भृगूणां न विवाहोऽस्ति चतुर्णामादितो मिथः
श्यैतादयस्त्रयस्तेषां विवाहो मिथ इष्यते
॥१॥षण्णां वै गौतमादीनां विवाहो नेष्यते मिथः
दीर्घतमा औचथ्यः कक्षीवांश्चैकगोत्रजाः
॥२॥भरद्वाजाग्निवेश्यर्क्षाः शुङ्गाः शैशिरयः कताः
एते समानगोत्राः स्युर्गर्गानेके वदन्ति वै
॥३॥पृषदश्वा मुद्गला विष्णुवृद्वाः कण्वोऽगस्त्यो हरितः सङ्कृतिः कपिः
यस्कश्चैषां मिथ इष्टो विवाहः सर्वैरन्यैर्जामदग्नादिभिश्च
॥४॥यावत् समानगोत्राः स्युर्विश्वामित्रोऽनुवर्त्तते
तावद्वसिष्ठश्चात्रिश्च कश्यपश्च पृथक् पृथक्
॥५॥द्व्यार्षेयाणां त्र्यार्षेयसन्निपाते अविवाहः
त्र्यार्षेयाणां पञ्चार्षेयसन्निपाते अविवाहः
॥६॥विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गोतमः
अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः
॥७॥सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते
॥८॥एक एव ऋषिर्यावत् प्रवरेष्वनुवर्त्तते
तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसाङ्गणादित्यसमानप्रवरैर्विवाहो विवाहः
॥९॥