माध्यन्दिन ब्रह्मयज्ञम्
Vājasaneyi Mādhyandina brahmayajñam (brahmayagyam) — Veda openings with svara, tarpaṇam, arghya and sūryopasthānam.
ब्रह्मयज्ञः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
प्राणायामं कृत्वा सङ्कल्पं करोति ।
ब्रह्मयज्ञेन यक्ष्ये (ब्रह्मयज्ञस्वाध्यायजपं करिष्ये) ॥
विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि ॥
इति हस्तयोः अवनेजनम् । त्रिराचम्य द्विः परिमृजति ।
सकृदुपस्पृश्य शिरश्चक्षुषी श्रोत्रे नासिके मुखं हृदयं चालभ्य, सव्यं पाणिं पादौ च प्रोक्ष्य, दक्षिणोत्तरौ पाणी पादौ कृत्वा जपति ।
वेदाध्ययनम्
ॐ भूर्भुव॒ः स्व॒ः । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑ः प्रचो॒दया॑त् ॥
एवं त्रिः ।
ॐ प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र सर॑स्वती । प्र वाग्दे॒वी द॑दातु नः ॥
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय ।
वाचं॒ विष्णु॒ᳪ सर॑स्वतीᳪ सवि॒तारं॑ च वा॒जिन॑म् ॥
ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ । दे॒वो व॑ः सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥ ॐ
ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ ॐ
ॐ अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये । नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥
ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥ ॐ
ॐ ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥
ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः ।
अथ शिक्षां प्रवक्ष्यामि । वृद्धिरादैच् । मयरसतजभनलगसम्मितम् ।
गौः । ग्मा । ज्मा । समाम्नायः समाम्नातः । पञ्चसंवत्सरमयम् ।
अथातोऽधिकारः । फलयुक्तानि कर्माणि । अथातो गृह्यस्थालीपाकानां कर्म ।
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः ।
अथातो धर्मं व्याख्यास्यामः । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ।
अथ योगानुशासनम् । योगश्चित्तवृत्तिनिरोधः ।
अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः ।
अथातो धर्मजिज्ञासा । धारको धर्मः ।
अथातो धर्मजिज्ञासा । चोदनालक्षणोऽर्थो धर्मः ।
अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः । शास्त्रयोनित्वात् । तत्तु समन्वयात् ।
मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जन्माद्यस्य यतोऽन्वयात् ।
आचारमूला जातिः स्यादाचारः शास्त्रमूलकः । वेदवाक्यं शास्त्रमूलं वेदः साधकमूलकः ॥
ॐ स्वस्ति ॥
ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नम॑ः पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥
(त्रिः)
वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् ॥
इति जलेन हस्तयोः अवनेजनम् । आचमनम् ।
देवतर्पणम्
देवर्षिपितृतर्पणं करिष्ये ॥
देवतीर्थेन कुर्यात् ।
| ब्रह्मा तृप्यताम् | विष्णुः तृप्यताम् |
| रुद्रः तृप्यताम् | प्रजापतिः तृप्यताम् |
| देवाः तृप्यन्ताम् | छन्दांसि तृप्यन्ताम् |
| वेदाः तृप्यन्ताम् | ऋषयः तृप्यन्ताम् |
| पुराणाचार्याः तृप्यन्ताम् | गन्धर्वाः तृप्यन्ताम् |
| इतराचार्याः तृप्यन्ताम् | संवत्सरः सावयवः तृप्यताम् |
| देव्यः तृप्यन्ताम् | अप्सरसः तृप्यन्ताम् |
| देवानुगाः तृप्यन्ताम् | नागाः तृप्यन्ताम् |
| सागराः तृप्यन्ताम् | पर्वताः तृप्यन्ताम् |
| सरितः तृप्यन्ताम् | मनुष्याः तृप्यन्ताम् |
| यक्षाः तृप्यन्ताम् | रक्षांसि तृप्यन्ताम् |
| पिशाचाः तृप्यन्ताम् | सुपर्णाः तृप्यन्ताम् |
| भूतानि तृप्यन्ताम् | पशवः तृप्यन्ताम् |
| वनस्पतयः तृप्यन्ताम् | ओषधयः तृप्यन्ताम् |
| भूतग्रामश्चतुर्विधः तृप्यताम् |
ऋषितर्पणम्
निवीती ऋषितीर्थेन कुर्यात् ।
| मरीचिः तृप्यताम् | अत्रिः तृप्यताम् |
| अङ्गिराः तृप्यताम् | पुलस्त्यः तृप्यताम् |
| पुलहः तृप्यताम् | क्रतुः तृप्यताम् |
| वसिष्ठः तृप्यताम् | प्रचेताः तृप्यताम् |
| भृगुः तृप्यताम् | नारदः तृप्यताम् |
| सनकः तृप्यताम् | सनन्दनः तृप्यताम् |
| सनातनः तृप्यताम् | कपिलः तृप्यताम् |
| आसुरिः तृप्यताम् | वोढुः तृप्यताम् |
| पञ्चशिखः तृप्यताम् |
पितृतर्पणम्
प्राचीनावीती पितृतीर्थेन कुर्यात् ।
| कव्यवाडनलः तृप्यताम् | सोमः तृप्यताम् |
| यमः तृप्यताम् | अर्यमा तृप्यताम् |
| अग्निष्वात्ताः पितरः तृप्यन्ताम् | सोमपाः पितरः तृप्यन्ताम् |
| बर्हिषदः पितरः तृप्यन्ताम् | यमाय नमस्तृप्तिरस्तु |
| धर्मराजाय नमस्तृप्तिरस्तु | मृत्यवे नमस्तृप्तिरस्तु |
| अन्तकाय नमस्तृप्तिरस्तु | वैवस्वताय नमस्तृप्तिरस्तु |
| कालाय नमस्तृप्तिरस्तु | सर्वभूतक्षयाय नमस्तृप्तिरस्तु |
| औदुम्बराय नमस्तृप्तिरस्तु | दध्नाय नमस्तृप्तिरस्तु |
| नीलाय नमस्तृप्तिरस्तु | परमेष्ठिने नमस्तृप्तिरस्तु |
| वृकोदराय नमस्तृप्तिरस्तु | चित्राय नमस्तृप्तिरस्तु |
| चित्रगुप्ताय नमस्तृप्तिरस्तु |
जीवत्पितृकाणां एतदन्तं भवति । (यमादितर्पणं कृताकृतम् ।)
मृतपितृकश्चेत् —
| ___ गोत्रः ___ शर्मा वसुरूपः अस्मत्पिता स्वधा नमस्तृप्यताम् |
| ___ गोत्रः ___ शर्मा रुद्ररूपः अस्मत्पितामहः स्वधा नमस्तृप्यताम् |
| ___ गोत्रः ___ शर्मा आदित्यरूपः अस्मत्प्रपितामहः स्वधा नमस्तृप्यताम् |
| ___ गोत्रा ___ दा वसुरूपा अस्मन्माता स्वधा नमस्तृप्यताम् |
| ___ गोत्रा ___ दा रुद्ररूपा अस्मत्पितामही स्वधा नमस्तृप्यताम् |
| ___ गोत्रा ___ दा आदित्यरूपा अस्मत्प्रपितामही स्वधा नमस्तृप्यताम् |
| ___ गोत्रः ___ शर्मा वसुरूपः अस्मन्मातामहः स्वधा नमस्तृप्यताम् |
| ___ गोत्रः ___ शर्मा रुद्ररूपः अस्मत्प्रमातामहः स्वधा नमस्तृप्यताम् |
| ___ गोत्रः ___ शर्मा आदित्यरूपः अस्मद्वृद्धप्रमातामहः स्वधा नमस्तृप्यताम् |
| ___ गोत्रा ___ दा वसुरूपा अस्मन्मातामही स्वधा नमस्तृप्यताम् |
| ___ गोत्रा ___ दा रुद्ररूपा अस्मत्प्रमातामही स्वधा नमस्तृप्यताम् |
| ___ गोत्रा ___ दा आदित्यरूपा अस्मद्वृद्धप्रमातामही स्वधा नमस्तृप्यताम् |
ततः पितृव्य-तत्पत्नी-भ्रातृ-तत्पत्नी-भगिनी-मातुल-मातुलानी-पितृष्वसृ-पितृष्वस्रीय-मातृष्वसृ-मातृष्वस्रीय-मातुलेयादि-पितृमातृसपिण्डेभ्य एकैकमञ्जलिं दत्वा, समानोदक-सगोत्र-आचार्य-श्वशुर-ऋत्विक्-शिष्य-याज्यादिभ्यः सवर्णेभ्य एकैकमञ्जलिं दद्यात् ।
उपवीती देवतीर्थेन —
देवासुरास्तथा यक्षा नागा गन्धर्वराक्षसाः ।
पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास्तरवः खगाः ॥
जलेचरा भूनिलया वाय्वाधाराश्च जन्तवः ।
तृप्तिमेते प्रयान्त्वाशु मद्दत्तेनाम्बुनाखिलाः ॥
प्राचीनावीती पितृतीर्थेन —
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामाप्यायनायैतद्दीयते सलिलं मया ॥
येऽबान्धवा बान्धवाश्च येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥
अर्घ्यप्रदानम्
इतः परं जीवत्पितृकाणामपि भवति । उपवीती आचम्य अर्घ्यप्रदानं कुर्यात् ।
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मदायिने ॥
इत्यर्घ्यं दत्वा उत्थाय —
सूर्योपस्थानम्
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒२ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥
ह॒ᳪसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥
इति सूर्यमुपतिष्ठेत ।
दिग्देवतावन्दनम्
ततो दिग्देवतावन्दनं कुर्यात् ।
| प्राच्यै दिशे नमः | इन्द्राय नमः |
| आग्नेय्यै दिशे नमः | अग्नये नमः |
| दक्षिणायै दिशे नमः | यमाय नमः |
| नैर्ऋत्यै दिशे नमः | निर्ऋतये नमः |
| प्रतीच्यै दिशे नमः | वरुणाय नमः |
| वायव्यै दिशे नमः | वायवे नमः |
| उदीच्यै दिशे नमः | सोमाय नमः |
| ऐशान्यै दिशे नमः | ईशानाय नमः |
| ऊर्ध्वायै दिशे नमः | ब्रह्मणे नमः |
| अधरायै दिशे नमः | अनन्ताय नमः |
इति नमस्कृत्य उपविश्य वक्ष्यमाणदेवताभ्यो जलाञ्जलिं दद्यात् ।
| ब्रह्मणे नमः | अग्नये नमः |
| पृथिव्यै नमः | ओषधीभ्यो नमः |
| वाचे नमः | वाचस्पतये नमः |
| विष्णवे नमः | महद्भ्यो नमः |
| अद्भ्यो नमः | अपांपतये नमः |
| वरुणाय नमः |
मुखमार्जनम् — प्रार्थना
ततोऽञ्जलिना अपो गृहीत्वा मुखं सम्मार्ष्टि —
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ॥
ततः प्रार्थना —
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः ॥