मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

वाक्यवृत्तिः

3

सम्प्रदायतः श्रीशङ्करकृता

सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् ।

निर्मुक्तबन्धनमपारसुखाम्बुराशिं श्रीवल्लभं विमलबोधघनं नमामि ॥

॥१॥

यस्य प्रसादादहमेव विष्णुर्मय्येव सर्वं परिकल्पितं च ।

इत्थं विजानामि सदात्मरूपं तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥

॥२॥

तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।

शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥

॥३॥

अनायासेन येनास्मान्मुच्च्येयं भवबन्धनात् ।

तन्मे संक्षिप्य भगवन्केवलं कृपया वद ॥

॥४॥

गुरुरुवाच

साध्वीते वचनव्यक्तिः प्रतिभाति वदामि ते ।

इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥

॥५॥

तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः ।

तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥

॥६॥

शिष्य उवाच

को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः ।

तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥

॥७॥

गुरुरुवाच

अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि ।

यस्त्वं पृच्छसि मां कोऽहं ब्रह्मैवासि न संशयः ॥

॥८॥

शिष्य उवाच

पदार्थमेव जानामि नाद्यापि भगवन्स्फुटम् ।

अहं ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथं वद ॥

॥९॥

गुरुरुवाच

सत्यमाह भवानत्र विगानं नैव विद्यते ।

हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥

॥१०॥

अन्तःकरणतद्वृत्तिसाक्षिचैतन्यविग्रहः ।

आनन्दरूपः सत्यः सन्किं नात्मानं प्रपद्यसे ॥

॥११॥

सत्यानन्दस्वरूपं धीसाक्षिणं बोधविग्रहम् ।

चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥

॥१२॥

रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।

वियदादिमहाभूतविकारत्वाच्च कुम्भवत् ॥

॥१३॥

अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः ।

करामलकवत्साक्षादात्मानं प्रतिपादय ॥

॥१४॥

घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।

देहद्रष्टा तथा देहो नाहमित्यवधारय ॥

॥१५॥

एवमिन्द्रियदृङ्नाहमिन्द्रियाणीति निश्चिनु ।

मनोबुद्धिस्तथा प्राणो नाहमित्यवधारय ॥

॥१६॥

संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।

द्रष्टारमनुमानेन निपुणं सम्प्रधारय ॥

॥१७॥

देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः ।

यस्य सन्निधिमात्रेण सोऽहमित्यवधारय ॥

॥१८॥

अनापन्नविकारः सन्नयस्कान्तवदेव यः ।

बुद्ध्यादींश्चालयेत्प्रत्यक् सोऽहमित्यवधारय ॥

॥१९॥

अजडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि ।

देहेन्द्रियमनःप्राणाः सोऽहमित्यवधारय ॥

॥२०॥

अगमन्मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् ।

एवं यो वेत्ति धीवृत्तिं सोऽहमित्यवधारय ॥

॥२१॥

स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा ।

यो वेत्त्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥

॥२२॥

घटावभासको दीपो घटादन्यो यथेष्यते ।

देहावभासको देही तथाहं बोधविग्रहः ॥

॥२३॥

पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।

द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥

॥२४॥

परप्रेमास्पदतया मा न भूवमहं सदा ।

भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥

॥२५॥

यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते ।

साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥

॥२६॥

देहेन्द्रियमनःप्राणाहङ्कृतिभ्यो विलक्षणः ।

प्रोज्झिताशेशषड्भावविकारस्त्वंपदाभिधः ॥

॥२७॥

त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।

अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥

॥२८॥

निरस्ताशेषसंसारदोषोऽस्थुलादिलक्षणः ।

अदृश्यत्वादिगुणकः पराकृततमोमलः ॥

॥२९॥

निरस्तातिशयानन्दः सत्यप्रज्ञानविग्रहः ।

सत्तास्वलक्षणः पूर्ण परमात्मेति गीयते ॥

॥३०॥

सर्वज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता ।

वेदैः समर्थ्यते यस्य तद्ब्रह्मेत्यवधारय ॥

॥३१॥

यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।

मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥

॥३२॥

यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ ।

तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥

॥३३॥

विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ।

समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥

॥३४॥

जीवात्मना प्रवेशश्च नियन्तृत्वं च तान् प्रति ।

श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥

॥३५॥

कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ ।

जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥

॥३६॥

तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना ।

तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥

॥३७॥

संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।

अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥

॥३८॥

प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।

अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥

॥३९॥

इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् ।

अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥

॥४०॥

तदर्थस्य पारोक्ष्यं यद्येवं किं ततः श्रुणु ।

पूर्णानन्दैकरूपेण प्रत्यग्बोधोवतिष्ठते ॥

॥४१॥

तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।

लक्ष्यौ तत्त्वंपदार्थौ द्वावुपादाय प्रवर्तते ॥

॥४२॥

हित्वा द्वौ शबलौ वाच्यौ वाक्यं वाक्यार्थबोधने ।

यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥

॥४३॥

आलम्बनतयाभाति योऽस्मत्प्रत्ययशब्दयोः ।

अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥

॥४४॥

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।

परोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥

॥४५॥

प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।

विरुध्यते यतस्तस्माल्लक्षणा सम्प्रवर्तते ॥

॥४६॥

मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे ।

मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥

॥४७॥

तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।

सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥

॥४८॥

अहं ब्रह्मेतिवाक्यार्थबोधो यावद्दृढीभवेत् ।

शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥

॥४९॥

श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ।

निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥

॥५०॥

विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः ।

विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥

॥५१॥

प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् ।

किञ्चित्कालमनारब्धकर्मबन्धस्य संक्षये ॥

॥५२॥

निरस्तातिशयानन्दं वैष्णवं परमं पदम् ।

पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥

॥५३॥

इति परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचिता वाक्यवृत्तिः समाप्त