तृतीयकाण्डे चतुर्थः प्रपाठकः
तृतीयकाण्डे चतुर्थः प्रपाठकः
वसोर् धारां जुहोत्य् अकॢप्तस्य कॢप्त्या अशान्तस्य शान्त्या अनभिजितस्याभिजित्या अनवरुद्धस्यावरुद्ध्यै सन्ततं जुहोति प्राणानां सन्तत्या एषां लोकानां सन्तत्या अन्नाद्यस्य सन्तत्यय् अविछिन्नं जुहोत्य् अन्नाद्यस्याविछेदाय यद् विछिन्द्यात् प्राणान् विछिन्द्याद् यं द्विष्यात् तस्य विछिन्द्याद् अन्नाद्यम् अस्य विछिनत्त्य् अक्षुच् चान्नं चेत्य् एतानि वा अन्नस्य रूपाणि रूपैर् एवान्नम् अवरुन्द्धे ऽग्निश् चापश् चेत्य् एषा वा अन्नस्य योनिः सयोन्य् एवान्नम् अवरुन्द्धे वसोर् मे धारासद् इति वसोर्धारां जुहोति घृतस्य वा एषा धारा यजमानम् अमुष्मिंल् लोक उपतिष्ठन्ते द्वादश द्वादशाति जुहोति द्वादश मासाः संवत्सरः संवत्सरम् एवावरुन्द्धे ऽर्धेन्द्राणि जुहोत्य् अर्धेन्द्रैर् वै देवा इन्द्रियं वीर्यम् असुराणाम् अवृञ्जतेन्द्रियम् एवैतैर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते देवाश् च वा असुराश् चास्पर्धन्त ते देवा इन्द्रम् अब्रुवंस् त्वया मुखेनेमान् जयामेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् अर्ध्यो वा अहं देवतानाम् असानीति ततो वा अजयंस् तस्माद् एषो ऽर्धभाग् देवतानां यद् अर्धेन्द्राणि हूयन्ते विजित्यईन्द्रोत्तमानि भवन्तीन्द्रियं वै वीर्यम् इन्द्र इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठत्य् अंशुश् च रश्मिश् चेति यज्ञमुखं वा अंशुश् च रश्मिश् च यज्ञमुखम् एवावरुन्द्धे ऽधिपतिश् चादाभ्यश् चेति नैनं भ्रातृव्यो दभ्नोत्य् अग्निं चिक्यानं प्र समानानां ज्यैष्ठ्यम् आप्नोति य एवं वेदैते ग्रहा भवन्त्य् एतानि वै यज्ञस्य रूपाणि रूपैर् एव यज्ञम् अवरुन्द्धे स्रुचश् च चमसाश् चेति यज्ञायुधानि सम्भरति यज्ञायुधान्य् एव सम्भृत्य यज्ञं प्रयुङ्क्ते पात्राणि जुहोति पात्रैर् वा अन्नम् अद्यते ऽनुरूपेणैवान्नाद्यम् अवरुन्द्धे बर्हिश् च वेदिश् चेत्य् आशीर् एवैषावभृथश् च स्वगाकारश् चेति प्रतिष्ठित्यै
॥३.४.१॥अग्निश् च घर्मश् चेत्य् एतद् वा अग्नेर् ब्रह्मवर्चस्यं रुचं चैवैतेन ब्रह्मवर्चसं चावरुन्द्धे तेजस्वी ब्रह्मवर्चसी भवत्य् ऋतुश् च व्रतं चेत्य् अहोरात्रे वा ऋतुश् च व्रतं चाहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवत एका च तिस्रश् चेति देवछन्दसं वा एका च तिस्रश् च देवछन्दसम् एवावरुन्द्धे चतस्रश् चाष्टौ चेति मनुष्यछन्दसं वै चतस्रश् चाष्टौ च मनुष्यछन्दसम् एवावरुन्द्धे देवलोक एव देवछन्दसेन ऋध्नोति मनुष्यलोके मनुष्यछन्दसेनैका च तिस्रश् च चतस्रश् चाष्टौ चेति रोहो वा एष एषां लोकानां सङ्क्रान्तिः स्वर्गस्य लोकस्य द्व्युत्तरेण वै स्तोमेनादित्याः स्वर्गं लोकम् आयंश् चतुरुत्तरेणाङ्गिरसौ यद् एतौ स्तोमौ जुहोति स्वर्गस्य लोकस्य समष्ट्यै युग्मदयुजौ वा एतौ सोमौ मिथुनौ प्रजननाय रेत एव द्व्युत्तरेण दधाति रेतो हितं चतुरुत्तरेण प्रजनयत्य् एका च तिस्रश् चेत्य् आ त्रयस्त्रिंशतस् त्रयस्त्रिंशद् देवतास् ता एवास्यैतेनाभीष्टाः पीता भवन्ति चतस्रश् चाष्टौ चेत्य् अष्टाचत्वारिंशतो ऽष्टाचत्वारिंशदक्षरा जगती जागताः पशवः पशून् एवावरुन्द्धे त्र्यविश् च त्र्यवी चेत्य् एतानि वै वयांसि पशूनां पशव एव पशून् अवरुन्द्ध आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इति यज्ञस्य वा एषा कॢप्तिर् यज्ञम् एवैतद् अचीकॢपद् वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवत्सरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठति स्तोमश् च यजुश् चेत्य् अन्नं वै स्तोमश् च यजुश् चान्नं वा एतद् आत्मन् धित्वान्नादो भूत्वा देवक्षेत्रम् अन्ततः प्रावसत्य् अग्निर् वै वसुस् तस्य वा एषा धारा सर्वान् ह वा अस्मा अग्निर् दोहान्त् सर्वान् कामान् दुहे य एवं वेद सं वा एतद् अग्निर् अन्नाद्यम् इन्द्धे यच् चिनोति तं दीपयत्य् एव वसोर् धारया
॥३.४.२॥म्स्_३,४।३॥
अचीकॢपत् : फ़्न् एमेन्देद्। एद्।: अचीकॢपत्
वाजप्रसव्यं जुहोति वाजं वा एतेनाग्निर् अन्नाद्यम् उदजयद् वाजम् एवैतेनान्नाद्यं यजमाना उज्जयत्य् अन्नस्यान्नस्य जुहोति वाजप्रसव्याभिर् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यय् उभयं ग्राम्यं चारण्यं च जुहोत्य् उभयस्यान्नाद्यस्यावरुद्धयय् औदुम्बरेण स्रुवेण जुहोत्य् ऊर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यै देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीत्य् अभिषिञ्चेद् यदि ब्राह्मणो यजेत बृहस्पतिसवो ह्य् एष इन्द्रं साम्राज्यायाभिषिञ्चामीत्य् अभिशिञ्चेद् यदि राजन्यो यजेतेन्द्रसवो ह्य् एष कृष्णाजिने ब्रह्मवर्चसकामम् अभिषिञ्चेद् ब्रह्मणो वा एतद् ऋक्सामयो रूपम् ऋक्सामे ब्रह्मवर्चसं ब्रह्मवर्चसम् एवावरुन्द्धे बस्ताजिने पशुकामं पशवो वै बस्ताजिनं पशून् एवावरुन्द्धे सूयते वा एषो ऽग्नीनां यश् चीयते स्वेनैवैनं सवेन समर्धयति देवा ओषधीषु पक्वास्व् आजीम् अयुस् ता अग्निर् उदजयद् अग्नेर् वा एषो ऽभिषेको ऽन्नस्य वा एतत् सूयते सवानां वा एष एको बृहस्पतिसवो वा एष बार्हस्पत्यो ब्राह्मणो देवतया स्वेनैव सवेन सूयते तद् आहुर् होतव्यम् एव न हि सुषुवाणः कं चन प्रत्यवरोहतीति सुषुवाणो वा एष देवतया यो ऽग्निचिद् ऋतवो वै सुषुवाणस्य राष्ट्रम् अनुबिभ्रति षड् वा ऋतव ऋतवो राष्ट्रभृतो यत् षड्भिर् जुहोत्य् ऋतुष्व् एवास्य राष्ट्रं प्रतिष्ठापयति ते ऽस्मै राष्ट्रम् अनुबिभ्रति द्वादशगृहीतेन जुहोति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे मिथुना वा एता आहुतयस् तस्मै स्वाहा वट् ताभ्यः स्वाहा वड् इति तस्मिन्न् एव मिथुने रेतो दधाति रथशीर्षे सप्तमं जुहोति दिशाम् अभिजित्यै दिश एवाभिजिता रथेन जीयन्ते ऽथैते वातहोमा अग्निचितो वा अमुत्राहोरात्रे अग्निचिते ऽयं वायुः पवते प्राणो वै वायुः प्राणम् एवावरुन्द्धे ऽञ्जलिना जुहोति न ह्य् एतस्यावदानम् अस्त्य् अथो परिगृहीत्या एव प्राणो वै वायुर् हस्तः प्राणायोपकॢप्ततमस् तस्माद् अञ्जलिना जुहोति त्रिर् जुहोति त्रयो वा इमे लोका इम एवास्मै लोका वातं धुन्वन्ति समुद्रो ऽसि नभस्वान् आर्द्रदानुर् इत्य् एतानि वै वायो रूपाणि रूपैर् एव वायुम् अवरुन्द्धे मारुतो ऽसि मरुतां गण इति मारुतो हि वायुः सं वा एतद् अग्निम् इन्द्धे यच् चिनोति तं दीपयत्य् एव वातहोमैः प्राणो वै गायत्री गायत्रं हविर्धानम् अपानो जगती जागतं सदो व्यानस् त्रिष्टुप् त्रैष्टुभम् आग्नीध्रम् असुः पृश्निर् मध्ये दिव्यो निहितः पृश्निर् अश्मेति अमुं वावास्यैतन् मध्यतः प्राणापानानां व्यवदधाति प्राणानां धृत्यय् अश्मनवमा आग्नीध्रे सादयति नव वै प्राणाः प्राणान् वावास्यैतद् यजमानलोके दधात्य् एकविंशतिं होत्रिये प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविम्श एकादश ब्राह्मणाञ्शंस्य एकादशाक्षरा त्रिष्टुब् वीर्यं तिर्ष्टुब् वीर्य एव प्रतितिष्ठत्य् अष्टाष्टा इतरेष्व् अष्टाक्षरा गायत्री ब्रह्म गायत्री ब्रह्मण्य् एव प्रतितिष्ठति षण् मार्जालीये षड् वा ऋतव ऋतवो वा एतं दक्षिणतः पर्यहरन्त पितरो वा ऋतवो ऽथो षड् वै छन्दांसि छन्दांसि वावास्यैतद् यज्ञमुखे युनक्ति सजूर् अब्दो आयवोभिर् इत्य् एता वा अग्नेर् देवताः पुरस्ताद्भागास् ता एव प्रीणात्य् अथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्धे सजूर् अब्दो आयवोभिर् इति संवत्सरो वा अब्द ऋतवा आयवानः संवत्सर एवास्यैतेना ऋतवो ऽभीष्टाः प्रीता भवन्ति सजूर् उषा आरुणीभिर् इत्य् उषसम् एव प्रीणाति सजोषा अश्विना दंसोभिर् इत्य् अहोरात्रे वा अश्विनाहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवतः सजूः सूरा एतशेनेति सूर्यम् एव प्रीणाति सजूर् वैश्वानर इडया घृतेन स्वाहेति संवत्सरो वै वैश्वानरः पशवा इडा पशवो घृतं संवत्सरा एवास्यैतेन पशवो ऽभीष्टाः प्रीता भवन्ति दर्भस्तम्बे जुहोत्य् एषा वा अस्यामृतचित् तनूर् अमृते वा एतद् अग्निश् चीयते हिरण्यं निधाय जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयात् स्वर्गाय वै लोकाय देवरहथो युज्यते कामाय मनुष्यरथो ऽग्निं युनज्मि शवसा घृतेनेत्य् अग्निं वा एतद् युनक्ति तेन युक्तेन स्वर्गं लोकं गछति यत् सर्वाभिर् युञ्ज्याद् युक्तो ऽस्य यज्ञः स्याद् अप्रतिष्ठिता आहुतयो द्वाभ्यां नापियुनक्त्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनुप्रतितिष्ठति यज्ञं यजमानस् तिसृभिर् युनक्ति त्रिवृद् ध्य् अग्निर् यावान् एवाग्निस् तं युनक्ति तस्मिन् युक्ते सर्वं हव्यं समाधीयते पञ्चभिर् युनक्ति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध सं वा एतम् एतौ तपतो यश् चीयते यश् च वैश्वानरो यद् अप्सुमतीभ्यां पुरस्ताद् यज्ञायज्ञियस्य सम्मृशति शान्त्यय् एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमो भूम त्व् एवास्यात ऊर्ध्वं क्रियते
॥३.४.४॥यो वा अग्निं योगा आगते न युङ्क्ते न युञ्जानेषु युङ्क्ते ऽग्ने युक्ष्वा हि ये तवेत्य् अग्निं वा एतद् योगा आगते युङ्क्ते युङ्क्ते युञ्जानेषु यो वा अग्निं विमोक आगते न विमुञ्चते न विमुञ्चमानेषु विमुञ्चते वि ते मुञ्चामि रशनां वि रश्मीन् इत्य् अग्निं वा एतद् विमोक आगते विमुञ्चते वि मुञ्चमानेषु मुञ्चते यथा वै पुनराधेयम् एवं पुनश्चितिर् यो वा आधेयेन ऋध्नोति पुनः स आधत्ते यो ऽग्निं चिक्यानो मन्येत वि स्या ऋध्यता इति स एतां पुनश्चितिम् उपदहीतापि प्रथमं चिन्वानश् चिन्वीता ऋद्ध्यय् ऋध्नोत्य् एवाथो मिथुनत्वाय यां वा अग्निचिद् अनिष्टका आहुतिं जुहोति स्रवति सा तां स्रवन्तीं यज्ञो ऽनुस्रवति यज्ञं यजमानो यद् एतां पुनश्चितिम् उपदधात्य् आहुतीनां प्रतिष्ठित्यै ताः प्रतितिष्ठन्तीर् यज्ञो ऽनु प्रतितिष्ठति यज्ञं यजमानो ऽष्टोपदधात्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तं चिनुते ऽष्टौ लोकम्पृणा उपधाय पुरीषेणाभ्य्·हत्य् अष्टाक्षरा गायत्री ब्रह्म गायत्री गायत्र्यैवैनं छन्दसा ब्रह्मणा चिनुत एकादश लोकम्पृणा उपधाय पुरीषेणाभ्य्·हत्य् एकादशाक्षरा त्रिष्टुब्वीर्यं त्रिष्टुभैवैनं छन्दसा वीर्येण चिनुते द्वादश लोकम्पृणा उपधाय पुरीषेणाभ्य्·हति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवैनं छन्दसा पशुभिश् चिनुत एषा वा अग्नेर् उत्तरवेदिर् एतद् अग्निर् उत्तरवेदिमांश् चीयते यो ऽस्याग्निः पुरा चितः स्यात् तम् अन्ववसाय यजेत यथा वा इदं दीप्यमाने भूयो ऽभ्यादधात्य् एवं वावास्मिन्न् एतद् अभिपूर्वं भूयस् तेजो दधाति तद् आहुः कः श्रेयांसं विषुप्तं बोधयिष्यतीति यद् यजता आहुत्यैवैनं व्यर्धयति गृहान् वा एष कुरुते यो ऽग्निं चिनुते यद् वा अन्यतो विन्दते गृहांस् तद् आहरति य इष्ट्या वा पशुना वा सोमेन वा यजेत यो ऽस्याग्निः पुरा चितः स्यात् तम् अन्ववसाय यजेत यथा वा इदम् अन्यतो वित्त्वा गृहान् आहरत्य् एवं तत् तद् आहुः पुनर् वा स्रुवा एतद् यज्ञे क्रियते यत्रैव क्व च यजेत तद् एता एकविंशतिम् उपधाय यजेत प्रतिष्ठित्यै प्रतिष्ठा ह्य् एकविम्श इति
॥३.४.५॥चिन्वीता : फ़्न् ⟨ चिन्वीत
समास् त्वाग्ना ऋतवो वर्धयन्त्व् इति समाभिश् चैवैनम् ऋतुभिश् च समिन्द्धे सं दिव्येन दीदिहि रोचनेनेति ज्योतिष्मन्तम् एवैनं चिनुते विश्वा आभाहि प्रदिशश् चतस्रा इति तस्माद् अग्निः सर्वा दिशा आभात्य् अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चा इत्य् आमयाविनः कुर्यान् मृत्युर् वै यमो ब्रह्म बृहस्पतिर् यावद् एव ब्रह्म तेनैनं भिषज्यति प्रत्यूहताम् अश्विना मृत्युम् अस्माद् इत्य् अश्विनौ वै देवानां भिषजौ ता अस्मान् मृत्युं प्रत्यूहत उद् वयं तमसस् परीति पाप्मानम् एव तमो ऽपहत्य स्वर्गं लोकम् अभ्यारोहत्य् आहृतो वै हैतनामनः सर्वतेर् आपाष्ठेर् अग्नेश् चित्यस्य होतासीत् तम् अब्रुवन् या अप्सुमतीस् ता इछेति तस्मै वा एता गन्धर्वाप्सरसः प्राब्रुवन् यद् अप्सुमतीः सामिधेनीर् भवन्ति शान्त्यै चतुर्विंशतिम् अन्वाह चतुर्विंशत्यक्षरा वै गायत्री गायत्री यज्ञमुखं यज्ञमुखम् एवालब्धाथो चतुर्विंशतिर् वा अर्धमासाः संवत्सर एष वा अस्थिता श्रीर् यत् संवत्सरो न वा एष श्रियेलयति न हास्य श्रीर् इलयति गायत्रीर् अन्वाह तेजो वै गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्द्धे त्रिष्टुभो ऽन्वाहौजो वै वीर्यं त्रिष्टुभ् ओज एव वीर्यम् अवरुन्द्धे यद् गायत्र्यश् च त्रिष्टुभश् च भवन्ति तेनैव तद् उभयम् अवरुन्द्धे या आग्नेयीर् अनिरुक्तास् ताः कार्या अनिरुक्तम् इव ह्य् एतद् अव्यावृत्तं व्यावृतं पाप्मना भ्रातृव्येण गछति ता अग्नीषोमीयस्य पशोः कुर्यात् को हि देवक्षेत्रं द्विर् अभ्यारोक्ष्यतीति तिस्रो रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुस् त्रिपदा विराड् विराजम् एवाप्नोति षड् रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुः षड् वा ऋतवः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति दश रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुर् दशाक्षरा विराड् विराजम् एवाप्नोति द्वादश रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुर् द्वादश मासाः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति चतुर्विंशतिं रात्रीर् भृत्वाग्निश् चेतव्या इत्य् आहुश् चतुर्विंशतिर् वा अर्धमासाः संवत्सरः संवत्सरम् अनु विराड् आयत्ता विराजम् एवाप्नोति मासं भृत्वाग्निश् चेतव्या इत्य् आहुर् मासश एव संवत्सरम् आप्नोत्य् अष्टौ वा एतन् मासो वसवो ऽबिभ्रुस् त इमं लोकम् आजयन् गायत्रीं छन्द एकादश रुद्रास् ते ऽन्तरिक्षं लोकम् आजयंस् त्रिष्टुभं छन्दो द्वादशादित्यास् ते ऽमुं लोकम् आजयन् जगतीं छन्दस् त आर्ध्नुवन्न् ऋध्नोति य एवं विद्वान्त् संवत्सरम् अग्निं बिभर्ति तस्माद् आहुः संवत्सरभृत एवाग्निर् इत्य् अथैता आप्रियः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एता आप्रीर् अपश्यत् ताभिर् आत्मानम् आप्रीणीताग्निर् वै प्रजापतिर् यद् एता आप्रियो भवन्त्य् अग्निम् एवैताभिर् यजमाना आप्रीणीते लोमशं वा एतच् छन्दः पशव्यम् ऊनातिरिक्तं प्रजननाय विराजो भवन्ति विराड् वै सर्वाणि छन्दांसि सर्वाण्य् एवास्य छन्दांस्य् उपहितानि भवन्ति ता विश्वचितः कुर्यात् प्राणा वा एता ज्यायसीर् इव च कनीयसीर् इव च भवन्ति ज्यायाम्स इव च हीमे कनीयाम्स इव च प्राणाः प्राणान् एवात्मन् धत्ते
॥३.४.६॥वा : फ़्न् एमेन्देद्। एद्।: आ।
यस्याग्निर् उख्यो ऽनुगछति यथा पुत्रो जातः प्रमीयत एवं तद् यद्य् अनुगछेत् ताम् एवोखां पुनः परीन्धीतैषा वा अग्नेर् योनिः स्वाद् एवैनां योनेः प्रजनयतीश्वरो वा एषो प्रजनितोर् यो ऽग्निं चिनुते ॥
यास् ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।
ताभिष् ट्वम् उभयीभिः संविदानः प्रजानंस् तन्वेह निषीद ॥
इति यद् एषार्द्रा योनिमति शान्त्यै प्रजा वै कुलायं पशवः कुलायं यत् कुलायिनीः प्रजात्यै हविर्भूतो वा एष यो ऽग्निं चिनुते यो ऽग्निं चित्वान् यस्य स्त्रियम् उपैति यथा हविः स्कन्नम् एवं स्याद् यथा हविषे स्कन्नाय प्रायश्चित्तिम् इछन्त्य् एवम् अस्मै प्रायश्चित्तिम् इछेयुर् यद्य् उपेयान् मैत्रावरुण्यामिक्षया यजेत मैत्रावरुणताम् एवोपैत्य् आत्मनो ऽस्कन्नत्वाय पशुर् वा अग्निर् यो वै पशुं पुरस्ताद् उपचरति हिनस्ति वा एनं स तस्मात् पुरस्तात् प्रत्यञ्चं नाक्रामति तस्माद् उ पश्चात् प्राञ्चम् उपचरत्य् आत्मनो ऽहिंसायै यो वै यथावृत्तम् अग्निं चिनुते यथारूपं प्रजाश् च ऋतवश् च कल्पन्ते या दक्षिणावृतस् ता दक्षिणत उपदधाति याः सव्यावृतस् ता उत्तरतस् त्र्यालिखिताः पश्चात् प्राचीर् उपदधाति यथावृत्तं वा एतद् अग्निं चिनुते यथारूपं प्रजाश् च ऋतवश् च कल्पन्ते ससत्यो ऽग्निश् चेतव्या इत्य् आहुः ॥
भूर् भुवः स्वः ॥ इति पुरस्तात् स्वयमातृण्णा यावद् एतद् वै वाचः सत्यं ससत्यम् एवाग्निं चिनुते प्राणो वै स्वयमातृण्णामृतं हिरण्यं यद् धिरण्येष्टकाम् उपधाय स्वयमातृण्णाम् उपदधात्य् अमृत एवास्य प्राणान् दधाति तेजो ऽसि तेजो मे यछेति हिरण्येष्टका उपदधात्य् एताभिर् वा इमे लोका विधृता अथो एताभिर् एवाग्निं चिनुत इमे लोकाः प्रभान्ति देवा असुरान् हत्वा मृत्योर् अबिभयुस् ते छन्दांस्य् अपश्यंस् तानि प्राविशंस् तेभ्यो यद्यद् अछदयत् तेनात्मानम् अछादयन्त तच् छन्दसां छन्दस्त्वं चितिञ्चितिम् उपधायाग्नेय्या धाम छन्दो ऽभिमृशति स्वाम् एव देवताम् उपप्रविशत्य् आत्मनो ऽहिंसायै ॥
श्येनचितिं चिन्वीत स्वर्गकामः श्येनो वै भूत्वा गायत्र्य् अमुं लोकम् अपतत् स्वर्गस्य लोकस्य समष्ट्यै रथचक्रचितिं चिन्वीत भ्रातृव्यवान् रथचक्रं वै वज्रं कृत्वा देवा असुरेभ्य उपप्रावर्तयंस् तेषां शततर्हम् अतृंहंस् तद् एताम् एव वज्रं कृत्वा यजमानो भ्रातृव्यायोपप्रवर्तयति शततर्हं ह दृंहति प्रौगचितिं चिन्वीत भ्रातृव्यवान् उभयतो वै देवान् असुराः परीयत्ता आसन् पुरस्ताद् अन्ये पश्चाद् अन्ये तान् वा एतेन व्यनुदन्त तद् भ्रातृव्यस्य वा एष विनोदो द्रोणचितिं चिन्वीतान्नकामो द्रोणेन वा अन्नम् अद्यते ऽनुरूपेणैवान्नाद्यम् अवरुन्द्धे पश्चाच्चरुर् भवत्य् अनुरूपत्वाय श्मशानचितिं चिन्वीत यः कामयेताञ्जसा पितृलोकम् उपेयाम् इत्य् अञ्जसा पितृलोकम् उपैत्य् उप चान्यं चिन्वीत ग्रामकामो यथैवैतम् उपचिनोत्य् एवम् अस्मै ग्रामम् उपचिनोति समूह्यं चिन्वीत पशुकामो यथैवैतं समूहत्य् एवम् अस्मै दिग्भ्यः पशून्त् समूहति
॥३.४.७॥अतृंहन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रौगचितिं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
प्रजापतिर् वा एतम् अग्रे ऽग्निम् अचिनुत ऋतुभिः संवत्सरं वसन्तेन पुरस्ताद् अचिनुत ग्रीष्मेण दक्षिणं पक्षं वर्षाभिर् उत्तरं शरदा पुछं हेमन्तेन मध्यं ब्रह्मणैव पुरस्ताद् अचिनुत क्षत्रेण दक्षिणं पक्षं विशोत्तरं पशुभिः पुछम् आशया मध्यम् एतावद् वा अस्ति यावद् एवास्ति तत् स्पृणोति तद् अवरुन्द्धे स्वर्गाय वै लोकायाग्निश् चीयते वज्र एकादशिनी यद् एकादशिनीं मिनुयाद् वज्रः पुरस्ताद् अवगृह्णीयाद् अस्वर्ग्यः स्याद् यन् न मिनुयाद् अपशुः स्याद् एकयूप एकादश पशवो नियुज्यास् तेन पशव्यास् तेन स्वर्गो यत् पक्षसम्मितां मिनुयात् कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान्त् स्याद् अथ यद् वेदिसम्मितां मिनोति ज्यायांसं चिनुते ज्यायांसम् एव यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् एषा वा अग्नेर् उत्तरवती नाम चितिर् उत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गछत्य् अग्निं वा गछत्य् आत्मानं वा ॥
रुचं नो धेहि ब्राह्मणेषु रुचं राजसु धारय ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
इति यज् जुहोत्य् आत्मानं वा एतद् अग्नेर् यशसार्पयतीश्वरो वा एष दुश्चर्मा भवितोर् यो ऽग्निम् अध्येति ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशंसम् आ ना आयुः प्र मोषीः ॥
इति यज् जुहोति शान्तिर् वा एषाग्नेर् गुप्तिर् आत्मनो वयो वा अग्निस् तस्माद् अग्निचिता पक्षिणो नाशितव्यं नो अग्निविदा यद् अश्नीयात् तम् एवाश्नीयात् स एनम् आर्तिं निनयेत् प्रजापतिर् वा एतम् अग्रे ऽग्निम् अचिनुत ज्यैष्ठ्यकामः स ज्यैष्ठ्यं महिमानम् अगछद् ज्यैष्ठ्यं महिमानं गछति य एवं विद्वान् अग्निं चिनुते प्रजापतिः प्रजाः सृष्ट्वा ता अनुप्राविशत् सो ऽब्रवीद् यो मेतः सञ्चिनवदर्ध्नुवत् स इति तं देवाः समचिन्वंस् त आर्ध्नुवंस् तच् चित्यस्य चित्यत्वं तद् य एवं विद्वान् अग्निं चिनोति प्रजापतिम् एव सञ्चिनोत्य् ऋध्नोति तस्माद् आहुः प्रजापतिचित एवाग्निर् इति
॥३.४.८॥देवेभ्यो वा अग्निं चिक्यानेभ्यो न व्यौछत् ते ऽग्ना आहुतिम् अजुहवुस् तुभ्यम् अग्रे व्युछ तथास्मभ्यं विवत्स्यतीति तयाग्नये व्यौछद् व्य् अग्नया औछन् नाहुत्यै व्यौछत् तस्या आहुत्यै यज्ञेन व्यौछद् व्य् आहुत्या औछन् न यज्ञाय व्यौछत् तस्मै यज्ञाय दक्षिणया व्यौछद् वि यज्ञायौछन् न दक्षिणायै व्यौछत् तस्यै दक्षिणायै ब्राह्मणेन व्यौछद् वि दक्षिणाया औछन् न ब्राह्मणाय व्यौछत् तस्मै ब्राह्मणाय ब्रह्मणा व्यौछद् वि ब्राह्मणायौछन् न ब्रह्मणे व्यौछत् तस्मै ब्रह्मणे तपसा व्यौछद् एता वै तपःपरार्धा व्युष्टयः श्वोवसीयस्य् अस्मै व्युछति य एवं विद्वान् व्युष्टीर् उपधत्ते यो वै यथापूर्वं व्युष्टीर् वेद यथापूर्वम् अस्मै व्युछत्य् औषसी वाव प्रथमा व्युष्टिर् व्यवाड् इति वा आहुर् यद् औषस्य् उदेति यद् व्युछति यद् अग्निर् आधीयते यत् सूर्य उदेति यद् धस्ता अवनेनिक्ते यद् अश्नाति यत् पिबत्य् एता वै यथापूर्वं व्युष्टयो यथापूर्वम् अस्मै व्युछति य एवं विद्वान् व्युष्टीर् उपधत्ते
॥३.४.९॥यो वा अग्निम् अयोनिम् अनायतनं चिनुते ऽयोनिर् अनायतनो भवत्य् आपो वा अग्नेर् योनिर् यत् कुम्भेष्टका उपदधाति योनिमन्तम् एवायतनवन्तम् अग्निं चिनुते योनिमान् आयतनवान् भवत्य् अधरसपत्नो ऽग्निश् चेतव्या इत्य् आहुर् आपो वा अग्नेः सपत्नो यत् कुम्भेष्टका उपदधात्य् अधरसपत्नम् एवाग्निं चिनुते ऽधरो ऽस्मात् पाप्मा भवत्य् अधरः सपत्नः शुग् वा अग्निर् आपः शान्तिर् यत् कुम्भेष्टका उपदधाति शान्त्यै यत् कुम्भाश् च कुम्भ्यश् च तन् मिथुनं यद् द्वन्द्वं प्रजात्यै द्वादशोपदधाति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे नैवारश् चरुस् त्रयोदशो भवत्य् अस्ति मासस् त्रयोदशस् तम् एवैतेनाप्त्वावरुन्द्धे पयसि भवति यत् पयो ग्राम्यं तेनान्नाद्यम् अवरुन्द्धे यन् नीवारा आरण्यं तेन तेनैव तद् उभयम् अवरुन्द्धे ॥
इत्य् उपरिकाण्डे वसोर्धारीयः चतुर्थः प्रपाठकः
॥३.४.१०॥