मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपनयने क्षुरकर्म

Also spelled: Upanayane Kshurakarma

उपनयने क्षुरकर्म. Also called upanayane kshura karma, Upanayane kṣurakarma. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
उपनयने क्षुरकर्म
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६१८ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

उपनयने क्षुरकर्म

उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न् वपतु। आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से। ज्योक् च॒ सूर्यं॑ दृ॒शे। येनाव॑पत् सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ। येन॑ पू॒षा वृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्।

॥१॥

तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚। येन॒ भूय॒श्चरा᳚त्य॒यं ज्योक् च॒ पश्या॑ति॒ सूर्य᳚म्। तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚। येन॑ पू॒षा बृह॒स्पते॑रग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्। तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः᳚। यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशा॑न्।

॥२॥

शु॒न्धि॒ शिरो॒ माऽस्यायुः॒ प्रमो॑षीः। उ॒प्त्वाय॒ केशा॒न् वरु॑णस्य॒ राज्ञो॒ बृह॒स्पतिः॑ सवि॒ता सोमो॑ अ॒ग्निः। तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑॥१॥

॥३॥