जैमिनीय ब्रह्मयज्ञम्
Jaiminīya śākhā brahmayajñam (brahmayagyam) — Veda openings, sāman gāna and tarpaṇam.
ब्रह्मयज्ञः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामं कृत्वा सङ्कल्पं करोति ।
ब्रह्मयज्ञेन यक्ष्ये ॥
विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि ॥
इति हस्तयोः अवनेजनम् ।
ॐ भूः ऋग्वेदाय स्वाहा ।
ॐ भुवः यजुर्वेदाय स्वाहा ।
ॐ स्वः सामवेदाय स्वाहा ॥
इति त्रिराचम्य द्विः परिमृजति ।
सकृदुपस्पृश्य शिरश्चक्षुषी श्रोत्रे नासिके मुखं हृदयं चालभ्य, सव्यं पाणिं पादौ च प्रोक्ष्य, दक्षिणोत्तरौ पाणी पादौ कृत्वा जपति ।
वेदाध्ययनम्
ॐ भूः । तत्सवितुर्वरेण्यम् ।
ॐ भुवः । भर्गो देवस्य धीमहि ।
ॐ स्वः । धियो यो नः प्रचोदयात् ।
ॐ भूर्भुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ॐ स्वः । धियो यो नः प्रचोदयात् ।
ॐ भूर्भुवः स्वः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
गानेषु अक्षराणामधः मुद्रिताः स्वरसङ्केताः अत्र वाक्यखण्डशः दर्शिताः । प्रत्यक्षरं स्थानं मुद्रितग्रन्थेन परीक्षणीयम् ।
| गानम् | स्वरसङ्केतः |
|---|---|
| तत्सवितुर्वरेण्योम् | चू श |
| भर्गोदेवस्य धीमाहा | — |
| ई धियो यो नः | ट च क ट |
| प्राचा हिंभा | सत चट |
| ओवा ओवा | सटच सटच |
| हिंभा ओवा ॥ | चश कच |
ॐ सोमं राजानं वरुणम् । अग्निमन्वारभामहे ।
आदित्यं विष्णुं सूर्यम् । ब्रह्माणञ्च बृहस्पतिम् ॥ ॐ
| गानम् | स्वरसङ्केतः |
|---|---|
| सोमं राजानं वरुणाम् | ष तू |
| अग्निमन्वारभामहे | क च |
| होवाहाइ | ट तश |
| आदित्यं विष्णुं सूर्यम् | थ कि का |
| होवाहाइ | ट तश |
| ब्रह्माणाञ्चा होवाहाइ | टि त ट तश |
| बृहाउवा | ट |
| स्पातिम् ॥ ॐ | त खश |
ॐ अग्न आयाहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥
| गानम् | स्वरसङ्केतः |
|---|---|
| ओग्नाइ | त तश |
| आयाहिवाइ | थ्यच चश |
| तायाइ तायाइ | टयश टयश |
| गृणानो हव्यदा तायाइ | च्यश चि टयश |
| तायाइ | टयश |
| नाइहोता | किच |
| सात्साइवा औहोवा | टट खा शि |
| हीषी ॥ ॐ | खश |
ॐ तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥ ॐ
| गानम् | स्वरसङ्केतः |
|---|---|
| तद्वोहोवा | ती |
| गायासुताइसाचा पुरु हूताय सात्वानाइ | टा खीण कि तच का य ट श |
| शंय्य दो औहोइ गावाइ | कि खिणश टटख |
| नाशा औहोवा | शि त |
| ए किने ॥ ॐ | टख |
ॐ उच्चा ते जातमन्धसो दिवि सद्भूम्याददे ।
उग्रं शर्म महि श्रवः ॥ ॐ
| गानम् | स्वरसङ्केतः |
|---|---|
| उच्चा | त |
| तेजा तामान्धासा | था ताच टा |
| दिविसद् भूम्याददा | कु |
| उग्रंशर्मा | टत टटख |
| माहा औहोवा उप्श्रवाः ॥ ॐ | शि खा प्ल |
ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्थोपा॒यव॑स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥
ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ ॐ
ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ ॐ
ॐ केन जुहोति कस्मै हूयते प्राणेनैव जुहोति प्राण एव हूयते ।
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ।
ॐ सोमप्रवाकमागतं दूतमनुमन्त्रयते महन्मे वोचो भगं मे वोचः पुष्टिं मे वोचो यशो मे वोच इति ।
ॐ अथातोऽग्निं प्रणेष्यन् प्रागुदक्प्रवणमभ्युक्ष्य स्थण्डिलं लक्षणं कुर्यान्मध्ये ।
ॐ श्रीमान् मरकतश्यामो वेणुना भूषिताधरः ।
चकास्तु हृदि गोविन्दो मदीये वल्लवीप्रियः ॥
ॐ शङ्खचक्रगदापद्मविभूषितचतुर्भुजम् ।
नमामि श्रीधराश्लिष्टपार्श्वं रङ्गेश्वरं हरिम् ॥
ॐ अइउण् । ऋऌक् । एओङ् । ऐऔच् । हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष् ।
जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् ॥
ॐ अथातो धर्मजिज्ञासा । ॐ अथातो ब्रह्मजिज्ञासा ॥
सत्यं तपः श्रद्धायां जुहोमि ॥
इति आत्मानं परिषिञ्चति । अथ साञ्जलिबन्धः जपति ।
ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥
(त्रिः)
वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् ॥
इति जलेन हस्तयोः अवनेजनम् । आचमनम् ।
देवतर्पणम्
देवर्षिपितृतर्पणं करिष्ये ॥
देवतीर्थेन तर्पणं कुर्यात् ।
| ब्रह्माणं तर्पयामि | अग्निं तर्पयामि |
| पृथिवीं तर्पयामि | ओषधीः तर्पयामि |
| वाचं तर्पयामि | वाचस्पतिं तर्पयामि |
| बृहन्तं तर्पयामि | विष्णुं तर्पयामि |
| ब्रह्मादयो ये देवाः तान् देवान् तर्पयामि | सर्वान् देवान् तर्पयामि |
| सर्वदेवगणान् तर्पयामि | सर्वदेवपत्नीः तर्पयामि |
| सर्वदेवगणपत्नीः तर्पयामि |
ऋषितर्पणम्
निवीती ऋषितीर्थेन कुर्यात् ।
| कृष्णद्वैपायनादयो य ऋषयः तानृषीन् तर्पयामि | सर्वानृषीन् तर्पयामि |
| सर्वर्षिगणान् तर्पयामि | सर्वर्षिपत्नीः तर्पयामि |
| सर्वर्षिगणपत्नीः तर्पयामि | ऋषीन् तर्पयामि |
| देवान् तर्पयामि | छन्दांसि तर्पयामि |
| ऋचस्तर्पयामि | यजूंषि तर्पयामि |
| सामानि तर्पयामि | जैमिनिं तर्पयामि |
| तलवकारं तर्पयामि | सात्यमुग्रिं तर्पयामि |
| राणायनिं तर्पयामि | दुर्वाससं च भागुरिं तर्पयामि |
| गौकुण्डिं तर्पयामि | गौर्गलवं (गौल्गुलविं) तर्पयामि |
| भगवन्तमौपमन्यवं तर्पयामि | गाराषिं तर्पयामि |
| सावर्णिं तर्पयामि | गार्ग्यं तर्पयामि |
| वार्षगण्यं तर्पयामि | दैवन्तं तर्पयामि |
| आचार्यवंशस्थान् तर्पयामि |
पितृतर्पणम्
प्राचीनावीती पितृतीर्थेन कुर्यात् ।
| सोमः पितृमान् यमोऽङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयो ये पितरः तान् पितॄन् तर्पयामि | सर्वान् पितॄन् तर्पयामि |
| सर्वपितृगणान् तर्पयामि | सर्वपितृपत्नीः तर्पयामि |
| सर्वपितृगणपत्नीः तर्पयामि |
मृतपितृकश्चेत् —
| पितॄन् तर्पयामि | पितामहान् तर्पयामि |
| प्रपितामहान् तर्पयामि | मातॄः तर्पयामि |
| पितामहीः तर्पयामि | प्रपितामहीः तर्पयामि |
| मातामहान् तर्पयामि | प्रमातामहान् तर्पयामि |
| वृद्धप्रमातामहान् तर्पयामि | मातामहीः तर्पयामि |
| प्रमातामहीः तर्पयामि | वृद्धप्रमातामहीः तर्पयामि |
ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् ।
स्वधा स्थ तर्पयत मे पितॄन् ॥
उपवीती आचामेत् ॥