मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

एकादशोऽध्यायः

3
पराशरस्मृतिः · 11

अमेध्यरेतो गोमांसं चण्डालान्नमथापि वा

यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत्

॥१॥

तथैव क्षत्रियो वैश्योऽप्यर्धं चान्द्रायणं चरेत्

शूद्रोऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत्

॥२॥

पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद्द्विजः

एकद्वित्रिचतुर्गा वा दद्याद्विप्राद्यनुक्रमात्

॥३॥

शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नमेव च

शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च

॥४॥

यदि भुक्तं तु विप्रेण अज्ञानादापदापि वा

ज्ञात्वा समाचरेत्कृच्छ्रं ब्रह्मकूर्चं तु पावनम्

॥५॥

बालैर्नकुलमार्जारैरन्नमुच्छिष्टितं यदा

तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः

॥६॥

एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने

यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत्

॥७॥

मोहाद्भुञ्जीत यस्तत्र पङ्क्तावुच्छिष्टभोजने

प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सांतपनं तथा

॥८॥

पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने

पलाण्डुवृक्षनिर्यासदेवस्वकवकानि च

॥९॥

उष्ट्रीक्षीरमविक्षीरमज्ञानाद्भुञ्जते द्विजः

त्रिरात्रमुपवासेन पञ्चगव्येन शुध्यति

॥१०॥

मण्डूकं भक्षयित्वा तु मूषिकामांसमेव च

ज्ञात्वा विप्रस्त्वहोरात्रं यावकान्नेन शुध्यति

॥११॥

क्षत्रियश्चापि वैश्यश्च क्रियावन्तौ शुचिव्रतौ

तद्गृहे तु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः

॥१२॥

घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम्

गत्वा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनम्

॥१३॥

मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम्

तं शूद्रं वर्जयेद्विप्रः श्वपाकमिव दूरतः

॥१४॥

द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान्

स्वकर्मणि रतान्नित्यं न तान्शूद्रान्त्यजेद्द्विजः

॥१५॥

अज्ञानाद्भुञ्जते विप्राः सूतके मृतकेऽपि वा

प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत्

॥१६॥

गायत्र्यष्टसहस्रेण शुद्धिः स्याच्छूद्रसूतके

वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिये

॥१७॥

ब्राह्मणस्य यदा भुङ्क्ते द्वे सहस्रे तु दापयेत्

अथवा वामदैव्येन साम्नैवैकेन शुध्यति

॥१८॥

शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम्

पक्वं विप्रगृहे भुक्तं भोज्यं तन्मनुरब्रवीत्

॥१९॥

आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि

मनस्तापेन शुध्येत द्रुपदां वा जपेच्छतम्

॥२०॥

दासनापितगोपालकुलमित्रार्धसीलिणः

एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्

॥२१॥

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः

संस्कारात्तु भवेद्दासः असंस्कारात्तु नापितः

॥२२॥

क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः

स गोपाल इति ज्ञेयो भोज्यो विप्रैर्न संशयः

॥२३॥

वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः

स ह्यार्धिक इति ज्ञेयो भोज्यो विप्रैर्न संशयः

॥२४॥

भाण्डस्थितमभोज्येषु जलं दधि घृतं पयः

अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत्

॥२५॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति

ब्रह्मकूर्चोपवासेन याज्यवर्णस्य निष्कृतिः

॥२६॥

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति

ब्रह्मकूर्चमहोरात्रं श्वपाकमपि शोधयेत्

॥२७॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनम्

॥२८॥

गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम्

पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि

॥२९॥

कपिलाया घृतं ग्राह्यं सर्वं कापिलमेव वा

मूत्रमेकपलं दद्यादङ्गुष्ठार्धं तु गोमयम्

॥३०॥

क्षीरं सप्तपलं दद्याद्दधि त्रिपलमुच्यते

घृतमेकपलं दद्यात्पलमेकं कुशोदकम्

॥३१॥

गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम्

आप्यायस्वेति च क्षीरं दधिक्राव्णस्तथा दधि

॥३२॥

तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम्

पञ्चगव्यमृचा पूतं स्थापयेदग्निसंनिधौ

॥३३॥

आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत्

सप्तावरास्तु ये दर्भा अछिन्नाग्राः शुकत्विषः

॥३४॥

एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि

इरावती इदं विष्णुर्मानस्तोकेति शंवती

॥३५॥

एताभिश्चैव होतव्यं हुतशेषं पिबेद्द्विजः

आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु

॥३६॥

उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु

यत्त्वस्थिगतं पापं देहे तिष्ठति देहिनाम्

॥३७॥

ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्ताग्निरिवेन्धनम्

पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितम्

॥३८॥

वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः

दध्नि वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः

॥३९॥

पिबतः पतितं तोयं भाजने मुखनिःसृतम्

अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत्

॥४०॥

कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम्

अस्थिचर्मादि पतितं पीत्वामेध्या अपो द्विजः

॥४१॥

नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम्

गावयं सौप्रतीकं च मायूरं खाड्गकं तथा

॥४२॥

वैयाघ्रमार्क्षं सैंहं वा कूपे यदि निमज्जति

तटाकस्याथ दुष्टस्य पीतं स्यादुदकं यदि

॥४३॥

प्रायश्चित्तं भवेत्पुंसः क्रमेणैतेन सर्वशः

विप्रः शुध्येत्त्रिरात्रेण क्षत्रियस्तु दिनद्वयात्

॥४४॥

एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुध्यति

परपाकनिवृत्तस्य परपाकरतस्य च

॥४५॥

अपचस्य च भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत्

अपचस्य च यद्दानं दातुश्चास्य कुतः फलम्

॥४६॥

दाता प्रतिग्रहीता च तौ द्वौ निरयगामिनौ

गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत्

॥४७॥

परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः

पञ्चयज्ञान्स्वयं कृत्वा परान्नेनोपजीवति

॥४८॥

सततं प्रातरुत्थाय परपाकरतस्तु सः

गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः

॥४९॥

ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः

युगे युगे तु ये धर्मास्तेषु तेषु च ये द्विजाः

॥५०॥

तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः

हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः

॥५१॥

स्नात्वा तिष्ठन्नहः शेषमभिवाद्य प्रसादयेत्

ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा

॥५२॥

विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत्

अवगूर्य त्वहोरात्रं त्रिरात्रं क्षितिपातने

॥५३॥

अतिकृच्छ्रं च रुधिरे कृच्छ्रोऽभ्यन्तरशोणिते

नवाहमतिकृच्छ्री स्यात्पाणिपूरान्नभोजनः

॥५४॥

त्रिरात्रमुपवासी स्यादतिकृच्छ्रः स उच्यते

सर्वेषामेव पापानां संकरे समुपस्थिते

॥५५॥

दशसाहस्रमभ्यस्ता गायत्री शोधनं परं

॥५६॥