध्यं तद् उद्घ्नन्ति व्याममात्रम् उद्घ्नन्त्य् एतावद् वै पुरुषे वीर्यं वीर्यसम्मिते चीयते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यय् अवोक्षति यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयत्य् अथो आपो वा अग्नेर् योनिः स्व एव योनौ चीयते ऽग्नेर् भस्मास्य् अग्नेः पुरीषम् असीति सिकता निवपत्य् अग्नेर् वा एतद् वैश्वानरस्य भस्म यत् सिकता स्व एव भस्मंश् चीयते योनिर् वै सिकता रेता ऊषा यत् सिकता न्युप्योषान् निवपति योनौ वा एतद् रेतो दधाति तस्माद् योनौ रेतो हितं तस्माद् योने रेतः प्रजायते प्रजापतिः प्रजा असृजत ता वा ऊषेभ्य एव योनेर् असृजत प्रजननं वा ऊषाः प्रजनने वा एतद् अग्निश् चीयत इमे वै सहास्तां ते वियती अब्रूताम् अस्तु नौ प्रियं धाम सहेत्य् आपो वा अस्या यज्ञिया मेध्यास् ता अमूर् ऊषा अमुष्या यज्ञिया मेध्यास् त इमे यद् आपश् चोषाश् च भवन्ति यद् एवैनयोर् यज्ञियं मेध्यं तद् अवरुन्द्धे ऽथो अनयोर् एवैनं प्रिये धामन् निधत्ते सञ्ज्ञानं वा ऊषा उभये वा एतान् पशवो ऽभिसञ्जानते ये ग्राम्याः पशवो ये चारण्या उभये हैनं पशवो ऽभिसञ्जानते चतस्रः प्राचीः सादयति चत्वारि वै छन्दांसि छन्दोभिर् वै देवाः स्वर्गं लोकम् आयंस् ते दिशा आक्रमन्त ता अव्लीयन्त ता एताभिर् अदृंहन् यद् एता उपधीयन्ते दिशां धृत्यै पशवो वा इष्टका गार्हपत्यं वै पशवो ऽनूपतिष्ठन्ते द्वे समीची पुरस्ताद् उपदधाति द्वे समीची पश्चाद् उभयत एवास्मै समीचः पशून् उपदधाति पशूनां परिगृहीत्यय् अष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुत एकविंशतिः कार्या प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविंशो ऽथो एकविंशतिविधो हि गार्हपत्यस् त्रिचितिकः कार्यस् त्रयो वा इमे लोका इमान् एव लोकान् आप्नोति पञ्चचितिकः कार्यः पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध चतुर्भिः सन्निवपति चत्वारि वै छन्दांसि छन्दोभिर् एव सन्निवपत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैव सन्निवपति क्षत्रं वा एषो ऽग्नीनां यश् चीयते क्षत्रं य उख्यो ब्रह्म यजुर् यद् यजुषा सन्निवपति ब्रह्मणा वा एतत् क्षत्रं सन्नयति तस्माद् ब्रह्मणा क्षत्रं सं चैति वि च द्वौ वा एतौ व्याघ्रौ सं पद्येते ता ईश्वरा अशान्तौ यजमानं हिंसितोर् यद् आह भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति शमयत्य् एव शान्त एव न्युप्यते यजमानस्याहिंसायय् ऋतुभिर् वै पृथिव्या वीर्यम् उद्यतं तद् ऋतुभिः पुनर् विमुच्यते यद् आह प्रजापतिर् विश्वकर्मा विमुञ्चत्व् इति प्रजापतिर् एवैनां विश्वकर्मा विमुञ्चति
॥३.२.३॥अथैता नैरृतीस् तिस्रस् तुषपक्वा भवन्त्य् एतद् वै नैरृतम् अन्नस्य यत् तुषाः कृष्णा भवन्त्य् एतद् धि निरृत्या रूपम् एतां दिशं हरन्त्य् एषा हि निरृत्या दिक् ताः स्वकृता इरिणे पराचीर् निदधात्य् एतद् वै निरृतिगृहीतं पृथिव्या निरृतिगृहीत एव निरृतिं निरवदयते प्राणम् एवास्य प्रथमया मुञ्चत्य् अपानं द्वितीयया व्यानं तृतीययाथो त्र्यक्षरो वै पुरुषो यावान् एव पुरुषस् तं निरृत्याः पाप्मनो मुञ्चति निरृतिर् वै कर्मण उपद्रष्ट्रिका तां वा एतत् स्वेन भागधेयेन शमयित्वाथ सवितृप्रसूतो ऽग्निं चिनुते यं ते देवी निरृतिर् आबबन्धेति जालम् इष्टकास्व् अध्यस्यति निरृतिपाशम् एवोन्मुञ्चत आत्मनो ऽहिंसायै ॥
यद् अस्य पारे रजसो महश् चित्रं ज्योतिर् अजातय ।
तन् नः पर्षद् अति द्विषो ऽग्ने वैश्वानरः ॥ स्वाहेत्य् अपः परिषिञ्चन् पर्येति निरृत्या अनन्ववायाय भूत्यै नमा इत्य् उक्त्वावर्तते भूतिर् एव भूत्वावर्तत आत्मनो ऽहिंसायय् अनपेक्षमाणा आयन्ति निरृत्या अनन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव निरृतिं निरवदयन्त इन्द्रियेन वा एष वीर्येण व्यृध्यते यो नैरृतीर् उपधत्ते निवेशनः सङ्गमनो वसूनाम् इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इन्द्रियेणैवात्मानं समर्धयति त्रिष्टुभोपतिष्ठत ओजो वै वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति गार्हपत्यो ऽग्रे चीयते प्रतिष्ठित्यै गार्हपत्ये वै देवाः प्रतिष्ठाय प्राञ्चः स्वर्गं लोकम् अभिजयन्त आयन् यावान् पुरुष ऊर्ध्वबाहुस् तावता वेणुना विमिमीत एतावद् वै पुरुषे वीर्यं वीर्येणैव विमिमीते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यै यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो वेनुर् वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं विमिमीते सप्त पुरुषान् प्रमिमीते सप्तभ्य एव पुरुषेभ्यो लोकं विन्दत्य् आ सप्तमात् पुरुषाद् अन्नादो भवत्य् अरत्निमात्रं पक्षयोर् अत्युपदधाति पक्षम्बृहद् धि वयः षड्भिः कृषति षाड् वा ऋतव ऋतुभिर् एव कृषतीत्थम् अभ्यावर्तन्त कृषत्य् एषा हि देवानाम् आवृद् अथो अमुष्य वा एतद् आदित्यस्यावृतम् अनुपर्यावर्तन्ते तिस्रस्तिस्रः सीताः सम्पादयति त्रिवृद् ध्य् अग्निर् द्वादश सीता भवन्ति द्वादश मासाः संवत्सरः संवत्सरस्य वा एष विधाम् अनुविधीयत इयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति यत् कृषत्य् अस्या वा एतद् द्विगुणं क्रियते ऽनतिदाहायाथो पृथिव्या वा एतद् द्विगुणेनाग्नेर् वीर्यम् उद्यछन्त एतां दिशम् उत्सृजन्त्य् एषा हि देवानां दिग् अथो स्वर्गम् एवैनां लोकम् अनूत्सृजन्ति
॥३.२.४॥पर्षद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
कृष्टे वपति कृष्टे ह्य् ओषधयः क्षेपिष्ठं प्रतितिष्ठन्त्य् अन्नस्यान्नस्य वपत्य् ओषधीनाम् ऋग्भिर् ब्रह्म वा ऋग् ब्रह्मणैवास्मा अन्नाद्यम् अवरुन्द्धे चतुर्दशभिर् वपति द्वादश मासाः संवत्सरो ऽथ य एते चतुर्दशे अहोरात्रे एवैते तत् संवत्सरेण च वावास्मा एतद् अहोरात्राभ्यां चान्नाद्यम् अवरुन्द्धे ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं वपति यस्यान्नस्य निवपति यत् तस्याश्नीयाद् यान्य् अवरुद्धानि तैर् व्यध्येतेध्मे तस्यापिकुर्याद् अथो तन् मनसा ध्यायेत् तेनैव तद् अवरुन्द्धे यदि सर्वं न संविन्देद् यवान् मधूद्युतान् वपेद् यद् यवा ग्राम्यं तेनान्नाद्यम् अवरुन्द्धे यन् मध्व् आरण्यं तेन तेनैव तद् उभयम् अवरुन्द्धे ऽथैते सम्भारा दिग्भ्यो वा एतत् पृथिव्या ऊर्जं सम्भरत्य् ऊर्ज्य् अग्निश् चीयते यां जनतां कामयेत क्षोधुका स्याद् इतीषम् ऊर्जम् अहम् इत आदीति तस्या अर्धाद् आददीत क्षोधुका ह सा जनता भवति कामं कामदुघे धुक्ष्वेत्य् अभिमृशति तेनास्य सर्वा इष्टकाः कामदुघा भवन्त्य् उत्तरवेदिं निवपत्य् उत्तरवेदिम् इत्य् एवास्याग्निश् चीयते ऽथो यज्ञपरुषो ऽनन्तर्हित्यय् अग्निर् वा एष न्युप्यते यद् उत्तरवेदिर् यद् उत्तरवेदिं न्युप्याग्निं चिनोत्य् अग्नौ वा एतद् अग्निश् चीयते ऽग्ने तव श्रवो वपा इति सिकता निवपत्य् एता वै वैश्वानरीर् इष्टका अपरिमिता एतद् अग्नेर् अपरिमितं चीयते ऽग्नेर् वा एतद् वैश्वानरस्य सूक्तम् एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायां वा एतत् तन्वाम् अग्निश् चीयते सतनूर् अर्को निधीयते लोमशं वा एतच् छन्दः पशव्यम् ऊनातिरिक्तं प्रजननायाशीत्यक्षरम् एतेन वै देवाः स्वर्गं लोकम् आयंस् तद् अस्याशीत्यक्षरत्वं समुद्रं वा एतच् छन्दो योनिः समुद्रः सोमो रेतोधा यत् सौमीभ्यां व्यूहति योनौ वा एतद् रेतो दधाति तस्माद् योनौ रेतो हितम् आप्यानवती भवतस् तस्माद् योनौ रेता आप्यायते छन्दोभिर् वा अग्निर् उत्तरवेदिम् अभिप्रह्रियते या अग्नौ प्रह्रियमाणे ऽन्वाहुस् तां तर्हि मनसा ध्यायेच् छन्दोभिर् एवैनम् उत्तरवेदिम् अभिप्रहरति मनसान्वाहानिरुक्तम् इव ह्य् एतद् अव्यावृत्तं व्यावृतं पाप्मना भ्रातृव्येण गछत्य् अश्वं पुरस्तान् नयन्ति रक्षसाम् अपहत्यय् आक्रमयन्ति य एवैनेन भ्रातृव्यः सदृङ् तं वज्रेणावबाधन्ते प्राञ्चं प्रक्रमयन्ति य एवैनं भ्रातृव्यो ऽति तं वज्रेण प्रणुदते प्रत्यञ्चम् अभ्यावर्तयन्ति य एवैनं भ्रातृव्यो ऽनु तं वज्रेण प्रतिनुदते तद् भ्रातृव्यस्य वा एष विनोदः कृष्णो वै भूत्वाग्निर् अश्वं प्राविशत् स एतद् अगछद् यत्र मृगशफो यद् अश्वम् आक्रमयन्ति यद् एवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै
॥३.२.५॥तपो योनिर् असीति पुष्करपर्णम् उपदधाति योनिर् वा एषो ऽग्नेर् यत् पुष्करपर्णं नाभिर् वधकः सयोनिर् एव सनाभिश् चीयत इयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति यत् पुष्करपर्णम् उपदधात्य् अस्या अनतिदाहायाधस्तान्नाभि सादयत्य् ओषधीनां प्रतिष्ठित्यय् अथो ये ऽप्स्व् अग्नयस् तान् एवावरुन्द्धे प्रजापतिः प्रजा असृजत याः पुरा ब्रह्मणो ऽसृजत ताभिर् नाराध्नोद् अथ या ब्रह्ममुखा असृजत ताभिर् अराध्नोद् यद् ब्रह्म जज्ञानं प्रथमं पुरस्ताद् इति रुक्मम् उपदधात्य् ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीत्य् आहुर् अमृतं वै हिरण्यम् अमृते वा एतद् अग्निश् चीयते श्मशानचितो वा एते चीयन्ते चित्याञ्चित्यां हिरण्यशकलम् उपास्यति तेन वा एषो ऽश्मशानचित् तेन स्वर्गो ऽथैष पुरुषो हिरण्ययो यजमानलोकम् एवैष दाधारैष ह त्व् एव यजमानो ऽग्निनामुष्मिंल् लोके सम्यङ् यस्यैष उपधीयते ऽथो मध्ये ज्योतिर् एव चीयते द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इत्य् अभिमृशति होत्रास्व् एवैनं प्रतिष्ठापयत्य् अथैतानि सर्पनामानि मृत्युर् वै सर्पनामानि यद् उपदध्यात् प्रमायुकः स्यात् तस्माद् अनुदिशति सोमे वा एका त्विषिर् व्याघ्र एका सर्प एका ता एवावरुन्द्धे वामदेवस्य राक्षोघ्नेन व्याघारयत्य् एतेन वै वामदेवः कुसिताय्याः शिरा आदीपयद् रक्षसाम् अपहत्यै पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धाथो यावान् एव यज्ञस् तस्माद् रक्षांस्य् अपहन्त्य् अथैते स्रुचौ कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसाम् अपहत्यै दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसंस् तानि कार्ष्मर्येणैवापाघ्नत यत् कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसामपहत्यै घृतस्य पूर्णा भवत्य् एषा वा अग्नेः प्रिया तनूर् यद् घृतं प्रिययैवैनं तन्वा समर्धयति गायत्र्या सादयति तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्ध औदुम्बरीम् उत्तरतः सादयति दध्नः पूर्णाम् ऊर्ग् वा उदुम्बरो ऽन्नं दध्य् ऊर्ज्य् एवास्यान्नं दधाति त्रिष्टुभा सादयत्य् ओजो वै वीर्यं त्रिष्टुब् ओज एव वीर्यम् अवरुन्द्धे पूर्णे सादयत्य् अक्षिते यजमानलोकम् उपतिष्ठेते मूर्धन्वतीभ्यां सादयति मूर्धन्यो ऽसानीति विराज्य् अग्निश् चेतव्या इत्य् आहुः स्रुचौ वै विराजौ यत् स्रुचा उपदधाति विराजि वा एतद् अग्निश् चीयते ऽथैषा स्वयमातृण्णेयं वै प्रथमा स्वयमातृण्णान्तरिक्षं द्वितीयासौ तृतीयेमान् एव लोकान् उपधत्ते ऽश्वम् उपघ्राय्य सादयति प्रजापतिचित एवास्य भवत्य् अथो प्राणानाम् उत्सृष्ट्यै भूर् असीति प्राचीम् उदूहेद् यद्य् एनं भ्रातृव्यो ऽतीव स्याद् भूमिर् असीति प्रतीचीं यद्य् अन्व् अदितिर् असि भूमिर् असीति तिरश्चीं यदि सदृङ्ङ् इयं वा अदितिर् अनया वा एतद् यजमानो भ्रातृव्यं प्रभूतं प्रणुदते ऽनया प्रतिनुदते ऽनया विनुदते तद् भ्रातृव्यस्य वा एष विनोदः काण्डात्काण्डात् प्ररोहन्तीति दूर्वेष्टकाम् उपदधात्य् ओषधीनां प्रतिष्ठित्यै काण्डात्काण्डाद् ध्य् एषा प्रतितिष्ठति पशवो वा इष्टका न वै पशवा आयवसे रमन्ते यद् दूर्वेष्टकाम् उपदधात्य् आयतनम् इव वा एतत् क्रियते पशूनां यत्यय् अथैषा वामभृद् द्विर्यजुर् यजमानलोकम् अन्येन दाधार भ्रातृव्यलोकम् अन्येन वृङ्क्त एतया वै देवा असुराणां वामं पशून् अवृञ्जत तद् वामभृतो वामभृत्त्वं छन्दांसि वै देवानां वामं पशवश् छन्दांस्य् एवैतया वामं पशून् यजमानो भ्रातृव्यस्य वृङ्क्ते ऽथैते रेतःसिचव् इयं विराड् असु स्वराड् असा एव रेतः सिञ्चतीयं प्रजनयत्य् अग्निर् अत्यन्नादो भवति यस्यैते उपधीयेते यदि पुत्री चिन्वीत प्रथमायां चित्याम् अन्याम् उपदध्याद् उत्तमायाम् अन्यां रेतसः सिक्तस्य परिगृहीत्यै यद्य् अपुत्रः प्रथमायां चित्याम् उभे उपधेये सम्यञ्चौ हि भूत्वा रेतः सिञ्चतः
॥३.२.६॥प्रतितिष्ठति : फ़्न् एमेन्देद्। एद्।: प्रतितिष्ठतीति
अथैता विश्वज्योतिष एषु वा एतल् लोकेषु ज्योतिष्मन्तम् अग्निं निधत्ते ऽथो प्राणानां विधृत्यय् अथैषा त्र्यालिखितेमे वै लोकास् त्र्यालिखितेमान् एव लोकान् उपाधत्त उभये वा एताम् उपादधत देवाश् च वा असुराश् चोपरिष्टाल्लक्ष्माणं देवा उपादधताधस्ताल्लक्ष्माणम् असुरास् ततो देवा अभवन् परासुरा उपरिष्टाल्लक्ष्माणम् उपदधीत भ्रातृव्यवान् यो वास्य प्रियः स्यात् तस्य भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एष वा असपत्नेष्टकासपत्नो भवति य एताम् उपधत्ते ऽथो देवलक्ष्मं वा एषा देवलक्ष्मम् एवोपधत्ते या सोखाया अधि मृद् उञ्शिष्यते तस्या एतां कुर्यात् तेनास्य सर्वा आग्नेयीर् इष्टका भवन्त्य् अथैष कूर्मः श्मशानचितो वा एते चीयन्ते जीवः कूर्म उपधेयस् तेन वा एषो ऽश्मशानचित् तेनोत्पाती पशूनां वा एष मेध एतं वै मेधं पश्यन्त एनं पशवो ऽमुष्मिंल् लोक उपतिष्ठन्ते प्रत्यञ्चं सादयति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठते द्यावापृथिवीयया सादयति द्यावापृथिवी हि पशवो ऽनूपतिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति विष्णोर् नाभ्याम् अग्निश् चेतव्या इत्य् आहुः प्रादेशमात्रम् उलूखलं कार्यम् एतावान् वै विष्णुर् विष्णोर् वा एतन् नाभ्याम् अग्निस् चीयत ऊर्ज्य् अग्निश् चेतव्या इत्य् आहुर् ऊर्ग् वा उदुम्बरो यद् औदुम्बरम् उलूखलं भवत्य् ऊर्जि वा एतद् अग्निश् चीयते वैष्णव्या सादयति वैष्णवं ह्य् उलूखलं स्वयैव देवतयाथैषोखा पृथिव्या वा एतद् ओजो वीर्यं सम्भ्रियत ओजो वा एतद् वीर्यं मध्यतो ऽग्नेर् धीयते ऽथो मध्ये ज्योतिर् एव चीयते यद् रिक्ताम् अवेक्षेत क्षोधुको यजमानः स्याद् अथ यत् पूर्णाम् अवेक्षते तथा हाक्षोधुको भवति सिकताभिः पूरयितव्याग्नेर् वा एतद् वैश्वानरस्य भस्म यत् सिकताः स्वेनैवैनां भस्मना प्रीणाति दध्नः पूरयितव्योर्ग् वै दध्य् ऊर्जम् एवावरुन्द्धे हृतस्य पूरयितव्यैषा वा अग्नेः प्रिया तनूर् यद् घृतं प्रिययैवैनं तन्वा समर्धयति मधोः पूरयितव्या हास्य प्रजायां मधव्यो जायते व्यृध्यैन्द्रियाणि वै पशुशीर्षाण्य् अयज्ञियान्य् अमेध्यानि यच् छिद्रेषु हिरण्यशकलान्य् अप्य् अस्यतीन्द्रियेणैवैनानि वीर्येण समर्धयति मेध्यान्य् एनानि यज्ञियानि करोत्य् अर्धं वै पुरुषः सहस्रस्य यछन्त्य् अर्धम् इतरे पशवस् तस्माद् एतन् मध्यत उपदधात्य् अभिता इतराणि पशोः सवीर्यत्वायाथो सायतनत्वाय यं कामयेत पशुमान्त् स्याद् इति तस्य समीचीनानि पशुशीर्षाण्य् उपदध्यात् समीच एवास्मै पशून् उपदधाति पशुमान् भवत्य् अथ यं कामयेतापशुः स्याद् इति तस्य विषूचीनानि पशुशीर्षाण्य् उपदध्याद् विषूच एवास्मै पशून् उपदधात्य् अपशुर् भवत्य् एता वै साहस्रीर् इष्टकाः पश्विष्टकास् ताः सोमदक्षः कौश्रेयो विदाञ्चकार ताः श्यापर्णायोपदधौ स सहस्रं पशून् प्राप प्र सहस्रं पशून् आप्नोति यस्यैता उपधीयन्ते यविष्ठो वै नामैषो ऽग्निस् तस्माच् चिन्वीतान्तरा न व्येतवै यद् वीयात् प्राणान् अस्य युवेतोत्सर्गैर् उपतिष्ठत आरण्यान् एव पशूञ् शुचम् अनूत्सृजति
॥३.२.७॥एतल् : फ़्न् एमेन्देद्। एद्।: एतंल्
चिन्वीत : फ़्न् एमेन्देद्। एद्।: चिन्वत
पुरुषशीर्षम् उपदधात्य् एष हि पशूनां वीर्यवत्तमो वीर्यम् अस्मिन् दधात्य् एकम् उपदधात्य् एकधास्मिन् वीर्यं दधाति सौर्या पुरुषशीर्षम् अभिजुहोति स्वर्गस्य लोकस्य समष्ट्यै सौरी वा एषा सती मैत्रावरुण्य् अहर् वै मित्रो रात्रिर् वरुणो ऽहोरात्रयोर् एव प्रतितिष्ठत्य् अर्धऋचाभ्यां जुहोतीयं वा अर्धऋचो ऽसा अर्धऋचो ऽनयोर् एव प्रतितिष्ठत्य् अथ यद् एकय ऋचा द्विर् जुहोति तस्माद् एकः सन् पुरुषो द्विपाद् यद् वा एतत् किञ्चाकर् योनिं वा एतद् व्यकर् यद् एता अपस्याः सादयति तस्मिन्न् एव योनौ रेतो दधातीयं वा अबिभेद् अग्निर् मातिधक्ष्यतीति सैता इष्टका अपश्यद् अथो आहुः प्रजापतिर् अपश्यद् इति ता उपाधत्ते यद् एता उपधीयन्ते ऽस्या अनतिदाहाय यद् इद् अन्नम् इति होवाचेयं य एता उपदधाता इत्य् अन्नादो भवति यस्यैता उपधीयन्ते तस्माद् रेतसः सिक्ताद् एष पशुः सम्भवति यद् एताश् छन्दस्याः पशवो वै छन्दांसि यद् दक्षिणत उपदध्याद् अभीपतः प्रजा वरुणो गृह्णीयाद् अथ यद् उत्तरत उपदधात्य् अपवाहत एवाथैताः प्राणभृतस् तस्मिन् पशौ सम्भूते प्राणं चक्षुः श्रोत्रं वाचं तानि दधात्य् अक्ष्णया सादयति पशुं वा एतद् आक्रमयति तस्मात् पशवो ऽक्ष्णयाङ्गानि प्रहरन्तो यन्ति दशभिर्दशभिर् वा अता इष्टकाभिर् ऋषय आर्ध्नुवंस् ता ऋद्धीर् ऋध्नोति यस्यैता उपधीयन्ते ऽथैताः संयतो रेतो वा एतत् सिच्यते यद् अग्निश् चीयते यद् एता उपधीयन्ते रेतसः सिक्तस्य संयत्यै लोकं पृण छिद्रं पृणेत्य् एषा वा अछिद्रेष्टका अछिद्रा वा एतया चितयश् चीयन्त इन्द्राग्नी त्वा बृहस्पतिर् इत्य् ओजो वै वीर्यम् इन्द्राग्नी ओजसा वा एतद् वीर्येणाग्निश् चीयते ता अस्य सूददोहसा इति परुषिपरुष्य् एव रसं दधाति सोमं श्रीणन्ति पृश्नया इत्य् अन्नं वै पृश्न्य् अन्नम् एवावरुन्द्धे जन्मन् देवानां विशा इत्य् आह प्रजात्या एव त्रिष्व् आ रोचने दिव इति सवनानि वै तृणि रोचनानि सवनचितम् एवैनम् अकर् अनुष्टुब् वा एषा वाग् वा अनुष्टुप् प्राणो वै वाग् यद् एषा सर्वा इष्टका अनुसञ्चरति तस्मात् प्राणः सर्वाण्य् अङ्गान्य् अनुसञ्चरत्य् आग्नेयी वा एषा वर्णेन स्वेन वा एतच् छन्दसाग्निश् चीयते नाध्वर्युः सन् नार्त्तिम् आर्छति य एवं वेद
॥३.२.८॥उत्सन्नयज्ञो वा एष यद् अग्निश् चित्यः को ह तद् वेद यद् एतस्य क्रियते यन् नाश्विनौ वै देवानां भिषजा अकॢप्तस्य कल्पयितारौ यद् एता आश्विनीर् उपधीयन्ते ऽकॢप्तस्य कॢप्त्यै पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धाथो यावान् एव यज्ञस् तम् अचीकॢपद् अथैता आश्विनीर् ऋतव्या अनूपधीयन्ते रेतसे वा एतत् सिक्ताय ऋतून् उपाधात् तस्मात् सर्वेष्व् ऋतुषु रेतो हितं तस्मात् सर्वान् ऋतून् रेतो ऽनुप्रजायते ऽथैता ऋतव्या वायव्या अनूपधीयन्ते तस्मात् सर्वान् ऋतून् वायुर् अन्वावरीवर्त्य् अथैता वायव्या अपस्या अनूपधीयन्ते तस्मात् पशवो नानाव्रताः सन्तो ऽप एवाभि सव्रताश् चतस्रः पुरस्ताद् उपदधाति चतुर्विधं हि शिरः प्राणश् चक्षुः श्रोत्रं वाङ् मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति पञ्चपञ्चाभिता उपदधाति पशोः सवीर्यत्वायाथो सायतनत्वाय तस्मात् पशुः पश्चाद् वरीयाञ् श्रोणिमत्तरस् तस्माद् उ प्राङ् संहान इन्द्राग्नी अव्यथमानाम् इष्टकां दृंहतं युवम् इत्य् अन्तरिक्षं वा एषा चितिर् अन्तरिक्षम् इमाः प्रजा इन्द्राग्नी वै देवानाम् ओजोभृतव् ओजो वीर्यम् इन्द्राग्नी ओजो वा एतद् वीर्यं मध्यतः प्रजानां धीयते ऽथैता दिश्या देवा वै स्वर्गं लोकम् आयंस् ते दिशा आक्रमन्त ता अव्लीयन्त ता एताभिर् अदृंहन् यद् एता उपधीयन्ते दिशां धृत्यै पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध दशैताः पुरस्तात् सादयति दशाक्षरा विराड् विराट् खलु वै चक्षुर् ज्योतिश् छन्दसां चक्षुर् वा एतज् ज्योतिः पुरस्तात् पशोर् दधाति तस्माद् इदं पुरस्ताच् चक्षुर् अथो अन्नं वै विराड् अन्नं वा एतन् मुखतो दधाति मा छन्दः प्रमा छन्दः प्रतिमा छन्दा इतीयं वै मान्तरिक्षं प्रमासौ प्रतिमेमान् एव लोकान् उपधत्ते ऽथो देवछन्दसानि वा एतानि देवछन्दसान्य् एवोपधत्ते द्वादशद्वादशाभिता उपदधाति तत् षट्त्रिंशत् षट्त्रिंशदक्षरा बृहती बृहती खलु वै छन्दसां स्वाराज्यम् आनशे गछति स्वाराज्यं यस्यैता उपधीयन्ते पशवो वै बृहती पशवो मध्यमा चितिस् तस्माद् एतस्यां चित्याम् एता उपधीयन्त आदित्यधामानो वा उत्तरे प्राणा अङ्गिरोधामानो ऽधरे मूर्धासि राड् इति य उत्तरे प्राणास् तान् एताभिर् दाधार यन्त्री राड् इति ये ऽधरे प्राणास् तान् एताभिर् दाधार तद् एषां वावैताः प्राणानां विधृत्यै समावद्भाजः सादयति समावद्भाजो हीमे प्राणाः प्राणानां विधृत्यै यं द्विष्यात् तस्याक्ष्णया सादयेत् प्राणान् अस्य मोहयति प्रमायुको भवति मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति
॥३.२.९॥त्रिवृद्वतीं पुरस्तात् सादयति त्रिवृद् वै यज्ञमुखं मुखतो वा एतद् यज्ञमुखं ददाति सप्तदशवतीं दक्षिणतो ऽन्नं वै सप्तदशो ऽन्नं वा एतद् दक्षिणतो दधाति तस्माद् दक्षिणेन हस्तेनान्नम् अद्यते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यवत्तरस् तस्माद् दक्षिणम् अर्धं वयांस्य् अनुपर्यावर्तन्ते पञ्चदशवतीम् उत्तरत ओजो वै पञ्चदश ओजो वा एतद् उत्तरतो दधात्य् एकविंशवतीं पश्चात् प्रतिष्ठित्यै त्रिवृद्वतीं पुरस्तात् सादयति त्रिवृद् वै यज्ञमुखं मुखतो वा एतद् यज्ञमुखं दधाति पञ्चदशवतीं दक्षिणतः सादयति सप्तदशवतीम् उत्तरतः पक्षयोः सवीर्यत्वायाथो सायतनत्वाय तस्माद् उभाभ्यां हस्ताभ्याम् अन्नम् अद्यते ऽथो वज्रो वै पञ्चदशो वज्रेण वा एतद् यजमानो भ्रातृव्यम् उभयतो निर्भजत्य् एकविंशवतीं पश्चात् प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविंशो ऽर्कस्य वा एष विधाम् अनुविधीयते ऽन्नम् अक्रो ऽन्नादो भवति यस्यैता उपधीयन्ते ऽग्नेर् भागो ऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमा इति स्पृतो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत तत्तद् अस्पृणोद् यद्यद् एवैताभिर् यजमानः कामयते तत्तत् स्पृणोत्य् एकयास्तुवत प्रजा अधीयन्तेति सृष्टयो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत तत्तद् असृजत यद्यद् एवैताभिर् यजमानः कामयते तत्तत् सृजते अग्ने जातान् प्रणुदा नः सपत्नान् इति पुरस्तात् सादयति य एव जाताः सपत्नास् तान् एतया प्रणुदते प्रत्य् अजातान् जातवेदो नुदस्वेति पश्चाद् य एव जाताः सपत्नास् तान् एतया प्रतिनुदते तद् भ्रातृव्यस्य वा एष विनोदश् चतुश्चत्वारिंशी स्तोमो वर्चो द्रविणम् इति दक्षिणतः सादयति षोडशी स्तोमा ओजो द्रविणम् इत्य् उत्तरतश् चतुश्चत्वारिंशदक्षरा वै त्रिष्टुब् वज्रस् त्रिष्टुब् वज्रः षोडशी सव्यापग्रहणो वै वज्रो दक्षिणाप्रहरणः सव्यापग्रहणं वा एतद् वज्रं दक्षिणाप्रहरणं यजमानो भ्रातृव्याय प्रहरति पुरीषवतीं मध्यतः सादयति पुरीषम् इव हीदं मध्यतः पशोः पुरीषं मध्यम् आत्मनः सात्मानम् एवाग्निं चिनुते ऽथैता विराजो वाग् वै विराट् पशवो वा एता इष्टकाः पशुषु वा एतद् उत्तमां वाचं दधाति तस्मात् पशुमान् उत्तमां वाचं वदति ॥
इत्य् उपरिकाण्डे दृषानो नाम द्वितीयः प्रपाठकः
॥३.२.१०॥तृतीयकाण्डे तृतीयः प्रपाठकः
तृतीयकाण्डे तृतीयः प्रपाठकः
अथैताः स्तोमभागा एतां वै बृहस्पतिर् असुरेभ्यो ऽधि यज्ञस्य प्रतिष्ठाम् आहरद् यद् एता उपधीयन्ते यज्ञस्य प्रतिष्ठित्यै यज्ञो वै देवानाम् अपद्यत तं देवाः स्तोमभागाभिः प्रत्युदस्तभ्नुवन् यद् एता उपधीयन्ते यज्ञस्योत्तब्ध्यै प्रजापतिर् वा एतत् पृथिव्या अग्नेस् तेजः समभरत् तद् अग्नेर् एवैतत् तेजः सम्भ्रियते ऽथैता नाकसदो नाकं ह वा अस्मा अग्निं चिक्यानाय भवति न वै तत्र किं चन जग्मुषे कं तस्मान् नाकसदो नाकसत्सु पञ्चचूडा अध्युपदधाति स्वर्गस्य लोकस्य समष्ट्यय् एष ह त्व् एव यजमानः पत्नीभिर् अग्निनामुष्मिंल् लोके सम्यङ् यस्यैता उपधीयन्ते ऽथो मध्ये ज्योतिर् एव चीयत एता वा अमुष्मिंल् लोके यजमानस्य पत्नीस् तस्माद् अग्निचिता स्त्री नोपेत्येर्ष्या हि सा पश्चात् प्राचीम् उत्तमाम् उपदधाति पश्चाद् ध्य् एतं प्राची पत्न्य् अन्वास्ते ऽथैताः कॢप्तयः प्रजापतिः प्रजा असृजत ता एनं सृष्टा अत्यमन्यन्त स प्रजापतिर् एता इष्टका अपश्यत् ता उपाधत्त ततो वा अकल्पत यद् एता उपधीयन्ते प्रजानां कॢप्त्यय् अथैता वृष्टिसनयो वृष्टिर् वै देवेभ्यो ऽन्नाद्यम् अपाक्रामत् तत इदं सर्वम् अशुष्यत् ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एता इष्टका अपश्यत् ता उपाधत्त तेभ्यो वृष्टिम् अन्नाद्यम् अवारुन्द्ध यद् एता उपधीयन्ते वृष्ट्या अन्नाद्यस्यावरुद्ध्यय् आवपनं वा उत्तमा चितिर् अन्याअन्या इष्टका उपदधात्य् अन्यानन्यान् एवास्मै पशून् प्रजनयति प्राणो वै स्वयमातृण्णायुर् वायव्या समीची उपदधात्य् आयुश् चैव प्राणं च सयुजा अकर् अथो समीचीनाभ्यां ह्य् आयुषा च प्राणेन च भुञ्जते प्राणो वै स्वयमातृण्णा ताम् उत्तमाम् उपदधात्य् उत्तमं ह्य् आयुर् यद् अन्याम् उत्तराम् उपदध्यात् प्राणम् अस्यापिदध्यात् प्रमायुकः स्यात् तस्मात् ताम् उत्तमाम् उपदधात्य् उत्तमं ह्य् आयुः
॥३.३.१॥अथैषा छन्दश्चितिश् छन्दांसि वै देवानां वामं पशवश् छन्दांस्य् एवैतया वामं पशून् यजमानो ऽवरुन्द्ध एतां वै यज्ञसेनश् चैत्र उपदधे स आनर्ध ऋध्नोति य एताम् उपधत्ते गायत्रीभिः पुरस्तात् सादयति तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्धे तिस्र उपदधाति त्रिवृद् ध्य् अग्निर् मूर्धन्वतीभिः सादयति मूर्धन्यो ऽसानीति त्रिष्टुब्भिर् दक्षिणत ओजो वै वीर्यं त्रिष्टुब् ओज एव वीर्यम् अवरुन्द्धे जगतीभिः पश्चाद् जागताः पशवः पशून् एवावरुन्द्धे ऽनुष्टुब्भिर् उत्तरतो ऽनुष्टुब् वै सर्वाणि छन्दांसि सर्वाण्य् एवास्य छन्दांस्य् उपहितानि भवन्त्य् अथ पङ्क्तीर् अथ बृहतीर् अथोष्णिहो ऽथ ककुभो ऽथ विराज एवम् अस्य यथापूर्वं छन्दांस्य् उपहितानि भवन्ति द्विपदा उत्तमाः सादयति द्विपाद् यजमानः प्रतिष्ठित्यै छन्दांसि वै देवानां वामं पशवो यजमानायतनं वा आहवनीयो भ्रातृव्यायतनं धिष्ण्या यत् पश्चोपदध्याद् भ्रातृव्यायतने वामं पशून् दध्याद् अथ यत् पुर उपदधाति यजमानायतने वा एतद् वामं पशून् दधात्य् अष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुते ऽष्टौ गायत्रीभिः पुरस्ताद् बहिःपवमानस्योपदध्याद् यद्य् एनं भ्रातृव्यो ऽतीव स्याद् एकादश त्रिष्टुब्भिः पुरस्तान् माध्यन्दिनस्य पवमानस्य द्वादश जगतीभिः पुरस्ताद् आर्भवस्य पवमानस्यैता एव पश्चात् पवामनानाम् उपदध्याद् यद्य् एनं भ्रातृव्यो ऽतीव स्यात् प्राणो वै पवामानो ऽग्नेस् तेजः पवमानस् तेजसा वा एतद् यजमानो भ्रातृव्यं प्रभूतं प्रणुदते तेजसा प्रतिनुदते तेजसा विनुदते तद् भ्रातृव्यस्य वा एष विनोदो जानुदघ्नं प्रथमं चिन्वानश् चिन्वीत गायत्रीचितं नाभिदघ्नं द्वितीयं चिन्वानश् चिन्वीत त्रिष्टुप्चितं चुबुकदघ्नं तृतीयं चिन्वानश् चिन्वीत जगच्चितं यज् ज्यायांसं चित्वा कनीयांसं चिन्वीत कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान्त् स्याद् अथ यत् कनीयांसं चित्वा ज्यायांसं चिनुते ज्यायांसम् एव यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् एषा वा अग्नेर् उत्तरवती नाम चितिर् उत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद
॥३.३.२॥पञ्चचितिकः कार्यः पाङ्क्तो यज्ञः पाङ्क्ताः पशवस् तस्मात् पञ्चचितिकः पञ्च चितयः पञ्च पुरीषाणि तद् विराजं सम्पद्यते तद् यद् विराजं सम्पद्यते तद् अग्नेः स्तोत्रं कार्यं यत् पञ्चचितिकः स्याद् इयाद् विराजो यद् दशचितिक इयाद् यज्ञाच् च पशुभ्यश् च यत् पञ्चचितिकस् तेन यज्ञाच् च पशुभ्यश् च नैत्य् अथ यत् पञ्च चितयः पञ्च पुरीषाणि तेन विराजो नैति तद् उभाभ्यां वावास्मा एतद् वर्णाभ्यां पशून् अवरुन्द्धे यद् एषां पाङ्क्तं यच् च वैराजं द्व्यक्षरं लोम द्व्यक्षरा त्वग् द्व्यक्षरं मांसं द्व्यक्षरम् अस्थि द्व्यक्षरो मज्जा तद् दश दशाक्षरा विराड् वैराजाः पशवः पशून् एवावरुन्द्धे पञ्चचितिकः कार्य इमे वै लोकास् तिस्रश् चितयो यजमानो द्वे यजमानं वा एतद् एषु लोकेषु प्रतिष्ठापयाम् अकः का प्रथमा चितिः किं पुरीषम् इत्य् आहुर् इयं वाव प्रथमा चितिर् ओषधयः पुरीषं का द्वितीया चितिः किं पुरीषम् इत्य् आहुर् अन्तरिक्षं वाव द्वितीया चितिर् वयांसि पुरीषं का तृतीया चितिः किं पुरीषम् इत्य् आहुर् असौ वाव तृतीया चितिर् नक्षत्राणि पुरीषं का चतुर्थी चितिः किं पुरीषम् इत्य् आहुर् यज्ञो वाव चतुर्थी चितिर् दक्षिणा पुरीषं का पञ्चमी चितिः किं पुरीषम् इत्य् आहुर् यजमानो वाव पञ्चमी चितिः प्रजा पुरीषम् एतावद् वा अस्ति यावद् एवास्ति तत् स्पृणोति तद् अवरुन्द्धे ऽथैता ऋतव्याः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरस् तस्य वा अहोरात्राण्य् एवेष्टका उपधीयन्ते द्वेद्वे उपदधाति प्रतिष्ठित्यय् अवकाम् उपास्य सादयति शान्त्या अनिर्दाहाय चतस्रो मध्यमायां चित्याम् उपदधात्य् अप्रतिष्ठितम् इव ह्य् अन्तरिक्षं प्रतिष्ठित्यै द्वादशोपदधाति द्वादश मासाः संवत्सरः संवत्सरो वा अग्निर् वैश्वानर एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियायां वा एतत् तन्वाम् अग्निश् चीयते सतनूर् अर्को निधीयते ऽग्नेर् अन्तःश्लेषो ऽसीत्य् एतस्य ह त्व् एवाग्निः संश्लिष्टो यस्यैता उपधीयन्ते संश्लिष्टो वा एतस्याग्निर् यस्यैता उपधीयन्ते कल्पेतां द्यावापृथिवी इति कल्पते ह वा अस्मा अग्निं चिक्यानाय प्र समानानां ज्यैष्ठ्यम् आप्नोति य एवं वेद सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव ऋतव्याभिः
॥३.३.३॥तमो वै स्वर्गं लोकम् अन्तरा तिष्ठत्य् एता वै ज्योतिष्मतीर् इष्टका यद् धिरण्यशकलैः प्रोक्षति विवासयति वा एतद् यजमानाय ज्योतिर् अस्मिन् दधाति सहस्रं भवन्ति साहस्रो वै प्रजापतिः प्रजापतिम् एवाप्नोति यावद् वै सहस्रं तावद् इतो ऽसौ लोकः स्वर्गस्य लोकस्य समष्ट्यईमा मे अग्ना इष्टका धेनवः सन्त्व् इति धेनवो वै नामैता इष्टका एताभिर् वै प्रजापतिर् यद्यद् अकामयत ततद् अदुह यद्यद् एवैताभिर् यजमानः कामयते तत्तद् दुह ऋतुष्ठाः स्थ ऋतावृधा इत्य् ऋतुष्ठा एवैना अकृत ऋतावृधो घृतश्च्युतो मधुश्च्युता इति घृतश्च्युत एवैना अकृत मधुश्च्युत ऊर्जस्वतीः पयस्वतीर् इत्य् ऊर्जस्वतीर् एवैना अकृत पयस्वतीः स्वधायिनीः कुलायिनीर् इति कुलायिनीर् ह्य् एता विराजो नाम कामदुघा इति यत्र वा अदो देवेभ्यः कामदुघाः कामम् अदुह्र तद् एता अपि दुदुह्रे तत् पुष्टिम् एवैताभिर् अवरुन्द्धे ऽमुत्रामुष्मिंल् लोक इत्य् अमुष्मै हि लोकायाग्निश् चीयते रुद्रं वै देवा यज्ञाद् अन्तरायंस् तान् आयतयाभिपर्यावर्तत तस्माद् वा अबिभयुस् ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् एतञ् शतरुद्रियम् अपश्यत् तेनैनम् अशमयत् तद् य एवं वेद वेदाह वा एनं प्रजापतिर् नैनम् एष देवो हिनस्ति यत्र रुद्रः प्रजाः शमायेत तद् उदङ् परेत्येतद् एव वदंश् चक्रम्येत स्वायां वा एतद् दिशि स्वेन भागधेयेन रुद्रं शमयति जानुदघ्ने प्रथमं जुहोत्य् अस्या एवैनं तेन शमयति नाभिदघ्ने द्वितीयम् अन्तरिक्षात् तेन छुबुकदघ्ने तृतीयं दिवस् तेन त्रिर् जुहोति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो रुद्रं शमयति त्रिर् अमुतः पुनः प्रत्यवहारं जुहोति यान् एवेतो रुद्रान् यजति तान् अमुतो ऽवयजति त्रिर् इतो जुहोति त्रिर् अमुतस् तत् षट् षड् वा ऋतवस् ऋतुभ्यो वा एतद् रुद्रम् अवयजति समावञ्शो विभाजं जुहोति समावद्भाजो हि रुद्राणां भागा द्वासाहानि जुहोति द्वासाहैर् वै स तम् अशमयद् द्वासाहैर् एवैनं शमयत्य् अर्कपर्णेन जुहोति द्वासाहैर् वै स तम् अशमयद् द्वासाहैर् एवैनं शमयत्य् अर्कपर्णेन जुहोत्य् अर्केण वा एतद् अर्कम् अवयजति यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोति पशुर् वा अग्निः स वै तर्ह्य् एव जायते यर्हि चीयते स भागधेयम् इछति यथा वत्सो जातः स्तनम् इछति सो ऽध्वर्युं च यजमानं च प्रेक्षते यञ् शतरुद्रियं जुहोति स्वेनैवैनं भागधेयेन शमयति यासा उत्तरार्धे जघनार्धे श्रोणिस् तस्यां होतव्यं स्वायां वा एतद् दिशि स्वेन भागधेयेन प्रतिहृत्य रुद्रं शमयति अङ्गिरसो वै स्वर्यन्तो ऽजायां घर्मं प्रासिञ्चन् सा शोचन्ती पर्णं परामृशत् सो ऽर्को ऽभवद् यद् अर्कपर्णेन जुहोत्य् अर्केण वा एतद् अर्कम् अवयजति यं द्विष्यात् तस्य पशूनां सञ्चरे न्यस्येद् यः प्रथम आक्रमति स आर्तिम् आर्छति
॥३.३.४॥एतल् : फ़्न् एमेन्देद्। एद्।: एतं
जुहोति : फ़्न् एमेन्देद्। एद्।: जुहोति
शमयति : फ़्न् व पत्तेर्न् (प्) गेरुन्दिवे, (र्) वा एतत्
ऽर्को : फ़्न् एमेन्देद्। एद्।: ऽर्को।
अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् इत्य् अपः परिषिञ्चन् पर्येति प्रजापतेर् वा एष रसः प्रजापतेर् एव रसेन परिषिञ्चत्य् अश्मंस् ते क्षुद् इत्य् अश्मानम् एव क्षुधार्पयति मयि ता ऊर्ग् इत्य् आत्मन्न् एवोर्जं धत्ते यं द्विष्मस् तं ते शुग् ऋछत्व् इति यम् एव द्वेष्टि तम् अग्नेः शुचार्पयति त्रिः परिषिञ्चन् पर्येति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो ऽग्नेः शुचं शमयति त्रिः परिषिञ्चन् पर्येति त्रिर् अपरिषिञ्चंस् तत् षट् षड् वा ऋतव ऋतुभ्यो वा एतद् अग्नेः शुचं शमयति यद्य् अभिचरेद् एतद् एव यजुर् वदन्न् अपरिषिञ्चन् पुनः परीयाद् यैवाग्नेः शुक् तयैनम् अर्पयति यद्य् अभिचरेत् ॥ इदम् अहम् अमुष्यामुष्यायणम् अमुष्मात् पुत्रम् अमुष्यां दिशि प्रक्षिणामि ॥ इति कुम्भं जघन्यायां श्रोण्यां प्रक्षिणीयाद् यत् प्रक्षिणाति तस्यैवार्तिम् अन्व् आर्तिम् आर्छत्य् अथ यन् नाम गृह्णात्य् आयतनम् एवास्य छिनत्त्य् आग्नेयपावमान्यां गायत्रं गायते प्राणो वै पवमानः शिरो गायत्री यद् आग्नेयपावमान्यां गायत्रं गायते शीर्षन् वा एतत् प्राणान् दधातीयं वै रथन्तरम् अन्तरिक्षं वामदेव्यम् असौ बृहत् त्रिधातुर् वा एतद् अर्को निधीयत आत्मा वै वामदेव्यं प्रतिष्ठा यज्ञायज्ञियं बृहद्रथन्तरे पक्षौ यद् बृहद्रथन्तरे अभितो गायत आत्मन्न् एव पक्षौ धत्ते यज्ञं वै देवानां रक्षांस्य् अजिघांसंस् तानि बृहद्रथन्तराभ्याम् एवापाघ्नत यद् बृहद्रथन्तरे अभितो गायते रक्षसाम् अपहत्यै प्रजापतेर् हृदयम् अपिपक्षे गायते तस्माद् इदम् अपिपक्ष आत्मनो हृदयम् अनृचं गायते तस्माद् अनस्थकं हृदयम् अर्क्यैः सामभिर् अर्कं परिष्टुवन्ति सतनूर् अर्को निधीयते
॥३.३.५॥एतल् : फ़्न् एमेन्देद्। एद्।: एतं
वरुणमेनिर् वा एष एतर्ह्य् आभीद्धस् तिष्ठति स एनं तर्ह्य् अधीयात् तस्य प्राणेन वीयान् मण्डूकेनाध्येति तस्यैव प्राणेन व्येति न ग्राम्यान् पशून् हिनस्ति नारण्यान् अवकया विकर्षत्य् अपां वा एषा योनिर् यद् अवकापां वा एतद् योनिनाग्नेः शुचं शमयत्य् अपां वा एतद् रूपं यद् अवकापां वा एतद् रूपेणाग्नेः शुचं शमयति वेतसेनाध्येत्य् अपां वा एतत् पुष्पं यद् वेतसो ऽपां वा एतत् पुष्पेणाग्नेः शुचं शमयति सप्तभिर् विकर्षति सप्त वै छन्दांसि छन्दोभिर् वा एतद् अग्नेः शुचं शमयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणा वा एतद् अग्नेः शुचं शमयत्य् अग्निर् वै सृष्टो भागधेयम् ऐछत् स प्रजापतिम् एवोपाधावत् तस्मा अन्नं प्रायछत् कन्त्वाय तद् अस्मै कम् अभवद् अन्नं वै कम् अन्नेन वा एतद् अग्निम् उपचरति कन्त्वाय कं हास्मा अग्निं चिक्यानाय भवति पराञ्चम् अध्येति पराङ् हि पशुः शान्तो रथे पराङ् हि पशुः रेतो दधात्य् अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेत्य् अन्नं वै पावकम् अन्नेन वा एतद् अग्नेः शुचम् अन्तर्धत्ते हिरण्यशकलैर् व्याघारयत्य् अमृतं वै हिरण्यं तेजो ऽग्निर् अमृतेन वा एतत् तेजो व्याघारयति पञ्चभिर् व्याघारयति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध द्वया वै देवा यजमानस्य गृहम् आगछन्ति यद् दध्ना मधुसंश्लिष्टेन व्यवोक्षति तान् एव प्रीणाति सर्वम् अनु व्यवोक्षति सर्वान् एवैनान् प्रीणाति तिसृभिर् व्यवोक्षति त्रिवृद् ध्य् अग्निस् त्रिष्टुब्भिर् व्यवोक्षतीन्द्रियस्यावरुद्ध्यय् अन्नवतीभिर् व्यवोक्षत्य् अन्नाद्यस्यावरुद्ध्यै दर्भगुरुमुष्टिना व्यवोक्षति सं हि प्राजापत्यः प्राणैर् वा एष व्यृध्यते ऽग्निम् अध्येति यद् आह प्राणदा अपानदा इति प्राणान् एवात्मन् धत्ते प्रजया च वा एष पशुभिश् च व्यृध्यते यो ऽग्निम् अध्येति प्रजा वै वर्चः पशवो वरिवो यद् आह वर्चोधा वरिवोधा इति प्रजां चैव पशूंश् चात्मन् धित्वावरोहति
॥३.३.६॥शमयति : फ़्न् एमेन्देद्। एद्।: शममति।
रथे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इन्द्रो वै वृत्रम् अहन् स प्राङ् अपद्यत स पद्यमाना इन्द्रं षोडशभिर् भोगैः पर्यगृह्णात् स वा अग्निनैव वृत्रस्य भोगान् अपिदह्य वैश्वकर्मणाभ्यां पाप्मनस् तमसो निरमुच्यताग्निस् तिग्मेन शोचिषेति यज् जुहोत्य् अग्निना वा एतत् पाप्मनो भोगान् अपिदह्य वैश्वकर्मणाभ्यां पाप्मनस् तमसो निर्मुच्यते नाना जुहोति सूक्तयोर् नानावीर्यत्वाय षोडशगृहीतेन जुहोति षोडशभिर् हि स तं भोगैः पर्यगृह्णाद् एतेन वै स वृत्रस्य भोगेभ्यो निरमुच्यत तत् पाप्मन एवैतेन भोगेभ्यो निर्मुच्यते ऽथैतद् अप्रतिरथम् एतेन वै देवा असुरान् प्रत्यजयंस् तद् अप्रतिरथस्याप्रतिरथत्वं तद् अप्रत्य् एवैतेन यजमानो भ्रातृव्यं जयत्य् एतेनैव याजयेत् सङ्ग्रामे जयति सङ्ग्रामम् एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतेन वै भरद्वाजः प्रतर्दनं दैवोदासिं समनह्यत् स राष्ट्रम् अभवद् यं कामयेत राष्ट्रियम् अयं राष्ट्रं स्याद् इति तम् एतेन सन्नह्येद् राष्ट्रं ह भवत्य् एतेन वै देवा विराजम् अभ्यजयन् दशान्वाह दशाक्षरा विराड् विराजम् एवैतेनाभिजयति दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसंस् तानि वा अप्रतिरथेनैवापाघ्नत यद् ब्रह्माप्रतिरथं दक्षिणतो वदन्न् एति रक्षसाम् अपहत्यै
॥३.३.७॥जयति : फ़्न् एमेन्देद्। एद्।: जयति। च्फ़्। ४।३।४:४३।३
उद् एनम् उत्तरं नयेति समिधा आदधाति प्रह्रियमाणायैवास्मै भागम् अकस् तिस्र आदधाति त्रिवृद् ध्य् अग्निर् उद् उ त्वा विश्वे देवा इति विश्वे हीदं देवाः स्मो यन् मनुष्या अग्ने भरन्तु चित्तिभिर् इति यस्मा एव चित्तायाग्निर् आधीयते तेनैनं चित्तेन समर्धयति पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् इतीमा एवैनं पञ्च दिशो ऽनु तेजस्विनं करोत्य् उक्थपत्रा ईड्यो गृभीत इत्य् उत्थपत्रो ह्य् एष परिगृह्य यज्ञम् आयन्न् इति परिगृह्य ह्य् एतं यन्ति हरिकेशः सूर्यरश्मिः पुरस्ताद् इत्य् असौ वा आदित्यो हरिकेशः सूर्यरश्मिः पुरस्तात् सविता ज्योतिर् उदयं अजस्रम् इत्य् आह प्रसूत्या एव तस्य पूषा प्रसवे याति विद्वान् इति पशवो वै पूषा पशून् एवावरुन्द्धे ततो वाका आशिषो नो जुषन्ताम् इत्य् आशिषां वा एष दोह आशिष एव दुह इन्द्रं विश्वा अवीवृधन्न् इति वृधद्वत्या यन्ति वृद्धिम् एवोपयन्त्य् अनुष्टुभा यन्ति वाग् वा अनुष्टुब् वैश्वदेवी वाग् वैश्वदेवो ऽग्निस् तस्माद् अनुष्टुभा यन्ति षड्भिर् आग्नीध्राद् यन्ति षड् वा ऋतव ऋतुभिर् एव यन्ति विमान एष दिवो मध्य आस्ता इत्य् अश्मानं सादयति विमानो ह्य् असा आदित्यः स्वर्गस्य लोकस्य सुम्नहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षद् इत्य् आशीर् एवैष देवहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षद् इत्य् आशिष एवैष परिग्रहो वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभद् इत्य् असौ वा आदित्य उद्ग्राभ एष निग्राभ उद्यन् वा एतद् यजमानम् उद्गृह्णाति निम्रोचन्न् अस्य भ्रातृव्यं निगृह्णात्य् उद्ग्राभश् च निग्राभश् चेति ब्रह्म वा उद्ग्राभो ब्रह्म निग्राभो ब्रह्मणा वा एतद् यजमानम् उद्गृह्णाति ब्रह्मणास्य भ्रातृव्यं निगृह्णात्य् अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् इत्य् ओजो वै वीर्यम् इन्द्राग्नी ओजसा वा एतद् वीर्येण यजमानो भ्रातृव्यं विष्वञ्चं विनुदते चतुर्भिर् आहवनीयाद् यन्ति चत्वारि वै छन्दांसि छन्दोभिर् एव यन्त्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैव यन्ति
॥३.३.८॥स्मो : फ़्न् चोर्रिगेन्द। एद्।: स्मो।
भरन्तु : फ़्न् एमेन्देद्। एद्।: भरन्त। ह्, ब्ब्: भरन्त। ब्: भरन्तु। च्फ़्। २।७।१०:८७।९
उक्थपत्रा : फ़्न् एमेन्देद्। एद्।: उत्थपत्रा। २।१०।५:१३६।१७: उक्थपत्रा
क्रमध्वम् अग्निना नाकम् इत्य् आह स्वर्गस्य लोकस्य समष्ट्यै दिवः पृष्ठं स्वर् गत्वेति पृष्ठेन हि यन्त्य् ऊर्जं नो धेहि द्विपदे चतुष्पदा इति द्विपात्सु चैव चतुष्पात्सु च पशुषूर्जं दधातीयक्षमाणा भृगुभिः सहेति भृगवो ह्य् अग्रे यज्ञेनार्ध्नुवन्न् ऋद्ध्यै पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् इत्य् एषां वा एष लोकानां समारोहः पञ्चभिर् आक्रमते पाङ्क्तो यज्ञो यज्ञेन वा एतद् यज्ञम् अभ्यारोहत्य् अप्रतिनोदाय कृष्णायाः श्वेतवत्सायाः पयसा जुहोत्य् अहर् वै वत्सो रात्रिर् माताह्ने वा एतद् रात्रीं प्रदापयति प्रत्ते ह वा अहोरात्रे दुहे य एवं वेद सर्वे वै पशवो नानारूपाः सन्तः पय एव प्रत्य् एकरूपा यद् एव प्रत्येकरूपास् तद् एनान् प्रत्य् अवरुन्द्धे नक्तोषासाग्ने सहस्राक्ष सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीदेत्य् एष वा एतल् लोकेषु ज्योतिष्मन्तम् अग्निं निधत्ते ऽथो प्राणानां विधृत्यै द्वाभ्यां सादयति द्विपाद् यजमानः प्रतिष्ठित्यय् आजुह्वानः सुप्रतीकः पुरस्ताद् इत्य् आह स्वर्गस्य लोकस्य समष्ट्यै तां सवितुर् वरेण्यस्य चित्राम् इत्य् एतं वै कण्वः श्रावयसो ऽग्नेर् दोहं विदाञ्चकाराग्नेर् वा एष दोहो ऽग्निं वा एतेनाग्निचिद् दुहे सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद विधेम ते परमे जन्मन्न् अग्ना इत्य् आह ऋद्ध्या एव प्रेद्धो अग्ने दीदिहि पुरो ना इत्य् एषा वै कर्णकवती सूर्म्य् अजस्रं ज्योतिर् अजस्रं वावास्मा एतज् ज्योतिर् अप्यधाद् एतां वै वासिष्ठः सात्यहव्यः सत्त्रिणा आसीनान् पप्रछ विद कर्णकवतीं सूर्मीम् इति विद्मेति होचुर् या वनेषु तां विद्मेति पशवो वा एतस्याः कर्णाः पशुमान् भवत्य् एतां वै वज्रं शतघ्नीं विघ्नीं देवा असुरेभ्य उपप्रावर्तयंस् तेषां शततर्हम् अतृंहंस् तद् एताम् एव वज्रं शतघ्नीं विघ्नीं यजमानो भ्रातृव्यायोपप्रावर्तयति शततर्हं ह तृंहत्य् अग्ने तम् अद्येति पङ्क्त्या जुहोति यजमानो वै पङ्क्तिर् यजमानं वा एतद् विराजि प्रतिष्ठापयाम् अकर् अथो पङ्क्त्यैवाहुत्या यज्ञम् आलभते सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् एतावतीर् वा अग्नेस् तन्वः षोढा सप्तसप्त यो वा अस्यैता अग्निं चिक्यानो वितर्षयति वि ह तृष्यति ता एवास्य तर्पयति चितिं जुहोमि मनसेत्य् एषा वा अग्नेर् अदाभ्याहुतिर् वैश्वकर्मणी नैनं भ्रातृव्यो दभ्नोत्य् अग्निं चिक्यानं प्र समानाना ज्यैष्ठ्यम् आप्नोति य एवं वेदाग्निर् वा अमन्यत न वा अहम् इदम् अभागधेयस् तेजो यंस्यामीति तद् एतेन भागधेयेनायछद् एतद् वा अग्निर् अग्निहोत्रम् अग्निं वा एतेनाग्निचिद् यछति सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एवाग्निर् अग्निहोत्रेण
॥३.३.९॥एकरूपा : फ़्न् ⟨ एकरूपास्
एकरूपा : फ़्न् चोर्रिगेन्द। एद्।: एकरूपा।
एतल् : फ़्न् एमेन्देद्। एद्।: एतं
होचुर् : फ़्न् चोर्रिगेन्द। एद्।: होतुर्।
अतृंहन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
तृंहति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अथैषो ऽग्नये वैश्वानराय द्वादशकपालः संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो प्राहृतायैवास्मै भागम् अकर् आहुतीनां वै प्रतिष्ठित्या यजमानः प्रतितिष्ठत्य् आहुतीनाम् अप्रतिष्ठित्या न प्रतितिष्ठति यद् एतं जुहोत्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनुप्रतितिष्ठति यज्ञं यजमानो ऽथो कामो वै वैश्वानरो यत्कामो भवति सं हास्मै स कामो नमति यत् प्राङ् पर्यावर्तेत दैवीर् विशो मुह्येयुर् यद् दक्षिणा यमदेवत्या स्याद् यत् प्रत्यङ् सौर्यो यद् उदङ् रौद्र ऋजु होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै क्षत्रं वै वैश्वानरो विण् मारुता यद् एतं हुत्वा मारुतान् जुहोति विशं वा एतत् क्षत्राय नियुनक्त्य् अथो विशम् एव क्षत्रायानुकां करोत्य् अग्निमुखान् वै प्रजापतिः पशून् असृजत पशवो मारुता यद् एतं हुत्वा मारुतान् जुहोत्य् अग्निमुखान् एवास्मै प्रजापतिः पशून् प्रजनयति सप्तकपाला भवन्ति सप्तसप्त मारुता गणास् तस्मात् सप्तकपाला गणेनगणेन जुहोति गणश एव मरुतः प्रीणाति यो ऽरण्ये ऽनुवाक्यो गणस् तन् मध्यतो जुहुयात् क्षत्रं वा एष मरुतां विड् इतरे विशो वा एतत् क्षत्रं मध्यमेष्ठं करोति यदि कामयेत विशा क्षत्रं हन्याम् इति यो ऽरण्ये ऽनुवाक्यो गणस् तम् इतरैर् गणैर् मोहयेद् विशा वा एतत् क्षत्रं हन्ति यदि कामयेत क्षत्रेण विशं हन्याम् इति यो ऽरण्ये ऽनुवाक्यो गणस् तेनेतरान् गणान् मोहयेत् क्षत्रेण वा एतद् विशं हन्ति तस्य त्रिष्टुभौ याज्यानुवाक्ये स्याताम् ओजो वै वीर्यं त्रिष्टुब् ओजो वा एतद् वीर्यं विश आदाय क्षत्रायापिदधाति यदि कामयेत क्षत्रेणास्य क्षत्रं हन्यां प्र स्वाद् आयतनाच् च्यवेतेति यो ऽरण्ये ऽनुवाक्यो गणस् तेनाग्निष्ठं रथवाहनं व्यङ्गयेत् क्षत्रं वा एष मरुताम् अग्निष्ठं रथवाहनं क्षत्रियस्य क्षत्रं बिभर्ति क्षत्रेणैवास्य क्षत्रं हन्ति प्र स्वाद् आयतनाच् च्यवत इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्माना इत्य् एतद् वै देवानाम् अनुवर्त्म दैवीं च वावास्मा एतद् विशं मानुषीं चानुवर्त्मानौ करोति सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव मारुतैः ॥
इत्य् उपरिकाण्डे स्तोमभागो नाम तृतीयः प्रपाठकः
॥३.३.१०॥तृतीयकाण्डे चतुर्थः प्रपाठकः
तृतीयकाण्डे चतुर्थः प्रपाठकः
वसोर् धारां जुहोत्य् अकॢप्तस्य कॢप्त्या अशान्तस्य शान्त्या अनभिजितस्याभिजित्या अनवरुद्धस्यावरुद्ध्यै सन्ततं जुहोति प्राणानां सन्तत्या एषां लोकानां सन्तत्या अन्नाद्यस्य सन्तत्यय् अविछिन्नं जुहोत्य् अन्नाद्यस्याविछेदाय यद् विछिन्द्यात् प्राणान् विछिन्द्याद् यं द्विष्यात् तस्य विछिन्द्याद् अन्नाद्यम् अस्य विछिनत्त्य् अक्षुच् चान्नं चेत्य् एतानि वा अन्नस्य रूपाणि रूपैर् एवान्नम् अवरुन्द्धे ऽग्निश् चापश् चेत्य् एषा वा अन्नस्य योनिः सयोन्य् एवान्नम् अवरुन्द्धे वसोर् मे धारासद् इति वसोर्धारां जुहोति घृतस्य वा एषा धारा यजमानम् अमुष्मिंल् लोक उपतिष्ठन्ते द्वादश द्वादशाति जुहोति द्वादश मासाः संवत्सरः संवत्सरम् एवावरुन्द्धे ऽर्धेन्द्राणि जुहोत्य् अर्धेन्द्रैर् वै देवा इन्द्रियं वीर्यम् असुराणाम् अवृञ्जतेन्द्रियम् एवैतैर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते देवाश् च वा असुराश् चास्पर्धन्त ते देवा इन्द्रम् अब्रुवंस् त्वया मुखेनेमान् जयामेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् अर्ध्यो वा अहं देवतानाम् असानीति ततो वा अजयंस् तस्माद् एषो ऽर्धभाग् देवतानां यद् अर्धेन्द्राणि हूयन्ते विजित्यईन्द्रोत्तमानि भवन्तीन्द्रियं वै वीर्यम् इन्द्र इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठत्य् अंशुश् च रश्मिश् चेति यज्ञमुखं वा अंशुश् च रश्मिश् च यज्ञमुखम् एवावरुन्द्धे ऽधिपतिश् चादाभ्यश् चेति नैनं भ्रातृव्यो दभ्नोत्य् अग्निं चिक्यानं प्र समानानां ज्यैष्ठ्यम् आप्नोति य एवं वेदैते ग्रहा भवन्त्य् एतानि वै यज्ञस्य रूपाणि रूपैर् एव यज्ञम् अवरुन्द्धे स्रुचश् च चमसाश् चेति यज्ञायुधानि सम्भरति यज्ञायुधान्य् एव सम्भृत्य यज्ञं प्रयुङ्क्ते पात्राणि जुहोति पात्रैर् वा अन्नम् अद्यते ऽनुरूपेणैवान्नाद्यम् अवरुन्द्धे बर्हिश् च वेदिश् चेत्य् आशीर् एवैषावभृथश् च स्वगाकारश् चेति प्रतिष्ठित्यै
॥३.४.१॥अग्निश् च घर्मश् चेत्य् एतद् वा अग्नेर् ब्रह्मवर्चस्यं रुचं चैवैतेन ब्रह्मवर्चसं चावरुन्द्धे तेजस्वी ब्रह्मवर्चसी भवत्य् ऋतुश् च व्रतं चेत्य् अहोरात्रे वा ऋतुश् च व्रतं चाहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवत एका च तिस्रश् चेति देवछन्दसं वा एका च तिस्रश् च देवछन्दसम् एवावरुन्द्धे चतस्रश् चाष्टौ चेति मनुष्यछन्दसं वै चतस्रश् चाष्टौ च मनुष्यछन्दसम् एवावरुन्द्धे देवलोक एव देवछन्दसेन ऋध्नोति मनुष्यलोके मनुष्यछन्दसेनैका च तिस्रश् च चतस्रश् चाष्टौ चेति रोहो वा एष एषां लोकानां सङ्क्रान्तिः स्वर्गस्य लोकस्य द्व्युत्तरेण वै स्तोमेनादित्याः स्वर्गं लोकम् आयंश् चतुरुत्तरेणाङ्गिरसौ यद् एतौ स्तोमौ जुहोति स्वर्गस्य लोकस्य समष्ट्यै युग्मदयुजौ वा एतौ सोमौ मिथुनौ प्रजननाय रेत एव द्व्युत्तरेण दधाति रेतो हितं चतुरुत्तरेण प्रजनयत्य् एका च तिस्रश् चेत्य् आ त्रयस्त्रिंशतस् त्रयस्त्रिंशद् देवतास् ता एवास्यैतेनाभीष्टाः पीता भवन्ति चतस्रश् चाष्टौ चेत्य् अष्टाचत्वारिंशतो ऽष्टाचत्वारिंशदक्षरा जगती जागताः पशवः पशून् एवावरुन्द्धे त्र्यविश् च त्र्यवी चेत्य् एतानि वै वयांसि पशूनां पशव एव पशून् अवरुन्द्ध आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इति यज्ञस्य वा एषा कॢप्तिर् यज्ञम् एवैतद् अचीकॢपद् वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवत्सरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठति स्तोमश् च यजुश् चेत्य् अन्नं वै स्तोमश् च यजुश् चान्नं वा एतद् आत्मन् धित्वान्नादो भूत्वा देवक्षेत्रम् अन्ततः प्रावसत्य् अग्निर् वै वसुस् तस्य वा एषा धारा सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद सं वा एतद् अग्निर् अन्नाद्यम् इन्द्धे यच् चिनोति तं दीपयत्य् एव वसोर् धारया
॥३.४.२॥म्स्_३,४।३॥
अचीकॢपत् : फ़्न् एमेन्देद्। एद्।: अचीकॢपत्
वाजप्रसव्यं जुहोति वाजं वा एतेनाग्निर् अन्नाद्यम् उदजयद् वाजम् एवैतेनान्नाद्यं यजमाना उज्जयत्य् अन्नस्यान्नस्य जुहोति वाजप्रसव्याभिर् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यय् उभयं ग्राम्यं चारण्यं च जुहोत्य् उभयस्यान्नाद्यस्यावरुद्धयय् औदुम्बरेण स्रुवेण जुहोत्य् ऊर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यै देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीत्य् अभिषिञ्चेद् यदि ब्राह्मणो यजेत बृहस्पतिसवो ह्य् एष इन्द्रं साम्राज्यायाभिषिञ्चामीत्य् अभिशिञ्चेद् यदि राजन्यो यजेतेन्द्रसवो ह्य् एष कृष्णाजिने ब्रह्मवर्चसकामम् अभिषिञ्चेद् ब्रह्मणो वा एतद् ऋक्सामयो रूपम् ऋक्सामे ब्रह्मवर्चसं ब्रह्मवर्चसम् एवावरुन्द्धे बस्ताजिने पशुकामं पशवो वै बस्ताजिनं पशून् एवावरुन्द्धे सूयते वा एषो ऽग्नीनां यश् चीयते स्वेनैवैनं सवेन समर्धयति देवा ओषधीषु पक्वास्व् आजीम् अयुस् ता अग्निर् उदजयद् अग्नेर् वा एषो ऽभिषेको ऽन्नस्य वा एतत् सूयते सवानां वा एष एको बृहस्पतिसवो वा एष बार्हस्पत्यो ब्राह्मणो देवतया स्वेनैव सवेन सूयते तद् आहुर् होतव्यम् एव न हि सुषुवाणः कं चन प्रत्यवरोहतीति सुषुवाणो वा एष देवतया यो ऽग्निचिद् ऋतवो वै सुषुवाणस्य राष्ट्रम् अनुबिभ्रति षड् वा ऋतव ऋतवो राष्ट्रभृतो यत् षड्भिर् जुहोत्य् ऋतुष्व् एवास्य राष्ट्रं प्रतिष्ठापयति ते ऽस्मै राष्ट्रम् अनुबिभ्रति द्वादशगृहीतेन जुहोति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे मिथुना वा एता आहुतयस् तस्मै स्वाहा वट् ताभ्यः स्वाहा वड् इति तस्मिन्न् एव मिथुने रेतो दधाति रथशीर्षे सप्तमं जुहोति दिशाम् अभिजित्यै दिश एवाभिजिता रथेन जीयन्ते ऽथैते वातहोमा अग्निचितो वा अमुत्राहोरात्रे अग्निचिते ऽयं वायुः पवते प्राणो वै वायुः प्राणम् एवावरुन्द्धे ऽञ्जलिना जुहोति न ह्य् एतस्यावदानम् अस्त्य् अथो परिगृहीत्या एव प्राणो वै वायुर् हस्तः प्राणायोपकॢप्ततमस् तस्माद् अञ्जलिना जुहोति त्रिर् जुहोति त्रयो वा इमे लोका इम एवास्मै लोका वातं धुन्वन्ति समुद्रो ऽसि नभस्वान् आर्द्रदानुर् इत्य् एतानि वै वायो रूपाणि रूपैर् एव वायुम् अवरुन्द्धे मारुतो ऽसि मरुतां गण इति मारुतो हि वायुः सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव वातहोमैः प्राणो वै गायत्री गायत्रं हविर्धानम् अपानो जगती जागतं सदो व्यानस् त्रिष्टुप् त्रैष्टुभम् आग्नीध्रम् असुः पृश्निर् मध्ये दिव्यो निहितः पृश्निर् अश्मेति अमुं वावास्यैतन् मध्यतः प्राणापानानां व्यवदधाति प्राणानां धृत्यय् अश्मनवमा आग्नीध्रे सादयति नव वै प्राणाः प्राणान् वावास्यैतद् यजमानलोके दधात्य् एकविंशतिं होत्रिये प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविम्श एकादश ब्राह्मणाञ्शंस्य एकादशाक्षरा त्रिष्टुब् वीर्यं तिर्ष्टुब् वीर्य एव प्रतितिष्ठत्य् अष्टाष्टा इतरेष्व् अष्टाक्षरा गायत्री ब्रह्म गायत्री ब्रह्मण्य् एव प्रतितिष्ठति षण् मार्जालीये षड् वा ऋतव ऋतवो वा एतं दक्षिणतः पर्यहरन्त पितरो वा ऋतवो ऽथो षड् वै छन्दांसि छन्दांसि वावास्यैतद् यज्ञमुखे युनक्ति सजूर् अब्दो आयवोभिर् इत्य् एता वा अग्नेर् देवताः पुरस्ताद्भागास् ता एव प्रीणात्य् अथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्धे सजूर् अब्दो आयवोभिर् इति संवत्सरो वा अब्द ऋतवा आयवानः संवत्सर एवास्यैतेना ऋतवो ऽभीष्टाः प्रीता भवन्ति सजूर् उषा आरुणीभिर् इत्य् उषसम् एव प्रीणाति सजोषा अश्विना दंसोभिर् इत्य् अहोरात्रे वा अश्विनाहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवतः सजूः सूरा एतशेनेति सूर्यम् एव प्रीणाति सजूर् वैश्वानर इडया घृतेन स्वाहेति संवत्सरो वै वैश्वानरः पशवा इडा पशवो घृतं संवत्सरा एवास्यैतेन पशवो ऽभीष्टाः प्रीता भवन्ति दर्भस्तम्बे जुहोत्य् एषा वा अस्यामृतचित् तनूर् अमृते वा एतद् अग्निश् चीयते हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयात् स्वर्गाय वै लोकाय देवरहथो युज्यते कामाय मनुष्यरथो ऽग्निं युनज्मि शवसा घृतेनेत्य् अग्निं वा एतद् युनक्ति तेन युक्तेन स्वर्गं लोकं गछति यत् सर्वाभिर् युञ्ज्याद् युक्तो ऽस्य यज्ञः स्याद् अप्रतिष्ठिता आहुतयो द्वाभ्यां नापियुनक्त्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनुप्रतितिष्ठति यज्ञं यजमानस् तिसृभिर् युनक्ति त्रिवृद् ध्य् अग्निर् यावान् एवाग्निस् तं युनक्ति तस्मिन् युक्ते सर्वं हव्यं समाधीयते पञ्चभिर् युनक्ति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध सं वा एतम् एतौ तपतो यश् चीयते यश् च वैश्वानरो यद् अप्सुमतीभ्यां पुरस्ताद् यज्ञायज्ञियस्य सम्मृशति शान्त्यय् एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमो भूम त्व् एवास्यात ऊर्ध्वं क्रियते
॥३.४.४॥यो वा अग्निं योगा आगते न युङ्क्ते न युञ्जानेषु युङ्क्ते ऽग्ने युक्ष्वा हि ये तवेत्य् अग्निं वा एतद् योगा आगते युङ्क्ते युङ्क्ते युञ्जानेषु यो वा अग्निं विमोक आगते न विमुञ्चते न विमुञ्चमानेषु विमुञ्चते वि ते मुञ्चामि रशनां वि रश्मीन् इत्य् अग्निं वा एतद् विमोक आगते विमुञ्चते वि मुञ्चमानेषु मुञ्चते यथा वै पुनराधेयम् एवं पुनश्चितिर् यो वा आधेयेन ऋध्नोति पुनः स आधत्ते यो ऽग्निं चिक्यानो मन्येत वि स्या ऋध्यता इति स एतां पुनश्चितिम् उपदहीतापि प्रथमं चिन्वानश् चिन्वीता ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय यां वा अग्निचिद् अनिष्टका आहुतिं जुहोति स्रवति सा तां स्रवन्तीं यज्ञो ऽनुस्रवति यज्ञं यजमानो यद् एतां पुनश्चितिम् उपदधात्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनु प्रतितिष्ठति यज्ञं यजमानो ऽष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुते ऽष्टौ लोकम्पृणा उपधाय पुरीषेणाभ्य्·हत्य् अष्टाक्षरा गायत्री ब्रह्म गायत्री गायत्र्यैवैनं छन्दसा ब्रह्मणा चिनुत एकादश लोकम्पृणा उपधाय पुरीषेणाभ्य्·हत्य् एकादशाक्षरा त्रिष्टुब्वीर्यं त्रिष्टुभैवैनं छन्दसा वीर्येण चिनुते द्वादश लोकम्पृणा उपधाय पुरीषेणाभ्य्·हति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवैनं छन्दसा पशुभिश् चिनुत एषा वा अग्नेर् उत्तरवेदिर् एतद् अग्निर् उत्तरवेदिमांश् चीयते यो ऽस्याग्निः पुरा चितः स्यात् तम् अन्ववसाय यजेत यथा वा इदं दीप्यमाने भूयो ऽभ्यादधात्य् एवं वावास्मिन्न् एतद् अभिपूर्वं भूयस् तेजो दधाति तद् आहुः कः श्रेयांसं विषुप्तं बोधयिष्यतीति यद् यजता आहुत्यैवैनं व्यर्धयति गृहान् वा एष कुरुते यो ऽग्निं चिनुते यद् वा अन्यतो विन्दते गृहांस् तद् आहरति य इष्ट्या वा पशुना वा सोमेन वा यजेत यो ऽस्याग्निः पुरा चितः स्यात् तम् अन्ववसाय यजेत यथा वा इदम् अन्यतो वित्त्वा गृहान् आहरत्य् एवं तत् तद् आहुः पुनर् वा स्रुवा एतद् यज्ञे क्रियते यत्रैव क्व च यजेत तद् एता एकविंशतिम् उपधाय यजेत प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविम्श इति
॥३.४.५॥चिन्वीता : फ़्न् ⟨ चिन्वीत
समास् त्वाग्ना ऋतवो वर्धयन्त्व् इति समाभिश् चैवैनम् ऋतुभिश् च समिन्द्धे सं दिव्येन दीदिहि रोचनेनेति ज्योतिष्मन्तम् एवैनं चिनुते विश्वा आभाहि प्रदिशश् चतस्रा इति तस्माद् अग्निः सर्वा दिशा आभात्य् अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चा इत्य् आमयाविनः कुर्यान् मृत्युर् वै यमो ब्रह्म बृहस्पतिर् यावद् एव ब्रह्म तेनैनं भिषज्यति प्रत्यूहताम् अश्विना मृत्युम् अस्माद् इत्य् अश्विनौ वै देवानां भिषजौ ता अस्मान् मृत्युं प्रत्यूहत उद् वयं तमसस् परीति पाप्मानम् एव तमो ऽपहत्य स्वर्गं लोकम् अभ्यारोहत्य् आहृतो वै हैतनामनः सर्वतेर् आपाष्ठेर् अग्नेश् चित्यस्य होतासीत् तम् अब्रुवन् या अप्सुमतीस् ता इछेति तस्मै वा एता गन्धर्वाप्सरसः प्राब्रुवन् यद् अप्सुमतीः सामिधेनीर् भवन्ति शान्त्यै चतुर्विंशतिम् अन्वाह चतुर्विंशत्यक्षरा वै गायत्री गायत्री यज्ञमुखं यज्ञमुखम् एवालब्धाथो चतुर्विंशतिर् वा अर्धमासाः संवत्सर एष वा अस्थिता श्रीर् यत् संवत्सरो न वा एष श्रियेलयति न हास्य श्रीर् इलयति गायत्रीर् अन्वाह तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्धे त्रिष्टुभो ऽन्वाहौजो वै वीर्यं त्रिष्टुभ् ओज एव वीर्यम् अवरुन्द्धे यद् गायत्र्यश् च त्रिष्टुभश् च भवन्ति तेनैव तद् उभयम् अवरुन्द्धे या आग्नेयीर् अनिरुक्तास् ताः कार्या अनिरुक्तम् इव ह्य् एतद् अव्यावृत्तं व्यावृतं पाप्मना भ्रातृव्येण गछति ता अग्नीषोमीयस्य पशोः कुर्यात् को हि देवक्षेत्रं द्विर् अभ्यारोक्ष्यतीति तिस्रो रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुस् त्रिपदा विराड् विराजम् एवाप्नोति षड् रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुः षड् वा ऋतवः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति दश रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुर् दशाक्षरा विराड् विराजम् एवाप्नोति द्वादश रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुर् द्वादश मासाः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति चतुर्विंशतिं रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुश् चतुर्विंशतिर् वा अर्धमासाः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति मासं भृत्वाग्निश् चेतव्या इत्य् आहुर् मासश एव संवत्सरम् आप्नोत्य् अष्टौ वा एतन् मासो वसवो ऽबिभ्रुस् त इमं लोकम् आजयन् गायत्रीं छन्द एकादश रुद्रास् ते ऽन्तरिक्षं लोकम् आजयंस् त्रिष्टुभं छन्दो द्वादशादित्यास् ते ऽमुं लोकम् आजयन् जगतीं छन्दस् त आर्ध्नुवन्न् ऋध्नोति य एवं विद्वान्त् संवत्सरम् अग्निं बिभर्ति तस्माद् आहुः संवत्सरभृत एवाग्निर् इत्य् अथैता आप्रियः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एता आप्रीर् अपश्यत् ताभिर् आत्मानम् आप्रीणीताग्निर् वै प्रजापतिर् यद् एता आप्रियो भवन्त्य् अग्निम् एवैताभिर् यजमाना आप्रीणीते लोमशं वा एतच् छन्दः पशव्यम् ऊनातिरिक्तं प्रजननाय विराजो भवन्ति विराड् वै सर्वाणि छन्दांसि सर्वाण्य् एवास्य छन्दांस्य् उपहितानि भवन्ति ता विश्वचितः कुर्यात् प्राणा वा एता ज्यायसीर् इव च कनीयसीर् इव च भवन्ति ज्यायाम्स इव च हीमे कनीयाम्स इव च प्राणाः प्राणान् एवात्मन् धत्ते
॥३.४.६॥वा : फ़्न् एमेन्देद्। एद्।: आ।
यस्याग्निर् उख्यो ऽनुगछति यथा पुत्रो जातः प्रमीयत एवं तद् यद्य् अनुगछेत् ताम् एवोखां पुनः परीन्धीतैषा वा अग्नेर् योनिः स्वाद् एवैनां योनेः प्रजनयतीश्वरो वा एषो प्रजनितोर् यो ऽग्निं चिनुते ॥
यास् ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।
ताभिष् ट्वम् उभयीभिः संविदानः प्रजानंस् तन्वेह निषीद ॥
इति यद् एषार्द्रा योनिमति शान्त्यै प्रजा वै कुलायं पशवः कुलायं यत् कुलायिनीः प्रजात्यै हविर्भूतो वा एष यो ऽग्निं चिनुते यो ऽग्निं चित्वान् यस्य स्त्रियम् उपैति यथा हविः स्कन्नम् एवं स्याद् यथा हविषे स्कन्नाय प्रायश्चित्तिम् इछन्त्य् एवम् अस्मै प्रायश्चित्तिम् इछेयुर् यद्य् उपेयान् मैत्रावरुण्यामिक्षया यजेत मैत्रावरुणताम् एवोपैत्य् आत्मनो ऽस्कन्नत्वाय पशुर् वा अग्निर् यो वै पशुं पुरस्ताद् उपचरति हिनस्ति वा एनं स तस्मात् पुरस्तात् प्रत्यञ्चं नाक्रामति तस्माद् उ पश्चात् प्राञ्चम् उपचरत्य् आत्मनो ऽहिंसायै यो वै यथावृत्तम् अग्निं चिनुते यथारूपं प्रजाश् च ऋतवश् च कल्पन्ते या दक्षिणावृतस् ता दक्षिणत उपदधाति याः सव्यावृतस् ता उत्तरतस् त्र्यालिखिताः पश्चात् प्राचीर् उपदधाति यथावृत्तं वा एतद् अग्निं चिनुते यथारूपं प्रजाश् च ऋतवश् च कल्पन्ते ससत्यो ऽग्निश् चेतव्या इत्य् आहुः ॥
भूर् भुवः स्वः ॥ इति पुरस्तात् स्वयमातृण्णा यावद् एतद् वै वाचः सत्यं ससत्यम् एवाग्निं चिनुते प्राणो वै स्वयमातृण्णामृतं हिरण्यं यद् धिरण्येष्टकाम् उपधाय स्वयमातृण्णाम् उपदधात्य् अमृत एवास्य प्राणान् दधाति तेजो ऽसि तेजो मे यछेति हिरण्येष्टका उपदधात्य् एताभिर् वा इमे लोका विधृता अथो एताभिर् एवाग्निं चिनुत इमे लोकाः प्रभान्ति देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते छन्दांस्य् अपश्यंस् तानि प्राविशंस् तेभ्यो यद्यद् अछदयत् तेनात्मानम् अछादयन्त तच् छन्दसां छन्दस्त्वं चितिञ्चितिम् उपधायाग्नेय्या धाम छन्दो ऽभिमृशति स्वाम् एव देवताम् उपप्रविशत्य् आत्मनो ऽहिंसायै ॥
श्येनचितिं चिन्वीत स्वर्गकामः श्येनो वै भूत्वा गायत्र्य् अमुं लोकम् अपतत् स्वर्गस्य लोकस्य समष्ट्यै रथचक्रचितिं चिन्वीत भ्रातृव्यवान् रथचक्रं वै वज्रं कृत्वा देवा असुरेभ्य उपप्रावर्तयंस् तेषां शततर्हम् अतृंहंस् तद् एताम् एव वज्रं कृत्वा यजमानो भ्रातृव्यायोपप्रवर्तयति शततर्हं ह दृंहति प्रौगचितिं चिन्वीत भ्रातृव्यवान् उभयतो वै देवान् असुराः परीयत्ता आसन् पुरस्ताद् अन्ये पश्चाद् अन्ये तान् वा एतेन व्यनुदन्त तद् भ्रातृव्यस्य वा एष विनोदो द्रोणचितिं चिन्वीतान्नकामो द्रोणेन वा अन्नम् अद्यते ऽनुरूपेणैवान्नाद्यम् अवरुन्द्धे पश्चाच्चरुर् भवत्य् अनुरूपत्वाय श्मशानचितिं चिन्वीत यः कामयेताञ्जसा पितृलोकम् उपेयाम् इत्य् अञ्जसा पितृलोकम् उपैत्य् उप चान्यं चिन्वीत ग्रामकामो यथैवैतम् उपचिनोत्य् एवम् अस्मै ग्रामम् उपचिनोति समूह्यं चिन्वीत पशुकामो यथैवैतं समूहत्य् एवम् अस्मै दिग्भ्यः पशून्त् समूहति
॥३.४.७॥अतृंहन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रौगचितिं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रजापतिर् वा एतम् अग्रे ऽग्निम् अचिनुत ऋतुभिः संवत्सरं वसन्तेन पुरस्ताद् अचिनुत ग्रीष्मेण दक्षिणं पक्षं वर्षाभिर् उत्तरं शरदा पुछं हेमन्तेन मध्यं ब्रह्मणैव पुरस्ताद् अचिनुत क्षत्रेण दक्षिणं पक्षं विशोत्तरं पशुभिः पुछम् आशया मध्यम् एतावद् वा अस्ति यावद् एवास्ति तत् स्पृणोति तद् अवरुन्द्धे स्वर्गाय वै लोकायाग्निश् चीयते वज्र एकादशिनी यद् एकादशिनीं मिनुयाद् वज्रः पुरस्ताद् अवगृह्णीयाद् अस्वर्ग्यः स्याद् यन् न मिनुयाद् अपशुः स्याद् एकयूप एकादश पशवो नियुज्यास् तेन पशव्यास् तेन स्वर्गो यत् पक्षसम्मितां मिनुयात् कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान्त् स्याद् अथ यद् वेदिसम्मितां मिनोति ज्यायांसं चिनुते ज्यायांसम् एव यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् एषा वा अग्नेर् उत्तरवती नाम चितिर् उत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गछत्य् अग्निं वा गछत्य् आत्मानं वा ॥
रुचं नो धेहि ब्राह्मणेषु रुचं राजसु धारय ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
इति यज् जुहोत्य् आत्मानं वा एतद् अग्नेर् यशसार्पयतीश्वरो वा एष दुश्चर्मा भवितोर् यो ऽग्निम् अध्येति ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशंसम् आ ना आयुः प्र मोषीः ॥
इति यज् जुहोति शान्तिर् वा एषाग्नेर् गुप्तिर् आत्मनो वयो वा अग्निस् तस्माद् अग्निचिता पक्षिणो नाशितव्यं नो अग्निविदा यद् अश्नीयात् तम् एवाश्नीयात् स एनम् आर्तिं निनयेत् प्रजापतिर् वा एतम् अग्रे ऽग्निम् अचिनुत ज्यैष्ठ्यकामः स ज्यैष्ठ्यं महिमानम् अगछद् ज्यैष्ठ्यं महिमानं गछति य एवं विद्वान् अग्निं चिनुते प्रजापतिः प्रजाः सृष्ट्वा ता अनुप्राविशत् सो ऽब्रवीद् यो मेतः सञ्चिनवदर्ध्नुवत् स इति तं देवाः समचिन्वंस् त आर्ध्नुवंस् तच् चित्यस्य चित्यत्वं तद् य एवं विद्वान् अग्निं चिनोति प्रजापतिम् एव सञ्चिनोत्य् ऋध्नोति तस्माद् आहुः प्रजापतिचित एवाग्निर् इति
॥३.४.८॥देवेभ्यो वा अग्निं चिक्यानेभ्यो न व्यौछत् ते ऽग्ना आहुतिम् अजुहवुस् तुभ्यम् अग्रे व्युछ तथास्मभ्यं विवत्स्यतीति तयाग्नये व्यौछद् व्य् अग्नया औछन् नाहुत्यै व्यौछत् तस्या आहुत्यै यज्ञेन व्यौछद् व्य् आहुत्या औछन् न यज्ञाय व्यौछत् तस्मै यज्ञाय दक्षिणया व्यौछद् वि यज्ञायौछन् न दक्षिणायै व्यौछत् तस्यै दक्षिणायै ब्राह्मणेन व्यौछद् वि दक्षिणाया औछन् न ब्राह्मणाय व्यौछत् तस्मै ब्राह्मणाय ब्रह्मणा व्यौछद् वि ब्राह्मणायौछन् न ब्रह्मणे व्यौछत् तस्मै ब्रह्मणे तपसा व्यौछद् एता वै तपःपरार्धा व्युष्टयः श्वोवसीयस्य् अस्मै व्युछति य एवं विद्वान् व्युष्टीर् उपधत्ते यो वै यथापूर्वं व्युष्टीर् वेद यथापूर्वम् अस्मै व्युछत्य् औषसी वाव प्रथमा व्युष्टिर् व्यवाड् इति वा आहुर् यद् औषस्य् उदेति यद् व्युछति यद् अग्निर् आधीयते यत् सूर्य उदेति यद् धस्ता अवनेनिक्ते यद् अश्नाति यत् पिबत्य् एता वै यथापूर्वं व्युष्टयो यथापूर्वम् अस्मै व्युछति य एवं विद्वान् व्युष्टीर् उपधत्ते
॥३.४.९॥यो वा अग्निम् अयोनिम् अनायतनं चिनुते ऽयोनिर् अनायतनो भवत्य् आपो वा अग्नेर् योनिर् यत् कुम्भेष्टका उपदधाति योनिमन्तम् एवायतनवन्तम् अग्निं चिनुते योनिमान् आयतनवान् भवत्य् अधरसपत्नो ऽग्निश् चेतव्या इत्य् आहुर् आपो वा अग्नेः सपत्नो यत् कुम्भेष्टका उपदधात्य् अधरसपत्नम् एवाग्निं चिनुते ऽधरो ऽस्मात् पाप्मा भवत्य् अधरः सपत्नः शुग् वा अग्निर् आपः शान्तिर् यत् कुम्भेष्टका उपदधाति शान्त्यै यत् कुम्भाश् च कुम्भ्यश् च तन् मिथुनं यद् द्वन्द्वं प्रजात्यै द्वादशोपदधाति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे नैवारश् चरुस् त्रयोदशो भवत्य् अस्ति मासस् त्रयोदशस् तम् एवैतेनाप्त्वावरुन्द्धे पयसि भवति यत् पयो ग्राम्यं तेनान्नाद्यम् अवरुन्द्धे यन् नीवारा आरण्यं तेन तेनैव तद् उभयम् अवरुन्द्धे ॥
इत्य् उपरिकाण्डे वसोर्धारीयः चतुर्थः प्रपाठकः
॥३.४.१०॥तृतीयकाण्डे पञ्चमः प्रपाठकः
तृतीयकाण्डे पञ्चमः प्रपाठकः
आ वा एष प्रजापतये वृश्चते यः शिर उपदधाति नेतराण्य् अङ्गान्य् अस्थिचिद् अस्य श्मशानचिद् भवति यद् एतां पुरुषचितिम् उपदधाति न प्रजापतया आवृश्चते ऽनस्थिचिद् अस्याश्मशानचिद् भवति षट्त्रिंशतम् एता उपदधाति षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बार्हतः पुरुषः पुरुषस्य प्रतिमोपधीयते स ह्य् एष धीयत एष ह त्व् एव यजमानो ऽमुं लोकं नाति प्रमीयते यस्यैता उपधीयन्ते
॥३.५.१॥अथैताः पञ्चापञ्चीनाः शिथिर इव वा अग्निश् चित्यो यत् पञ्चापञ्चीना उपदधात्य् अग्नेर् धृत्या अशिथिरत्वाय पञ्चोपदधाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध भूयस्कृद् असि वरिवस्कृद् असीत्य् अग्ना एव भूमानं दधाति भूयान् प्रजया पशुभिर् भवत्य् अप्सुषद् असि गृध्रसद् असीति वयो वा अग्निः समिक्ष्यम् एवैनं वयः करोति वयो भूत्वा स्वर्गं लोकम् एति यस्यैता उपधीयन्ते
॥३.५.२॥चितः स्थ परिचितः स्थेति शर्कराः परिश्रयति यञ् शर्करा अपरिश्रित्य सिकता निवपेद् रेतः सिक्तं परासिच्येताथ यञ् शर्करा अपरिश्रित्य सिकता निवपति रेतसः सिक्तस्य परिगृहीत्यै
॥३.५.३॥वि वा एष यज्ञश् छिद्यते यद् असंस्थितं पशुम् उत्सृजन्ति सं ह स्म वा एतम् आशोकेयः स्थापयत्य् आज्येन संस्थाप्यं यज्ञस्य सन्तत्या अविछेदाय
॥३.५.४॥स्वर्गं वा एष लोकम् अन्वारोहति यो ऽग्निं चिनुते यद् अन्वारोहान् जुहोति स्वर्गम् एवैनं लोकं गमयित्वाथ कामं चरति ॥
इत्य् उपरिकाण्डे पञ्चमः प्रपाठकः
॥३.५.५॥तृतीयकाण्डे षष्ठः प्रपाठकः
तृतीयकाण्डे षष्ठः प्रपाठकः
आग्नावैष्णवम् एकादशकपालं निर्वपेद् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाग्निर् वै यज्ञस्यान्तो ऽवस्ताद् विष्णुः पुरस्ताद् उभयत एव यज्ञस्यान्ता आलब्ध तद् आहुर् न ऋत इन्द्राद् यज्ञो ऽस्त्व् इति यद् अष्टाकपलस् तेनाग्नेयो यत् त्रिकपालस् तेन वैष्णवो यद् एकादशकपालः सम्पद्यते तेनैन्द्रो ऽग्निर् वै यज्ञस्य पवित्रं विष्णुर् यज्ञः पवित्रपूतम् एव यज्ञम् आलब्ध मेधस्य वा एतद् यज्ञस्य रूपं यत् पुरोडाशस् तस्मात् पुरोडाश एव कार्यश् चरू कुर्वन्ति धेन्वा वै घृतं पयो ऽनडुहस् तण्डुलास् तन् मिथुनं मिथुनम् एवास्य यज्ञमुखे दधाति तेजो वै घृतं तेजस एव प्रजायते पुरुषो वा एष मेधायालभ्यते पुरुषस्येव ह्य् एषा प्रतिमा यत इव हि रूपं तस्माच् चरुर् एव कार्यो वेदिमति दीक्षते विन्दा इति वै वेदिमति दीक्षते विन्दते ह वै यो वेदिमति दीक्षते ऽथो यज्ञपथ एवादीक्षिष्ट वेद्या वै देवा इमम् असुराणाम् अविन्दतेमाम् एव विन्दते यो वेदिमति दीक्षते ऽथो यज्ञपथम् एवालब्ध प्राचीनवंशं कुर्वन्ति दिशो यद् इमां व्यकल्पयन्न् इमाम् एव देवेभ्यो ऽकल्पयन्न् इमां पितृभ्य इमाम् असुरेभ्य इमां मनुष्येभ्यो देवताम् एष उपैति यो दीक्षते देवानाम् एव दिशम् उपावर्तते प्राचीनाम् एव दिशम् उपावर्तते ऽथो देवक्षेत्रम् एव प्रावस्यति परिश्रयन्त्य् अन्तर्हितो वै दैवात् क्षयान् मानुषः क्षयो मानुषाद् एवैनं क्षयाद् अन्तर्दधत्य् अथो रक्षसाम् अनन्ववायायैति वा एषो ऽस्माल् लोकाद् यो दीक्षते जनं ह्य् एति देवलोकम् अभ्यारोहति परिश्रयन्तो ऽतिरोकान् कुर्वन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतः पुरस्तात् प्रायणं कुर्यात् स्वर्गकामस्यासौ वा आदित्यः स्वर्गो लोको ऽमुष्यैनम् आदित्यस्य सामक्षं गमयति दक्षिणतः प्रायणं कुर्याद् यं कामयेत पितृलोक ऋध्नुयाद् इत्य् एषा वै पित्πणां दिक् पितृलोक एव ऋध्नोति पश्चात् प्रायणं कुर्यात् प्रजाकामस्य पश्चाद् वै रेतो धीयते रेतो दीक्षितो रेतो ऽस्मिन् दधात्य् उत्तरतः प्रायणं कुर्याद् यं कामयेत मनुष्यलोक ऋध्नुयाद् इत्य् एषा वै मनुष्याणां दिङ् मनुष्यलोक एव ऋध्नोत्य् उत्तरतः पुरस्तात् प्रायणं कुर्याद् यं कामयेतोभयोर् लोकयोर् ऋध्नुयाद् इत्य् उभयोर् वा एतल् लोकयोर् उभयोर् एव लोकयोर् ऋध्नोति सर्वतः प्रायणं कुर्याद् यं कामयेत सर्वासु दिक्ष्व् इत्य् ऋध्नुयाद् इति सर्वासु दिक्ष्व् इत्य् ऋध्नोति
॥३.६.१॥दीक्षते : फ़्न् चोर्रिगेन्द। एद्।: दीक्षते।
दीक्षते : फ़्न् चोर्रिगेन्द। एद्।: दीक्षते।
केशश्मश्रु वपते दतो धावते नखान् निकृन्तते स्नाति मृता वा एषा त्वग् अमेध्यं वा अस्यैतद् आत्मनि शमलं तद् एवापहते मेध्य एव मेधम् उपैत्य् अप्सु दीक्षां प्रवेशयित्वा देवाः स्वर्गं लोकम् आयन् यद् अप्सु स्नाति ताम् एव दीक्षाम् आलभते ऽथ यद् अपो ऽवभृथम् अभ्यवैति तां वा एतद् दीक्षां पुनर् अप्सु प्रवेशयत्य् ओषधे त्रायस्वैनम् इत्य् आह त्रात्या एव स्वधिते मैनं हिंसीर् इति वज्रो वै स्वधितिः स ईश्वरो ऽशान्तो यजमानं हिंसितोर् यत् तृणम् अन्तर्दधाति यजमानस्याहिंसायै देवश्रुद् इमान् प्रवपा इति देवश्रुद् ह्य् एतान् प्रवपते स्वस्त्य् उत्तरं अशीयेति स्वस्त्य् अस्य यज्ञस्योदृचम् अशीयेति वा एतद् आहापो मा मातरः सूदयन्त्व् इत्य् आपो हि यज्ञो घृतेन मा घृतप्वः पुनन्त्व् इति देवताभिर् एवात्मानं पावयते विश्वं हि रिप्रं प्रवहन्तु देवीर् इति यद् एवास्य रिप्रम् अमेध्यम् आत्मनि शमलं तद् अस्माद् अधि प्रवहन्त्य् उद् इद् आभ्यः श्रुचिर् आ पूत एमीति श्रुचिर् एवाभ्यो यज्ञियो मेध्यः पूत उदेति हविर् वै दीक्षितो यदा वै हविर् यजुषा प्रोक्षत्य् अथ हविर् भवति यद् यजुषा स्नपयति हविर् एवैनम् अकर् अश्नाति प्राणा वा अशनं प्राणान् एवात्मन् धित्वा दीक्षते सुषिरो वै पुरुषः स वै तर्ह्य् एव सर्वो यर्ह्य् आशितो यद् आशितो भवति मेध्य एव मेधम् उपैति यथा वा इह दीक्षित एवं वा एषो ऽमुष्मिंल् लोक एव वा अत्याशितस्य तिष्ठति तस्मान् नात्याशितेन भवितव्यं तन् न सूर्क्ष्यम् आशितेनैव भवितव्यं यथैव कनीयःकनीयो ऽश्नीयाद् एवम् अश्नीयाद् यद् धि दीक्षितः सन् कनीयो ऽश्नाति तेन दीक्सित आङ्क्ते ऽभ्यङ्क्ते वासः परिधत्त एता वै पुरुषस्य तन्वः सतनूर् एव मेध्यम् उपैति नवनीतेनाभ्यङ्क्ते घृतं देवानाम् आयुतं मनुष्याणां निष्पक्वं गन्धर्वाणां स्वयंविलीनं पित्πणां सर्वदेवत्यं वा एतत् तस्मान् नवनीतेनाभ्यङ्क्ते दर्भपिञ्जुलाभ्यां समायौति तत् स्विद् अभ्यञ्जनम् अकर् अथो अभ्य् एवैतद् घारयति मेधत्वाय महीनां पयो ऽसीत्य् आह महीनां ह्य् एतत् पयो ऽपाम् ओषधीनां रसा इत्य् अपां ह्य् एष ओषधीनां रसो वर्चोधा असि वर्चो मे धेहीत्य् आशिषम् एवाशास्ते
॥३.६.२॥अन्तर्दधाति : फ़्न् एमेन्देद्। एद्।: अन्तर् दधाति
स्विद् : फ़्न् एमेन्देद्। एद्।: स्विद्
प्रस्वाङ्क्ते प्रजात्यईषीकयाङ्क्ते शलस्या हि मनुष्या आञ्जते सतूलयाङ्क्ते ऽपतूलया हि मनुष्या आञ्जते दक्षिणं पूर्वम् आङ्क्ते सव्यं हि पूर्वं मनुष्या आञ्जते त्रिर् अन्यत् त्रिर् अन्यद् आङ्क्ते ऽपरिमितं हि मनुष्या आञ्जते न पुनर् निषेवयति पुनरावर्तं हि मनुष्या आञ्जत इन्द्रो वै वृत्रम् अहंस् तस्य कनीनिका परापतत् सा त्रिककुभम् अगछत् तदाञ्जनं त्रैककुभम् आङ्क्ते सत्यं वै चक्षुर् नेव वाचे श्रद् दधाति सत्यम् एवालभ्य दीक्षाम् उपैत्य् अन्तर् अहं त्वया द्वेषो अन्तरारातीर् दधे महता पर्वतेनेति पर्वतेन वा एतद् द्वेषो ऽरातीर् अन्तर् धत्ते चक्षुःपा असि चक्षुर् मे पाहीत्य् आशिषम् एवाशास्त ऊर्ध्वं चावाञ्चं च पावयत्य् ऊर्ध्वश् च ह्य् अयम् अवाङ् च प्राणो यं द्विष्यात् तम् अक्ष्णया पावयेत् प्राणान् अस्य मोहयति प्रमायुको भवति चित्पतिस् त्वा पुनात्व् इति यज्ञो वै चित्पतिर् वाचस्पतिस् त्वा पुनात्व् इति वाचस्पतिर् एवैनं यज्ञाय पावयति देवस् त्वा सविता पुनात्व् इति सवितृप्रसूत एवैताभिर् देवताभिर् मेधायात्मानं पावयते ऽछिद्रेण पवित्रेणेत्य् एतद् वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो ऽछिद्रेणैवैनं पवित्रेण पुनाति तस्य ते पवित्रपते पवित्रेणेति यज्ञो वै पवित्रपतिर् यज्ञाय खलु वा एष कम् आत्मानं पावयते ॥
आङ्क्ते : फ़्न् एमेन्देद्। एद्।: आङ्क्ते।
यज्ञं शकेयम् ॥ इतीन्द्रो वै वृत्रम् अप्स्व् अध्यहंस् तासां यद् यज्ञियं मेध्यम् आसीत् तद् उदक्रामत् ता इमा ओषधयो ऽभवंस् तासां वा एतत् तेजो यद् दर्भा एता वै शुष्का आपो यद् एवासांस् तेजस् तद् अवरुन्द्धे त्रयीर् वा आपो दिव्याः पार्थिवाः समुद्रियास् ताः सर्वा दर्भो विवस्थैत् तस्माद् दर्भः पवित्रं द्वाभ्यां पावयति द्वे पवित्रे द्विपाद् यजामानो यावान् एवास्यात्मा तं पावयति त्रिः पावयति त्रिषत्या हि देवा अथो त्रयो वा इमे प्राणाः प्राणो ऽपानो व्यानो यावान् एवास्यात्मा तं पावयति सप्तभिः पावयति सप्त वै छन्दांसि छन्दोभिर् एवैनं पावयत्य् अथो ब्रह्म वै छन्दांसि ब्रह्मणैवैनं पावयत्य् एकविंशत्या पावयति दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशो यावान् एवास्यात्मा तं पावयति त्रया वै नैरृता अक्षाः स्त्रियः स्वप्नो यद् दीक्षते तेनाक्षैश् च स्त्रीभिश् च व्यावर्तते यां प्रथमां दीक्षितो रात्रीं जागर्ति तया स्वप्नेन व्यावर्तते यां प्रथमां दीक्षितो वसति यज्ञं तयावरुन्द्धे यां सोमे क्रीते प्रजां तया यां श्वःसुत्यया पशूंस् तया
॥३.६.३॥आकूत्यै प्रयुजे अग्नये स्वाहेत्य् आकूत्या वा आकूतिर् यक्ष्यते स्य इति प्रयुजः खलु वा एनं यज्ञाय प्रयुञ्जते मेधायै मनसे अग्नये स्वाहेति मेधया हि मनसा यज्ञम् अश्नुते दीक्षायै तपसे अग्नये स्वाहेति दीक्षया हि तपसा यज्ञम् अश्नुते सरस्वत्यै पूष्णे अग्नये स्वाहेति वाग् वै सरस्वती वाचा व्याहरति यक्ष्यते स्य इति पूषा खलु वा एनं यज्ञं प्रापिपद् य एनम् अपूपुषद् आपो देवीर् बृहतीर् विश्वशम्भुवा इत्य् आपो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रितस् तत एव यज्ञम् आलब्ध बृहस्पतिर् नो हविषा वृधातु स्वाहेति ब्रह्म वै बृहस्पतिर् ब्रह्मणा वा एतत् पुरस्तात् सर्वान् कामान् आप्त्वा दीक्षाम् आलभते यत्र वा अस्य यज्ञः श्रितो यत्रयत्रोपश्रितस् ततस्ततो वा एतत् सर्वं ब्रह्मणा यज्ञं सम्भृत्यालब्ध न वा एकाहुतिर् दीक्षितं करोति यद् एतानि जुहोति द्वितीयत्वाय प्रजापतिर् वै यत् किञ्च मनसादीधेत् तद् आधीतयजुर्भिर् एवाप्नोत् तद् आधीतयजुषाम् आधीतयजुष्ट्वं तद् य एवं विद्वान् आधीतयजूंषि जुहोति यद् एव किञ्च मनसा दीध्यज् जुहोति तद् आप्नोत्य् एते वै यज्ञस्य सम्भारा एष ह त्व् एव सम्भृतसम्भारेण यज्ञेन यजते यस्यैतानि हूयन्त एतद् ध स्म वा आहारुण औपवेशिः किम् उ स यज्ञेन यजेत यो यज्ञस्य सम्भारान् न विद्याद् इति पञ्चभिर् जुहोति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध षड्भिर् जुहोति षड् वा ऋतव ऋतुष्व् एव प्रतितिष्ठति यज्ञो वै सृष्टः प्र सामाव्लिनात् प्र यजुस् तं वा ऋग् एवायछद् एका वा एनम् ऋग् अयछद् द्वादश यजूंषि नव सामानि तस्मान् नवभिर् बहिष्पवमाने स्तुवते नव ह्य् एनं सामान्य् अयछंस् तस्माद् वात्सम्बन्धविदो द्वादशभिर् औद्ग्रभणं जुह्वति द्वादश ह्य् एनं यजूंष्य् आयछन्न् एतर्हि खलु वा एष सृज्यते यर्हि दीक्षते यद् ऋचौद्ग्रभणं जुहोति यज्ञं वा एतत् सृष्टम् ऋचायछति तस्माद् आरुणिविद ऋचौद्ग्रभणं जुह्वत्य् एका ह्य् एनम् ऋग् अयछत्
॥३.६.४॥प्रापिपद् : फ़्न् चोर्रिगेन्द। एद्।: प्रापिबद्।
यज्ञो वै प्रजापतिः प्राजापत्यम् एतच् छन्दो यद् अनुष्टुभ् यद् अनुष्टुभा जुहोति स्वेनैवैनं छन्दसावरुन्द्ध एकया जुहोत्य् एको हि प्रजापतिर् अनिरुक्तया जुहोत्य् अनिरुक्तो हि प्रजापतिः पूर्णया जुहोति पूर्णो हि प्रजापतिर् यद् ऊनया जुहुयाद् भ्रातृव्याय लोकम् उञ्शिंषेद् अथ यत् पूर्णया जुहोति न भ्रातृव्याय लोकम् उञ्शिंषत्य् ऊर्जो वा एतद् रूपं यत् पूर्णं यत् पूर्णया जुहोति यज्ञे वा एतद् ऊर्जं दधाति विश्वो देवस्य नेतुर् इति सावित्रं मर्तो वुरीत सख्यम् इति पितृदेवत्यं विश्वो राय इषुध्यतीति वैश्वदेवं द्युम्नं वृणीतेति बार्हस्पत्यं पुष्यसा इति पौष्णं सारस्वतः स्वाहाकारः सर्वदेवत्या वा एषा ऋक् तस्माद् एषैका सत्यौद्ग्रभणं परिबभूव सर्वाभ्यो देवताभ्यो यज्ञ आलभ्या इत्य् आहुः सर्वदेवत्या वा एषा ऋग् यद् एतया ऋचौद्ग्रभणं जुहोति सर्वाभ्यो वा एतद् देवताभ्यो यज्ञम् आलभते ऽनुष्टुभो वा एतस्याः सत्यास् त्रीण्य् अष्टाक्षराणि पदान्य् एकं सप्ताक्षरं यत् सप्ताक्षरं तस्य चत्वार्य् अक्षराण्य् एकस्मिन् पद उपयन्ति त्रीण्य् एकस्मिन् यत्र चत्वार्य् उपयन्ति सा जगती यत्र त्रीणि सा त्रिष्टुब् यद् अष्टाक्षरं तेन गायत्री यद् अनुष्टुप् तेनानुष्टुप् सर्वैर् एवास्य छन्दोभिर् हुतं भवति छन्दःप्रतिष्ठानो वै यज्ञश् छन्दःसु वावास्यैतद् यज्ञं प्रतिष्ठापयाम् अकः स्वाहाकारेण खलु वा एषा पङ्क्तिः पाङ्क्तो यज्ञः पङ्क्तिप्रायणः पङ्क्त्युदयनः पङ्क्तिप्रायणम् एवास्य यज्ञं पङ्क्त्युदयनम् अकर् अथो वाग् वै छन्दांसि वाचं वा एतन् मध्यत आप्त्वावरुन्द्धे तस्माद् इयं वाङ् मध्यतो वदति मध्यतो हीयं वाक् प्रजापतिर् वै स्वां दुहितरम् अध्यैद् उषसं तस्य रेतः परापतत् ते देवा अभिसमगछन्त तस्माद् दीक्षितो न ददाति न पचत्य् अथैनम् अभिसङ्गछन्ते तद् उदगृभ्णंस् तद् औद्ग्रभणस्यौद्ग्रभणत्वं तेन यज्ञम् अतन्वन्त यज्ञो यद् अग्रे व्यभवत् स त्रेधा व्यभवत् स वा ऋक्ष्व् एव तृतीयेनाश्रयत सामसु तृतीयेन यजुःषु तृतीयेन या वा अस्य प्रिया तनूर् आसीत् तया यजुर् अश्रयतोच्चैर् ऋचा क्रियत उच्चैः साम्नोपांशु यजुषा यज्ञस्य ह्य् अत्र प्रिया तनूर् यद् यजुषोच्चैः कुर्याद् यज्ञस्य प्रियां तन्वम् उद्धृतां कुर्याद् अब्रह्मवर्चसी स्यान् नग्नम्भावुकः
॥३.६.५॥आहिताग्निर् वा एष सन् नाग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजते तद् या आहुतिभाजो देवतास् ता अनुध्यायिनीः करोति कर्शयत आत्मानं तेनैवास्य तद् धुतं भवति देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त तेषाम् असवो मनुष्यान् प्राविशंस् तद् इदं रिप्रं पुरुषे ऽन्तर् अथो कृष्णम् इव चक्षुष्य् अन्तस् तन् नाश्नीयाद् असुर्यम् एवापहते यदा वै पुरुषे न किञ्चनान्तर् भवति यदास्य कृष्णं चक्षुषोर् नश्यत्य् अथ मेध्यो यदि कुर्यान् नक्तं कुर्याद् असुर्यो वै रात्रिर् असूर्यम् एवासूर्यं क्रियते वाचं वा एतद् दीक्षयन्तीति ह स्माहारुण औपवेशिर् य उताञ्जानो ऽभ्यञ्जानो ऽथ दीक्षितवादं वदति स वाव दीक्षित इति सायं प्रातर् वै मनुष्याणां देवहितम् अशनम् अतिनीय सायमशनम् अतिनीय प्रातरशनं व्रतं व्रतयति मानुषस्य व्यावृत्त्यय् अदन्तीति वै गा आहुर् अश्नन्तीति मनुष्यान् जुहुधीति देवेभ्यो ऽथवा एतम् आहुः ॥
नाग्निहोत्रं : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: नाग्निहोत्रं
प्रातर् : फ़्न् एमेन्देद्। एद्।: प्रातर्।
व्रतम् उपेहि व्रत्य ॥ इति व्रतं ह्य् एतस्य व्रतेन यज्ञः सन्ततो व्रतेनैव यज्ञं सन्तनोत्य् अभ्यर्धो वा ऋक्सामे यज्ञाद् आस्तां तयोर् यौ महिमाना आस्तां ता अपनिधाय यज्ञम् उपावर्तेतां तौ महिमाना अहोरात्रे अभवतां तयोर् वा एतद् रूपं यत् कृष्णाजिनस्य यञ् शुक्लं तद् अह्नो रूपं यत् कृष्णं तद् रात्रेस् तौ वा एतन् महिमाना अन्वारभते सम्पारणाय सं मा पारयता इत्य् अहोरात्रे मिथुनं समभवतां तयोस् तेजो ऽपाक्रामत् तत् कृष्णं प्राविशत् तद् वा एतद् अन्वारभते द्यावापृथिवी मिथुनं समभवतां तयोर् वीर्यम् अपाक्रामत् तत् कृष्णं प्राविशत् तद् वा एतद् अन्वारभते यथा वा इदं नावं पारं तरिष्यन्न् आरोहत्य् एवं वा एतद् ऋक्सामे आरुक्षत् ते एनम् आ यज्ञस्योदृचः सम्पारयतो यतो वै लोमानि कृष्णाजिनस्य ततो यज्ञो यतो यज्ञस् ततो देवता यद् बहिर्लोमं पर्यूर्णुवीतान्तर्हितो दीक्षितो यज्ञात् स्याद् यद् अन्तर्लोमम् अन्तर्हितो यज्ञो देवताभ्यो द्वे विषूची प्रतिमुच्ये अनन्तर्हितो दीक्षितो यज्ञाद् भवत्य् अनन्तर्हितो यज्ञो देवताभ्यो यद्य् एकं स्याद् अन्तं प्रतिभुजेत् तेनैव तद् उभयम् आप्नोति हविर् वै दीक्षितो यद् अन्यत्र क्षृणाजिनाद् आसीत यथा हविः स्कन्नम् एवं स्याद् यथा हविषे स्कन्नाय प्रायश्चित्तिम् इछत्य् एवम् अस्मै प्रायश्चित्तिम् इछेयुश् छन्दांसि च वा एष देवताश् चाभ्यारोहति तान्य् एनम् ईश्वराणि प्रतिनुदो यद् आह नमस् ते अस्तु मा मा हिंसीर् इति नमस्कारो वा एषो ऽप्रतिनोदाय देवता वै यज्ञस्य शर्म यज्ञो यजमानस्य यद् आह विष्णोः शर्मासि शर्म मे यछेति देवता वा एतद् यज्ञस्य शर्माकर् यज्ञं यजमानस्य प्रोर्णुते प्रावृत इव हि दीक्षितो ऽथो एतद् इव हि दीक्षितस्य रूपं यत् प्रावृतं तस्मात् प्रोर्णुते वासः परिधत्ते सर्वदेवत्यं वै वासः सर्वाभिर् वा एतद् देवताभिर् आत्मानं परिश्रयन्ति
॥३.६.६॥आस्तां : ⟨ आस्ताम्
आस्तां : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: आस्ताम्।
अपनिधाय : फ़्न् एमेन्देद्। मित्त्wएदे। एद्।: अपिनिधाय।
यज्ञस्य वै सृष्टस्योल्बम् अन्वलम्बत तद् वासः क्षौमम् अभवत् तस्मात् क्षौमेण दीक्षयन्ति यज्ञस्य सयोनित्वाय प्राचीनमात्रा पत्नी दीक्षयन्तीन्द्रस्य वै प्राचीनमात्रेन्द्रियं स्त्रियाः प्रजा यत् प्राचीनमात्रा पत्नी दीक्षयन्तीन्द्रियम् अस्यां दधाति योनिर् वै दीक्षितस्य दीक्षितविमितं जरायु कृष्णाजिनम् उल्बं दीक्षितवासो नाभिर् मेखला गर्भो दीक्षितः स्वं वा एतद् योनिं दीक्षित आशये तस्माद् दीक्षितेन दीक्षितविमितान् नानृतुभिः क्रम्यम् एष ह्य् एतस्य योनिर् अतो ह्य् एषो ऽधि प्रजायते गर्भो दीक्षितो यद् ऋत आविःकुर्वीत दत्वन्तो गर्भा जायेरन् यद् अनृतु स्मयेत तेजो ऽस्य परापातुकं स्यात् तस्मान् नानृतु स्मेतव्यं तेजसो ऽपरापातायाजातो वै पुरुषः स वै यज्ञेनैव जायते स वै तर्ह्य् एव जायते यर्ह्य् अदः सोमे क्रीते प्रोर्णुता इतो ऽग्रे प्रोर्णुते ऽथो ह्य् अग्रे पुरुषो जायते स वै तर्ह्य् एव सर्वो जायते यर्ह्य् अदो ऽपो ऽवभृथम् अभ्यवैति तर्हि स तस्मात् सर्वो निर्मुच्यते त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत यत् त्रिवृन् मेखला भवति प्रजननाय त्रिवृद् वै वज्र उदरं वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य यन् मेखलां पर्यस्यते वज्रम् एव सपत्नाय भ्रातृव्याय प्रहरति यं द्विष्यात् तं तर्हि मनसा ध्यायेद् वज्रम् एवास्मै प्रहरति स्तृणुत एवाङ्गिरसो वै स्वर्यन्तो यत्र मेखलाः सन्न्यास्यंस् ततः शरो ऽजायत तस्माञ् शरमय्य् ऊर्ग् वा ओषधय ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च योक्त्रेण पत्नी सन्नह्यते मेखलया दीक्षितो ऽथो मिथुनत्वायोर्ध्वं वै पुरुषस्य नाभेर् मेध्यम् अवाचीनम् अमेध्यं यन् मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्यै देवताभ्यो वा एष मेधायात्मानम् आलभते यो दीक्षते बध्नीत इव वा एतद् आत्मानं यन् मेखलां पर्यस्यते तस्माद् वा एतस्यान्नम् अन्नाद्यम् आर्त इव ह्य् एष बद्धस् तस्माद् उ बद्धस्यान्नम् अन्नाद्यं यथा वा इह गरगीर् एवं वा एषो ऽमुष्मिंल् लोके यो दीक्षितस्यान्नम् अत्ति यज्ञेन त्व् एवास्य तता उन्मुक्तिर् हविर् वै दीक्षितो यद् अस्य जुहुयात् तम् एव जुहुयात् प्रमायुकः स्यात् सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते यद् अस्य जुहुयाद् यज्ञम् अस्य विदुह्याद् उपधीतो ऽस्य यज्ञः स्यात् तं वा एतद् आगते काले सर्वं संस्फीतं यज्ञं देवताभ्यो दुहेत् त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षते यो ऽस्यान्नम् अत्ति स तृतीयं यो ऽस्याश्लीलं कीर्तयति स तृतीयं या एनं पिपीलिका दशन्ति तास् तृतीयं तस्माद् वा एतस्यान्नम् अन्नाद्यं तस्माद् अस्याश्लीलं न कीर्तयितव्यं तस्माद् दीक्षितवासो ऽभर्तव्यम् अत्र हि ताः पिपीलिका या एनं दशन्ति
॥३.६.७॥आशये : फ़्न् एमेन्देद्। एद्।: आशयेत्
दक्षिणा वै देवेष्व् आसीद् यज्ञो ऽसुरेषु तां दक्षिणां यज्ञो ऽभ्यकामयत ताम् अभिपर्यावर्तत तां समभवत् स इन्द्रो ऽवेद् यो वा अस्माद् योनेः सम्भविष्यति स इदं भविष्यतीति ताम् इन्द्रः प्राविशत् तता इन्द्रः समभवत् तता इन्द्रो ऽजायत स जायमानो ऽवेद् यो वा अस्माद् योनेर् अन्यो मत् सम्भविष्यति मादृक् सम्भविष्यतीति तया सहोपवेष्टयन्न् अजायत यन् न्यवेष्टयत् तस्मान् निवेष्टिता यन् निवेष्ट्यमाना श्यावाभवत् तस्मात् कृष्णेन्द्रं च वा एष प्रेप्सति दक्षिणां चेन्द्रस्य च खलु वा एतद् योनिम् आलब्ध दक्षिणायाश् चात्मानम् अथो सयोनिम् एव यज्ञम् आलभते कृषिं सुसस्याम् उत्कृषा इति विषाणया भूम्याम् उपहन्ति कृषिम् एवास्य सस्येन समर्धयति यजुषा कण्डूयते यजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै यजुषा कण्डूयते तस्माद् प्रजा अपामम्भविष्णवः पामम्भविष्णवः प्रजाः स्युर् यद् अयजुषा कण्डूयेत सुपिप्पला ओषधीस् कृधीति शिरः कण्डूयत ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति वाग् वै सृष्टा चतुर्धा व्यभवत् ततो या अत्यरिच्यत सा वनस्पतीन् प्राविशत् सैषा याक्षे या दुन्दुभौ या तूणवे या वीणायां दण्डं प्रयछति ताम् एवास्मै वाचं प्रयछत्य् अथो वज्रम् एवास्मै प्रयछति गोपीथायास्यदघ्नं प्रयछत्य् एतावती हीयं वाग् वदत्य् अथो एतावती हि वाचा वीर्यं क्रियते यद् वर्षीयांसं प्रयछेत् स्वां वाचं मैत्रावरुणो विभजेत् तं श्वःसुत्यायां मैत्रावरुणाय प्रयछति तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥
होतर् यज पोतर् यज नेष्टर् यज ॥ इति सा सह वषट्कारेणाहवनीयं गछति तां पुरो ऽध्वर्युर् विभजति ॥
होतर् यज पोतर् यज नेष्टर् यज ॥ इत्य् अध्वर्युः पुरो वाचं विभजति मैत्रावरुणः पश्चात् ॥
स्वाहा यज्ञं मनसा ॥ इति मनसा यज्ञम् अभिगछन्ति तत एव यज्ञम् आलब्ध स्वाहा दिवः स्वाहा पृथिव्याः इति द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रितस् तत एव यज्ञम् आलब्ध स्वाहोरोर् अन्तरिक्षाद् इत्य् अन्तरिक्षं वै यज्ञो यदि वातो यदि वा पशवस् तत एव यज्ञम् आलब्ध स्वाहा वातात् परिगृह्णामि स्वाहेत्य् अयं वाव यः पवत एष यज्ञस् तम् एवालब्ध वाचं यछति यज्ञं वा एतद् यछति यद् वाचं विसृजेद् यज्ञं विसृजेत् तद् आहुः पुनर् दीक्षयित्वा वाग् यन्तव्येति यत् पुनर् दीक्षयेद् आहुतीर् अतिरेचयेद् वैष्णवीम् अनूच्य वाग् यन्तव्या विष्णुर् वै यज्ञो यज्ञम् एवालब्धाग्नावैष्णवीम् अनूच्य वाग् यन्तव्याग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्ध सारस्वतीम् अनूच्य वाग् यन्तव्या वाग् वै सरस्वती वाचा यज्ञः सन्ततो वाचैव यज्ञं सन्तनोति बार्हस्पत्याम् अनूच्य वाग् यन्तव्या ब्रह्म वै बृहस्पतिर् ब्रह्मणा यज्ञः संहितो ब्रह्मणैव यज्ञं सन्दधाति
॥३.६.८॥इति : फ़्न् थिस् सन्धि चोमेस् फ़्रोम् मनसस् अन्द् इति। च्फ़्। १।२।२:११।१३
दीक्षितो ऽयम् असा आमुष्यायणः ॥ इत्य् उद्वदति वा आह प्रियो वै देवानां दीक्षितो देवेभ्य एवैनं प्राह त्रिर् आह त्रिषत्या हि देवा अथो त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्या आवेदयति तस्माद् दीक्षितं दूराञ् शृण्वन्त्य् एभ्यो ह्य् एनं लोकेभ्या आवेदयति नक्षत्रं दृष्ट्वा वाचं विसृजते द्वौ वा ऋतू अहश् च रात्रिश् चान्यम् एव ऋतुं सम्प्राप्य वाचं विसृजते व्रतं चरतेति वाचं विसृजते व्रतं ह्य् एतस्य व्रतेन यज्ञः सन्ततो व्रतेनैव यज्ञं सन्तनोति दैवीं धियं मनामहा इति यजुषा हस्ता अवनेनिक्ते यजुषा हि मनुष्या अवनेनिजते व्यावृत्त्यै ब्रह्मणः सदेवत्वायाथो आपो मे दीक्षां नेत् प्रमुष्णान् इत्य् अन्नं वै मनुष्येभ्या उदबीभत्सत तद् एवा मनुष्येष्व् अदिधीर्षंस् तद् आपो ऽब्रुवन् वयं व एतां शुन्धामाथोपावर्तस्वेति ततो ऽन्नं मनुष्यान् उपावर्तन्त त इदम् अन्नं मनुष्येषु धृतं तस्माद् ब्राह्मण आहार्या आहृते हस्ता अवनेनिजीतान्नाद्यस्यावरुद्ध्यय् अथो अन्नाय वा एतद् आत्मानं पावयते ये देवा मनुजाता मनोयुजा इति व्रतं व्रतयत्य् एते वै देवा मनुजाता मनोयुजो यद् इमे प्राणा एषा वा अस्मिन्न् एतर्हि देवता तां प्रीणाति तस्यां हुतं व्रतयति यद् एतो ऽन्यथा व्रतयेत् प्राणैर् एनं व्यर्धयेत् प्रमायुकः स्यात् त्वम् अग्ने व्रतपा असीति वदेत् स्वप्स्यन्त् सुप्त्वा वा प्रबुध्य यदि वा दीक्षितवादं वदेद् अग्निर् वै देवानां व्रतपतिस् तस्माद् एवाधि व्रतम् आलभते नोत्तानः शयीत यद् उत्तानः शयीतेमे लोका ययेयुर् नाग्नेर् अधि पराङ् पर्यावर्तेत यत् पर्यावर्तेत यज्ञात् पर्यावर्तेत नान्यत्रदीक्षितं दीक्षितविमितान्त् सूर्यो ऽभिनिम्रोचेन् नाभ्युदियाद् दीक्षितव्रतम् एव तद् यज्ञो वै देवानां न समभवत् तं भृत्या समभावयन् यद् भृतिं वनुते यज्ञस्य सम्भूत्यै रास्वेयत् सोमेति यद् ब्रूयाद् एतावद् अस्य स्यान् न भूयो यद् आहा भूयो भरेत्य् अपरिमितस्यावरुद्ध्यै देवः सविता वसोर् वसुदावेति सवितृप्रसूत एवैताभिर् देवताभिर् उप प्रतिगृह्णात्य् आत्मनो ऽहिंसायै वायुर् गोपास् त्वष्टाधिपतिः पूषा प्रतिग्रहीतेति वायुम् एवासां गोप्तारम् अकस् त्वष्टारम् अधिपतिं पूषणं प्रतिग्रहीतारम् आपो वै यज्ञो यद् अपो दीक्षितो ऽवगाहेत यज्ञम् अवकृश्नीयाद् यद् आह देवीर् आपो अपां नपाद् इति यद् एवासां यज्ञियं मेध्यं तन् नाक्रामति यद् अपो दीक्षितो ऽवगाहेत विह्रदिनीः स्युस् तस्मान् नावगाहेत यद्य् अवगाहेत लोष्टं विमृणंस् तरेत् तम् एव सेतुम् अनुसन्तरति न वै दीक्षितं तरन्तं देवता अनुतरन्त्य् अरणिभ्यां सह तरति सहैव देवताभिस् तरति न वै दीक्षितं तरन्तं यज्ञो ऽनुतरति रथाङ्गेन सह तरति सहैव यज्ञेन तरति
॥३.६.९॥अमुं वा आदित्यं सर्वा वाचो गछन्ति ता उद्यति सर्वाः सृज्यन्ते यद् आह याः पशूनाम् ऋषभे वाचा इति सृज्यमानां वा एतद् वाचं पुनर् आलभते वायवे त्वेति नष्टाम् अनुदिशति वरुणाय त्वेत्य् अप्सु मग्नां रुद्राय त्वेति महादेवाहतां निरृत्यै त्वेत्य् अवसन्नाम् इन्द्राय त्वेति व्लेष्कहतां या वा संशीयेत मरुद्भ्यस् त्वेति ह्रादुनिहताम् एते वै देवा भृत्या स्कन्नभागास् तान् एव प्रीणाति देवेभ्यो वा अन्या दक्षिणा दीयन्ते मनुष्येभ्यो ऽन्या एता वै देवेभ्यः प्रत्यक्षं दक्षिणा दीयन्त एताभिर् वै भूयो ऽवरुन्द्धे यद् उ चेतराभिर् देवाश् च वा असुराश् चास्पर्धन्तैतावान् वै तर्हि यज्ञ आसीद् अग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि ते देवा यज्ञम् अपश्यंस् तेनादीक्षन्त तेषां यद् अग्निहोत्रम् आसीत् तद् व्रतम् उपायंस् तस्माद् विव्रतेन भवितव्यं द्विर् ह्य् अग्निहोत्रं हूयते यद् अग्नीषोमीयं पूर्णमासे हविर् आसीत् तम् अग्नीषोमीयं पूर्वेद्युः पशुम् आलभन्त यद् ऐन्द्राग्नम् अमावास्यायां तम् आग्नेयं श्वो भूते पशुम् आलभन्त वैश्वदेवं प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यन्दिनं सवनं साकमेधान् पितृयज्ञं त्र्यम्बकास् तत् तृतीयसवनं तस्मात् तृतीयसवने विश्वं रूपं शस्यते विश्वं ह्य् एतद् रूपं तम् एषां यज्ञम् असुरा णान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति ते ऽध्वृतो ऽयम् अभूद् इत्य् अपाक्रामंस् तद् अध्वरस्याध्वरत्वं तस्माद् एकव्रतेन भवितव्यं सकृद् ध्य् अग्निहोत्रं हूयते ॥
संशीयेत : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इति तृतीयकाण्ड आग्नावैष्णवं नाम षष्ठः प्रपाठकः
॥३.६.१०॥तृतीयकाण्डे सप्तमः प्रपाठकः
तृतीयकाण्डे सप्तमः प्रपाठकः
अकॢप्तं वा इदम् आसीद् दिशो वा इमा न प्राजानंस् तद् देवा अन्यो ऽन्यस्मिन्न् ऐछंस् तन् नाविन्दंस् ते देवा अदितिम् अब्रुवंस् त्वया मुखेनेमा दिशः प्रजानामेति साब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् साब्रवीन् मद्देवत्यम् एव प्रायणीयम् असन् मद्देवत्यम् उदयनीयं माम् एवानुप्रायाथ माम् अनूदयाथेति स एष आदित्यश् चरुर् अदितिं वा एतद् अनुप्रयन्त्य् अदितिम् अनूद्यन्ति ततो वा इमा दिशः प्राजानन् पथ्यां यजति इमाम् एव तेन दिशः प्राजानन् यद् अग्निम् इमां तेन यत् सोमम् इमां तेन यत् सवितारम् इमां तेन यद् अदितिम् इयं वा अदितिर् ऊर्ध्वा वा अस्या दिग् ऊर्ध्वाम् एव तेन दिशं प्राजानंस् ततो वा अकल्पताकॢप्तस्य वै कॢप्त्यै प्रायणीयस् तद् य एवं विद्वान् प्रायणीयेन चरति कल्पते कल्पन्ते हास्मा ऋतवस् ततो वा इमा दिशो ऽन्वपश्यन् यत् पथ्यां यजतीमाम् एव तेन दिशम् अन्वपश्यन् यद् अग्नीषोमौ चक्षुषी वा अग्नीषोमव् अनु ताभ्यां समपश्यन् यत् सवितारं सवितृप्रसूता एवेमा दिशो ऽन्वपश्यन् यद् अदितिम् इयं वा अदितिर् अस्यां वै प्रतिष्ठाय देवा यज्ञम् अतन्वत यत् प्रथ्यां यजति वाग् वै पथ्या वाचम् एवावरुन्द्धे यद् अग्निं देवतास् तेन यत् सोमं यज्ञं तेन यत् सवितारं प्रसूत्यै यद् अदितिम् आदित्या वा इमाः प्रजास् ता एवावारुद्ध ता आद्या अकृत यद् वै यज्ञस्यान्तर्यन्ति तच् छिद्रं तेन यज्ञः स्रवति तेन यजमानो ऽग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठित्या अग्निं प्रथमं यजत्य् अग्निम् उत्तमं समानी वा एषा देवता पाङ्क्तत्वाय पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध स्वस्तिं यजति यज्ञस्य स्वस्त्यै पथ्यां यजति वाग् वै पथ्या वाचम् एवानुप्रयन्ति ताम् उत्तमाम् उदयनीये यजति वाग् वै पथ्या वाचम् एवानूद्यन्ति मरुत्वतीः पथ्याया ऋचो भवन्ति देवविशा वै मरुतो देवविशाम् एवाचीकॢपत् तां शान्तां कॢप्तां मनुष्यविशा अनुकल्पन्ते स्तेनभविष्णुर् हविर् भवति
॥३.७.१॥प्राजानन् : फ़्न् चोर्रिगेन्द। एद्।: इमानप्रजानन्।
साब्रवीत् : फ़्न् चोर्रिगेन्द। एद्।: सो ऽब्रवीत्
एवावारुद्ध : फ़्न् एमेन्देद्। एद्।: एवावरुद्ध। च्फ़्। १।५।१०:७९।३, १।५।११:७९।१०
जुषाणेनान्य आज्यभागा इज्यन्ते ऽथात्र ऋचोभयतो यजति द्रढिम्ने ऽशिथिरत्वाय सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् एवाधि यज्ञमुखं प्रतनुते तद् आहुः पञ्चदश सामिधेनीः कार्या न सप्तदश संवत्सरीयस्यैवायनस्य सप्तदश कार्याः संवत्सरस्या ऋद्ध्या इति तन् न सूर्क्ष्यं सपतदशैव कार्याः प्रयाजवत् स्यात् प्रायणीयम् अननुयाजम् अनुयाजवत् स्याद् उदयनीयम् अप्रयाजम् उभयतो वा एतत् प्रयाजानुयाजा यज्ञम् अभिसन्धीयते समानो ह्य् एष यज्ञो निष्काषं च मेक्षणं च निदधाति तेन यज्ञः सन्तत आत्मा वै प्रयाजाः प्रयाजानुयाजा देवक्षेत्रं यज्ञो देवक्षेत्रम् आक्रममाणः प्रजाम् अन्तरियाद् यद् अनुयाजान् अन्तरियात् प्रयाजवत् स्यात् प्रायणीयम् अनुयाजवद् अनुयाजवत् स्याद् उदयनीयं प्रयाजवत् पयसि प्रायणीयः स्यात् पयस्य् उदयणीयो ऽपां वा एतञ् शुक्रियम् अपाम् एव शुक्रियम् अवरुन्द्धे पशवो वै शुक्रियं पशून् एवावरुन्द्धे ऽथो प्रायणे च वावास्मा एतद् उदयने च पशून् दधात्य् आदित्यः प्रायणीयः स्याद् आदित्य उदयनीय इयं वा अदितिर् अस्यां वा एतद् यज्ञमुखेन प्रतितिष्ठत्य् अस्याम् उपरिष्टाद् यत्र वै यज्ञस्यार्धे ऽग्रे समृद्धं क्रियते क्रियमाणङ्क्रियमानं ह वा अस्य समृध्यते संस्थाप्यं प्रायणीयं यज्ञस्य समृद्ध्यै याः प्रायणीये ऽनुवाक्यास् ता उदयनीये याज्याः स्युर् या उदयनीये ऽनुवाक्यास् ताः प्रायणीये याज्याः स्युः पथः प्रतिप्रज्ञात्यय् अथो अनुसन्तत्यै यद् अतो ऽन्यथा कुर्युश् छम्बट्कुर्युः
॥३.७.२॥इयं वै कद्रूर् वाक् सुपर्णी छन्दांसि सौपर्णानि गायत्री त्रिष्टुब् जगती सा वै कद्रूः सुपर्णीम् आत्मानम् अजयत् साब्रवीत् सोमम् आहर तेनात्मानं निष्क्रीणीस्वेति सा छन्दांसि प्रैष्यद् अमुतः सोमम् आहरत तेन मा निष्क्रीणीतेति ततो जगत्य् उदपतत् सा पशुभिश् चागछद् दीक्षया च तस्मात् पशवा इति जगतीम् आहुस् तस्माद् यदा पशून् विन्दते ऽथ दीक्षते ततस् त्रिष्टुब् उदपतत् सा दक्षिणया चागछत् तपसा च तस्मात् त्रिष्टुभो लोके दक्षिणा दीयन्ते तस्माद् उ मध्यन्दिने तपस् तपनीयम् इति ततो गायत्र्य् उदपतत् सा सोमम् आहरत् तम् आह्रियमाणं सामिगन्धर्वो विश्वावसुर् आमुष्णात् स तिस्रो रात्रीर् उपहृतो ऽवसत् तस्मात् तिस्रो रात्रीः क्रीतो वसति ते ऽब्रुवन् पुनर् याचामहा इति ते देवा अब्रुवन् स्त्रीकामा वै गन्धर्वा वाचम् एव सम्भृत्य यथा योषिद् अनपक्षेयतमेव तया निष्क्रीणामेति तं वै निरक्रीणंस् तस्माद् आहुर् वाग् वै सोमक्रयणी वाचं वा एतद् गवा निष्क्रीणातीति ते ऽब्रुवन्न् अन्व् ऋतीयामहा इति ताम् अन्व् आर्तीयन्त तद् अनृतस्य जन्म तद् य एवं विद्वान्त् सत्यानृतां वाचं वदति न हैनं द्रुणाति ते ऽब्रुवन् विह्वयामहा इति तां व्यह्वयन्त गाथां देवा अगायन् ब्रह्म गन्धर्वा अवदन् सा देवान् उपावर्तत तस्माद् विवाहे गाथा गीयते तस्माद् गायन्त् स्त्रियाः प्रियस् तद् य एवं विद्वान् गाथां गायन् हस्तं गृह्णाति सं हि जीर्यतः सर्वम् आयुर् इतो नार्तिं नीतस् तद् आहुर् आ वै सा पुनर् अगछन् नैव किं चन सोमक्रयणीति
॥३.७.३॥अजयत् : फ़्न् चोर्रिगेन्द। एद्।: अयजत्।
या द्विरूपा सा वार्त्रघ्नी यत् तया क्रीणीयाज् जायुकम् अस्य राष्ट्रं स्याद् अथ यस्य तादृश्य् अनुस्तरणी भवति ताजग् एषाम् अपरः प्रमीयते या रोहिणी कृष्णाक्षी कृष्णवाला कृष्णशफा सा पितृदेवत्या यत् तया क्रीणीयात् प्रमायुको यजमानः स्याद् अथ यस्य तादृश्य् अनुस्तरणी भवत्य् ऋतुमद् एषाम् अपरः प्रमीयते यारुणा बभ्रुलोम्नी श्वेतोपकाशा शुच्यदक्षी तत् सोमक्रयण्या रूपं स्वेनैव रूपेण क्रीयते काणा स्याद् अखर्वा श्रोणा सप्तशफा तथा सर्वया क्रीयत एकहायन्याक्रय्या वाग् वै सोमक्रयणी तस्मात् प्रजाः संवत्सरे वाचं वदन्त्य् अप्सु क्रय्य ओषधयो वै सोम आपा ओषधीनां रसस् तथा स रसः क्रियते क्रये वा अहं सोमस्य तृतीयं सवनम् अवरुन्धे वेदेति ह स्माहारुण औपवेशिः पशवो वै तृतीयं सवनं पशूनां चर्म यच् चर्मणि निवपति तेनैव तृतीयं सवनम् अवरुन्द्धे रोहिते निवपति तस्मात् पशूनां रोहितरूपम् आनडुहे निवपत्य् अनड्वान् वै सर्वाणि वयांसि पशूनां सर्वान्य् एव वयांसि पशूनाम् आप्त्वावरुन्द्धे ऽथो बह्व् एव यज्ञस्यावरुन्द्धे सोमं विचिन्वन्ति पापवसीयस्य व्यावृत्त्यय् अथो देवेभ्य एवैनं शुन्धन्ति नाध्वर्युः सोमं विचिनुयान् न यजमानो न यजमानस्य पुरुषा नोपद्रष्टारो विचीयमानस्य स्युर् यद् उपद्रष्टारो विचीयमानस्य स्युः क्षुधं प्रजा नीयुर् अवर्तिर् यजमानं गृह्णीयात् क्षोधुको ऽध्वर्युः स्यात् ॥
विचिन्वन्ति : फ़्न् एमेन्देद्। एद्।: विचिन्वन्ति
शुन्ध सोमम् आपन्नं निरस्य ॥ इति ब्रूयाद् ग्रसितं वा एतत् सोमस्य यद् आपन्नं ग्रसितम् एते सोमस्य निष्खिदन्ति ये सोमं विचिन्वन्ति तस्मात् सोमविक्रयिणो बहु क्रीणन्तो बहु विन्दमानाः क्षोधुका ग्रसितं ह्य् एते सोमस्य निष्खिदन्त्य् आस्माको ऽसीत्य् अभित्सार एवास्यैष शुक्रस् ते ग्रहा इति शुक्रम् एवास्य गृह्णात्य् अभि त्यं देवं सवितारम् इति सवितृप्रसूत एव गृह्णात्य् अतिछन्दसा गृह्णाति सर्वाणि वै छन्दांस्य् अतिछन्दाः सर्वैर् एवैनं छन्दोभिर् गृह्णाति वर्ष्म वा एषा छन्दसां वर्ष्मैनं समानानां गमयति पञ्चभिर् गृह्णाति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धैकैकाम् उत्सर्जं मिमीते ऽयातयाम्न्यायातयाम्न्यैव मिमीत एतावती वा आसाम् एकैकस्या वीर्यम् आप्यते तस्माद् इमाः कामं प्रसारयति कामं प्रत्यञ्चति दश कृत्वो मिमीते दशाक्षरा विराड् विराजम् एवाप्नोत्य् अथो वैराजाः पशवः पशून् एवावरुन्द्धे द्विर् गृह्णाति द्वे हि सवने यावान् वै सोमो गृहीतः स यजमानस्य यम् अभ्यूहति स सदस्यानां प्रजाभ्यस् त्वेत्य् अभ्य्·हति गोत्राद्गोत्राद् धि प्रसर्पन्त्य् ओषधयो वै सोमो ऽपरिमितं जीवनं यत् परिमितं गृह्णीयात् परिमितं जीवनं स्याद् अथ यद् अभ्यूहत्य् अपरिमितस्यावरुद्ध्यै यजमानो वै प्रजापतिः प्रजा अंशवो यत् सोमम् उपनह्यति प्रजानां वा एतत् प्राणम् उपनह्यति यद् आह प्रजास् त्वानुप्राणन्त्व् इति प्राणम् आसु दाधार क्षौमम् उपनह्यत्य् औषधं वै क्षौमम् ओषधयः सोमस्य योनिः स्व एवैनं योनौ दधाति यज्ञो यद् अग्रे देवानाम् अगछत् तं रक्षांस्य् अजिघांसन् स देवता व्यवासर्पत् सर्वदेवत्यं वै वासो यत् क्षौमम् उपनह्यति सर्वाभिर् वा एतद् देवताभिर् यज्ञाद् रक्षांस्य् अपहन्त्य् अथो सर्वाभिर् एव देवताभिर् यज्ञं समर्धयति
॥३.७.४॥आपन्नं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
निष्खिदन्ति : फ़्न् एमेन्देद्। एद्।: निष्खिदन्ति
चतुर्गृहीतम् आज्यं भवति चतुष्पादो वै पशवः पशून् एवावरुन्द्धे हिरण्यम् अवधाय जुहोत्य् आग्नेयं घृतम् अग्निजं हिरण्यं सतनूर् एव सतेजा हूयत एषा वा अग्नेः प्रिया तनूर् यद् घृतं तेजो हिरण्यं यद् धिरण्यम् अवधाय जुहोत्य् अग्नेर् वा एतत् प्रियां तन्वं तेजसा समर्धयत्य् अथो रूपाण्य् एव ग्राहयति पशवो वै घृतं रेतो हिरण्यं यद् धिरण्यम् अवधाय जुहोति पशुषु वा एतद् रेतो दधाति तस्माद् अनस्थकाद् रेतसो ऽस्थान्वन्तः पशवः प्रजायन्ते बद्धेन जुहोति तस्मात् पशूनां गर्भा अप्रपादुकाः प्रपादुकाः पशूनां गर्भाः स्युर् यद् अबद्धेन जुहुयाद् जूर् असीति यद् वाव जवत इत्थम् असा३द् इत्थम् असा३द् इति तद् अस्या जूत्वं धृता मनसेति मनसा हि वाचं दाधार जुष्टा विष्णवा इति यज्ञायैवैनां जुष्टां विष्णवे ऽकस् तस्यास् ते सत्यसवसः प्रसव इति वाचा हि प्रसूतं क्रियते तन्वो यन्त्रम् अशीय स्वाहेत्य् आशिषम् एवाशास्ते शुक्रम् असि चन्द्रम् असीत्य् उद्धरति स्वर्गस्य लोकस्य समष्ट्यै वाग् वै सोमक्रयणी शास्ति वावैनाम् एतत् तस्मात् प्रजाः सृष्ट्वा प्रजायन्ते वत्सो जातः स्तनम् इछति स्तनं कुमार इछति चिद् असीति यद् वाव चिकित्सत इत्थम् असा३द् इत्थम् असा३द् इति तद् अस्याश् चित्त्वं मनासीति यद् धि मनसा मन्यते यन् मनसाभिगछति तद् वाचा वदति धीर् असीति यद् वाव ध्यायतीइत्थम् असा३द् इत्थम् असा३द् इति तद् अस्या धीत्वं दक्षिणासीति यत् स्विद् वाचा दीयते तद् अस्या दक्षिणात्वं यज्ञियासीति वाग् घि यज्ञिया क्षत्रियासीति यं हि वाग् जुषते स क्षत्रियो ऽदितिर् अस्य् उभयतःशीर्ष्णीति यत् स्विद् आदित्यः प्रायणीय आदित्य उदयनीयस् तद् अस्या उभयतःशीर्षत्वं सा नः सुप्राची सुप्रतीची भवेति सुप्राची ह्य् एषा प्रायणीये सुप्रतीच्य् उदयनीये
॥३.७.५॥असा३द् : फ़्न् एमेन्देद्। एद्।: असा३द्
यत् कर्णगृहीतया क्रीणीयाद् वार्त्रघ्नी स्याद् यञ् शृङ्गाभिहितया मनुष्यदेवत्या यत् पदि बद्धया पितृदेवत्या यद् अबद्धयायता स्याद् यद् आह मित्रस् त्वा पदि बध्नात्व् इति मित्रस्यैवैनां पाशेन यछति पूषाध्वनः पात्व् इतीयं वै पूषेयम् एवास्या अध्वानं सम्भरतीन्द्रायाध्यक्षायेतीन्द्रो वै देवानाम् ओजिष्ठस् तम् एवास्या अध्यक्षम् अकर् अनु त्वा माता मन्यताम् अनु पितेत्य् अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्या क्रीणाति सा देवि देवम् अछेहीति देवी ह्य् एषा देवः सोम इन्द्राय सोमम् इतीन्द्राय ह्य् एषा सोमम् अछैति रुर्द्रस् त्वावर्तयत्व् इति रुद्रम् एवास्याः परस्ताद् दधाति स्वस्ति सोमसखा पुनर् एहीति प्रत्यक्षम् एवालब्ध रुद्राय वा एतत् पशून् अपिदधाति यद् आह रुद्रस् त्वावर्तयतु यद् आह स्वस्ति सोमसखा पुनर् एहीति स्वस्तिम् एवास्यै पुनर् आवृत्तायै दधाति वाग् वै सोमक्रयणी सा देवरूपाणि प्रविशति यद् आह वस्व्य् असि रुद्रासीतीदम् असीदम् असीति वाग् वैनाम् एतद् आह यद्यद् भवति यद् वा एतत् किञ्च वदत्य् एतां वा एतद् आप्त्वावरुन्द्धे षट् पदान्य् अनु निष्क्रामति षड् वा अहानि वाग् विभज्यते न वै षष्ठम् अहर् वाग् अतिवदति सर्वा वै षष्ठे ऽहन् वाग् आप्यते यावत्य् एव वाक् ताम् आप्नोति दक्षिणेनार्धेन दक्षिणम् अर्धम् अनु निष्क्रामति तस्माद् दक्षिणेन हस्तेनान्नम् अद्यते तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यवत्तरस् तस्माद् दक्षिणम् अर्धं वयांस्य् अनु पर्यावर्तन्ते सप्तमे पदे जुहोति सप्त छन्दांसि छन्दांसि वाग् यावत्य् एव वाक् ताम् आहुत्याप्त्वावरुन्द्धे सप्त छन्दांसि सप्त होत्राः सप्त ग्राम्याः पशवः पशूंस् तान् एवावरुन्द्धे बृहस्पतिष् ट्वा सुम्ने रम्णात्व् इति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनां यछति रुद्रो वसुभिर् आचक इति रुद्रम् एवास्या वसुभिर् आकर्तारम् अकः पृथिव्यास् त्वा मूर्धन्न् आजिघर्मीत्य् एष वै पृथिव्या मूर्धा यद् देवयजनम् इडायास् पद इति गौर् वा इडा तस्या वा एतत् पदं घृतवति स्वाहेति स्वाहाकारेणैवैनां यछति
॥३.७.६॥इति : फ़्न् स्होउल्द् बे आचका इति (आचके अन्द् इति)
हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयात् पशवो वै घृतं पशवः पदं वज्रं स्फ्यो यत् स्फ्येन पदं परिलिखति वज्रेण वा एतद् यजमानाय पशून् परिगृह्णाति विषाणयानुपरिलिखति सयोनीन् एवास्मै पशून् परिगृह्णाति स्थाल्यां पदं संवपत्य् अस्या वा एषाधिक्रियत इयं हि पशूनां योनिः स्व एवैनान् योनौ दधाति शोचन्ति वा एतत् पशवो योनेश् छिन्ना यद् अप उपसृजति शमयत्य् एव यजमानाय पदं प्रयछति तद् अध्वर्युर् अपशुर् भवति यजमानाय हि पशून्त् सम्प्रादाद् यद् आह तव राया इति तद् अध्वर्युं पशुष्व् आभजति तेनाध्वर्युः पशुमान् गृहेषु पदं निदधाति गृहेष्व् एवास्य पशून् दधाति स्वर्गो वै लोक आहवनीयो यद् आहवनीय उपवपेद् अन्यलोके ऽस्य पशून् दध्याद् गार्हपत्या उपवपति गार्हपत्यं हि पशवो ऽनूप तिष्ठन्ते पशुभिर् एवैनं सम्यञ्चं दधाति पशवो वै पदम् अग्नी रुद्रो यद् अग्निमत्य् उपवपेद् रुद्रायास्य पशून् दध्याद् यत्र शान्तं तद् उपोप्यं पशूनाम् अप्रदाहाय यत् सोमक्रयण्या पत्नीं सङ्क्शापयन्ति मिथुनत्वाय त्वष्ट्रिमन्तस् त्वेति त्वष्टा हि रूपाणि विकरोति सपेमेति सपाद् धि प्रजाः प्रजायन्ते सूर्यस्य चक्षुर् आरुहम् इत्य् एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एत्य् अमुष्य वा एतद् आदित्यस्य पथ इति वृणक्ति विन्दते वस्व् इति वसो ह्य् एष विन्दते यः सोमं क्रीणाति ॥
सोमविक्रयिन्त् सोमं ते क्रीणानि महान्तं बह्व् अर्हं बहु शोभमानं कलया ते क्रीणानि कुष्टया ते क्रीणानि शफेन ते क्रीणानि पदा ते क्रीणानि ॥ इति गोर् वा एतन् महिमानम् उदाचष्टे ऽथो महयत्य् एवैनाम् अथो अक्षरशो वा एतद् यज्ञं मिमीते सुवाङ् नभ्राड् अङ्गारे बम्भारा इत्य् एते वै देवानां सोमरक्षय एतेभ्यो वा अधि छन्दांसि सोमम् आहरंस् तेभ्य एवैनाम् अनुदिशत्य् अथो यद् एवात्र यज्ञस्योपश्लिष्टं तत् परिक्रीणीते दशभिः क्रीणाति दशाक्षरा विराट् तथा वैराजः क्रियत एकादशभिः क्रीणाति दश वै पशोः प्राणा आत्मैकादशस् तथा सर्वः क्रियते धेन्वा क्रीणात्य् आशिरम् एवास्य क्रीणात्य् अथो वाचम् एव गृह्णाति हिरण्येन क्रीणाति शुक्रम् एवास्य क्रीणात्य् अथो तेज एव गृह्णाति वाससा क्रीणाति सर्वदेवत्यम् एवास्य क्रीणात्य् अजया क्रीणाति तप एवास्य क्रीणाति यत्र वा अदश् छन्दांसि सोमम् आहरंस् तानि तमसा न प्राजानंस् ततो गायत्र्य् अजाम् आदायोदपतत् सा वा एभ्यः प्रारोचयत् ततो वै छन्दांसि सोमम् आहरंस् तत् सोमं ना आजाम् इति वावाजानडुहा क्रीणाति वह्न्य् एवास्य क्रीणात्य् ऋषभेण क्रीणाति सेन्द्रम् एव क्रीणाति यद् ऋषभेण क्रीणीयात् प्रजापतिना विक्रीणीत वत्सतरेण साण्डेन क्रय्यस्येन्द्रम् अहः क्रीणाति न प्रजापतिना विक्रीणीते मिथुनाभ्यां गोभ्यां क्रीणाति मिथुनम् एवास्य क्रीणाति
॥३.७.७॥सोमविक्रयिन्त् : फ़्न् चोर्रिगेन्द। एद्।: सोमविक्रयित्।
विक्रीणीत : फ़्न् एमेन्देद्। एद्।: विक्रीणीते
क्रीणाति : फ़्न् च्फ़्। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। २५फ़्।
सोमो वा अमुत्रासीत् ते देवा गायत्रीं प्राहिण्वन्न् अमुं सोमम् आहरेति सा विततं यज्ञम् अवापश्यत् सैक्षत यद् यज्ञस्यान्तरेष्याम्य् आत्मानम् अन्तरेष्यामीति तस्यै वा एतं सोमो जीवग्रहं प्राब्रवीत् स्वजा असि स्वभूर् असीति सोमस्य वा एष जीवग्रहः सोमस्य वा एतज् जीवग्रहं गृह्णीते नाध्वर्युः सन् नार्तिम् आर्छति य एवं वेद वरुणो वा एष एतर्हि वरुणदेवत्यो यर्ह्य् उपनद्धो वरुण एनं भूत्वा प्रविशेद् यद् आह मित्रो ना एहि सुमित्रधा इति मित्रम् एवैनम् अकः शमयत्य् एवेन्द्रस्योरुम् आविश दक्षिणम् इत्य् ऐन्द्रो वै यज्ञ इन्द्रः सोमस्य योनिः स्व एवैनं योनौ दधातीन्द्रो वा एतम् अग्रा आगतम् ऊरू न्यगृह्णीत तां वा एतद् अनुकृतिम् ऊरा आसादयते ऽपोर्णुते यथा श्रेयस्य् आयत्य् अपोर्णुत एवं तद् उर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि प्रच्युत इतो ऽप्राप्तो ऽमुत्रादित्याः सदा आसीदेत्य् आदित्यो वै यज्ञो ऽदितिः सोमस्य योनिः स्व एवैनं योनौ दधाति वरुणं वा एनम् एतत् सन्तं मित्रम् अकस् तद् एनं स्वया देवतया व्यर्धयति यद् आह ॥
अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥
इति वरुणम् एवैनम् अकः स्वयैवैनं देवतया समर्धयति वनेषु व्य् अन्तरिक्षं ततानेति वाससा पर्याणह्यति सर्वदेवत्यं वै वासः सर्वाभिर् वा एतद् देवताभिर् यज्ञं क्रीतं परिश्रयति धूर् असि ध्वर ध्वरन्तम् इत्य् आह रक्षसां ध्वरायै रक्षसामन्तरित्यै वारुणम् असि वरुणस् त्वोत्तभ्नात्व् इति वारुणं ह्य् एष एतर्हि वरुणदेवत्यं मनसाछ यन्ति महिमानम् एवास्याछ यन्त्य् अनसा वहन्ति तस्माद् अनोवाह्यम् ओषधयः फलं पच्यन्ते शीर्षाहार्यम् ओषधयः फलं पच्येरन् यत् सोमं क्रीतं शीर्ष्णा हरेयुस् तस्माद् गिरा ओषधयः शीर्षाहार्यं फलं पच्यन्ते शीर्ष्णा हि सोमं क्रीतं हरन्ति प्रच्यवस्व भुवनस्पता इति भूतानां ह्य् एष पतिर् विश्वान्य् अभि धामानीति विश्वानि ह्य् एष धामान्य् अभि प्रच्यवते मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन्न् इति यत्र वा एनम् अद आह्रियमाणं सामिगन्धर्वो विश्वावसुर् अमुष्णात् तादृशेभ्यो वावास्मा एतद् रक्षोभ्यो भीषा स्वस्तिम् अकर् वरुणो वा एष क्रीतो यजमानस्य गृहम् ओह्यते स ईश्वरो ऽशान्तो यजमानं हिंसितोर् यद् आह नमो मित्रस्य वरुणस्य चक्षसा इति शमयत्य् एव शान्त एवोह्यते यजमानस्याहिंसायै सर्वाभ्यो वा एष देवताभ्या उह्यते यद् एकोल्मुकेन प्रतितिष्ठेत् पितृदेवत्यो ऽस्य यज्ञः स्याद् अग्निर् महत् समाधेयो ऽग्निर् वै सर्वा देवताः सर्वाभिर् वा एतद् देवताभिर् यज्ञम् आयन्तं प्रतितिष्ठत्य् अग्नीषोमौ वा एतौ सम्भवतो यजमानं वा एता अभिसम्भवेतां यजमानस्य वा पशूंस् तद् य एष पशुर् धार्यते तम् एव भागधेयम् अभिसम्भवतो देवता वा एतं पशुं धार्यमाणं नाभिप्राच्यवन्तास्मिन् यज्ञ आशंसमानाद् यो ऽयम् इतरस् तम् अग्नीषोमा उपप्राच्यवेतां तस्माद् एषो ऽग्नीषोमीयो ऽग्नीषोमाभ्यां वा एष मेधायात्मानम् आलभते यो दीक्षते स वा एतेनैव पशून् आत्मानं निष्क्रीणीते स्थूलः पीवा स्याद् आत्मनो निष्क्रीत्यै तस्माद् अग्नीषोमीयस्य पशोर् नाशितव्यं पुरुषो ह्य् एतेनात्मानं निष्क्रीणीते तस्माद् अग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यं तर्हि निष्क्रीतो ऽनृणो वार्त्रघ्नं वा एतत् सोमो वै वृत्रः पूर्वेद्युर् वा इन्द्रो वृत्रम् अहन् पूर्वेद्युर् वावैनम् एतत् सृत्वाथापरेद्युर् अभिषुणोति वरुणपाशाभ्यां वा एषो ऽभिधीयते यो दीक्षते ऽहोरात्रे वरुणपाशौ यद् दिवा संस्थापयेद् अनुन्मुक्तो वरुणपाशाभ्यां स्यान् नक्तं संस्थाप्यो वरुणपाशाभ्याम् एवोन्मुच्यत आत्मनो ऽहिंसायै
॥३.७.८॥युक्तो ऽन्यो ऽनड्वान् भवति विमुक्तो ऽन्यो ऽथातिथ्यं निर्वपति यज्ञस्य सन्तत्यै पत्न्या हस्तान् निर्वपति पत्नी वै पारीणह्यस्येशे पत्न्यैव रातम् अनुमतं क्रियते यद् वै पत्नी यज्ञे करोति तन् मिथुनं मिथुनत्वाय वै पत्न्या हस्तान् निर्वपत्य् एष वै पत्न्या यज्ञस्यान्वारम्भो यद् यज्ञे करोत्य् अन्वारम्भाय वै पत्न्या हस्तान् निर्वपत्य् अग्नेस् तनूर् असि विष्णवे त्वेति गायत्रीं तेन छन्दसा गृह्णाति सोमस्य तनूर् असि विष्णवे त्वेति त्रिष्टुभं तेनातिथेर् आतिथ्यम् असि विष्णवे त्वेति जगतीं तेनाग्नये त्वा रायस्पोषदे विष्णवे त्वेत्य् अनुष्टुभं तेन श्येनाय त्वा सोमभृते विष्णवे त्वेति गायत्री वै श्येनः सोमभृत् तां वा एतत् पुनर् आलभते ऽयातयाम्नीं पाङ्क्तत्वाय पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्धैतद् वै छन्दांस्य् अग्रहीत् तैश् छन्दोभिर् गृहीतैर् यज्ञं गृह्णाति यावन्तो वा अतिथिम् अन्वायन्त्य् अपि तेषां भागश् छन्दांसि वा एतम् अमुतो ऽन्वायन्ति तेभ्य एष भागः क्रीयते वरुणो वै यज्ञः क्रीतो विष्णुः प्रततः प्रततो वा एतर्हि यज्ञस् तस्माद् वैष्णवो नवकपालो भवति त्रिवृतं वा एतद् यज्ञमुखे व्यायातयन्ति त्रिवृता प्रयन्ति ते वै त्रयस् त्रिकपालास् त्रिकपालो वैष्णवो देवतया विष्णुं वै देवा आनयन् वामनं कृत्वा यावद् अयं त्रिर् विक्रमते तद् अस्माकम् इति स वा इदम् एवाग्रे व्यक्रमताथेदम् अथादस् तस्मात् त्रिकपालो वैष्णवः सोमस्य वा एतद् आतिथ्यं यद् आतिथ्यम् अथवा एतद् अग्नेर् आतिथ्यं यद् अग्ना अग्निं मन्थन्त्य् अथो यज्ञाय वा एतत् क्रीताय देवतां जनयन्त्य् अथो तेज एवास्मै जनयन्त्य् अथो उपसत्सु वावास्मा एतद् वीरं जनयन्त्य् आ हास्य वीरो जायते ये वै देवाः साध्या यज्ञम् अत्यमन्यन्त तेषां वा एतद् यद् अतिरिक्तं यज्ञे क्रियते ऽतिरिक्तं वा एतद् यज्ञे क्रियते यद् अग्ना अग्निं जुह्वति यच् चषालाद् उपर्यूपस्य तद् एवैनां स्पृशति संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते यत् संस्थापयेद् यज्ञमुखे यज्ञं संस्थापयेद् आतिथ्यं वा उपसदां प्रयाजास् तानूनप्त्रम् आशीस् तस्माद् इडान्तम् एव कार्यम् आतिथ्यं वा उपसदां प्रयाजास् तस्मात् ता अप्रयाजा उपसदो वा आतिथ्यस्यानुयाजास् तस्मात् तास् तिस्रस् त्रयो ह्य् अनुयाजाः शिरो वा आतिथ्यं ग्रीवा उपसदो ऽथैष इतरो यज्ञः संहितः प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववारा अस्य भ्रुवा इक्षुकाण्डे यज्ञमुखं प्रजापतिर् यज्ञमुखाद् एवाधि यज्ञमुखं प्रतनुते ऽश्वो वै मेध्यो यज्ञस् प्रजापतिः प्राजापत्यो ऽश्वस् तस्माद् आश्ववारः प्रस्तरः कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै
॥३.७.९॥पारीणह्यस्येशे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश् चतुर्धा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैस् तान् वा एतेन बृहस्पतिर् अयाजयत् तेषाम् इन्द्रो ऽभवत् तद् य एतेन यजते भवति ते वा अन्योन्यस्याभिद्रोहाद् अबिभयुस् तेषां याः प्रियास् तन्वा आसंस् ताः समवाद्यंस् ताः समवामृशन् ॥
श्रैष्ठ्ये : फ़्न् एमेन्देद्। एद्।: श्चैष्ठ्ये।
यो नस् तन् नपाद् यो नो ऽन्योन्यस्मै द्रुह्याद् इत एव सं निरृछात् ॥ इति ते यदा समवामृशंस् ततो देवा अभवन् परासुरास् तद् य एवं विद्वांसः समवमृशन्ति भवन्त्य् आत्मना परैषां भ्रातृव्या भवन्ति यं कामयेत ऋध्नुयाद् इति तं प्रथमम् अवमर्शयेद् ऋध्नोति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् सहावमर्शयेत् सर्वे ह सदृशा भवन्ति ये वै ते समवामृशन्न् अपि वा इदानीं ते ऽन्योन्यस्मै न द्रुह्यन्ति तस्मात् सतानूनप्त्रिणे न द्रोग्धवै यद् द्रुह्येत् प्रियायै तन्वै द्रुह्येत् ते वा अमुष्मिन्न् आदित्ये प्रियास् तन्वः सन्न्यदधत तस्माद् एष तेजिष्ठं तपति तस्मात् सूर्यदेवत्या हि सर्वे सोमा गृह्यन्ते ऽथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्ध आपतये त्वा गृह्णामीत्य् अग्नये तेन वसुभ्यो गृह्णाति परिपतये त्वेति सोमाय न रुतेद्रेभ्यस् तनूनप्त्रा इतीन्द्राय तेन मरुद्भ्यः शक्मने शाक्वरायेति वरुणाय तेनादित्येभ्य एतेभ्यो वै तद् देवेभ्यो ऽग्रे गृह्यते तेभ्य एवैनद् गृह्णाति चतुर् गृह्णाति चतुर्धा हि ते व्युदक्रामन्न् आपतये त्वा गृह्णामीत्य् आत्मानम् एव तेन गृह्णाति परिपतये त्वेति प्रजां तेन तनूनप्त्रा इति यज्ञं तेन शक्मने शाक्वरायेति पशूंस् तेन यो वै देवान्त् साध्यान् वेद सिध्यति ह वा अस्मै यत्र कामयेत इह मे सिध्येद् इतीमे वै लोका देवाः साध्या आत्मानम् एव दीक्षया स्पृणोति प्रजाम् अवान्तरदीक्षया सन्तराम् मेखलाम् आयछते कनीयो व्रतम् उपैत्य् अन्तरा ह्य् आत्मानं प्रजा द्विव्रतेन भवितव्यं द्वौ वा ऋतू अहश् च रात्रिश् च यद् एकव्रतः स्यात् पत्नीम् अन्तरियाद् या ते अग्ने रुद्रिया तनूर् इति व्रतं व्रतयत्य् एषा वा अस्मिन्न् एतर्हि देवता तां प्रीणाति तस्यां हुतं व्रतयति यद् एतो ऽन्यथा व्रतयेद् रुद्र एनम् अभिमानुकः स्याद् देवताभिर् वा एष सायुज्यं गछति यो दीक्षते यञ् शीताभिर् मार्जयेत शमयेयुर् अथो यथेदम् अद्भिर् अग्निर् उपसृष्ट एवं स्याद् अथ यत् तप्ताभिर् मार्जयते शान्त्यय् अथो तेजो वै मदन्तीस् तेज एवावरुन्द्धे ॥
यो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
कामयेत : फ़्न् सन्धि इस् नोत् wओर्किन्ग् हेरे।
एतो : फ़्न् म्स्स्। एद्।: यदेतो
इत्य् उपरिकाण्डे सप्तमः प्रपाठकः
॥३.७.१०॥तृतीयकाण्डे अष्टमः प्रपाठकः
तृतीयकाण्डे अष्टमः प्रपाठकः
असुराणां वा एषु लोकेषु पुर आसन्न् -
अयस्मय्य् अस्मिंल् लोके,
रजतान्तरिक्षे,
हिरिणी दिवि।
ते देवाः संस्तम्भंसंस्तम्भं पराजयन्त।
अनायतना ह्य् आसन्।
त एताः प्रतिपुरो ऽमन्वित - हविर्धानं दिव्य्, आग्नीध्रम् अन्तरिक्षे, सदः पृथिव्याम्।
ते ऽब्रुवन्न् उपसीदामोपसदा वै महापुरं जयन्तीति।
त उपासीदंस्,
तद् उपसदाम् उपसत्त्वं;
तान् एभ्यो लोकेभ्यः प्राणुदन्त।
त एभ्यो लोकेभ्यः प्रणुत्ता अहर् - अश्रयन्त यत् प्रातर् उपसदम्, उपायन्न् अह्न एनांस् तेन प्राणुदन्त ते ऽह्नः प्रणुत्ता रात्रीम् अश्रयन्त यत् सायम् उपसदम् उपायन् रात्र्या एनांस् तेन प्राणुदन्त ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् उपसदम् उपैत्य् अहोरात्राभ्याम् एव भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुदते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अथ वै तर्हि नेषुर् आसीत् ते देवा एताम् इषुं समस्कुर्वन्न् अग्निं शृङ्गं सोमं शल्यं विष्णुं कुल्मलं ते ऽब्रुवन् क इमाम् इषुम् अवस्रक्ष्यतीति ते देवा अब्रुवन्न् अयम् एव रुद्र इति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अवदन् सो ऽब्रवीन् नैवम् एकश् चनेषुम् अस्ताम् मीमांसाता इति तस्माद् एतस्येषुर् अस्ता न मीमांसितव्या ॥
सत्यंहम् ॥ इत्य् एव ब्रूयात् तां वै रुद्रो व्यसृजद् एष हि देवानां क्रूरतमस् तयेमाः पुरो ऽभिनद् अग्निना वै स तास् तेजसाभिनत् तस्माद् अग्निः प्रथम इज्यते यद् अन्यां देवतां पूर्वां यजेद् अवीर्यवतीः स्युर् अष्टौ कृत्वो जुह्वां गृह्णाति चतुर् उपभृति पूर्वार्धो हीषोः समाहिततमः सकृत् पराङ् अतिक्रामति सकृद् ध्य् एवेषुः पराच्य् अपतद् अतिक्रम्याश्रावयति यज्ञस्याभिजित्यै यद् अनतिक्रम्याश्रावयेद् अनभिजितो ऽस्य यज्ञः स्यात् स्रुवेणोपसदो जुहोति पुरां वा एष जितानाम् अन्वारोह एकाम् एकाहं जुहोत्य् एकाम् एकाहम् एकां हि त एकाहम् अजयन्न् एकाम् एकाहं तिस्र उपसदो जुहोति त्रयो वा इमे लोका एषां लोकानाम् अभिजित्यय् अग्निना वै मुखेन देवा इमांल् लोकान् अन्ववायन्न् उपसद्भिर् असुरान् पराणुद्याग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अन्ववैत्य् उपसद्भिर् भ्रातृव्यं पराणुद्य याः सायम् अनुवाक्यास् ताः प्रातर् याज्याः स्युर् याः प्रातर् अनुवाक्यास् ताः सायं याज्याः स्युस् तथोभयीर् वीर्यवतीर् भवन्ति
॥३.८.१॥अयः प्रथमायाम् अवधाय जुहोति रजतं मध्यमायां हरितम् उत्तमायाम् एतद् वै बृहस्पतिर् देवेभ्यः पूर्जयनम् अकरोद् यत्र पुरं युध्येयुस् तद् एताभिर् जुहुयात् सरा वा एषा यज्ञस्य तस्माद् यत् किञ्च प्राचीनम् अग्नीषोमीयात् तद् उपांशु चरन्त्य् अथ वा एतद् अग्नीषोमीयं प्रति वाचं विसृजन्ते यज्ञम् एवाप्त्वा वाचं विसृजन्ते घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् स्रुचौ बाहू तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते अवधिषुर् वा एतत् सोमं यद् अस्य स्रुचौ चाज्यं चान्तिकम् अभार्षुर् यद् आहांशुरंशुष् टे देव सोमाप्यायताम् इति यद् एवास्य घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तद् आप्याययति सर्व ऋत्विजा आप्याययन्ति सर्वे हि तान्तं भिषज्यन्ति यन्ति वा एते ऽस्माल् लोकाद् ये सोमम् आप्याययितुम् उदस्थुः पराञ्चो हि यन्तीश्वराः प्रमेतोर् यद् आहैष्टा राया एष्टा वामानि प्रेषे भगायेति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृता अनयोर् वा एष गर्भ आभ्याम् एष आवृश्चते यः सोमं हन्ति यद् आह नमो दिवे नमः पृथिव्या इत्य् आभ्याम् एव नमो ऽकर् आतिथ्यं वा उपसदां प्रयाजास् तानूनप्त्रम् आशीस् तस्मान् न होतारं वृणीते नार्षेयम् ॥
आह : फ़्न् आहेष्टा wइथ् फ़ोल्लोwइन्ग् एष्टा।
सीद होतः ॥ इत्य् एवाह चतुर्व्रतस् तिस्रश् चत्वारि हीषोः पर्णानि त्रिव्रतस् तिस्रस् त्रिषन्धिर् हीषुः शृङ्गं शल्यः कुल्मलं द्विव्रतस् तिस्रो द्विषन्धिर् हीषुः शल्यश् च कुल्मलं चैकव्रतस् तिस्र एका ह्य् एवेषुर् एषा वै परोवरीयसी दीक्षा कनीयो व्रतम् उपैति ज्यायांसं लोकम् अभिजयत्य् एकव्रतस् तिस्रो द्विव्रतस् तिस्रस् त्रिव्रतस् तिस्रश् चतुर्व्रतस् तिस्र एषा वा उत्क्रामन्ती स्वर्गकामस्योत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद यद् द्वादशाग्निष्टोमस्योपसदः स्युर् अशान्ता निदहेयुर् यत् तिस्रो ऽहिनस्य यथा गरीयान् भार उष्णिहां निशृणात्य् एवं तत् तत् तिस्र एवाग्निष्टोमस्योपसदः कार्या द्वादशाहिनस्य सवीर्यत्वाय
॥३.८.२॥निशृणात्य् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अभ्यर्धो वै देवेभ्यो यज्ञ आसीत् ते नाविदुर् इह वा स इह वेत्य् अस्ति यज्ञ इति त्व् अविदुस् तेन वै संसृष्टिम् ऐछंस् तं प्रैषम् ऐछन् तन् नाविन्दंस् तं वयांस्य् उपर्युपरि नात्ययतंस् तम् इन्द्र उपर्युपर्य् अत्यक्रामत् तम् अचायत् सो ऽवेद् अचिकेद् वै मेति सो ऽब्रवीत् को ऽसा इत्य् अहं दुर्गे हन्तेत्य् अथ कस् त्वम् असीत्य् अहं दुर्गाद् आहर्तेति सो ऽब्रवीद् दुर्गे वै हन्तावोचथा अयं वराह आमुख एकविंशत्याः पुरां पारे ऽश्ममयीनां तस्मिन्न् असुराणां वसु वामम् अन्तस् तं जहीति तस्येन्द्रो द्रुम्भूल्याभ्यायत्य पुरस्ताद् भित्त्वा हृदयं प्रावृश्चद् एतद् वा एषाभ्यनूक्ता ॥
अतिविद्धा विथुरेणा चिद् अस्तास् त्रिःसप्त सानु संहिता गिरीणाम् ।
न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ इति सो ऽब्रवीद् दुर्गाद् वा आहर्तावोचथा एतम् आहरेति तं वै विष्णुर् आहरद् यज्ञो वै विष्णुर् यज्ञो वै तद् यज्ञम् असुरेभ्यो ऽध्य् आहरद् यज्ञेन वै तद् यज्ञं देवा असुराणाम् अविन्दन्तैतद् वा एषाभ्यनूक्ता ॥
विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः ।
शतं महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ इति तद् वै देवा यज्ञम् अविन्दन् यद् वै तद् यज्ञम् अविन्दंस् तद् देवायजनस्य देवयजनत्वं यद् देवयजनम् इछन्ति यज्ञम् इछन्ति यद् विन्दन्ति यज्ञं विन्दन्ति यद् वाव यजमानो जोषयते तद् देवयजनं यज्ञं वावैतद् यजमानो जोषयते ऽसुराणां वा इयम् अग्र आसीद् यावन् निषद्य परापश्यंस् तद् देवानां ते देवाः सलावृकीम् अब्रुवन् यावद् इयं त्रिः समन्तं पर्येति तद् अस्माकम् इति सा वा इमां त्रिः समन्तं पर्यैत् तद् वै देवा इमाम् अविन्दन्त तद् वेद्या वेदित्वं विष्णुं वै देवा आनयन् वामनं कृत्वा यावद् अयं त्रिर् विक्रमते तद् अस्माकम् इति स वा इदम् एवाग्रे व्यक्रमताथेदम् अथादस् तद् वै देवा इह माम् अविन्दन्त तद् वेद्या वेदित्वं सर्वा वा इयं पृथिवी वेदिर् इयं मेखलम् इति त्व् एवास्या यजमानः परिगृह्णीते यावद्यावद् वै यजमानो वेद्याः कुरुते तावतात्तावत्तात् पृथिव्या जयति तस्मान् महती कार्या ज्यायसीज्यायसी देवाश् च वा असुराश् चास्पर्धन्त तद् यत् किञ्चासुराणां स्वम् आसीत् तद् देवा वेद्याविन्दन्त तद् वेद्या वेदित्वं तेषां यत् प्रियं वस्व् आसीत् तेनापाधावन्न् अनेन चिन् मुच्यामहा इति तद् देवा उत्तरवेद्याविन्दन्त तद् उत्तरं वै श्रेयो ऽविदामहीति तद् उत्तरवेद्या उत्तरवेदित्वं तद् य एवं विद्वान् वेदिं चोत्तरवेदिं च कुरुते ऽभिपूर्वम् एव सपत्नस्य भ्रातृव्यस्य वसु वेदो वृञ्जान एति
॥३.८.३॥ऽविदामहीति : फ़्न् चोर्रिगेन्द। एद्।: विदामहीति।
षट्त्रिंशत् प्रक्रमाः प्राची चतुर्विंशतिर् अग्रेण त्रिंशज् जघनेन तथा विराजा सम्मिताथो छन्दांसि वै विराट् छन्दांसि वावास्यैतद् यज्ञमुखे युनक्त्य् एतद् वा एषाभ्यनुक्ता ॥
इन्द्राणी पत्या सुजितं जिगायोदंशेन पतिविद्ये बिभेद ।
त्रिंशद् यस्या जघनं योजनान्य् उपस्था इन्द्रं स्थविरं बिभर्ति ॥ इति यद् वाव प्राचीनप्रवणं तद् देवयजनं प्राञ्चं हि तं शयानम् अविदन्न् अथ यत् प्राचीनप्रवणम् उदीचीनापनतं तद् यजेत यः कामयेतोभयोर् लोकयोर् ऋध्नुयाम् इत्य् उभयोर् वा एतल् लोकयोर् उभयोर् एव लोकयोर् ऋध्नोत्य् अथ यस्य देवयजनस्योत्तराद् अन्यद् देवयजनं तद् यजेत यः कामयेताभि मोत्तरो यज्ञो नमेद् इत्य् एतद् वा उत्तरावन् नाम देवयजनम् अभ्य् एनम् उत्तरो यज्ञो नमत्य् अथ यस्य देवयजनस्य मध्यतो बहुला ओषधयस् तत् पशुकामो यजेत पशवो वा ओषधयः पशुमान् भवति यत् समं प्रतिष्ठितं तद् गतश्रीर् यजेत प्रतिष्ठितं वा एतत् प्रतिष्ठित एष यो गतश्रीस् तद् एवैनं प्रतिष्ठापयति पापो हि स ततः प्रच्यवमानो ऽथ यस्य देवयजनस्यापः पुरस्तात् तद् यजेत यः कामयेताभि मोत्तरो यज्ञो नमेद् इत्य् एतद् वै पुरोहविर् नाम देवयजनम् अभ्य् एनम् उत्तरो यज्ञो नमत्य् अथ यस्य देवयजनस्य पन्थाः पुरस्ताद् इरिणं वा कर्तो वा भ्रातृव्यवान् यजेतैतद् वा आप्तं देवयजनं सदेवं यद् धि देवयजनाद् देवयजनम् उञ्शिंषेद् भ्रातृव्याय लोकम् उञ्शिंषेद् अथ यस्य देवयजनस्याहवनीयाद् अन्याः प्राचीर् आपो धावन्ति गार्हपत्याद् अन्याः प्रतीचीस् तद् यजेत यं तल्पे वा पात्रे वा मीमांसेरन्न् अनुषक्तो हि वा एष पाप्मनाथैतन् मीमांसन्त एतद् वै व्यावृत्तं पाप्मना पाप्मनैवैनं व्यावर्तयन्ति यद् वै यज्ञः सन्तिष्ठते प्राचीनम् अस्य समृद्धम् एति प्रतीचीनं व्यृद्धं पशवो वै यज्ञस्य समृद्धम् आपः खलु वै पशवो यत् प्रत्यङ्ङ् अवभृथम् अभ्यवेयाद् यज्ञस्य व्यृध्येन व्यृध्येताथ यत् प्राङ् अवभृथम् अभ्यवैति यज्ञस्य वा एतत् समृध्येन समृध्यते यत् त्र्युन्नतं तद् भ्रातृव्यवान् यजेत यस्याहवनीयं च हविर्धानं चान्तरोन्नतं यस्य हविर्धानं च सदश् चान्तरोन्नतं यस्य सदश् च गार्हपत्यं चान्तरोन्नतम् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ऽथ यस्य देवयजनस्य दक्षिणत उन्नतं तद् भ्रातृव्यवान् यजेतैतां वै दिशं देवा असुरान् प्रणुद्य स्वर्गं लोकम् आयन्न् अथैभ्यो ऽमुम् आदित्यं परिधिं पर्यदधुर् अपुनराभावायैतां वा एतद् दिशं यजमानो भ्रातृव्यं प्रणुद्य स्वर्गं लोकम् एत्य् अथास्मा अमुम् आदित्यं परिधिं परिदधात्य् अपुनराभावाय स्थले यजेत यः कामयेतोभयेषां देवमनुष्याणां प्रकाशं गछेयम् इति प्रकाशो वै नामैतद् देवयजनम् उभयेषां देवमनुष्याणां प्रकाशं गछत्य् अभिशस्यमानं याजयेत् परोक्षं गुहा वने परोक्षं पृष्ठान्य् अपेयुः परोक्षं वा एष यम् अभिशंसन्ति परोक्षम् एवास्माद् गुहा पापीयां वाचं करोत्य् अथ यस्य होता प्रातरनुवाकम् अनुब्रुवन्न् अग्निम् अपः सूर्यं तानि पश्येत् तद् ब्रह्मवर्चसकामो यजेत ब्रह्मवर्चसं वा अग्निर् ब्रह्मवर्चसम् आपो ब्रह्मवर्चसम् अस्मा आदित्यो ब्रह्मवर्चसम् एव सन्दधाति ब्रह्मवर्चसी भवत्य् अथ यस्य देवयजनस्यान्याअन्या मध्यतो बहुला ओषधयो ऽतो वा अङ्गिरसः पशून् असृजन्त तत् पशुकामो यजेताथ यस्य देवयजनस्य मध्यत उन्नतम् अतो वा अङ्गिरसः स्वर्गं लोकम् आयंस् तत् स्वर्गकामो यजेत निर्वस्के ऽभिचरन् यजेत यथैवैतं निर्णयत्य् एवं तं निर्णयति यम् अभिचरति यत् कार्यम् इव स्यात् तद् यजेत यः कार्य इव स्याद् आत्मा वै देवयजनं करोत्य् एवैनं ये युवान आर्षेया ऋत्विजो वह्नयस् तद् देवयजनं तस्माद् आहुर् युवैवार्त्विजीना इत्य् अग्निर् वाव देवयजनं तद् य एवं विद्वान् यत्रैव क्वचाग्निम् आधाय यजते देवयजन एव यजते
॥३.८.४॥प्रैभ्यो : फ़्न् एमेन्देद्। एद्।: प्रैभ्यौ।
यद् वा अस्या यज्ञियं मेध्यं यत् सदेवं तद् उत्क्रम्यातिष्ठद् अन्तरा देवासुरान्त् संयतान्त् सिंहीरूपम् इव भूत्वा ते ऽविदुर् यतरान् वा इयम् उपावर्त्स्यति त इदं भविष्यन्तीति तस्यां वा उभय ऐछन्त सा नान्यतरांश्चनोपावर्तत तां देवा अपाशासुर् उप ना आवर्तस्वेति साब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् साब्रवीन् माम् एव पर्वाम् अग्नेर् व्याघारयात् स यत्कामो मां व्याघारयात् तम् एव स कामम् अश्नुवद् इति तां देवाः पूर्वाम् अग्नेर् व्याघारयंस् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतां पूर्वाम् अग्नेर् व्याघारयति भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै तद् उत्क्रम्यातिष्ठद् अन्तरा देवासुरान्त् संयत्तान्त् सिंहीरुपम् इव भूत्वा सा वा उत्तरवेदिस् तप्तायनी मे ऽसीति तप्ता हि ते ताम् अविन्दन्त वित्तायनी मे ऽसीति वित्ता हि ते ताम् अविन्दन्तावतान् मा नाथितम् इति नाथितां हि सा तान् आवद् अवताद् व्यथितम् इति व्यथितां हि सा तान् आवद् एतदेतद् वा एतया देवा असुराणाम् अविन्दन्तैतदेतद् एवैतया यजमानो भ्रातृव्यस्य वृङ्क्ते ऽग्ने अङ्गिरो यो ऽस्यां पृथिव्याम् अध्यसीति य एवैषु त्रिषु लोकेष्व् अग्नयस् तान् एवावरुन्द्धे विदेर् अग्ने नभो नाम यत्ता इति नभो हि नाम सो ऽग्निर् आसीद् जानुदघ्नं खेयमेतावती वा अस्याः पृथिव्या जीवं यज्ञियं तद् एवावरुन्द्धे सिंहीर् असि महिषीर् असीति सिंहीरूपम् इव हि तन् महिषीरूपम् इव भूत्वातिष्ठद् देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेति देवेभ्य एवैनां शुन्धन्ति देवेभ्यः शुम्भन्ति निःसारयति यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तन् निःसारयतीन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्त्व् इत्य् एतद्देवत्या वा इमा दिशो यथादेवतम् एवैनां प्रौक्षीद् अतो वै देवा असुरान् मनसा विनुद्य स्वर्गं लोकम् आयंस् त एता देवता अन्ततो ऽदधतासुराणाम् अनन्वग्भावायातो वा एतद् यजमानो भ्रातृव्यं मनसा विनुद्य स्वर्गं लोकम् एति स एता देवता अन्ततो धत्ते भ्रातृव्यस्यानन्वग्भावाय ते ऽकामयन्त सपत्नं भ्रातृव्यं सहेमहीति सिंहीर् असि सपत्नसाही स्वाहेति तम् एव तेन कामम् आशुनुवत सपत्नं भ्रातृव्यं साढ्वा ते ऽकामयन्त पशवो नः स्युर् इति सिंहीर् असि रायस्पोषवनिः स्वाहेति तम् एव तेन कामम् आश्नुवत सपत्नं भ्रातृव्यं साढ्वा पशून् भित्त्वा ते ऽकामयन्त प्रजानः स्याद् इति सिंहीर् असि सुप्रजावनिः स्वाहेति तम् एव तेन कामम् आश्नुवत सिंहीर् अस्य् आदित्यवनिः सजातवनिः स्वाहेत्य् आदित्याभिर् हि सा प्रजाभिः सह ते ऽकामयन्त देवा नो यज्ञं विद्युर् इति सिंहीर् अस्य् आवह देवान् देवायते यजमानाय स्वाहेति तम् एव तेन कामम् आश्नुवत भूतेभ्यस् त्वेत्य् उद्दिशति देवा ह्य् एव भूता यत्र वा अदो ऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भूतेष्व् अवसद् यां पशुष्व् अवसत् ताम् अनाछिन्नस्तुकस्यान्तराशृङ्गम् अवसद् यां वनस्पतिषु पूतुद्रौ याम् ओषधीषु तां सुगन्धितेजने यत् सम्भारान्त् सम्भरति यद् एवात्राग्नेर् न्यक्तं तत् सम्भरति यानि वा अदो ऽग्निर् अस्थान्य् अधूनुत स पूतुद्रुर् अभवद् यन् मांसं तद् गुग्गुलु यत् पूयितम् उपश्लिष्टं स सुगन्धितेजनो यद् एते सम्भारा भवन्ति यद् एवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै विश्वायुर् असि पृथिवीं दृंहेत्य् एषां ह्य् एते लोकानां विधृत्यै परिधीयन्ते ध्रुवक्षितिर् अस्य् अन्तरिक्षं दृंहेत्य् अन्तरिक्षं हि यज्ञो ऽच्युतक्षिद् असि दिवं दृंहेति दिवम् एवैनम् अजीगमद् अग्नेर् भस्मास्य् अग्नेः पुरीषम् असीत्य् अग्नेर् ह्य् एतद् भस्माग्नेः पुरीषं देवपात्रं वा उत्तरवेदि देवेभ्यो देवपात्रं प्रोच्यं वैभ्राजा देवा यद् आह विभ्राड् बृहत् पिबतु सोम्यं मध्व् इति देवेभ्यो वा एतद् देवपात्रं प्राह प्र वसीयसः पात्रम् आप्नोति ब्राह्मणं तु पात्रे न मीमांसेत यः पात्रिय इव स्यात्
॥३.८.५॥भीषापाक्रामत् : फ़्न् एमेन्देद्। एद्।: होत्रादिषापाक्रामत्।
एतावती वा इयं पृथिवी यावती वेदिर् अपरिमिताद् वा एतद् भ्रातृव्यं निर्भज्य यजमानाय परिगृह्णात्य् ऋक्षं वा अमेध्यम् आपो हविर् यत् प्रोक्षति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् बर्हिः स्तृणाति मेध्याम् एवैनां करोत्य् एतावती वा इयं पृथिवी यावती वेदिः प्रजा बर्हिर् यद् बर्हिः स्तृणात्य् अस्यां वा एतत् प्रजाः प्रतिष्ठापयति यजमानो वै प्रस्तरः प्रजा बर्हिर् यत् प्रस्तरम् उत्तरं बर्हिषः सादयति यजमानं वा एतद् उपरिष्टाद् आसां प्रजानां दधात्य् अथ यत् तृणे अन्तर्दधाति तेन यजमानो यजमानेन व्यावर्तते बहुलं बर्हिः स्तृणात्य् अक्षोधुका अस्य पशवो भवन्ति प्राचीनं बर्हिः स्तृणाति प्राङ् हि यज्ञो यत् प्रतीचीनं स्तृणीयात् प्रत्यादाज्यास्य राष्ट्रं घातुकं स्याद् देवेषुर् वै वेदिर् यत्र वै देवेष्वा सन्नतया कामयते तद् धन्ति यद् वेदिं कल्पयति देवेषुं वा एतत् सन्नमति तया सन्नतया यत्र यजमानः कामयते तद् धन्ति त्रयो वै पूर्वे ऽग्नयः प्राधन्वन् हव्यं देवेभ्यो वहन्तो वषट्कारः प्रावृश्चद् अथ यो ऽयम् इदानीं स भीषापाद्रवद् ईदृग् उ स आरिष्यतीति तं देवा अपाशासुर् उप ना आवर्तस्वेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् त्रयो वै मे पूर्वे भ्रातरः प्राधन्वन् हव्यं देवेभ्यो वहन्तो वषट्कारः प्रावृश्चत् तेषां भागो ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् यद् एव किञ्चाहुतं बहिष्परिधि स्कन्देत् तद् एव तेषां भागधेयम् असद् इति तेषां वा एतद् भागधेयम् अस्थन्वन्तो हि वै त आसन्न् अथ ते प्राधन्वन् सो ऽब्रवीद् अस्थानि नु धविष्ये ऽथोपावर्त्स्यामीति ते वा अन्वायंस् ते समन्तं पर्यविशन् यज्ञस्य गोपीथायायं वाव यज्ञायोपधीयते ऽयं यजमानायायं भ्रातृव्यायेमौ प्रतरं करोतीमम् अपतरं यज्ञेन वा एतद् यजमानं प्रतरं करोति यज्ञेनास्य भ्रातृव्यम् अपतरं करोति सन्धिं प्रतिजुहोति न ह्य् अग्निम् आहुतिस् तरति मुखत एवैनान् प्रीणात्य् अथो सुतीर्थेन वा एतद् आहुतीस् तारयत्य् अयं वाव भूपतिर् अयं भुवनपतिर् अयं भूतानां पतिर् अथ यो ऽयम् इदानीं स भूतिर् यद् आहुतं बहिष्परिधि स्कन्देत् तद् अभिमन्त्रयेत ॥
करोति : फ़्न् एमेन्देद्। एद्।: करोति
भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा ॥ इति भागधेयं वावैषाम् एतत् प्रीणात्य् एवैनान् अथो हविषा वा एतत् स्कन्नेन द्वितीयाम् आशिषम् अवरुन्द्ध एतद् ध स्म वा आहारुण औपवेशिः किम् उ स यज्ञेन यजेत यो हविषा स्कन्नेन द्वितीयाम् आशिषम् अवरुन्धं न विद्याद् इति तद् द्वितीयाम् एवैतेनाशिषम् अवरुन्द्धे
॥३.८.६॥ये पुरा ग्रन्थयो भवन्ति तान् विस्रंसयन्ति मानुषस्य व्यावृत्त्यै प्रणेनिजति यद् एवैनयोर् अभिनिषण्णं शमलम् अमेध्यं तञ् शुन्धन्ति युञ्जते मन उत युञ्जते धिया इति जुहोति युक्त्या एव सावित्र्या जुहोति सवितृप्रसूते एव प्रवर्तेते हविर् वै हविर्धाने यद् उपानक्ति हविर्भूत एव प्रवर्तेते अथो अभिवृत्ते एव पत्न्य् उपानक्ति यद् वै पत्नी यज्ञे करोति तन् मिथुनं मिथुनत्वाय वै पत्न्य् उपानक्त्य् एष वै पत्न्या यज्ञस्यान्वारम्भो यद् यज्ञे करोत्य् अन्वारम्भाय वै पत्न्य् उपानक्ति प्राचीनम् उपानक्ति प्राङ् हि यज्ञस् त्रिर् अन्यत् त्रिर् अन्यद् उपानक्त्य् अपरिमितं हि मनुष्या उपाञ्जन्ति दक्षिणत उपानक्त्य् उदीची ह्य् एते मनुष्यलोकम् उपावर्तेते निरृतिगृहीतो वा एष उभयतः सन्दष्टः शुष्को यद् उपानक्ति शमयत्य् एव शुष्को वा एष दुर्वाग् यजमानस्य गृहम् आवदति स ईश्वरो ऽशान्तो यजमानं हिंसितोस् तद् अनुगृह्णन्तो यन्ति यद्य् उत्क्ष्वेदेत् सुवाग् आवद देव दुर्यान् इति वदेच् छमयत्य् एवाथो शमयित्वैवाशिषम् आशास्ते हविर् वै हविर्धाने स्तीर्त्वा वै बर्हिर् हविर् आसादयन्ति तस्मात् प्रस्तरं स्तीर्त्वा प्रवर्तयन्ति हविर् वै हविर्धाने अनूच्यमानासु वै सामिधेनीषु हविर् आसादयन्ति तस्मात् प्रवर्त्यमानयोर् होतान्वाहेमे वा एते इमे वा एतत् प्रवर्तयन्ति यद् धविर्धाने तस्मात् पूर्वस्या जनताता अपरा जनता क्षेत्रम् अभ्यारोहुका ते यर्हि प्रवर्तयेयुस् तर्हि होतानुब्रुवन् मनसा पदा तां जनतां प्रतिनुदेद् अप जन्यं भयं नुदेति विड् वा एषा विशं वा एतत् प्रतिनुदते ऽनभ्यवचारुकास्य विट् क्षेत्रं भवति नीयानं वै रक्षांसि यज्ञम् अवयन्ति यद् वर्त्मनि जुहोति रक्षसाम् अपहत्यै वैष्णव्या जुहोति विष्णुर् वै यज्ञो विष्णुनैव यज्ञेन यज्ञाद् रक्षांस्य् अपहन्ति यद् गायत्र्या जुहोतीमां तेनाक्रमते यत् त्रिष्टुभान्तरिक्षं तेनाथ यद् आहवनीयं गछतः स्वर्गं तेन लोकं त्रीन् प्रक्रमान् प्रतिविक्रमते त्रयो वा इमे लोका इमान् एव लोकान् यजमानायोञ्शिंषति वैष्णवम् असि विष्णुस् त्वोत्तभ्नात्व् इति वैष्णवं हि हविर्धानं दिवो विष्ण उत वा पृथिव्या इति दक्षिणस्य हविर्धानस्य मेथीन् निहन्ति मुखत एव यज्ञस्याशिषम् अवरुन्द्धे यम् अध्वर्युः प्रथमं ग्रन्थिं ग्रथ्नाति तं प्रथमं विस्रंसयति यद् अन्यं पूर्वं विस्रंसयेद् अमेहेन प्रमीयेत विष्णोर् नु कं वीर्याणि प्रवोचम् इत्य् उत्तरस्य हविर्धानस्य मेथीन् निहन्ति वैष्णव्या वैष्णवं हि हविर्धानं स्वयैव देवतया यो अस्कभायद् उत्तरं सधस्थम् इत्य् अदो वा उत्तरं सधस्थम् अमुष्मिन्न् एव हविर्धानं सम्मिनोति ॥
आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः ।
इहाद्य सोमपीतये ॥ इति य एव देवा यज्ञियास् तान् हविर्धाना आसादयति तां श्वो भूते ऽभियजते दण्डो वा एतद् औपरो वषट्कारेण निरहन् यच् छदिर् अभिनिदधात्य् अपिहित्या अछिद्रत्वाय विष्णोः पृष्ठम् असीत्य् अद एव विष्णो रराटम् असीत्य् अद एव विष्णोः शिप्रे स्था इतीमे एव मुखतो वा एतत् स्वया देवतया शिरो यज्ञस्य सम्भरति विष्णोः स्यूर् असीति तस्माद् इदं शिरः षोढाविष्कृतं प्र तद् विष्णुः स्तवते वीर्येणेति प्राङ् उक्त्रम्य वदत्य् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते
॥३.८.७॥देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनाम् आदत्ते ऽश्विनोर् बाहुभ्याम् इत्य् अश्विनौ वै देवानाम् अध्वर्युः पूष्णो हस्ताभ्याम् इति देवताभिर् एवाभ्रिर् असि नारिर् असीति क्रूरम् इव वा एतद् यद् अभ्रिः शमयत्य् एवेदम् अहं रक्षसो ग्रीवा अपिकृन्तामीत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यईदम् अहं सोमे समानो यो ऽसमानो ऽरातीयति तस्य ग्रीवा अपिकृन्तामीति समानो वा ह्य् असमानो वारातीयति सर्वम् एवैतया पर्यापत् प्राणा वा उपरवाः शिरो हविर्धानं शीर्षन् वा इमे प्राणास् तस्माद् धविर्धाने ऽन्तर् वा इमे शीर्षन् प्राणास् तस्माद् अन्तश् चत्वारो वा इमे शीर्षन् प्राणास् तस्माच् चत्वारः सन्तृण्णाः परः सन्तृण्णा हि परः प्राणा विधृता उपरिष्टाद् विधृता हीम उपरिष्टात् प्राणाः पूर्वार्धे वा इमे मुखस्य प्राणा एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं तस्माद् दक्षिणे हविर्धाने बृहन्न् असि बृहद्राया इति देवा ह्य् एव बृहद् बृहतीम् इन्द्राय वाचं वदेत्य् ऐन्द्रो हि यज्ञो रक्षोहणं वलगहनम् इत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यै वैष्णवीम् इति विष्णुर् हि यज्ञो ऽसुरा वा एतान् वलगान् देवेभ्यः प्राणेषु न्यखनंस् तान् बाहुमात्रे ऽन्वविन्दंस् तस्माद् बाहुमात्रं खेयं यद् वाव कृत्या यञ् शफं यद् अभिचरितं तद् एतद् उद्वपति प्राणा वा उपरवास् यद् अवसिञ्चति तस्माद् इम उदन्वन्तः प्राणाः प्राणा वा उपरवा यद् अवस्तृणाति तस्माद् इमे लोमशाः प्राणा अथ यद् अवसिञ्चत्य् अव च स्तृणाति मस्तिष्को वा एष क्रियते हनू अधिषवणे शिरो हविर्धानं शीर्षन् वा इमे हनू तस्माद् धविर्धाने ऽन्तर् वा इमे शीर्षन् हनू तस्माद् अन्तर् इमे वा एते यत् सन्तृन्द्याद् इमे एव सन्तृन्द्यात् तत् सम्पाद्ये एव द्व्यङ्गुलम् अन्तरा कार्यं द्व्यङ्गुलं हीदम् अन्तरा वै नाकेव शिरो हविर्धानं पृष्ठम् आग्नीध्रम् उदरं सदः प्राङ् हि यज्ञः संहितो हनू अधिषवणे जिह्वाधिषवणं ग्रावाणो दन्ता मुखतो वा एतत् प्रजापतेः सोमं पिबन्तीन्द्रो वै वृत्रम् अहन् स इमां प्राविशत् तं देवताः प्रैषम् ऐछंस् तन् नाविदंस् तं भूतान्य् उपारवन्त यो नो ऽधिपतिर् अभूत् तन् न विन्दामा इति तद् उपरवाणाम् उपरवत्वं यत् तद् उपारवन्त तच् चतुर्धावस्ताद् एवैछन्न् एकधा परो ऽन्वविन्दंस् तस्माच् चतुर्धावस्ताद् एकधा परो यद् उपरवान् अनुमृशतीन्द्रियस्यावरुद्ध्यै
॥३.८.८॥वा : फ़्न् एमेन्देद्। एद्।: वा।
पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति प्रोक्षत्य् एषा ह्य् एषां लोकानां विधृत्यै मीयते त्रिः प्रोक्षति त्रिषत्या हि देवा अथो त्रयो वा इमे लोका एभ्य एवैनां लोकेभ्यः प्रौक्षीद् अन्नं वै यवा ऊर्ग् उदुम्बरो यद् यवमतीभिः प्रोक्षत्य् ऊर्जा वा एतद् अन्नं समर्धयत्य् ऋक्षं वा अमेध्यम् आपो हविर् यद् अवसिञ्चति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् अवस्तृणाति मेध्यम् एवैनत् करोति पितृदेवत्यं वै निखातम् अमेध्यम् अन्यदेवत्यम् अस्याः खलु वा इमा उत्तमार्ध ओषधयो यद् अवस्तृणात्य् अस्या एवैनाम् उत्तमार्धे मिनोत्य् अनिखातैवाभूद् अन्नं वै यवा ऊर्ग् उदुम्बरो यद् यवम् अवास्यत्य् अन्ने वा एतद् ऊर्जं दधाति न ह्य् अन्नम् ऋत ऊर्जो धिनोति नो ह्य् ऊर्ग् ऋते ऽन्नाद् धिनोति नितानस् त्वा मारुतो निहन्त्व् इति मनो वै नितानः प्राणा मारुता मित्रावरुणौ ध्रुवेण धर्मणेति मित्रम् एवैनां दाधार वरुणः कल्पयति विधृत्यै च खलु वा एषां प्रजानां कॢप्त्यै च मीयते मित्रावरुणौ वै देवानां धर्मधारयौ दैवं वा एतद् धर्मम् अदीधरतां यद् औदुम्बरी ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीत्य् आशीर् एवैषा ब्रह्म दृम्ह क्षत्रं दृंहेत्य् आशिष एवैष परिग्रहो घृतेन द्यावापृथिवी आपृणेति घृतेनैव द्यावापृथिवी व्युनत्त्य् उदरं वै सद ऊर्ग् उदुम्बरो यद् औदुम्बर्य् ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च प्रजापतेर् वा एतद् उदरं यत् सदः प्राजापत्य उद्गाता तस्माद् उद्गातान्वारभते यजमानो वा औदुम्बरी वर्षिष्ठा कार्या वर्ष्मैनं समानानां गमयति विश्वजनस्य छायासीति छदिर् अभिनिदधाति गोत्राद्गोत्राद् धि प्रसर्पन्त्य् उदरं वै सदो यद् अन्येनान्येन सम्मिनोति तस्माद् उदरम् अन्येनान्येनामेन सन्तत उदरं वै सदो यद् अनूचीनं मिनुयात् पराचीनं जग्धम् अतीयाद् अथ यत् तिरश्चीनं मिनोति तस्माज् जग्धं सर्वाण्य् अङ्गान्य् अनुवेति प्रजा वा एतत् समीचीनं मिनोति समीचीर् एनं प्रजा अभिसमावर्तते संयात इव स भवति समानं साङ्काशिनं कार्यं समाना हीमे प्राणा यं द्विष्यात् तस्याक्ष्णया मिनुयात् प्राणान् अस्य मोहयति प्रमायुको भवति यदि कामयेत वर्षेत् पर्जन्या इति नीचैः सदो मिनुयाद् वृष्टिम् एव नियछति यदि कामयेत न वर्षेत् पर्जन्या इत्य् उच्चैः सदो मिनुयाद् वृष्टिम् एवापाग्रहीन् नवछदिर् अग्निष्टोमे स्यात् तेजसा त्रिवृता सम्मितं पञ्चदशछदिर् उक्थ्ये पञ्चदशेन वज्रेण सम्मितं सप्तदशछदिर् अतिरात्रे सप्तदशो वै प्रजापतिः प्राजापत्या रात्रिर् आनुष्टुभी यज्ञक्रतूनाम् एवैषा व्यावृत्तिः प्राचीनवंशं हविर्धानं मिनोत्य् ऊर्ध्वा हि द्यौः प्राचीनवंशम् आग्नीध्रम् ऊर्ध्वं ह्य् अन्तरिक्षं तिरश्चीनवंशं सदस् तिरश्ची हीयं यजुषा हविर्धानं मिनोति निरुक्ता हि द्यौर् यजुषा सदो निरुक्ता हीयम् अयजुषाग्नीध्रम् अनिरुक्तम् इव ह्य् अन्तरिक्षम् अर्धम् आग्नीध्रस्यान्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अर्धं ह्य् अन्तरिक्षस्यास्मिंल् लोके ऽर्धम् अमुष्मिन्
॥३.८.९॥धर्मम् : फ़्न् एमेन्देद्। एद्।: धमम्।
अभिनिदधाति : फ़्न् एमेन्देद्। एद्।: आभनिदधाति।
स : फ़्न् एमेन्देद्। एद्।: स।
सुवाङ् नभ्राड् अङ्घारे बम्भारा इत्य् एते वै देवानां सोमरक्षय एतेभ्यो वा अधि छन्दांसि सोमम् आहरंस् ते सोमपीथेन व्यार्ध्यत त एतानि द्वितीयानि नामान्य् अधत्त मङ्गलेछायै सोमपीथो ना उपनमाद् इति तस्माद् एते द्विनामनस् ते वा अन्वायंस् ते न प्राप्नुवंस् तस्माद् एते ऽतिहाय वषट् क्रियन्ते न हि प्राप्नुवंस् तेषां वा एष लोको यावद् अभि न्युप्यते तद् यो ऽविद्वान् आक्रामत्य् आर्त्तिम् आर्छत्य् अथ य एवं विद्वान् आक्रामति न सदस्याम् आर्त्तिम् आर्छति तेषां वा एष भागो यद् व्याघार्यन्ते त एवास्मै तेनाभीष्टाः प्रीता भवन्ति यज्ञमुखं वै पवमानो यत् पवमाने स्तुते ऽग्नयो विह्रियन्ते यज्ञमुखाद् एवाधिविह्रियन्ते जम्भो वै नामासुर आसीत् स यज्ञम् अगिरत् स आग्नीध्रं न प्राप्नोत् तम् आग्नीध्रात् पुनर् व्यरुजद् एतद् वै जीवं तस्माद् आग्नीध्राद् विह्रियन्ते दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चा आग्नीध्रं समातिष्ठंस् तम् आग्नीध्रात् पुनर् अभ्यजयन्न् एतद् वा अनभिजितं तस्माद् आग्नीध्राद् विह्रियन्त एतत् प्रति वै देवान् असुरा यज्ञम् अजयंस् त आग्नीध्राद् अधि बहिष्पवमानेन यज्ञम् अभिजित्याग्नीन् आधाय बर्हिर् अस्तृणत पराजिज्ञाना वा एतत् सर्पन्ति यद् बहिष्पवमानं स्तोष्यन्तः सर्पन्ति यद् बहिष्पवमाने स्तुत आह ॥
मङ्गलेछायै : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अग्नीद् अग्नीन् विहर बर्हिः स्तृणाहि ॥ इत्य् आग्नीध्राद् वा एतद् अधि बहिष्पवमानेन यज्ञम् अभिजित्याग्नीन् आधाय बर्हिः स्तृणते ऽत्र वा एतर्हि यज्ञो यत्रास्तुतं स्तोत्रं यत्रैव यज्ञस् तद् अभिपर्यावृत्य जुहोति शुक्रवती वै पूर्वे सवने अशुक्रं तृतीयं सवनं यज् ज्योतिष्मतीस् तृतीयसवने व्याघारयन्ति तेन तृतीयसवनं शुक्रवत् संवत्सरो वा अग्निष्टोमस् तस्य वा एतास् तन्वो यद् धिष्ण्यास् ता वा अस्यैतत् समुद्धर्षयित्वा ज्योतिष्मतीः कृत्वाथाग्निष्टोमेन स्तुवते संवत्सरो वा अग्निष्टोमो द्वादश मासाः संवत्सरो यत् प्राचीर् आहुतयो हूयन्ते प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते संवत्सरस्य विधृत्यय् उभयतो वै देवान् असुराः परीयत्ता आसन् पुरस्ताद् अन्ये पश्चाद् अन्ये यत् प्राचीर् आहुतयो हूयन्ते ये पुरस्ताद् आसंस् तांस् तेनापानुदन्त यत् प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते ये पश्चाद् आसंस् तांस् तेनापानुदन्त तद् भ्रातृव्यस्य वा एष विनोदो ऽध्वर्युणा वै यज्ञो विधृत इदम् इव वा एतद् यज्ञस्य यद् धिष्ण्या यद् अध्वर्युः प्रत्यङ् धिष्ण्यान् अतीयात् प्राणात् सङ्कर्षेत प्रमायुकः स्याद् यद्य् अतीयाद् यज्ञपरुष्य् अतीयाद् ऐन्द्रीम् अनुब्रूयाद् ऐन्द्रं हि सदः स्वयैवैनद् देवतयोपचरत्य् आत्मनो ऽहिंसायै प्राचीनं वै धिष्ण्येभ्यो ऽध्वर्योर् लोको यद् अध्वर्युः प्रत्यङ् धिष्ण्यान् अतीयाद् अन्यजनतास्य क्षेत्रम् अभ्यारोहुका स्यान् न्य् अन्य उप्यन्ते नान्ये तद् एषां मिथुनं प्रजायति निरुक्ता अन्ये ऽनिरुक्ता अन्ये ये निरुक्तास् ते ऽस्मै लोकाय ये ऽनिरुक्तास् ते ऽमुष्मै क्षयाय यथा वा इदं मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्या एवं वा एते न्युप्यन्ते यज्ञस्य विधृत्यै यत् प्राचीनं धिष्ण्येभ्यस् तद् देवानां यत् प्रतीचीनं तन् मनुष्याणां तस्मात् सोमं पिबते प्राञ्चो धिष्ण्या नातिसृपे जनं ह्य् एति देवलोकम् अभ्यारोहति चात्वालाद् विह्रियन्त एष वा अग्नीनां योनिः स्वाद् एव योनेर् विह्रियन्ते ऽस्कन्नत्वाय तेषां वा एतद् अभ्यवायनं चोदयनं च यद् अन्तरा चात्वालं चाग्नीध्रं चैतद् वै यज्ञस्य तीर्थं तस्माद् एतेन सञ्चरति तेन यो ऽविद्वान्त् सञ्चरत्य् आर्तिम् आर्छत्य् अथ य एवं विद्वान्त् सञ्चरति न सदस्याम् आर्तिम् आर्छति ॥
स्तृणाहि : फ़्न् एमेन्देद्। एद्।: स्तृणाति। त्स्।६।३।१।२: स्तृणाहि, श्ब्।४।२।५।११: स्तृणीहि
इत्य् उपरिकाण्डे असुराणां नाम अष्टमः प्रपाठकः समाप्तः
॥३.८.१०॥तृतीयकाण्डे नवमः प्रपाठकः
तृतीयकाण्डे नवमः प्रपाठकः
यज्ञो वा एष सङ्क्रामन्न् एति प्रायणीयाद् अध्य् आतिथ्यम् आतिथ्याद् अध्य् उपसदः स उपसद्भ्यो ऽधि प्राङ् प्रणीयते यद् अगृहीत्वाज्यानि प्रणयेयुर् अपघ्नीत यजमानम् अथ यद् गृहीत्वाज्यानि प्रणयन्ति यज्ञं वा एतद् यजमानो ऽन्वारभते प्राञ्चः सोमेन प्रयन्ति प्राची पत्नी पूर्वम् अग्निम् अभ्युदैति सोमेन वा एतद् राज्ञाभिजयन्तो यन्ति यस्य वै मनुष्यराजो गृहम् आगछति तस्य वै तर्हि तद् ऐश्वर्ये यदा वै स ततः प्लायते ऽथ तेषां तत् पुनर् भवति तस्माद् आहुर् अपिव्रता इत्य् अपि ह्य् एषां तस्मिन् व्रतं सोमो वा एतद् राजा गृहं प्राप तस्य वै तर्हि तद् ऐश्वर्ये यदा वै स ततः प्रच्यवते ऽथ स तत् तेभ्यो विसृजते तद् वैसर्जनानां वैसर्जनत्वं त्वं सोम तनुकृद्भ्या इति यद् एव तनुकृतं चान्यकृतं चैनस् तद् एतेनावयजति द्वाभ्यां गार्हपत्ये जुहोति द्विपाद् यजमानः प्रतिष्ठित्यय् आग्नेय्याग्नीध्रे ऽन्तरिक्षम् एव प्राप्यान्यद् एव रूपम् अकर् वैष्णव्या हविर्धाने ऽद एव प्राप्य विष्णुर् वै यज्ञो विष्णुम् एव यज्ञम् अकर् असुरा वा एतं देवानाम् आदित्सन्त तं देवा अप्तुं कृत्वामुं लोकम् अहरन् यद् अप्तुमत्या जुहोत्य् अप्तुम् एवैनं कृत्वामुं लोकं हरन्ति सर्वेभ्यो वा एष भूतेभ्या आह्रियते यत् सौम्या जुहोति मनुष्येभ्यस् तेनाह्रियते यद् अप्तुमत्या पितृभ्यस् तेन यद् आग्नेय्या देवेभ्यस् तेन यद् वैष्णव्या यज्ञाय तेन सर्वा वा एतत् प्रजा वरुणो गृह्णाति यत् सौम्या जुहोति मनुष्यांस् तेन वरुणान् मुञ्चति यद् अप्तुमत्या पितॄंस् तेन यद् आग्नेय्या देवांस् तेन यद् वैष्णव्या यज्ञं तेन सर्वा वा एतत् प्रजा वरुणान् मुञ्चत्य् अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजनयन् गार्हपत्येनेमं लोकम् आग्नीध्रेणान्तरिक्षम् आहवनीयेनामुं लोकं तस्मात् त्रेधा अग्नया आधीयन्त एषां लोकानाम् अभिजित्यईन्द्राग्नी वा अपरा अग्नी अग्निर् अपर इन्द्रः पूर्वः प्रजापतिर् आहवनीयस् तस्माद् एष उपोप्ते साद्यत उत्तरो हि पिता पुत्राद् उत्तरो भ्रातृव्याद् भवति य एवं वेदाग्रेण प्रणयेद् गतश्रीः श्रिय एव परिगृहीत्यै सौम्यो वै ब्राह्मणो देवतया स्वयैव देवतया प्रजा वै पशवो ऽंशवो रुद्र आहवनीयो यद् अग्रेण प्रणयेद् रुद्रायास्य पशून् अपिदध्यात् पश्चाद् एव प्राङ् प्रणीयः पशूनां गोपीथायोर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि प्रच्युत इतो ऽप्राप्तो ऽमुत्रादित्याः सदा आसीदेत्य् आदित्यो वै यज्ञो ऽदितिः सोमस्य योनिः स्व एवैनं योनौ दधाति देव सवितर् एष ते सोमा इति मनुष्येषु वा एष पुराभूद् देवेभ्य एवैनं सम्प्रादाद् एतत् त्वं देव सोम देवान् उपावृता इति देवो ह्य् एष देवान् उपावर्तत इदम् अहं मनुष्यान्त् सह रायस्पोषेण प्रजया चोपावर्तता इत्य् आशिषम् एवाशास्ते नमो देवेभ्यः स्वधा पितृभ्या इति नमस्कारो देवानां स्वधाकारः पितृणां निर् वरुणस्य पाशाद् अमुक्षीति वरुणपाशाद् एव निर्मुच्यत आत्मनो ऽहिंसायै स्वर् अभिव्यक्शम् इति यज्ञो वै स्वर् यज्ञम् एवाभिविपश्यति ज्योतिर् वैश्वानरम् इत्य् असौ वा आदित्यो ज्योतिर् वैश्वानरम् अग्निना वा एष तन्वं विपरिधत्ते यो दीक्षते ऽग्नी रुद्रो यद् अग्निना पुनर् यथायथं तन्वं न विपरिदधीत रुद्र एनम् अभिमानुकः स्याद् यद् आहाग्ने व्रतपते या तव तनूर् मय्य् अभूद् एषा सा त्वय्य् अग्ने व्रतपते या मम तनूस् त्वय्य् अभूद् इयं सा मयीत्य् अग्निना वा एतत् पुनर् यथायथं तन्वं विपरिधत्त आत्मनो ऽहिंसायै
॥३.९.१॥गार्हपत्येनेमं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
न यूपम् अछैष्यता होतव्यं न हि दीक्षितस्याग्नौ जुह्वति वैष्णवीम् अनूच्याछेत्यो वैष्णवो हि यूपस् तद् आहुर् होतव्यम् एव परुष्य् एव जुहोत्य् आयतना इति तन् न सूर्क्ष्यं यूपस्यैवान्ते ऽग्निं मथित्वाथ होतव्यं तत् स्विद् उभयम् अकर् जुहोत्य् आह न दीक्षितस्याग्नौ जुहोत्य् अत्य् अन्यान् अगां नान्यान् उपागाम् इत्य् अती ह्य् अन्यान् एति नान्यान् उपैत्य् अर्वाक् त्वा परेभ्यः परो ऽवरेभ्यो ऽविदम् इत्य् अर्वाग् घ्य् एनं परेभ्यः परो ऽवरेभ्यो विन्दति तं त्वा जुषामहे देवयज्याया इत्य् एतं ह्य् एष जुषते जुष्टं विष्णवा इति यज्ञायैवैनं जुष्टं विष्णवे ऽकर् विष्णवे त्वेति पर्यनक्ति हविर्भूतम् एवैनं वृश्चत्य् अथो अभिघृतम् एव य इत्थं वेत्थं वा हुर्णो मेधात् सो ऽपावृत्तो य ऋजुर् ऊर्ध्वशल्कः स वाव मेधम् उपस्थितो य ऋजुर् उपरिष्टाद् उपावनतो यो ऽधिशाख्यो योनिः स यो वा अस्या अधिजायते स योनिमान् इयं हि वनस्पतीनां योनिः परुषि व्रश्च्यो यद् अपरुषि वृश्चेद् यथा परुष्य् अवकृत्तम् एवं स्याद् अनक्षमङ्गं स्थाणुर् उञ्शिष्यो यद् अक्षसङ्गं स्थाणुम् उञ्शिंषेद् वज्रो भूत्वा यजमानस्य पशून् प्रतिहन्यात् पञ्चारत्निः कार्यः पङ्क्त्या सम्मितः षडरत्निः कार्या ऋतुभिः सम्मितः सप्तारत्निः कार्यः सप्तपदया शक्वर्या सम्मितो ऽष्टारत्निः कार्यो गायत्र्या सम्मितो नवारत्निः कार्यस् तेजसा त्रिवृता सम्मितो दशारत्निः कार्यो विराजा सम्मित एकादशारत्निः कार्यः त्रिष्टुभा सम्मितो द्वादशारत्निः कार्यो जगत्या सम्मितस् त्रयोदशारत्निः कार्यस् त्रयोदशेन प्रजापतिना सम्मितः पञ्चदशारत्निः कार्यः पञ्चदशेन वज्रेण सम्मितः सप्तदशारत्निः कार्यः सप्तदशेन प्रजापतिना सम्मित एकविंशत्यरत्निः कार्य एकविंशेन सम्मितस् त्रयोविंशत्यरत्निः कार्यस् त्रयोविंशेन सम्मितः पञ्चविंशत्यरत्निः कार्यः पञ्चविंशेन सम्मितः सप्तविंशत्यरत्निः कार्यस् त्रिणवेन सम्मित एकत्रिंशदरत्निः कार्य एकत्रिंशेन सम्मितस् त्रयस्त्रिंशदरत्निः कार्यस् त्रयस्त्रिंशेन सम्मितो यावान् पुरुष ऊर्ध्वबाहुस् तावान् कार्यो यदि वा यावान् रथे तिष्ठन् यावान् वै पुरुष ऊर्ध्वबाहुः सैतस्यावमा मात्राथ ततो वर्षीयान्वर्षीयान् एव कार्यो यो बहुशाखो बहुपर्णः स कार्यो भूम्न एव भूमानं ह्य् एष एतस्य जग्राह भूमानम् अस्य गृह्णाति भूमानम् अस्य पशवो ऽनूपतिष्ठन्ते
॥३.९.२॥हुर्णो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
कार्या : फ़्न् ⟨ कार्यस्
स : फ़्न् एमेन्देद्। एद्।: सु
ओषधे त्रायस्वैनम् इत्य् आह त्रात्या एव स्वधिते मैनं हिंसीर् इति वज्रो वै स्वधितिर् वज्राद् वावास्मा एतद् अन्तर्दधात्य् अहिंसायै यो वा एतस्याभिहतस्याग्रे शकलः परापतति तम् अस्य तेजो ऽन्वपक्रामति यत् तं पुनर् आहरति सतेजस्त्वाय प्राञ्चं प्रहापयति मेधम् एवैनम् अनुपर्यावर्तयति वज्रो वै यूपस् तस्माद् वा इमे लोका नीर्यमाणाद् बिभ्यतीश्वरो ह्य् एषो ऽशान्तो नीर्यमाण इमांल् लोकान् हिंसितोर् यद् आह दिवम् अग्रेण मा हिंसीर् अन्तरिक्षं मध्येन पृथिव्याः सम्भव भ्राजं गछेति शमयत्य् एव शान्त एव नीर्यत एषां लोकानाम् अहिंसायै सर्वस्य वा एष मित्रं यो दीक्षितः स एतम् अहिंसीद् ईश्वरा वनस्पतयो ऽपिधिष्ण्यं भविता यद् आव्रश्चने जुहोति पुनर् एवैनं प्रजनयति तस्माद् आव्रश्चनाद् भूयांसः प्रजायन्ते पशुना सम्मितः कार्यो दश वै पशोः प्राणा आत्मैकादशो ऽष्टाश्रयो ब्रह्मणी दशमे आत्मैकादशस् तथा पशुना सम्मितो ऽष्टाश्रिः कार्यो गायत्र्या रूपं गायत्रो हि यूपो गायत्र्या वै पतन्त्या यत्र पर्णं परापतत् ततः पर्णो ऽजायत तस्मात् पर्णमय एतत् खलु वै पर्णस्य सारं यत् खदिरस् तस्माद् खादिर इह वा असा आदित्य आसीत् तम् इतो ऽध्य् अमुं लोकम् अहरंस् तद् यतो ऽध्य् अमुं लोकम् अहरंस् तस्माज् ज्योतिषो बिल्वो ऽजायत तस्माद् बैल्वो ब्रह्मवर्चसकामेन कार्यो ब्रह्मवर्चसस्य समष्ट्यय् अथो ज्योतिषैव तमस् तरतीन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायछत् तेषां वा एष ब्रह्मचारी चमसाध्वर्युर् आसीद् यो ऽयं हरिणस् तस्य यः सोमपीथ आसीत् स स्वजो ऽभवत् तस्माद् धरिणः स्वजं स्वादति सोमपीथो ह्य् अस्यैष स यत्र चमसं न्यौब्जत् ततो रोहितको ऽजायत तस्माद् रौहीतकस् तस्माद् रोहीतकेरोहीतके स्वजः पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति प्रोक्षत्य् एषां ह्य् एष लोकानां विधृत्यै मीयते त्रिः प्रोक्षति त्रिषत्या हि देवा अथो त्रिपदयैवैनं गायत्र्या प्रौक्षीद् वज्रो वै यूपो ऽन्नं यवो यद् यवमतीभिः प्रोक्षति वज्रेण वा एतद् अन्नं जयति तेजो वै यूप एष खलु वा ओषधीनां तेजो यद् यवस् तस्माद् एतं शिशिरा ओषधयो ऽनुप्राणन्ति यद् यवम् अवास्यति तेजसि वा एतत् तेजो दधाति र्क्षं वा अमेध्यम् आपो हविर् यद् अवसिञ्चति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् अवस्तृणाति मेध्यम् एवैनत् करोति तक्षितो वा एष नग्नो यञ् शकम् अवास्यत्य् अनग्नम् एवैनम् अकः स्व एवैनं स्थाने दधात्य् अवृक्ण एवाभूद् घृतेन द्यावापृथिवी आपृणेति तेनैव द्यावापृथिवी आपूरयति यजमानो वा अग्निष्ठास् तेजो घृतम् आन्तम् अविछिन्नम् अनक्ति यजमानम् एव तेजसानक्ति देवस् त्वा सविता मध्वानक्त्व् इत्य् एतद् वै देवानां मधु यद् घृतं सवितृप्रसूत एवैनं मध्वानक्तीन्द्रस्य चषालम् असीत्य् ऐन्द्रं हि चषालं सुपिप्पला ओषधीस् कृधीत्य् ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति दिवम् अग्रेणोत्तभानान्तरिक्षं मध्येनापृण पृथिवीम् उपरेण दृंहेत्य् एषां ह्य् एष लोकानां विधृत्यै मीयते ता ते धामान्य् उश्मसि गमध्या इत्य् अवदधाति वैष्णव्या वैष्णवो हि यूपः स्वयैव देवतया विष्णोः कर्माणि पश्यतेति सङ्कल्पयति सम्मितत्वाय ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीत्य् आशीर् एवैषा ब्रह्म दृम्ह क्षत्रं दृंहेत्य् आशिष एवैष परिग्रहो ऽपो ऽनुपरिषिञ्चति धृत्यै
॥३.९.३॥रोहीतकेरोहीतके : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
यवमतीभिः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अग्निष्ठास् : फ़्न् अग्निष्ठा। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता। प्।२६।
वज्रो वै यूपो यद् अन्तर्वेदि मिनुयान् निर्दहेद् यद् बहिर्वेद्य् अनवरुद्धः स्याद् अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अवरुद्धो ह भवति न निर्दहति नोपरस्याविः कर्तवै यद् उपरस्याविः कुर्याद् गर्तेष्ठाः स्यात् प्रमायुको यजमानो नातिस्थूलः कार्यः क्षुधं प्रजा नीयुर् नो अत्यणुर् उभयम् एवान्तरा यज्ञेन वै देवाः स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति तं यूपेनायोपयंस् तद् यूपस्य यूपत्वं यद् यूपः पुरस्तान् मीयते स्वर्गस्य लोकस्यानुक्शात्यै तद् विष्णोः परमं पदम् इति समुन्मार्ष्टि स्वर्गस्य लोकस्य समष्ट्यै नाभिदघ्ने परिव्ययत्य् ऊर्ग् वा ओषधय ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च यदि कामयेत क्षुधं प्रजा नीयुर् इत्य् अरशनान् यूपान् मिनुयात् क्षुधं प्रजा नियन्ति यदि कामयेत वर्षेत् पर्जन्य ऊर्जा यजमानं समर्धयेयम् इति परिवीयोर्ध्वाम् उदूहेद् वृष्ट्या एवेमां न्यूहत्य् ऊर्जा यजमानं समर्धयति यदि कामयेत न वषेत् पर्जन्य ऊर्जा यजमानं व्यर्धयेयम् इति परिवीयावाचीम् अवोहेद् वृष्ट्यैवेमां न्यूहत्य् ऊर्जा यजमानं व्यर्धयति सर्वदेवत्यो वै यूपो यन् निखातं तत् पितृणां यद् ऊर्ध्वं तन् मनुष्याणां यत्र रशना तद् ओषधीनां यद् ऊर्ध्वं रशनायास् तद् विश्वेषां देवानाम् इन्द्रस्य चषालं ये वै देवाः साध्या यज्ञम् अत्यमन्यन्त तेषां वा एतद् यद् उपरिष्टाच् चषालस्याङ्गुलिमात्रं कार्यम् अङ्गुलिमात्रं हि तद् अग्रा आसीद् यत् ततो वर्षीयः कुर्याद् वज्रो भूत्वा यजमानस्य पशून् अवतिष्ठेद् इन्द्रो वै वृत्राय वज्रम् उदयछत् सो ऽव्लीयत तस्य वा एतद् अनुनद्ध्यै यच् चषालं पृथुमात्रं कार्यं पृथुमात्रं हि तद् अग्रा आसीद् यद् अणिमतो ऽगृह्णात् तस्माद् अणिमतो यद् इन्द्र उदयछत् तस्माद् ऐन्द्रं यदि कामयेतान्ये ऽस्य लोकम् अन्वारोहयेयुर् इत्य् अन्यस्य वृक्षस्य स्वरुं कुर्याद् अन्ये ऽस्य लोकम् अन्वारोहन्ति यदि कामयेत प्रजाम् अनुसन्तनुयाद् इति यूपस्य स्वरुं कुर्यात् प्रजाम् एवानुसन्तनोति यजमानो वा अग्निष्ठास् तेजो ऽग्निर् यद् इत्थं वेत्थं वा मिनुयाद् यजमानं तेजसा व्यर्धयेद् अग्निना सदृशं मेतव्या यजमानस्य सतेजस्त्वायावृह्य ह स्म वै पुरा संस्थिते यज्ञे ऽग्नौ यूपं प्रास्यति सम्भज्य स्रुचस् ते देवा अमन्यन्त यज्ञवेशसम् इदं कुर्या इति ते ऽब्रुवन् परिधिभिर् एव नः स्रुचः स्वगाकृताः सन्तु स्वरुणा यूपः प्रस्तरेण सदा इति तेषां वा एष स्वगाकारो न ह स्म वै पुरा पुरुषं महादेवो हन्ति तत इदं रुद्रो ऽन्ववातिष्ठत् ते देवा एतां रुद्रस्यावेष्टिम् अपश्यंस् त्रिः परस्ताद् अनक्ति त्रिर् अवस्तात् तत् षट् षड् वा ऋतव ऋतुभ्यो वा एतद् रुद्रम् अवयजत्य् आहुतिभाजो वा ऋतवो ऽस्तोमभाजस् त एवास्यैतेनाभीष्टाः प्रीता भवन्ति यद् यूपाज् जुहोति वनस्पतिभ्यस् तेनावयजति यद् रशनाया ओषधीभ्यस् तेन यद् आत्मनो मनुष्येभ्यस् तेन यद् आह दिवं ते धूमो गछत्व् इति हविर्धानात् तेनान्तरिक्षं ज्योतिर् इत्य् आग्नीध्रात् तेन पृथिवीं भस्म स्वाहेति सदसस् तेन सर्वतो वा एतद् रुद्रम् अवयजत्य् आ वा एतं वनस्पतिभ्यः प्रच्यावयन्त्य् उपयज्य मनुष्याः प्रयन्ति तत् स्वाया देवताया अन्तर्धीयते यूपो वै यज्ञस्य दुरिष्टम् आमुञ्चते यद् यूपम् उपस्पृशेद् यज्ञस्य दुरिष्टम् आमुञ्चेत तस्माद् यूपो नोपस्पृश्यः शुग् वा एष मीयते स ईश्वरो ऽशान्त इमांल् लोकाञ् शुचार्पयितोर् यद्य् एकः स्यात् ॥ एष ते वायो ॥ इति ब्रूयाद् यदि बहवः ॥ एते ते वायो ॥ इति ब्रूयाद् वायूगोपा वै वनस्पतयः स्वाम् एवैभ्यो देवताम् अपिसृजत्य् एषां लोकानाम् अहिंसायै यथा वै प्रौगं रज्जुभिर् व्युतम् एवम् इमे लोका यूपैर् व्युतास् त एनम् आर्तिं निनयन्ति यद् आह ॥ नमः स्वरुभ्यः ॥ इति तेभ्य एव नमो ऽकस् ते ऽस्मै विजिहते ते ऽस्मै लोकं विन्दन्त्य् एते वै देवा नामृडयन् त अस्मिंस् लोके सन्नाः स्वरवो ऽभिरोद्धारो यान् न पश्यति ते सन्ना अथ यान् पश्यति ते बृहन्त ऊर्जा यद् आह ॥ नमः स्वरुभ्यो बृहद्भ्यो मारुतेभ्यः सन्नान् मावगाम् ॥ इति तान् एव परिवृणक्त्य् एते वा अमुष्मिंल् लोके ऽन्नस्य प्रदातारस् ते ऽस्मा अन्नं प्रयछन्ति ॥
गर्तेष्ठाः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
मीयते : फ़्न् एमेन्देद्। एद्।: मीयेत
अग्निष्ठास् : फ़्न् अग्निष्ठा। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता। प्।२६।
व्युतम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
व्युतास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
त : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अपश्चाद्दघ्वान्नं भूयासम् ॥ इत्य् अपश्चाद्दघ्वान्नं भवति
॥३.९.४॥साध्या वै देवा आसन्न् अथ वै तर्हि नान्याहुतिर् आसीत् ते देवा अग्निं मथित्वाग्ना अजुहवुस् ते वै तयैवाहुत्या पशून्त् सृष्ट्वाथ पशुम् आलभन्त यद् अग्निं मथित्वाग्नौ जुहोति तया वा एतद् आहुत्या पशून्त् सृष्ट्वाथ पशुम् आलभन्ते ऽथो पशवो वा एतद् आलब्धा यद् देवतां जनयन्त्य् अथो तेज एवास्मै जनयन्त्य् अग्नेर् जनित्रम् असीत्य् आयतनम् इव वा एतत् क्रियते वृषणौ स्था इति रेत एवैतद् दधाति न हि तस्य रेतो धीयते यस्यैतौ न भवत उर्वश्य् असीति वाग् वा उर्वशी पुरूरवा असीति प्राण एव तन् मिथुनम् आयुर् असीति समनक्ति तस्मिन्न् एव मिथुने रेतो दधाति गायत्रम् असि त्रिष्टुब् असि जगद् असीति छन्दोभिर् एवैनं प्रजनयति सावित्रीं प्रथमाम् अन्वाह प्रसूत्यै सवितृप्रसूता हि प्रजाः प्रजायन्ते ऽथ द्यावापृथिवीयाम् अपि हि द्यावापृथिव्योः पशुषु द्यावापृथिवी हि पशवो ऽनुप्रजायन्ते गायत्रीर् अन्वाह गायत्रो ह्य् अग्निर् गायत्रं छन्दो ऽपरिमिता अन्वाहापरिमिता ह्य् अग्नेस् तन्वो ऽग्निना वा अनीकेनेन्द्रो वृत्रम् अहंस् तस्य समासृप्तस्य भीतस्य यत्र व्यार्ध्यत ततो धूम्नो ऽसृज्यत तस्माद् धूमवती नानूच्या व्यृद्धा हि सा रक्षसाम् अनन्ववजयाय परिधयः परिधीयन्ते यत् समया परिधीन् प्रहरेत् तद् अनु रक्षांसि यज्ञम् अवजयेयुर् अग्रेण परिधयः प्रहृत्या रक्षसाम् अनन्ववजयाय क्रूरम् इव वा एतद् यज्ञे क्रियते यद् अग्ना अग्निं जुह्वति यद् आह भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति शमयत्य् एव शान्त एव प्रह्रियते यजमानस्याहिंसायै स्रुवेणाभिजुहोति सञ्जग्मानाभ्याम् एवाभ्यां भागधेयम् अपिदधाति यः कूटो वाकर्णो वा काणो वा शुष्को वावर्तत तस्य यातयामा स यो ऽपन्नदन् मलं तत् पशूनाम् आग्नेयः पशुर् अग्निष्टोम आलभ्य आग्नेयो ह्य् अग्निष्टोम ऐन्द्राग्नः पशुर् उक्थ्य आलभ्य ऐन्द्राग्नानि ह्य् उक्थ्यान्य् ऐन्द्रो वृष्णिः षोडशिन्य् आलभ्य ऐन्द्रो वै वृष्णिर् ऐन्द्रः षोडशी सारस्वती मेष्य् अतिरात्र आलभ्या वाग् वै सरस्वती वाग् अनुष्टुब् आनुष्टुभी रात्रिर् यज्ञक्रतूनाम् एवैषा व्यावृत्तिर् यथा वै मत्स्यो ऽविचितो जनम् अवधूनुत एवं वा एते प्रजायमाना जनम् अवधून्वते यस् त्वा एतान् एवं वेद तम् एतेनावभून्वते कथं सवनानि पशुमन्ति वेछेति पृछेद् यद् वपया प्रातःसवने चरन्ति तेन प्रातःसवनं पशुमद् यत् पुरोडाशैर् माध्यन्दिने सवने तेन माध्यन्दिनं सवनं पशुमद् यद् अङ्गैस् तृतीयसवने तेन तृतीयसवनं पशुमत् कियता तत् पशोश् चरन्ति यद् वपया चरन्ति कियता तद् यत् पुरोडाशैः कियता तद् यद् अवदानैर् रूपेण तत् पशोश् चरन्ति यद् वपया चरन्त्य् आत्मना तद् यत् पुरोडाशैः शरीरेण तद् यद् अवदानैः कस्मै पशुः प्रत्यङ् नियुज्यत उदङ् प्रणीयते दक्षिणत उपसाद्यते प्राङ् हूयत इति पृछेद् यत् प्रत्यङ् नियुज्यत इमां तेन दिशम् अभिजयति यद् दक्षिणत उपसाद्यत इमां तेन यत् प्राङ् हूयत इमां तेन यद् उदङ् प्रणीयते मनुष्यलोकं तेनाभिजयति यद् दक्षिणत उपसाद्यते पितृलोकं तेन यत् प्राङ् हूयते देवलोकं तेन यद् आहुत्या ऊर्ध्वो धूम उदयते स्वर्गं तेन लोकं यद् इडोपहूतं प्रत्यङ् हरन्तीमं तेन लोकं सर्वा वा इमा दिशः पशुयाज्य् अभिजयति सर्वांल् लोकान् सर्वा एवास्येमा दिशो ऽभिजिता भवन्ति सर्वे लोकाः
॥३.९.५॥मथित्वाग्नौ : फ़्न् एमेन्देद्। एद्।: मथित्वागौ।
धूम्नो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
धूमवती : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
समया : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अथैता आप्रियः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एता आप्रीर् अपश्यत् ताभिर् आत्मानम् आप्रीणीत यज्ञो वै प्रजापतिर् यद् एता आप्रियो भवन्ति यज्ञम् एवैताभिर् यजमाना आप्रीणीते वपया वै पशोर् देवाः प्रातःसवने स्वर्गं लोकम् आयन् यद् वपया प्रातःसवने चरन्ति वपया वा एतत् पशोर् यजमानः प्रातःसवने स्वर्गं लोकम् एति ते वै स्वर्यन्तो ऽस्थानि शरीराण्य् अधून्वत यद् अङ्गैस् तृतीयसवने चरन्त्य् अस्नां शीरीणां निष्क्रीत्यै पशुं स्नपयन्ति यद् एवास्याभिन्निषण्णं शमलम् अमेध्यं तञ् शुन्धन्ति पशुम् उपाकृत्याग्निं मन्थन्ति पशूनाम् अवरुद्ध्यै द्वौ वै वज्रौ घोरो ऽन्यः शिवो ऽन्यो यः शुष्कः स घोरो य आर्द्रः स शिवो वज्रेण खलु वै वीर्यं क्रियते वर्जं वा एतद् आदत्ते वीर्यायेषे त्वेतीष एवैनम् उपाविर् असीत्य् उप ह्य् एषो ऽवत्य् उपो देवान् दैवीर् विशः प्रागुर् इत्य् एता वै दैवीर् विशो यत् पशवो वह्नय उशिजा इत्य् एते वै वह्नय उशिजो यद् ऋत्विजश् च धिष्ण्याश् च बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनां यछति हव्या ते स्वदन्न् इति स्वदितम् एवैनम् आलभते देव त्वष्टर् वसु रणा इति त्वष्टा हि रूपाणि विकरोति रेवतीर् अमेध्यम् इति पशवो वै रेवतीर् यछत्य् एवैनां देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनाम् आदत्ते ऽश्विनोर् बाहुभ्याम् इत्य् अश्विनौ वै देवानाम् अध्वर्युः पूष्णो हस्ताभ्याम् इति देवताभिर् एव द्वौ वै पाशौ घोरो ऽन्यः शिवो ऽन्यो यो यज्ञियः स घोरो यो ऽयज्ञियः स शिव ऋतस्य त्वा देवहविः पाशेनेति य एव यज्ञियः पाशस् तेनैनम् आलभते प्रतिमुञ्चामीत्य् अभि हि मनुष्या दधत्य् अमुष्मै त्वा जुष्टम् इति यस्या एव देवतायै पशुर् आलभ्यते तस्या एनं जुष्टम् अकर् धर्षा मानुषा इति मनुष्या हि धारयन्ति शुष्को वा एषो ऽमेध्यो यत् पशुं नियुनक्त्य् उभा एवैनौ मेध्यौ करोति प्रत्यञ्चं नियुनक्ति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठन्ते प्राणेषु वा एतस्य देवता उपस्थिता यत् पशुं नियुनक्ति प्रतीचीर् एवास्मै देवता नियुनक्त्य् अद्भ्यस् त्वौषधीभ्या इत्य् अद्भ्यो ह्य् एष ओषधीभ्यो जुष्टं प्रोक्षामीति यस्या एव देवतायै पशुर् आलभ्यते तस्या एनं जुष्टम् अकर् अनु त्वा माता मन्यताम् अनु पितेत्य् अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्यालभते ऽनुमानावह देवान् देवायते यजमानायेति देवताभ्य एवैनं निर्दिशत्य् अपां पेरुर् असीत्य् अपां ह्य् एष पेरुः स्वात्तं सद् धविर् आपो देवीः स्वदन्त्व् इति स्वदितम् एवैनम् आलभते ऽथ यद् उप गृह्णात्य् उप च सिञ्चति सर्वत एवैनं मेधेन समर्धयति सं ते वायुर् वातेन गछताम् इति वातम् एवास्य प्राणम् अन्ववार्छति सं यजत्रैर् अङ्गानीति यज्ञियम् एवैनम् अकः सं यज्ञपतिर् आशिषेति यजमानम् एव यज्ञस्याशिषा समर्धयति शिरो वा आघार आत्मा हविर् यद् आघारम् आघार्यं पशुना समनक्त्य् आत्मन् वा एतञ् शिरो यज्ञस्य प्रतिदधाति वज्रो वै स्वरुर् वज्रः स्वधितिर् यत् स्वधितिनानक्ति वज्रेणैवैनं स्तृणुते याक्ता तया शृतस्यावद्यति हविर्भूता वा एषा हविषैव हविषो ऽवद्यति
॥३.९.६॥अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजयन् यत् पर्यग्निं करोत्य् अग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अभिजयति रक्षांसि वा एतं जिघांसन्ति यत् पर्यग्निं करोति रक्षसाम् अपहत्यै त्रिः पर्यग्निं करोति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो यज्ञाद् रक्षांस्य् अपहन्ति चात्वालम् अपि पर्येत्य् एषा वा अग्नीनां योनिः स्कन्दति वा एतद् धविर् यद् विश्चोतति यद् विलिप्यते ऽग्निर् वै सर्वा देवता अत्र वै सापि देवता यस्या आलभ्यते यत् पर्यग्निं करोति ताम् एवैनद् गमयति कियद् वाहैतत् पशोः कियद् वा यत् प्रयाजा एतर्हि खलु वै सर्वो यर्ह्य् आप्रीतस् तस्माद् आश्राव्योपप्रेष्यति देवताभ्यो वै पूर्वम् आशुश्रवद् अथ वा अत्र पशोर् आश्रावयति तस्माद् आश्राव्योपप्रेष्यत्य् उभये वा एतं बध्यमानम् अनुबध्यन्ते ये ग्राम्याः पशवो ये चारण्या ये बध्यमानम् अनु बध्यमाना अन्वैक्षन्त मनसेति यज् जुहोति तेषां वा एषोन्मोक्षा यन् न जुहुयाद् अनुन्मुक्ताः स्युर् उर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि रक्षांसि वा एतं जिघांसन्ति प्रच्युतम् इतो ऽप्राप्तम् अमुत्राग्निं पुरस्ताद् धरन्ति रक्षसां पराणुत्त्यै रक्षसाम् अपहत्यय् अथो हव्याय वा एतत् प्रणीयमानाय देवताः पुरस्ताद् धरन्त्य् अग्निं पुरस्तान् निदधात्य् अस्कन्नत्वाय पशोर् वै मारणायानीयमानस्याहवनीयं मेध्यो ऽभ्युपक्रामति यो वै तर्हि पशुम् अन्वारभते तं यज्ञस्याशीर् गछति यद् आह रेवति प्रेधा यज्ञपतिम् आविशेति यत्र वा एतत् क्वच यजमानं सन्तं यज्ञस्याशीर् गछति वपाश्रपणीभ्याम् अन्वारभते तत् स्विद् उभयम् अकर् उरो अन्तरिक्ष सजूर् देवेन वातेनेत्य् अन्तरिक्षं वै पशवो वातः प्राणः प्राणान् अस्मिन् दधाति त्मनास्य हविषो यजेति देवता एव प्रीणाति सम् अस्य तन्वा भवेति पुनर् एवैनं सम्भावयति वर्षीयो वर्षीयसा इति तेन यजमानो वसीयान् भवति यद् यज्ञं पशुम् आहुर् यत् तम् अभिमन्यन्ते क्व तर्हि यज्ञो भवतीति यद् आह यज्ञं यज्ञपतौ धा इति यज्ञपतौ वा एतद् यज्ञं प्रतिष्ठाप्याथ पशुम् आलभन्ते स्कन्दति वा एतद् धविर् यद् विश्चोतति यद् विलिप्यते यत् तृणम् उपास्यत्य् अस्कन्नत्वाय प्रत्यञ्चं सञ्ज्ञपयन्ति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठन्त उदीचीनपादं व्यावृत्त्यै
॥३.९.७॥आश्राव्योपप्रेष्यति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
आश्राव्योपप्रेष्यति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
ऋत्विजो वृणीते छन्दांसि वा ऋत्विजश् छन्दांसि वा एतद् वृणीते यद् धोतारं वृणीते जगतीं तद् वृणीते यद् अध्वर्युं पङ्क्तिं तद् यद् अग्नीधम् अतिछन्दसं तद् यन् मैत्रावरुणं गायत्रीं तद् यद् ब्राह्मणाञ्शंसिनं त्रिष्टुभं तद् यत् पोतारम् उष्णिहं तद् यन् नेष्टारं ककुभं तद् यद् आह ॥
अग्निर् दैवीनां विशां पुरएता ॥ इति यजमानं वा एतद् वृणीते स वृतो वषट्करोति नाछावाकं वृणीते पश्चाजेव वा एषा होत्राः स्वर्ग्या यद् अछावाक्या द्विदेवत्याः शंसति द्विपाद् यजमानः प्रतिष्ठित्यय् अथ यद् अग्नीधं मध्यतो वृणीते तस्माद् अयम् अग्निर् मध्यत ओषधीनां यद् उत्तमः संयजतां संयजति तस्माद् उपरिष्टान् मथ्यमानः प्रजायत एतद् वा अस्य छन्दांसि वृतानि युक्तान्य् अभूवन् यद् अवृता वषट्कुर्युर् भ्रातृव्यं यज्ञस्याशीर् गछेद् अथ यद् वृता वषट्कुर्वन्त्य् एकधा वा एतद् यजमाने यज्ञस्याशीः प्रतितिष्ठति तस्माद् एकः पशोर् वषट्करोत्य् एकं हि वृणुते दश वै पशोर् देवता दशास्मिन् प्राणा यद् दश प्रयाजा या एवास्मिन् देवतास् ता एतद् यजत्य् अथ य एष एकादशो यस्या एव देवतायै पशुर् आलभ्यते ताम् एवैतद् यजत्य् अथ यद् एकादशानुयाजा या एवैतद् देवता अयाक्षीत् ता एतैर् अनुप्रीणाति हतो वा एष मृतो ऽमुत्र भूतो दश वै पशोर् देवता दशास्मिन् प्राणाः प्राणाः खलु वै पशोर् देवता यद् दश प्रयाजाः प्राणान् एवास्य प्रयजत्य् आत्मा वै प्राणानाम् एकादश आत्मा वपा पशोर् यद् एष एकादशः परिशय आत्मा वा एतद् आत्मानं परिशये ऽथ यद् एकादशानुयाजाः प्राणान् अस्मिन् दधाति ॥
इति तृतीयकाड्णे नवमः प्रपाठकः
॥३.९.८॥तृतीयकाण्डे दशमः प्रपाठकः
तृतीयकाण्डे दशमः प्रपाठकः
विश्वेभ्यो देवेभ्यः स्वाहा ॥ इत्य् उपरिष्टात् तथास्य त उभये ऽवरुद्धा भवन्ति पशोर् वै मार्यमाणस्य प्राणाञ् शुग् ऋछति प्राणान्त् सङ्गृह्य वपाम् उपविसृजेद् अत्मा वपा पशोर् आत्मन्न् एवास्य प्राणान् दधाति दक्षिणस्य पूर्वपदस्यावदेयम् इति ह स्माहुर् दाक्षायणास् तथास्य सर्वस्य पशोर् अवत्तं भवतीति स्वाहोर्ध्वनभसं मारुतं देवं गछतम् इति वपाश्रपणी अनुप्रास्यत्य् ऊर्ध्वनभसो वा एते मारुतस्य भागधेयं तम् एवैनेन गमयतीमे वा एते विषूची अनुप्रास्यत्य् अनयोर् विधृत्यै
॥३.१०.१॥शुग् : फ़्न् एमेन्देद्। एद्।: शग्।
पुरुषं वै देवा मेधायालभन्त तस्य मेधो ऽपाक्रामत् सो ऽश्वं प्राविशत् ते ऽश्वम् आलभन्त तस्य मेधो ऽपाक्रामत् स गां प्राविशत् ते गाम् आलभन्त तस्य मेधो ऽपाक्रामत् सो ऽविं प्राविशत् ते ऽविमालभन्त तस्य मेधो ऽपाक्रामत् सो ऽजं प्राविशत् ते ऽजम् आलभन्त तस्य मेधो ऽपाक्रामत् स यवं प्राविशत् ते यवम् आलभन्त तस्य मेधो ऽपाक्रामत् स व्रीहिं प्राविशत् ते व्रीहिम् आलभन्त तं व्रीहा आप्नुवन् यद् व्रीहिमयः पुरोडाशो भवति मध्यतो वा एतत् पशोर् मेधो धीयते सुषिरो वै तर्हि पशुर् यर्हि वपाम् उत्खिदन्ति यद् व्रीहिमयः पुरोडाशो भवत्य् अपिहित्या असुषिरत्वाय द्वादशकपालो भवति द्वादश मासाः संवत्सरः संवत्सरम् अनु पशवः प्रजायन्ते प्रजननायैकादशकपालः कार्य एकादशाक्षरा त्रिष्टुब् ऐन्द्रम् एतच् छन्दो यत् त्रिष्टुब् ऐन्द्राः पशवः पशुष्व् एवास्य पशून् दधाति देवा अन्योन्यस्मै पशुम् आलभं स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति तस्य मेधं प्लाक्षारयन् स प्लक्षो ऽभवत् तत् प्लक्षस्य प्लक्षत्वं क्लोम्नो वै तं हृदयात् प्लाक्षारयंस् तस्माद् एतत् सुषिरं यत् प्लक्षशाखाया अवद्यति मेधाद् एवाध्यवद्यति पृषदाज्यस्योपहत्य परैति ॥ शृतं हविः शमिता ॥ इति शृतत्वाय त्रिर् आह त्रिषत्या हि देवा अथो यथेदं ब्राह्मणेभ्य ओदनं पक्वं प्राहैवं वा एतद् देवेभ्यो हविः शृतं प्राहोत्तरतः परीत्याभिघारयति पशूनाम् अवरुद्ध्यै प्राणापानौ वै पृषदाज्यम् आत्मा हृदयं यत् पृषदाज्येन हृदयम् अनक्ति मध्यतो वा एतत् पशोः प्राणापानौ दधाति सोमस्य वा एतद् बर्हिर् यद् बर्हिर् अथ वा एतत् पशोर् यद् उत्तरबर्हिर् बर्हिः श्रद् वा एतद् धव्यम् अकर् अस्कन्नम् अविक्षुब्धं मे हव्यं देवता गछद् इति देवानां वै सर्वेषां मनांसि गछति पशा आलभ्यमाने मनो वै मनोता यन् मनोताया अन्वाह मनांस्य् एवैषां सम्भावयति हतो वा एष मृतो ऽमुत्र भूतो मनो वै मनोता यन् मनोताया अन्वाह पुनर् एवैनं सम्भावयति
॥३.१०.२॥वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
हृदयस्यावद्यति मनस एव तेनावद्यत्य् अथो यावान् एव पशुस् तस्यावत्तं भवति जिह्वाया अवद्यति वाच एव तेनावद्यत्य् अथो एतया ह्य् अग्रा ओषधीनां रसं प्राश्नाति श्येनस्यावद्यति वक्षस एव तेनावद्यत्य् अथो अत्र हि स रसः प्रतितिष्ठति दोष्णो ऽवदाय पार्श्वयोर् अवद्यति यज्ञस्य परिगृहीत्यै यक्नो ऽवद्यति मध्यस्यैव तेनावद्यति मतस्नयोर् अवद्यति रूपस्यैव तेनावद्यति श्रोण्या अवदाय गुदस्यावद्यति तद् उत्तमस्यावद्यत्य् उत्तमं ह्य् आयुर् यद् अन्यस्योत्तरस्यावद्येत् प्राणम् अस्यापिदध्यात् प्रमायुकः स्यात् तस्मात् तस्योत्तमस्यावद्यत्य् उत्तमं ह्य् आयुर् हृदयस्यावदाय जिह्वाया अवद्यति यथापूर्वं वा एतत् पशुम् उपैत्य् अथो एवम् अस्य सर्वस्य पशोर् अवत्तं भवत्य् एकादश कृत्वो ऽवद्यति दश वै पशोः प्राणा आत्मैकादशस् तथास्य सर्वस्य पशोर् अवत्तं भवत्य् एकादश वा एतान्य् अवदानानि तानि द्विर्द्विर् अवद्यति तद् द्वाविंशतिस् त्रीणि त्र्यङ्गानि तत् पञ्चविंशतिः पञ्चविंशेन वै स्तोमेन मनुः प्रजा असृजत तन् मनुस्तोमो वा एष प्रजननायैतद् वै सर्वस्य पशोर् अवत्तम् अथ वै प्राणस्यापानस्य व्यानस्य तेषाम् अनवत्तं यत् त्र्यङ्गाणाम् अवद्यति तेनैव प्राणस्यापानस्य व्यानस्य तेषाम् अवत्तं भवति विश्वरूपो वै त्वाष्ट्रः पशून् अभ्यवमत् तस्मात् पशवो विश्वरूपो ऽभिवान्तो वै पशुः पूयितस् तस्मात् पृष्टीनां मज्जा नाद्यः स वा अधस्तान् न प्राप्नोद् एतद् वै जीवं तस्माद् अतो ऽवद्यत्य् अक्ष्णयाङ्गानाम् अवद्यति पशुं वा एतद् आश्रोणयति तस्मात् पशवो ऽक्ष्णयाङ्गानि प्रहरन्तो यन्त्य् आग्नेयो वै सर्वः पशुर् अथ वा उतान्यस्यै देवताया आलभ्यते यद् दोष्णः पूर्वार्धाद् अग्नये ऽवद्यति गुदस्य मध्यतः श्रोण्या जघानतस् तथास्य सर्वस्य पशोर् अग्नये ऽवत्तं भवति त्रेधा गुदं करोति त्रेधा ह्य् एतर्हि पशुस् त्र्यङ्गाणि समवत्तम् अवदानानि यावान् एव पशुस् तस्मिन्न् आयुर् दधाति त्रेधा मेदः करोति मेदोरूपा हि पशवः सर्वाणि वै पशोर् मेद्यतो ऽङ्गानि मेद्यन्ति यावान् एव पशुस् तस्मिन् मेदो रूपं दधाति बहुर्मर्या यज्ञकुणपीति ह स्माह यज्ञवचा राजस्तम्बायनः प्र वा इतो मनुष्याः पशुं च्यावयन्ति नामुत्र गछन्तीति यद् धिरण्यम् अवधाय जुहोति हिरण्यज्योतिषम् एवैनं स्वर्गं लोकं गमयति
॥३.१०.३॥आश्रोणयति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
बहुर्मर्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
वसाहोमं प्रयौति रसं वा एतत् प्रयौति स्वधितिना प्रयौत्य् एतेन हीतरेषाम् अङ्गानाम् अवद्यति तत् स्विद् अवदानम् अकर् अथो वज्रेणैवाहुतिम् अवरुन्द्धे यूष एतयान्वितं शमयत्य् ऊर्ग् वै रसो यूर् ऊर्जा वा एतद् रसेन पशुं समर्धयत्य् अथो यावान् एव पशुस् तस्मिन्त् सन्दधाति पार्श्वेनापिदधात्य् ऊर्जः परिगृहीत्यै हतो वा एष मृतो ऽमुत्र भूतो यत् पशुं सम्मृशति पुनर् एवैनं सम्भावयति हव्यं पूर्वं देवता गमयित्वाथ शरीरम् अन्वारोहयितव्यम् इत्य् आहुर् यद् आहुतीर् हुत्वा पशुं सम्मृशति हव्यं वा एतत् पूर्वं देवता गमयित्वाथ शरीरम् अन्वारोहयत्य् अर्धऋचे जुहोतीयं वा अर्धऋचो ऽसा अर्धऋचो ऽन्तरेमे अन्तरिक्षम् अन्तरिक्षम् इमाः प्रजाः प्रजास्व् एव रसं दधाति वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति प्राणापानौ वै पृषदाज्यम् आत्मा हविर् यत् पृषदाज्यं जुहोत्य् आत्मन् वा एतत् पशोः प्राणापानौ दधाति दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनक्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते ऽध्यूध्नीं होत्रे हरन्ति वैश्वदेवो वै होता वैश्वदेवीर् इमाः प्रजा ऊधः खलु वै प्रजा अनूपजीवन्ति सर्वा एवैनाः पयस्विनीः करोति गुदेनोपयजति प्राणा वै गुदः प्राणाद् अधि प्रजाः प्रजायन्ते प्रजननाय स्थविमत उपयजति स्थविमतो हि प्रजाः प्रजायन्ते यद् अणिमत उपयजेत् प्रजननम् अपिहन्यात् तस्मात् स्थविमत उपयजत्य् असम्भिन्दन्न् उपयजति प्राणानाम् असम्भेदाय यत् सम्भिन्द्यात् प्राणान्त् सम्भिन्द्याद् यं द्विष्यात् तस्य सम्भिन्द्यात् प्राणान् अस्य सम्भिनत्ति नोपयज्यं यद् उपयजेत् प्राणान् उपयजेत् प्रमायुकः स्यात् तद् आहुर् उपयज्यम् एव प्रजननं वा उपयजो ऽपि ह स प्रजायते य उपयजतीत्य् आभारद्वाजेति ह स्माह शुचिवृक्षो गौपालायनः किं तर्हि प्रजा आसन् यर्हि यज्ञो नानोपयड्भिर् आसीन् न प्रजाः प्राजायन्त नौषधयः फलम् अगृह्णन् यदा वाव यज्ञ उपयड्भिः समभवद् अथ प्रजाः प्राजायन्ताथौषधयः फलम् अगृह्णन्न् एकादश प्रयाजा एकादशानुयाजास् एकादशोपयजस् तत् त्रयस्त्रिंशत् त्रयस्त्रिंशद् देवतास् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्त्य् एतद् वा अस्य पशोर् अनर्वाग् इष्टो ऽनभीष्टो ऽभूद् यास्य मात्रा ताम् एनं गमयति स्वर्ग्यो वै सर्वः पशुर् यद् अन्यत्राहवनीयाज् जुहुयाद् अस्वर्ग्यः स्यात् पशुश्रपणाद् अग्निम् आहरन्ति तेन स्वर्ग्यः सर्वः पशुर् यत एव पूर्वम् अवादात् ततो ऽपरम् अवद्यति तस्मात् समानाद् योनेर् नानारूपाः पशवः प्रजायन्ते यज्ञो वै देवानाम् अत्यनेदत् तं देवा उपयड्भिर् अप्यवपन्न् अनतिनेदाय यद् एता उपयजो भवन्ति यज्ञम् एवैताभिर् अपिवपन्त्य् अनतिनेदाय यदाथा वै पुरुषः प्रत्यङ् छिद्र एवं यज्ञः प्रत्यङ् छिद्रस् तं देवा उपयड्भिर् अप्यदधुर् अछिद्रत्वाय यद् एता उपयजो भवन्ति यज्ञम् एवैताभिर् अपिदधात्य् अछिद्रत्वाय
॥३.१०.४॥ये केचार्वाचीनम् एकादशिन्याः पशवस् तान् उत्तरम् अर्धं यूपस्य नियुञ्ज्याद् रौद्रा वै पशवो ऽग्निर् विधृतिर् दक्षिणे हविर्धाने सोमम् आसादयन्ति तथास्य रुद्रः पशून् अनभिमानुको भवति पात्रेषु वा अहम् अध्वर्युं चानध्वर्युं च विजानामीति ह स्माहारुण औपवेशिः कति पात्राणीति पृछेद् द्वादश पात्राण्य् उपांशुसवनस् त्रयोदशं यत् तन् मीमांसन्ते पात्रा३ं न पात्रा३म् इति मीमांसन्ते हि त्रयोदशं मासं मासा३ न मासा३ इति पञ्च प्रातःसवने पुरोडाशाश् चत्वारो माध्यन्दिने सवने चत्वारस् तृतीयसवने इतो वा एतां निरमिमीत प्रजापतिर् आत्मन एव यत एवैतां निरमिमीत तद् एतैर् अपिधीयते देवाश् च वा असुराश् चास्पर्धन्तायतनवन्तो ऽसुरा आसन्न् अनयतना देवा इमे लोका असुराणाम् आयतनम् आसंस् ते देवाः संस्तम्भंसंस्तम्भं पराजयन्तानायतना ह्य् आसंस् ते वै सवनान्य् एवायतनम् अचायंस् तानि प्राविशंस् तानि नाध्रियन्त ते वै पुरोडाशान् एव सवनानाम् आयतनम् अचायंस् तान् निरवपंस् तान्य् अध्रियन्त ततो देवा अभवन् परासुरास् तद् य एवं वेदायतनवान् भवति भवत्य् आत्मना परास्य भ्रातृव्यो भवति तस्माद् अनुसवनं पुरोडाशा निरुप्याः सवनानां धृत्यै तस्माद् अनुसवनं पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एतं घारयन्ति यत् प्राश्नीयात् सोमपीथं हन्याद् यन् न प्राश्नीयात् सोमपीथेन व्यृध्येत यत्रानभिघृतं तत् प्राश्यः सोमपीथस्य धृत्यै तन् न सूर्क्ष्यं प्राश्य एवेन्द्रो वै वृत्रम् अहंस् तन् न किं चनाधिनोत् तं पुरोडाश एवाधिनोत् तस्मात् पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै पञ्च प्रातःसवने पुरोडाशाः पुरोडाशः परिवापो धानाः करम्भः पयस्या सा पुरोडाशपङ्क्तिर् द्विनाराशंसाः प्रातःसवने द्विनाराशंसा माध्यन्दिने सवन एकनाराशंसास् तृतीयसवने सा नराशंसपङ्क्तिस् त्रीणि सवनान्य् अवभृथो ऽनुबन्ध्या सवनानां पञ्चमी सा सवनपङ्क्तिर् एषा वै सा पङ्क्तिर् याम् आहुर् ब्रह्मवादिनो वेत्थ तां पङ्क्तिं यया न स्तुवते न शंसन्त्य् अथ यज्ञं वहन्त्य् अथ यज्ञं संस्थापयन्ता इति
॥३.१०.५॥मासा३ : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
देवाश् च वा असुराश् चास्पर्धन्त तेषां वा इन्द्रियाणि वीर्याण्य् अपाक्रामन्न् ऋक्सामे वा एभ्यस् तद् अपाक्रामतां पशवो वाग् इन्द्रियं प्राणापानौ तैर् वा इन्द्रो ऽकामयत सायुज्यं गछेयम् इति ॥
हरिवं इन्द्रो धाना अत्तु ॥ इत्य् ऋक्सामे वा इन्द्रस्य हरी ऋक्सामाभ्याम् एव सायुज्यम् अगछत् ॥
पूषण्वान् करम्भम् ॥ इति पशवो वै पुषा पशुभिर् एव सायुज्यम् अगछत् सरस्वतीवान् भारतीवान् परिवापः ॥ इति वाग् वै सरस्वती वाचैव सायुज्यम् अगछत् ॥
करम्भम् : फ़्न् एद्।: करम्भः। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। १०९। मित्त्wएदे: करम्भम्।
इन्द्रस्यापूपः ॥ इतीन्द्रियं वा इन्द्र इन्द्रियेणैव सायुज्यम् अगछत् ॥
मित्रावरुणयोः पयस्या ॥ इति प्राणापानौ वै मित्रावरुणौ प्राणापानाभ्याम् एव सायुज्यम् अगछत् ततो देवा अभवन् परासुरास् तद् य एवं वेदैतैर् एवेन्द्रियैर् वीर्यैर् एतैर् महिमभिः सायुज्यं गछति भवत्य् आत्मना परास्य भ्रातृव्यो भवति दीर्घजिह्वी वै देवानां प्रातःसवनम् अवालेट् तद् व्यमाद्यत् सा पयस्याभवत् तस्मात् पयस्या विमदितरूपेव मैत्रावरुणी प्रातःसवने स्यात् प्राणापानौ वै मित्रावरुणौ प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते न गुदः पर्याकर्तवै यद् गुदं पर्याकुर्याद् उदावर्तः प्रजा हन्याद् रक्षसाम् अनन्ववजयाय यूपः पुरस्तान् मीयते यद् अग्रेण यूपं पशुं हरेयुस् तद् अनु रक्षांसि यज्ञम् अवजयेयुर् अन्तराग्निं च यूपं च हृत्यो रक्षसाम् अनन्ववजयाय
॥३.१०.६॥समुद्रं गछ स्वाहेत्य् अपस्थं वा एतद् यजत्य् अन्तरिक्षं गछ स्वाहेति रेत एवैतद् दधाति देवं सवितारं गछ स्वाहेत्य् आह प्रसूत्या एवाहोरात्रे गछ स्वाहेत्य् अहोरात्रे ह्य् अनु प्रजाः प्रजायन्ते मित्रावरुणौ गछ स्वाहेति प्राणापानौ वै मित्रावरुणौ प्राणापाना एवासु दधाति द्यावापृथिवी गछ स्वाहेत्य् आभ्याम् एवैनाः सृष्टाः परिगृह्णाति छन्दांसि गछ स्वाहेति वाग् वै छन्दांसि वाचम् एवासु दधाति सोमं गछ स्वाहेत्य् अन्नं वै सोमो ऽन्नम् एवासु दधाति यज्ञं गछ स्वाहेति यज्ञिया एवैना अकर् दिव्यं नभो गछ स्वाहेति वृष्टिम् एवाभ्यो निनयन्त्य् अग्निं वैश्वानरं गछ स्वेहेति संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनाः प्रतिष्ठापयति संवत्सरायुषम् एनाः करोति मनो हार्दिं यछेत्य् आह प्राणानां गोपीथायौषधीभ्यस् त्वेत्य् ओषधीष्व् एव रसं दधाति यो वै विद्वान् वाविद्वान् वोपयजो मिथुनयोप यजति प्राणान् वा एतन् मिथुनयाकुरुते यद् आह मनो हार्दिं यछेति प्राणान् वा एतद् ऋतुशः कल्पयते पशुर् वा आलब्धः शोचति तस्य मध्यं शुग् अभिसमेति सा हृदयेष्व् आगछति यत् पुरुषम् उपस्पृशेन् मनुष्याञ् शुग् ऋछेद् यद् गाम् उपस्पृशेत् पशूञ् शुग् ऋछेद् यद् दारूपस्पृशेद् वनस्पतीं शुग् ऋछेद् यत् तृणम् उपस्पृशेद् ओषधीः शुग् ऋछेद् यद् उदकम् उपस्पृशेद् अपः शुग् ऋछेद् यद् आर्द्रम् अनूदकं तञ् शान्तं तत्रोपोप्यं तद् देवतां शुचम् अवयजति ॥
इति तृतीयकाण्डे पात्नीवन्ता नाम दशमः प्रपाठकः
॥३.१०.७॥तृतीयकाण्डे एकादशः प्रपाठकः
तृतीयकाण्डे एकादशः प्रपाठकः
घृतप्रुषा मनसा हव्यम् उन्दन्त् स्वाहाकृतं जुषतां हव्यम् इन्द्रः
॥३.११.१॥होता यक्षत् समिधाग्निम् इडस्पदे ऽश्विनेन्द्रं सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधुशष्पैर् न तेज इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् तनूनपात् सरस्वतीम् अविर् मेषो न भेषजं पथा मधुमद् आभरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षन् नराशंसं न नग्नहुं पतिं सुराया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् इडेडित आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैः कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् णासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशा इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वती शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या त्विषिम् इन्द्रेण भेषजं श्येनो न रजसा हृदा पयः सोमः परिस्रुता घृतं मधु वीताम् आज्यस्य होतर् यज होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषं सरस्वती भिषक् सीसेन दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु वीताम् आज्यस्य होतर् यज होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपसो रूपम् इन्द्रो हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती महा इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् त्वष्टारं रूपकृतं सुपेशसं वृषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भिषजं नः सरस्वतीम् ओजो न जूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुराया भेषजं श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् वनस्पतिं शमितारं शतक्रतुं भीमं न मन्युं राजानं व्याघ्रं नमसाश्विना भामं सरस्वती भिषग् इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतम् मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् अग्निं स्वाहाज्यस्य स्तोकानां स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्यां स्वाहा मेषं सरस्वत्यै स्वाहा ऋषभम् इन्द्राय सिंहाय सहस इन्द्रियं स्वाहाग्निं न भेषजै स्वाहा सोमम् इन्द्रियैः स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजां पतिं स्वाहा वनस्पतिं प्रियं पाथो न भेषजैः स्वाहा देवा आज्यपा जुषाणो अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज
॥३.११.२॥भेषजै : फ़्न् ⟨ भेषजैः
समिद्धो अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमं सुक्रम् इहेन्द्रियम् ।
तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।
मध्वा रजांसीन्द्रियम् इन्द्राय पथिभिर् वह ॥
इन्द्रायेन्दुं सरस्वती नराशंसेन नग्नहुम् ।
अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिर् अश्विना इषं सम् ऊर्जं सं रयिं दधुः ॥
अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता ।
सरस्वती तम् आभरद् बर्हिषेन्द्राय पातवे ॥
कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी उभे दुहे कामान्त् सरस्वती ॥
उषासा नक्तम् अश्विना दिवेन्द्रं सायम् इन्द्रियैः ।
सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या ॥
पातं नो अश्विना दिवा पाहि नक्तं सरस्वति ।
दैव्या होतारा भिषजा पातम् इन्द्रं सचा सुते ॥
तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।
तीव्रं परिस्रुता सोमम् इन्द्रायासुषुवुर् मदम् ॥
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियं रूपंरूपम् अधुः सुते ॥
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।
समधातां सरस्वत्या स्वाहेन्द्रे सुतं मधु
॥३.११.३॥अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।
आ शुक्रम् आसुराद् वसु मद्यम् इन्द्राय जभ्रिरे ॥
यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।
स बिभेद बलं मद्यं नमुचा आसुरे सचा ॥
तम् इन्द्रं पशवः सचाश्विनोभा सरस्वती ।
दधाना अभ्यनूषत हविषा यज्ञ इन्द्रियम् ॥
य इन्द्र इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
सविता वरुणो दधद् यजमानाय दाशुषे ।
आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥
वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥
युवं सुरामम् अश्विना नमुचा आसुरे सचा ।
विपिपाना सरस्वतीन्द्रं कर्मस्व् आवत ॥
होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिस्रुता शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्च्युतस् तान् अश्विना सरस्वतीन्द्रो जुषन्तां सोम्यं मधु पिबन्तु मदन्तां व्यन्तु होतर् यज पुत्रम् इव पितरा अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।
हविषेन्द्रं सरस्वती यजमानम् अवर्धयन् ॥
ता नासत्या सुपेशसा हिरण्यवर्त्तनी नरा ।
सरस्वती हविष्मतीन्द्रं कर्मस्व् अवतु ॥
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टासा आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये
॥३.११.४॥देवं बर्हिः सरस्वती सुदेवम् इन्द्रायाश्विना तेजो न चक्षुर् अक्षोर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य वेतु यज देवीर् द्वारो अश्विना भिषजेन्द्रं सरस्वती प्राणान् न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज देवी उषासा अश्विना सुत्रामेन्द्रं सरस्वती बलं न वाचम् आस्ये उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवधयन् श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती दुघे सुदुघेन्द्रं सरस्वत्य् अश्विना भिषजावतं शुक्रं न ज्योतिः स्तनयोर् आहुती धत्त इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवा देवानां भिषजा होतारा इन्द्रम् अश्विना वषट्कारैः सरस्वती त्विषिं न हृदये मतिं होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती शूषं न मध्ये नाभ्या इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज देव इन्द्रो नराशंसस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथो रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य वेतु यज देवो देवैर् वनस्पतिर् हिरण्यपर्णो अश्विभ्यां सरस्वत्या सुपिप्पल इन्द्राय पच्यते मध्व् ओजो न जूतिर् वृषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्याम् ऊर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सद ईशाया मन्युं राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य वेतु यज देवो अग्निः स्विष्टकृद् देवान् यक्षद् यथायथं होतारा इन्द्रम् अश्विना वाचा वाचं सरस्वतीम् अग्निं सोमं स्विष्टकृत् स्विष्टा इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवो वनस्पतिः स्विष्टा देवा आज्यपाः स्विष्टो अग्निर् अग्निना होता होत्रे स्विष्टकृत् सहो न दधद् इन्द्रियम् ऊर्जम् अपचितिं स्वधां वसुवने वसुधेयस्य वेतु यज
॥३.११.५॥जोष्ट्री : फ़्न् एमेन्देद्। एद्।: ज्ञोष्ट्री।
शुक्रं : फ़्न् एमेन्देद्। एद्।: शक्रं
सोमो राजामृतं सुत ओषधीनाम् अपां रसः ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
अद्भ्यः सोमं व्यपिबच् छन्दोभिर् हंसः शुचिषत् ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
रेतो मूत्रं विजहाति योनिं प्रविशद् इन्द्रियम् ।
गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
अश्रद्धाम् अनृते ऽदधाञ् श्रद्धां सत्ये प्रजापतिः ॥
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु
॥३.११.६॥परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वान् यो नर्यो अप्स्व् अन्तरा सुषाव सोमम् अद्रिभिः ॥
सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व ॥
पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥
वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥
ब्रह्म क्षत्रं पवते तेज इन्द्रियं सुरायाः सोमः सुत आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥
कुविद् अङ्ग नाना हि वाम् ॥
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणं सिंहं सेमं पात्व् अंहसः ॥
सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेनेन्द्रं यजमानाः स्वर्काः ॥
यस् ते रसः सम्भृता ओषधीषु सोमस्य शुष्मः सुरायां सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विना इन्द्रम् अग्निम् ॥
यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।
इमं तं शुक्रं मधुमन्तम् इन्दुं सोमं राजानम् इह भक्षयामि ॥
यद् अत्र शिष्टं रसिनः सुतस्य यम् अस्येन्दो अपिबञ् शचीभिः ।
अहं तम् अस्य मनसा शिवेन सोमं राजानम् इह भक्षयामि
॥३.११.७॥देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ॥
त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे देवा देवैर् अवन्तु त्वा ॥
प्रथमास् त्वा द्वितीयैर् अभिषिञ्चन्तु द्वितीयास् त्वा तृतीयैस् तृतीयास् त्वा सत्येन सत्यं त्वा ब्रह्मणा ब्रह्म त्वा यजुर्भिर् यजूंषि त्वा सामभिः सामानि त्वा ऋग्भिर् ऋचस् त्वा पुरोनुवाक्याभिः पुरोनुवाक्यास् त्वा याज्याभिर् याज्यास् त्वा वषट्कारैर् वषट्कारास् त्वाहुतिभिर् अभिषिञ्चन्त्व् आहुतयस् ते कामान्त् समर्धयन्त्व् असव् अश्विनोस् त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि सरस्वत्यास् त्वा वीर्येण यशसे ऽन्नाद्यायाभिषिञ्चामीन्द्रस्य त्वेन्द्रियेणौजसे बलायाभिषिञ्चामि भूः स्वाहा ॥
शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।
राजा मे प्राणो अमृतं सम्राट् चक्षुर् विराट् श्रोत्रम् ॥
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदा अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥
बाहू मे बलम् इन्द्रियं हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रम् उरो मम ॥
पृष्टीर् मे राष्ट्रम् उदरम् अंसौ ग्रीवाश् च श्रोण्यौ ।
ऊरू अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥
नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।
आनन्दनन्दा आण्डौ मे भगः सौभाग्यं पसः ॥
लोमानि प्रयतिर् मम त्वङ् मा आनतिर् आगतिः ।
मांसं मा उपनतिर् वस्व् अस्थि मज्जा मा आनतिः ॥
जङ्घाभ्यां पद्भ्यां धीरो ऽस्मि विशि राजा प्रतिष्ठितः ।
प्रति ब्रह्मन् प्रतितिष्ठामि क्षत्रे प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु ॥
प्रति प्रजायां प्रतितिष्ठामि पृष्ठे प्रति प्राणेषु प्रतितिष्ठाम्य् आत्मन् द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे
॥३.११.८॥सीसेन तन्त्रं मनसा मनीषिण ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञं सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥
तद् अस्य रूपम् अमृतं शचीभिस् तिस्रो दधुर् देवताः संरराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य मांसम् अभवन् न लाजाः ॥
तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो अन्तरम् ।
अस्थि मज्जानं मासरं कारोतरेण दधतो गवां त्वचि ॥
सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुतो न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥
पयसः शुक्रम् अमृतं जनित्रं सुराया मूत्राज् जनयन्त रेतः ।
अपामतिं दुर्मतिं बाधमाना ऊवध्यं वातात् सब्वं तद् आरात् ॥
इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥
आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्त्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥
कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो अन्तः ।
प्लाशिर् व्यक्तः शतधारा उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥
मुखं सदस्य शिरा इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।
चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥
अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा घृतेन ।
पक्ष्माणि गोधृमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥
अविर् न मेषो नसि वीर्याय प्राणस्य पन्था अमृतं ग्रहाभ्याम् ।
सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥
इन्द्रस्य रूपम् ऋषभो बलाय कर्णाभ्यां श्रोत्रम् अमृतं ग्रहाभ्याम् ।
यवैर् न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखे ॥
आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
केशा न शीर्षन् यशसे श्रियै शिखा सिंहस्य लोम त्विषिर् इन्द्रियाणि ॥
अङ्गैर् आत्मानं भिषजा तद् अश्विनात्मानम् अङ्गैः समधात् सरस्वती ।
इन्द्रस्य रूपं शतमानम् आयुः शुक्रं न ज्योतिर् अमृतं दधाना ॥
सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपां रसेन वरुणो न साम्नेन्द्रं श्रियै जनयन्न् अप्सु राजा ॥
तेजः पशूनां हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
अश्विभ्यां दुग्धं भिषजा सरस्वती सुतासुताभ्याम् अमृतः सोमा इन्दुः
॥३.११.९॥पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥
पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा सर्वम् आयुर् व्यश्नवै ॥
अग्ना आयूंषि पवसे ॥
पवमानः स्वर् जनः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ॥
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूता मा जातवेदः पुनाहि मा ॥
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनाहि विश्वतः ॥
पवित्रेण पुनाहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूंर् अनु ॥
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।
ब्रह्म तेन पुनीमहे ॥
वैश्वदेवी पुनती देव्य् आगाद् यस्या बह्व्यस् तन्वो वीतपृष्ठाः ।
तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणाम् ॥
वैश्वानरो रश्मिभिर् मा पुनातु वातः प्राणेनेषिरो मयोभूः ।
द्यावापृथिवी पयसा पयोभिर् ऋतावरी यज्ञिये मा पुनीताम् ॥
बृहद्भिः सवितस् त्रिभिर् वर्षिष्ठैर् देव मन्मभिः ।
अग्ने दक्षैः पुनीमहे ॥
ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर् मयि कल्पताम् अस्मिंल् लोके शतं समाः ॥
द्वे स्रुती ॥
इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये ।
आत्मसनि प्रजासनि क्षेत्रसनि पशुसनि लोकसन्य् अभयसनि ॥
अग्निः प्रजां बहुलां मे कृणोत्व् अन्नं पयो रेतो अस्मासु धेहि ॥
यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥
यदि स्वपन् यदि जाग्रद् एनांसि चकृमा वयम् ।
वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥
यदि दिवा यदि नक्तम् एनांसि चकृमा वयम् ।
सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥
धाम्नोधाम्नो ॥
यद् ग्रामे ॥
पवित्रम् असि यज्ञस्य पवित्रं यजमानस्य ।
तन् मा पुनातु सर्वतो विश्वस्माद् देवकिल्बिषात् सर्वस्माद् देवकिल्बिषात् ॥
द्रुपदाद् इवेन् मुमुचानः स्विन्नः स्नात्वी मलाद् इव ।
पूतं पवित्रेणेवाज्यं विश्वे मुञ्चन्तु मैनसः ॥
समावृतत् पृथिवी सम् उषाः सम् उ सूर्यः ।
वैश्वानरज्योतिर् भूयासं विभुं कामं व्यशीय भूः स्वाहा
॥३.११.१०॥समिद्धो अग्निः समिधा सुसमिद्धो वरेण्यः ।
गायत्री छन्द इन्द्रियं त्रियविर् गौर् वयो दधुः ॥
तनूनपाञ् शुचिव्रतस् तनूपाश् च सरस्वती उष्णिक् छन्द इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥
सरस्वती : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
इडाभिर् अग्निर् ईड्यः सोमो देवो अमर्त्यः ।
अनुष्टुप् छन्द इन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥
सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः ।
बृहती छन्द इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥
दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।
पङ्क्तिश् छन्द इन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥
उषे यह्वी सुपेशसा विश्वे देवा अमर्त्याः ।
त्रिष्टुप् छन्द इन्द्रियं पृष्ठवाड् गौर् वयो दधुः ॥
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।
जगती छन्द इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥
तिस्रो देवीर् इडा मही भारती मरुतो विशः ।
विराट् छन्द इन्द्रियं धेनुर् गौर् न वयो दधुः ॥
त्वष्टा तुरीपो अद्भुत इन्द्राग्नी पुष्टिवर्धना ।
द्विपदा छन्द इन्द्रियम् उक्षा गौर् न वयो दधुः ॥
शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।
ककुप् छन्द इहेन्द्रियम् ऋषभो गौर् वयो दधुः ॥
स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।
अतिछन्दा इन्द्रियं बृहद् वशा वेहद् वयो दधुः
॥३.११.११॥वसन्तेन ऋतुना देवा वसवस् त्रिवृता स्तुतम् ।
रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः ॥
ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुतम् ।
बृहता यशसा बलं हविर् इन्द्रे वयो दधुः ॥
वर्षाभिर् ऋतुनादित्याः स्तोमे सप्तदशे स्तुतम् ।
वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः ॥
शारदेन ऋतुना देवा एकविम्श ऋभवः स्तुतम् ।
वैराजेन श्रिया श्रियं हविर् इन्द्रे वयो दधुः ॥
हेमन्तेन ऋतुना देवास् त्रिणवे मरुतः स्तुतम् ।
बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः ॥
शैशिरेण ऋतुना देवास् त्रयस्त्रिंशे ऽमृतं स्तुतम् ।
सत्येन रेवतीः क्षत्रं हविर् इन्द्रे वयो दधुः ॥
इति तृतीयकाण्डे सौत्रामणीयो नाम एकादशः प्रपाठकः
॥३.११.१२॥तृतीयकाण्डे द्वादशः प्रपाठकः
तृतीयकाण्डे द्वादशः प्रपाठकः
परो मर्तः परः श्वा
॥३.१२.१॥अग्नये स्वाहा सोमाय स्वाहापां मोदाय स्वाहा वायवे स्वाहा सवित्रे स्वाहा त्वष्ट्रे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा मित्राय स्वाहा वरुणाय स्वाहा
॥३.१२.२॥हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहा अवक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा सन्दिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विचृत्ताय स्वाहा विजृम्भमाणाय स्वाहा जवाय स्वाहा बलाय स्वाहायनाय स्वाहा प्रायणाय स्वाहा यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहोपस्थिताय स्वाहा संहानाय स्वाहा निषण्णाय स्वाहोत्थिताय स्वाहा विष्ठिताय स्वाह विवर्तमानाय स्वाहा विवृत्ताय स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा शृङ्वते स्वाहा शुश्रूषमाणाय स्वाहेक्षिताय स्वाहा वीक्षिताय स्वाहा वीक्षमाणाय स्वाहा निमेषाय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मेहति तस्मै स्वाहा कुर्वते स्वाहा कृताय स्वाहा
॥३.१२.३॥विभूर् मात्रा प्रभूः पित्राश्वो ऽसि हयो ऽस्य् अत्यो ऽसि मयो ऽसि नरो ऽस्य् अर्वासि सप्तिर् असि वाज्य् असि वृषासि नृमणा असि ययुर् नामास्य् आदित्यानां पत्वान्विहि देवा आशापाला एतं देवेभ्यो अश्वं मेधाय प्रोक्षितं रक्षतेह धृतिर् इह स्वधृतिर् इह रम इह रमन्ताम्
॥३.१२.४॥काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा सवित्रे स्वाहा सवित्रे प्रसवित्रे स्वाहा सवित्र आसवित्रे स्वाहादित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरन्धिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे परुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे शिपिविष्टाय स्वाह विष्णवे निभूयपाय स्वाहा
॥३.१२.५॥आ ब्रह्मन् ब्राह्मणस् तेजस्वी ब्रह्मवर्चसी जायताम् आ राष्ट्रे राजन्यः शूर इषव्यो महारथो जायतां दोग्ध्री धेनुर् वोढानड्वान् आशुः सप्तिः सभेयो युवा पुरन्धिर् योषा जिष्णू रथेष्ठा आस्य यजमानस्य वीरो जायतां निकामेनिकामे नः पर्जन्यो वर्षतु फलवतीर् ना ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम्
॥३.१२.६॥अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाशाभ्यः स्वाहोर्व्यै दिशे स्वाहा प्राच्यै दिशे स्वाहा नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्यां स्वाहा चन्द्रमसे स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा
॥३.१२.७॥प्राच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहा
॥३.१२.८॥आयुषे स्वाहा प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा मनसे स्वाहा वाचे स्वाहा
॥३.१२.९॥पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा चराचरेभ्यः स्वाहा
॥३.१२.१०॥असवे स्वाहा वसवे स्वाहा विभ्वे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिषाहे स्वाहाभिभ्वे स्वाहाधिपतये स्वाहा शूषाय स्वाहा संसर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा
॥३.१२.११॥धर्णसाय स्वाहा द्रविणाय स्वाहा प्रसवाय स्वाहोपयामाय स्वाहा सिन्धवे स्वाहा समुद्राय स्वाहा काटाय स्वाहार्णवाय स्वाहा सरस्वत्यै स्वाहा विश्वव्यचसे स्वाहा सुभूताय स्वाहान्तरिक्षाय स्वाहा
॥३.१२.१२॥मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहा संसर्पो ऽस्य् अंहस्पत्याय स्वाहा
॥३.१२.१३॥सवयसे स्वाहाभिवयसे स्वाहोर्ध्ववयसे स्वाहा बृहद्वयसे स्वाहा सहीयसे स्वाहा सहमानाय स्वाहा सासहये स्वाहा सहस्वते स्वाहाभीषाहे स्वाहाभिभ्वे स्वाहाभिमातिषाहे स्वाहाभिमातिघ्ने स्वाहा
॥३.१२.१४॥एकस्मै स्वाहा द्वाभ्यां स्वाहैकान्नशताय स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा
॥३.१२.१५॥हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः सूर्यस् ते महिमा
॥३.१२.१६॥यः प्राणतो निमिषतश् च राजा पतिर् विश्वस्य जगतो बभूव ।
ईशे यो अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिश् चन्द्रमास् ते महिमा
॥३.१२.१७॥युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥
यद् वातो ऽपो अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।
एतं स्तोतर् अनेन पथा पुनर् अश्वम् आवर्तयासि नः
॥३.१२.१८॥वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा भूर् भुवः स्वर् लाजी३ शाची३ यव्ये गव्य एतद् अन्नम् अत्त देवा एतद् अन्नम् अद्धि प्रजापते ॥
कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः ।
किं स्विद् धिमस्य भेषजं किम् अवावपनं महत् ॥
सूर्य एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥
का स्विद् आसीत् पूर्वचित्तिः किं स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥
द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला
॥३.१२.१९॥प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा ॥
अम्ब्य् अम्बिके अम्बालिके न मा नयति कश् चन ।
ससस्त्य् अश्वकः सुभद्रिकां कामपीलवासिनीम् ॥
गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे निधीनां त्वा निधिपतिं हवामहे वसो ममाहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥
तौ सह चतुरः पदः सम्प्रसारयावः स्वर्गे लोके प्रोर्णुवातां वृषा वाम् अश्वो रेतोधा रेतो दधातु
॥३.१२.२०॥गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।
बृहत्य् उष्णिहा ककुब् देवानां पत्नयो विशः सूचीभिः शमयन्तु त्वा ॥
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ।
विछन्दा या च सछन्दाः सूचीभिः शमयन्तु त्वा ॥
रजताः सीसा हरिणीर् युजो युञ्जन्तु कर्मभिः ।
अश्वस्य वाजिनस् त्वचि स्यूमाः कृण्वन्तु शाम्यन्तीः ॥
महानाम्नी रेवतयो दैव्या आशाः प्रसूवरीः ।
मेघ्या विद्युतो वाचः सूचीभिः शमयन्तु त्वा ॥
योषास् ते पत्नयो लोम विचिन्वन्तु यथायथम् ।
सुपत्नीः पत्नयो वाजिन् प्रजया भुक्षीमहि ॥
कुविद् अङ्ग ॥
इति तृतीयकाण्डे द्वादशः प्रपाठकः
॥३.१२.२१॥तृतीयकाण्डे त्रयोदशः प्रपाठकः
तृतीयकाण्डे त्रयोदशः प्रपाठकः
दधिक्राव्णो अकारिषम्
॥३.१३.१॥अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव आग्नेयो ललाटे पुरस्तात् सारस्वती मेष्य् अधस्ताद् धन्वोः श्यामः पौष्णो नाभ्याम् आश्विना अधोरामौ बाह्वोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोर् वायव्यः श्वेतः पुछ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः
॥३.१३.२॥लोमशसक्थौ : फ़्न् एमेन्देद्। एद्।: लोमसक्थौ
बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणा रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्याः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः
॥३.१३.३॥शुद्धवालः सर्वशुद्धावालो मणिवालस् त आश्विनाः श्येतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः
॥३.१३.४॥पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽधिरूढाकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिषक्थस् त ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त उषस्याः
॥३.१३.५॥शिल्पा वैश्वदेवी रोहिणीस् त्र्यवयो वाचे ऽविज्ञाता अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
॥३.१३.६॥कृष्णग्रीवा आग्नेयाः शितिभ्रुवो वसूनां रोहिता रुद्राणां श्वेता अवरोकिण आदित्यानां नभोरूपाः पार्जन्याः
॥३.१३.७॥उन्नतः शितिबाहुः शितिपृष्ठस् त ऐन्द्राबार्हस्पत्या उन्नत ऋषभो वामनस् त ऐन्द्रावैष्णवाः शुकरूपा वाजिनाः कल्माषा आग्निमारुताः श्यामाः पौष्णाः
॥३.१३.८॥एता ऐन्द्राग्ना द्विरूपा अग्नीषोमीया वामना अनड्वाह आग्नावैष्णवा अन्यतएनीर् मैत्रीर् वशा मैत्रावरुण्यः
॥३.१३.९॥कृष्णग्रीवा आग्नेया बभ्रवः सौम्याः श्वेता वायव्या अविज्ञाता अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः
॥३.१३.१०॥कृष्णा भौमा धूम्रा आन्तरिक्षा बृहन्तो दैवाः शबला वैद्युताः सिध्मास् तारकाः
॥३.१३.११॥कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुताः पिशङ्गा वैश्वदेवा वशा द्यावापृथिवीयाः
॥३.१३.१२॥कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णा एता ऐन्द्राग्नाः पृश्नयो मारुताः कृष्णा वारुणाः कायास् तूपराः
॥३.१३.१३॥अग्नये ऽनीकवते प्रथमजान् आलभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधेभ्यो वष्किहान् मरुद्भ्यः क्रीडिभ्यः संसृष्टान् मरुद्भ्यः स्वतवद्भ्यो ऽनुसृष्टान्
॥३.१३.१४॥कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णा एता ऐन्द्राग्नाः प्राशृङ्गा ऐन्द्रा बहुरूपा वैश्वकर्मणाः
॥३.१३.१५॥कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः श्वेता वायव्याः प्राशृङ्गा ऐन्द्राः सौर्याः श्वेताः
॥३.१३.१६॥त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा अनुष्टुभे तुर्यवाह उष्णिहे
॥३.१३.१७॥पष्ठवाहो विराज उक्षाणो बृहत्यय् ऋषभाः ककुभे धेनवो जगत्यय् अनड्वाहः पङ्क्त्यै
॥३.१३.१८॥धूम्रा वसन्ताय श्वेता ग्रीष्माय कृष्णा वर्षाभ्यः
॥३.१३.१९॥अरुणाः शरदे पृषन्तो हेमन्ताय पिशङ्गाः शिशिराय ॥
इति तृतीयकाण्डे त्रयोदशमः प्रपाठकः
॥३.१३.२०॥तृतीयकाण्डे चतुर्दशः प्रपाठकः
तृतीयकाण्डे चतुर्दशः प्रपाठकः
वसन्ताय कपिञ्जलान् आलभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिराञ् छरदे वर्तिका हेमन्ताय ककरान्
॥३.१४.१॥समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय पुलीकयान् वरुणाय नाक्रान्
॥३.१४.२॥सोमाय हंसान् आलभते वायवे बलाका इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान्
॥३.१४.३॥अग्नये कुटरून् आलभते वनस्पतया उलूकान् अग्नीषोमाभ्यं चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान्
॥३.१४.४॥सोमाय लबान् आलभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः पुलीका अग्नये गृहपतये पारुष्णान्
॥३.१४.५॥अह्ने पारावतान् आलभते रात्र्यै सीचापूर् अह्नः सन्धिभ्यां जतूः संवत्सराय महतः सुपर्णान् मासेभ्यो दात्यौहान्
॥३.१४.६॥भूम्या आखून् आलभते ऽन्तरिक्षाय पाङ्क्त्रान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः
॥३.१४.७॥प्रजापतये पुरुषान् हस्तिना आलभते वाचे प्लुषींश् चक्षुषे मशकाञ् छ्रोत्राय भृङ्गाः
॥३.१४.८॥वसुभ्यो ऋष्यान् आलभते रुद्रेभ्यो रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान् साध्येभ्यः कुलङ्गान्
॥३.१४.९॥ईशानाय परस्वता आलभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयांस् त्वष्ट्रा उष्ट्रान्
॥३.१४.१०॥प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुराजाय मर्कटः शार्दूलाय रोहिद् वृषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गवे कृमिः समुद्राय शिशुमारो हिमवते हस्ती
॥३.१४.११॥मयुः प्राजापत्य उलो हलिक्ष्णो वृषदंशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्कः पुष्करसादो लोहिताहिस् ते त्वाष्ट्रा वाचे क्रौञ्चः
॥३.१४.१२॥सोमाय कुलङ्ग आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः ककुठस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः
॥३.१४.१३॥सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः श्वाविद् भौमी सरस्वत्यै शारिः पुरुषवाक् शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक्
॥३.१४.१४॥सुपर्णः पार्जन्य आतिर् वाहसो दर्विदा ते वायवे कृकवाकुः सावित्रो हंसो वातस्य प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः
॥३.१४.१५॥पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां बृहस्पतये वाचस्पतये पैङ्गराजो ऽलज आन्तरिक्षो नाक्रो मकरः पुलीकयस् ते ऽकूपारस्य ह्रियै शल्यकः
॥३.१४.१६॥एण्य् अह्नो मण्डूको मूषिका तित्तिरस् ते सर्पाणां लोपाश आश्विनः कृष्णो रात्र्यय् ऋक्षो जतूः शुशुलूका त इतरजनानां जहका वैष्णवी
॥३.१४.१७॥अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रः कश्यपो मासां रोहित् कुण्डृणाची गोलत्तिका ता अप्सरसां मृत्यवे ऽसितः
॥३.१४.१८॥वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालवस् ते पित्πणां वसुभ्यः कपिञ्जलो बलायाजगरः कपोता उलूकः शशस् ते निरृत्यै रात्र्यै कृष्णः
॥३.१४.१९॥चित्र आदित्यानाम् उष्ट्रो घृणावान् वार्ध्रानसस् ते मत्या आरणाय सृमरो रुरू रौद्रः कुवयः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः
॥३.१४.२०॥खड्गो वैश्वदेवस् तरक्षुः श्वा कृष्णः कर्णो गर्दभस् ते रक्षसाम् इन्द्राय सूकरः सिंहो मारुतः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेभ्यो देवेभ्यः पृषतः ॥
इति तृतीयकाण्डे चतुर्दशमः प्रपाठकः
॥३.१४.२१॥तृतीयकाण्डे पञ्चदशः प्रपाठकः
तृतीयकाण्डे पञ्चदशः प्रपाठकः
शादं दद्भिर् अवकान् दन्तमूलैर् मृदं बर्स्वै स्तेगान् दंष्ट्राभ्याम् अवक्रन्देन तालु वाजं हनुभ्यां सरस्वत्या अग्रजिह्वं जिह्वाया उत्सादम् अप आस्येन वृषणा आण्डाभ्याम् आदित्याञ् श्मश्रुभिः पन्थां भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनिकाभ्यां कर्णाभ्यां श्रोत्रे श्रोत्राभ्यां कर्णव् अवार्याणि पक्ष्माणि पार्या इक्षवः पार्याणि पक्ष्माण्य् अवार्या इक्षवः
॥३.१५.१॥बर्स्वै : फ़्न् ⟨ बर्स्वैस्
वातं प्राणेनापानेन नासिकाम् उपयामम् अधरेणौष्ठेन सद् उत्तरेण शुक्लाय स्वाहा कृष्णाय स्वाहा स्तनयित्नुं निर्बाधेन मूर्धानं निवेष्येणाशनिं मस्तिष्केण विद्युतं कनीनिकाभ्यां प्रकाशेनान्तरम् अनुकाशेन बाह्यं तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिं शीर्ष्णा निरृतिं निर्जल्पेन शीर्ष्णा प्राणान्त् सङ्क्रोषैर् रेष्माणं स्तूपेन
॥३.१५.२॥मशकान् केशैर् इन्द्रं स्वपसा वहेन बृहस्पतिं शकुनिसादेन कूर्माञ् शफैर् आक्रमणं स्थूराभ्यां बलं कुष्टाभ्यां जवं जङ्घाभिर् अध्वानं बाहुभ्यां जाम्बिलेनारण्यम् अग्निम् अतीरुग्भ्यां रुद्रं रोराभ्यां पूषणं दोर्भ्याम् अश्विना अंसाभ्याम्
॥३.१५.३॥अग्नेः पक्षतिर् वायोर् निपक्षतिः सोमस्य तृतीयापां चतुर्थ्य् अदित्याः पञ्चम्य् अग्नीषोमयोः षष्ठी मरुतां सप्तमी बृहस्पतेर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी
॥३.१५.४॥इन्द्राग्न्योः पक्षतिः सरस्वत्या निपक्षतिर् इन्द्रस्य तृतीया बृहस्पतेश् चतुर्थी निरृत्याः पञ्चमीन्द्राण्याः षष्ठी सर्पाणां सप्तमी विष्णोर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यास् त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम्
॥३.१५.५॥मरुतां स्कन्धा विश्वेषां देवानां म्प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुछम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्यां मित्रावरुणा ऊरुभ्याम् इन्द्रावरुणा अल्गाभ्याम् आक्रमणं कुष्ठाभ्याम् अत्सराभिः कपिञ्जलान्
॥३.१५.६॥इन्द्रस्य क्रोडो ऽदित्याः पाजस्यं दिशां जत्रवो ऽदित्या भसद् जीमूतान् हृदयौपशाभ्याम् अन्तरिक्षं पुलीतता नभ उदर्येण वल्मीकान् क्लोम्ना ग्लौभिर् गुल्मांश् चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां हिराभिः स्रवन्तीर् गिरीन् प्लाशिभ्याम् उपलान् प्लीह्ना ह्रदान् कुक्षिभ्यां समुद्रम् उदरेण वैश्वानरं भस्मना
॥३.१५.७॥विधृतिं नाभ्या घृतं रसेनापो यूष्णा मरीचीर् विप्रुषा नीहारम् ऊष्मणा शीनं वसया ह्रादुनीर् दूषीकाभिः प्रुष्वा अश्रुभिर् अस्ना रक्षांसि चित्राण्य् अङ्गैर् नक्षत्राणि रूपैः पृथिवीं त्वचा जुम्बकाय स्वाहा
॥३.१५.८॥पूषणं वनिष्ठुनान्धाहीन्त् स्थूरगुदया सर्पान् गुदाभिर् विह्रुत आन्त्रैर् अप आस्येन वृषणा आण्डाभ्यां शेषो वाजिनेन प्रजां रेतसा चाषान् पित्तेन प्रदरान् पायुना कूष्माञ् शकपिण्डैः
॥३.१५.९॥अग्नये गायत्राय त्रिवृते राथन्तराय वासन्तिकाय पुरोडाशम् अष्टाकपालं निर्वपतीन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्माय पुरोडाशम् एकादशकपालं विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यः पुरोडाशं द्वादशकपालं मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविंशाभ्यां वैराजाभ्यां शारदाभ्यां पयस्यां बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुं सवित्र आतिछन्दसाय त्रयस्त्रिंशाय रैवताय शैशिराय पुरोडाशं द्वादशकपालम् अनुमत्यै चरुं वैश्वानरं द्वादशकपालम् अदित्यै विष्णुपत्न्यै चरुं कायम् एककपालम्
॥३.१५.१०॥अग्नये ऽंहोमुचे पुरोडाशम् अष्टाकपालं निर्वपतीन्द्रायांहोमुचे पुरोडाशम् एकादशकपालं मित्रावरुणाभ्याम् आगोमुग्भ्यां पयस्यां वायुसवितृभ्याम् आगोमुग्भ्यां पयो ऽश्विभ्याम् आगोमुग्भ्यां धाना मरुद्भ्य एनोमुग्भ्यः पुरोडाशं सप्तकपालं विश्वेभ्यो देवेभ्य एनोमुग्भ्यः पुरोडाशं द्वादशकपालम् अनुमत्यै चरुं वैश्वानरं द्वादशकपालं द्यावापृथिवीभ्याम् अंहोमुग्भ्यां पुरोडाशं द्विकपालम् ॥
इति तृतीयकाण्डे पञ्चदशमः प्रपाठकः
॥३.१५.११॥तृतीयकाण्डे षोडशः प्रपाठकः
तृतीयकाण्डे षोडशः प्रपाठकः
इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रतिगृभ्णन्त्य् अश्वम्
॥३.१६.१॥धनयीद् : फ़्न् मित्त्wएदे, तेxत्क्रितिस्छे बेमेर्कुन्गेन् ज़ुर् क्ः प्। १५५: ध्वनयीद्
समिद्धो अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥
तनूनपात् सं पथो देवयानान् प्रजानन् वाज्य् अप्येतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्तां स्वधां देवैर् यजमानाय धेहि ॥
ईड्यश् चासि वन्द्यश् चासि वाजिन्न् आशुश् चासि मेध्यश् चासि सप्ते ।
अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिर् अक्तम् अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥
एता उ वः सुभगा विश्ववारा वि पक्षोभिः श्रयमाणा उद् आतैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।
उषासा वां सुहिरण्ये सुशिल्पे ऋतस्य योना इह सादयामि ॥
प्रथमा वां सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥
आदित्यैर् नो भारती वष्टु यज्ञं सरस्वती सह रुद्रैर् न आवीत् ।
इडोपहूता वसुभिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥
त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत आशुर् अश्वः ॥
त्वष्टेमा विश्वा भुवना जजान बहोः कर्तारम् इह यक्षि होतः ॥
अश्वो घृतेन त्मन्या समक्ता उप देवं ऋतुशः पाथ एतु ।
वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥
प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः
॥३.१६.२॥युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥
केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
सम् उषद्भिर् अजायथाः ॥
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥
धन्वना गा धन्वन् आजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोतु धन्वना सर्वाः पृतना जयेम ॥
वक्ष्यन्तीवेद् आगनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।
अप शत्रून् विध्यतः संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥
बहूनां पिता बहुर् अस्य पुत्रः चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चाद् अनुयछन्ति रश्मयः ॥
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रून्र् अनपव्ययन्तः ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥
दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वनस्पतिभ्यः पर्य् आवृतं सहः ।
अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥
इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
स्वादुषंसदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी उभे स्ताम् ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्स ईशत ॥
ऋजीते परिवृङ्ग्धि नो ऽश्मा भवतु नस् तनूः ।
सोमो अधिब्रवीतु नो ऽदितिः शर्म यछतु ॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥
अहिर् इव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परिपातु विश्वतः ॥
आजङ्घन्ति सान्व् एषां जघनं उपजिघ्नतु ।
अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु नोदय ॥
उपश्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
सं दुन्दुभे सजूर् इन्द्रेण देवैर् आराद् दवीयो अपसेध शत्रून् ॥
आक्रन्दय बलम् ओजो ना आधा निष्टनिहि दुरिता बाधमानः ।
अपप्रोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥
इन्द्रस्य : फ़्न् एमेन्देद्। एद्।: इन्द्रस्य।
आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।
सम् अश्वपर्णाश् चरन्तु नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु
॥३.१६.३॥समिद् दिशाम् आशयानः स्वर्विन् मधु रेतो माधवः पात्व् अस्मान् ।
अग्निर् देवो दुष्टरीतुर् अदब्ध इदं क्षत्रं रक्षतु पात्व् अस्मान् ॥
रथन्तरं सामभिः पात्व् अस्मान् गायत्री छन्दसां विश्वरूपा ।
त्रिवृन् नो विष्ठया स्तोमो अह्ना समुद्रो वात इदम् ओजः पिपर्तु ॥
उग्रा दिशाम् अभिभूतिर् वयोधाः शुचिः शुक्रे अहन्न् ओजसीने ।
इन्द्राधिपत्यैः पिपृताद् अतो नो महि क्षत्रं विश्वतो धारयेदम् ॥
बृहत् साम क्षत्रभृद् वृद्धवृष्णं त्रिष्टुभौजः शुभितम् उग्रवीरम् ।
इन्द्रः स्तोमेन पञ्चदशेन मध्यम् इदं वातेन सगरेण रक्षतु ॥
प्राची दिशां सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नां स्वर्वती ।
वैरूपे सामन्न् अधि तञ् शकेयं जगत्यैनं विक्ष्व् आवेशयामि ॥
इदं क्षत्रं दुष्टरम् अस्त्व् ओजो ऽनाधृष्टं सहस्यं सहस्वत् ।
विश्वे देवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातम् उग्रम् ॥
धर्त्री दिशां क्षत्रम् इदं दाधारोपस्थाशानां मित्रवद् अस्त्व् ओजः ।
मित्रावरुणा शरदाह्ना चिकित्तम् अस्मे राष्ट्राय महि शर्म यछतम् ॥
वैराजे सामन्न् अधि मे मनीषानुष्टुभा सम्भृतं वीर्यं सहः ।
इदं क्षत्रं मित्रवद् आर्द्रदानु मित्रावरुणा रक्षतम् आधिपत्यैः ॥
सम्राड् दिशां सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु ।
अवस्युवाता बृहती न शक्वरी दिशां तेव्य् अवतु नो घृताची ॥
स्वर्वती सुदुघा नः पयस्वतीमं यज्ञम् अवतु या घृताची ।
त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्ग्धि वाचम् ॥
ऊर्ध्वा दिशां रन्तीर् आशौषधीनां संवत्सरेण सविता नो अह्ना ।
रेवत् सामातिछन्दा उ छन्दो ऽजातशत्रुः स्योना नो अस्तु ॥
स्तोमस् त्रयस्त्रिंशे भुवनस्य पत्नी विवस्वद्वाते अभि नो गृणीहि ।
घृतवती सवितुर् आधिपत्ये पयस्वती रातिर् आशा नो अस्तु ॥
अन्व् अद्य नो अनुमतिर् यज्ञं देवेषु मन्यताम् ।
अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥
अन्व् इद् अमुमते त्वं मन्यासै शं च नस् कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ना आयूंषि तारिषत् ॥
वैश्वानरो न ऊत्या प्रयातु परावतः ।
अग्निर् उक्थेन वाहसा ॥
पृष्टो दिवि ॥
ध्रुवा दिशां विष्णुपत्न्य् अघोरास्येशाना सहसो या मनोता ।
बृहस्पतिर् मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु ॥
विष्टम्भो दिवो धरुणा पृथिव्या अस्येशाना जगतो विष्णुपत्नी ।
व्यचस्वतीषयन्ती सुभूतिः शिवा नो अस्त्व् अदितेर् उपस्थे ॥
कया नः ॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात्
॥३.१६.४॥अग्नेर् मन्वे प्रथमस्यामृतानां यं पाञ्चजन्यं बहवः समिन्धते ।
विश्वस्यां विशि प्रविविशिवांसम् ईमहे स नो मुञ्चत्व् अंहसः ॥
यस्येदं प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् ।
स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप माम् उपागुः ।
यो दाशुषः सुकृतो हवम् उप गन्ता स नो मुञ्चत्व् अंहसः ॥
यः सङ्ग्रामं नयति सं वशी युधे यः पुष्टानि सम्मृजति त्रयाणि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥
मन्वे वां मित्रावरुणा तस्य वित्तं सत्यौजसा दुर्हृणा यं नुदेथे ।
या राजाना सरथं यात उग्रा ता नो मुञ्चतम् आगसः ॥
यो वां रथ ऋजुरश्मिः सत्यधर्मा मिथुचरन्तम् उपयाति दूषयन् ।
स्तौमि मित्रावरुणौ नाथितो जोहवीमि ता नो मुञ्चतमागसः ॥
वायोः सवितुर् विदथानि मन्महे या आत्मन्वद् बिभृतो यौ च रक्षतः ।
यौ विश्वस्य परिभू बभूवथुस् ता नो मुञ्चतम् आगसः ॥
उप श्रेष्ठा न आशिरो देवयोर् धर्मा अस्थिरन् ।
स्तौमि वायुं सवितारं नाथितो जोहवीमि ता नो मुञ्चतम् आगसः ॥
रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः ।
ययोर् वां देवौ देवेष्व् अनिषितम् ओजस् ता नो मुञ्चतम् आगसः ॥
यद् अयातं वहतुं सूर्यायास् त्रिचक्रेण संसदम् इछमानौ ।
स्तौमि देवा अश्विनौ नाथितो जोहवीमि ता नो मुञ्चतम् आगसः ॥
मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे ।
आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
तिग्मम् आयुधं वीडितं सहस्वद् दिव्यं शर्धः पृतनासु जिष्णु ।
स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे ।
आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
यद् इदं माभिशोचति पौरुषेयेण दैव्येन ।
स्तौमि विश्वान् देवान् आथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
अन्व् अद्य नो अनुमतिर् अन्व् इद् अनुमते त्वं वैश्वानरो न ऊत्या ॥
त्वम् अग्ने शोचिषा शोशुचाना आ रोदसी अपृणा जायमानः ।
त्वं देवं अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥
उर्वी रोदसी वरिवस् कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रुवाथः ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥
ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥
यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच्चिद् आगः ।
कृधी ष्व् अस्मं अदितेर् अनागान् एनांसि शिश्रथो विष्वग् अग्ने ॥
यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्रतार्य् अग्ने प्रतरं ना आयुः
॥३.१६.५॥