मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नवमः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 9

प्रायश्चित्तानि

प्रथमा कण्डिका

श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते

॥१॥

एकस्मिन्दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात्

॥२॥

जपो होम इज्या च

॥३॥

दोषनिर्घातार्थानि भवन्ति

॥४॥

अनन्तरं दोषात्कर्तव्यानि

॥५॥

निर्हृते दोषे पुनः कृत्स्नं कर्म

॥६॥

तस्य नावचनात्पुनःप्रयोगः

॥७॥

तुभ्यं ता अङ्गिरस्तमेत्यन्वाहिताग्निः प्रयास्यञ्जुहुयात्

॥८॥

पृथगरणीष्वग्नीन्समारोप्य प्रयाति

॥९॥

यत्र वसेत्तदेतामिष्टिं संस्थापयेत्

॥१०॥

यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेदन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीय भूरित्युपस्थाय यो अग्निं देववीतये हविष्माँ आविवासति । तस्मै पावक मृडय स्वाहेति पूर्णं स्रुवं सर्वप्रायश्चित्तं हुत्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात्

॥११॥

जपेदित्येके

॥१२॥

मनसा व्रतोपायनीयं यजुर्जपेत्

॥१३॥

यः कश्चनानुगच्छेदेतदेव प्रणयनवर्जमावर्तेत

॥१४॥

मन्थेद्गार्हपत्यम्

॥१५॥

याप्रकृतिर्दक्षिणाग्नेः

॥१६॥

यद्याहिताग्नेरग्निरपक्षायेदा शम्यापरासात्परि वाजपतिः कविरग्निरिति त्रिः प्रदक्षिणं परिक्रम्य तं संभरेदिदं त एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि प्रिये देवानां परमे जनित्र इति

॥१७॥

यदि परस्तरामपक्षायेदनुप्रयायावस्येत्

॥१८॥

तदग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्

॥१९॥

पथोऽन्तिकाद्बर्हिराहरेत्

॥२०॥

अनड्वान्दक्षिणा । सिद्धमिष्टिः संतिष्टते

॥२१॥

ततः श्वोभूते गृहेषु प्रत्यवस्यति

॥२२॥

यस्य हविषे वत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेत्

॥२३॥

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत्

॥२४॥

यस्य सायं दुग्धं हविरार्तिमार्छतीन्द्राय व्रीहीन्निरुप्योपवसेत्

॥२५॥

यत्प्रातः स्यात्तच्छृतं कुर्यात्

॥२६॥

अथेतर ऐन्द्रः पुरोडाशः स्यात्

॥२७॥

तस्य प्रातर्दोहेन समवदाय प्रचरेत्

॥२८॥

एतदेव प्रातर्दोह आर्तिगते प्रायश्चित्तम्

॥२९॥

सायं दोहेनास्य समवदाय प्रचरेत्

॥३०॥

यस्योभौ दोहावार्तिमार्छेयातामाग्नेयमष्टाकपालं निर्वपेदैन्द्रं पञ्चशरावमोदनम्

॥३१॥

अग्निं पुरोडाशेन यजेत । इन्द्रं पञ्चशरावेण

॥३२॥

पञ्चशरावेण वोभे देवते यजेत

॥३३॥

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत्

॥३४॥

द्वितीया कण्डिका

यस्य व्रत्येऽहन्पत्न्यनालम्भुका स्यात्तामपरुध्य यजेत

॥१॥

जघनेन वेदिमन्तर्वेदि वोदकशुल्बं संनहनं स्तृणीयात्

॥२॥

यदा त्रिरात्रीणा स्यादथैनामुपह्वयेतामूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि संभवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति

॥३॥

यस्याग्निहोत्रं सांनाय्यं वा विष्यन्देतोदङ्परेत्य वल्मीकवपामुद्धृत्य प्रजापते न त्वदेतानीति प्राजापत्यर्चा वल्मीकवपायामवनीय भूरित्युपस्थायान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सांनाय्यमन्यदागमयेत्

॥४॥

यदि कीटोऽवपद्येत मध्यमेनान्तमेन वा पलाशपर्णेन मही द्यौः पृथिवी च न इति द्यावापृथिव्ययर्चान्तःपरिधि निनीयान्यां दुग्ध्वा पुनर्जुहुयात् । यदि सांनाय्यमन्यदागमयेत्

॥५॥

यस्याग्निहोत्रमववर्षेन्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोतेति तत्कृत्वान्यां दुग्ध्वा पुनर्जुहुयात्

॥६॥

यदि पूर्वस्यामाहुत्यां हुतायामुत्तराहुतिः स्कन्देद्यदि वोत्तरया पूर्वामभिजुहुयाद्यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयॐत वानस्पत्ययर्चा समिधमाधाय तत एव तूष्णीं हुत्वान्यां दुग्ध्वा पुनर्जुहुयात्

॥७॥

यदि पूर्वस्यामाहुत्यां हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्ननन्तरे शकले हिरण्ये वा जुहुयात्

॥८॥

यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत्तं स्रुवस्य बुध्नेनाभिनिदध्यान्मा तमो मा यज्ञस्तमन्मा यजमानस्तमन्नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि । अध्वर्युं मा हिंसीर्यजमानं मा हिंसीरिति यदि पुरस्तात् । ब्रह्माणं मा हिंसीर्यजमानं मा हिंसीरिति यदि दक्षिणतः । होतारं मा हिंसीः पत्नीं मा हिंसीर्यजमानं मा हिंसीरिति यदि पश्चात् । आग्नीध्रं मा हिंसीः पशून्मा हिंसीर्यजमानं मा हिंसीरिति यद्युत्तरतः

॥९॥

आहं यज्ञं दधे निरृतेरुपस्थात्तं देवेभ्यः परिददामीत्येनमादाय

॥१०॥

तृतीया कण्डिका

सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्सुप्रतीकः । मा नो हासीन्मेत्थितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छेत्येनमग्नौ प्रहरति

॥१॥

प्रहृत्य वाभिजुहुयात्

॥२॥

यदि कालसंनिकर्षेऽग्निर्मथ्यमानी न जायेत यत्रान्यं पश्येत्तत आहृत्य जुहुयात्

॥३॥

अथात्वरमाणः पुनर्मन्थेत्

॥४॥

यद्यन्यं न विन्देदजायै दक्षिणे कर्णे होतव्यम्

॥५॥

अजस्य तु ततो नाश्नीयात्

॥६॥

यद्यजां न विन्देद्ब्राह्मणस्य दक्षिणे हस्ते होतव्यम्

॥७॥

ब्राह्मणं तु वसत्यै नापरुन्धीत

॥८॥

यदि ब्राह्मणं न विन्देद्दर्भस्तम्बे होतव्यम्

॥९॥

दर्भांस्तु नाध्यासीत

॥१०॥

यदि दर्भान्न विन्देदप्सु होतव्यम्

॥११॥

आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इति

॥१२॥

अप्यभोजनीयस्यैतं संवत्सरं परिगृह्णीयादेवापः

॥१३॥

अद्भिस्तु न पादौ प्रक्षालयीत

॥१४॥

सांवत्सरिकाण्येतानि व्रतानीत्याश्मरथ्यः । यावज्जोवमित्यालेखनः

॥१५॥

संवत्सरस्य परस्तादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत्

॥१६॥

अग्नये क्षामवतेऽष्टाकपालं येषां पूर्वापरा अन्वञ्चः प्रमीयेरन् । गृहदाहे वा

॥१७॥

अग्नये विविचयेऽष्टाकपालं यस्याहिताग्नेरन्यैरग्निभिरग्नयः संसृज्येरन्मिथो वा

॥१८॥

अग्नये विपृचेऽष्टाकपालं यदि गार्हपत्याहवनीयौ

॥१९॥

अग्निना विपृचा वयं गीर्भिः स्तोमं मनामहे । स नो रास्व सहस्रिणः । कविरग्निः समिध्यते विप्रो यज्ञस्य साधनः । विपृञ्चन्रास्व नो वस्विति याज्यानुवाक्ये

॥२०॥

अग्नये वीतयेऽष्टाकपालं यदि गार्हपत्यदक्षिणाग्नी दक्षिणाग्न्याहवनीयौ वा

॥२१॥

अग्नये शुचयेऽष्टाकपालं यदि प्रदाव्येनाभ्यादाह्येन शवाग्निना वा । अग्नये संकुसुकायाष्टाकपालं यदि सूतकाग्निना । संकुसुको कुसुको विकिरो यश्च विष्किरः । माषाज्येन नलेध्मेन क्रव्यादं शमयामसि । अस्मिन्वयं संकुसुकेऽग्नौ रिप्राणि मृज्महे । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषदिति याज्यानुवाक्ये । अग्नयेऽप्सुमतेऽष्टाकपालं यदि वैद्युतेन

॥२२॥

यदि सर्वाः संनिपतेरन्विविचये निरुप्य शुचये निर्वपेद्व्रातभृतीं तृतीयामप्सुमतीं चतुर्थीं क्षामवतीमन्तं परिक्रमयेत्

॥२३॥

व्रातभृतीं द्वितीयामेके समामनन्ति । व्रातपतीमुत्तमाम्

॥२४॥

चतुर्थी कण्डिका

गर्भं स्रवन्तमगदमकरग्निरिन्द्रस्त्वष्टा बृहस्पतिः । पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निरृतिं पराचैरित्यग्निहोत्रस्थालीं स्रवन्तीमभिमन्त्र्य विधुं दद्राणमिति संदध्यात्

॥१॥

अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम्

॥२॥

समानतन्त्रे वा मुख्यः कार्यः

॥३॥

अथैकेषाम् । वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रततेऽन्तरेतामिष्टिं निर्वपन्ति । य एवासावाग्नेयोऽष्टाकपालः पौर्णमास्यां योऽमावास्यायां तमग्नये पथिकृते कुर्यात् । तेनैव पुनः पन्थामवैति न यज्ञं निच्छिनत्तीति विज्ञायते

॥४॥

संयाज्ये एव पाथिकृती स्यातामित्यपरम्

॥५॥

यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेतीत्युक्तम्

॥६॥

अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यः

॥७॥

तण्डुलभूतेष्वपनयेत्

॥८॥

व्यृद्धभाग्भ्य इत्यालेखनः

॥९॥

निनिरुप्तेऽभ्युदिते प्राकृतीभ्यः शेषम्

॥१०॥

तण्डुलभूतेष्वपनयेत्

॥११॥

यस्यागृहीतं हविरभ्युदियाद्द्रतचर्यां वा नोदाशंसीत । स त्रेधा तण्डुलानिति पूर्ववत् । अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत्

॥१२॥

अथ यस्य गृहीतं हविरभ्युदियात्सैव प्रायश्चित्तिः सा व्रतचर्या

॥१३॥

वत्सान्मातृभिः संसृज्य पुनरपाकृत्य पूर्वेद्युर्दुग्धं दधि हविरातञ्चनार्थं निदध्यात्

॥१४॥

अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निः सन्नव्रत्यमिव चरेत्प्रवसेद्वा व्रत्येऽहनि मांसं वाश्नाति स्त्रियं वोपैति

॥१५॥

अग्नये व्रतभृदेऽष्टाकपालं यद्यार्तिजमश्रु कुर्यात्

॥१६॥

त्वमग्ने व्रतभृच्छुचिर्देवाँ आसादया इह । अग्ने हव्याय वोढवे । व्रतानुबिभ्रद्व्रतपा अदाभ्यो यजा नो देवाँ अजरः सुवीरः । दधद्रत्नानि सुविदानो अग्ने गोपाय नो जीवसे जातवेद इति याज्यानुवाक्ये । व्रातभृतीं प्रवास एके समामनन्ति व्रातपतीमश्रुकर्मणि

॥१७॥

पञ्चमी कण्डिका

यद्यग्निहोत्र्युपसृष्टा वाश्येत यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि । अभयं नः पशुभ्यो नमो रुद्राय मीढुष इति जुहुयादभि वा मन्त्रयेत

॥१॥

यद्यु वै निषीदेदेतयैव यस्माभीषा न्यषद इत्यभिमन्त्र्योदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चेत्युपस्थाप्य तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यात् । अवर्तिमेवास्मिन्पाप्मानं प्रतिमुञ्चतीति विज्ञायते

॥२॥

अपि वा दण्डेन विपिष्याविपिष्य वोत्थाप्यात्मन्कुर्वीत

॥३॥

सूयवसाद्भगवती हि भूया थो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति दर्भस्तम्बमालुप्य ग्रासयेत्

॥४॥

यद्यु वै लोहितं दुहीत व्युत्क्रामतेत्युक्त्वा दक्षिणमग्निं परिश्रित्य तस्मिन्नेतच्छ्रपयित्वा तस्मिन्व्याहृतीभिस्तूष्णीं वा हुत्वा तां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्स्यात्

॥५॥

यदि दुह्यमानं स्कन्देद्यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्येनदभिमन्त्र्य समुद्रं वः प्रहिणोमीत्यद्भिरुपसृजेत्

॥६॥

यदि दुह्यमाना स्थालीमवभिन्द्यान्निर्णिज्यान्यां दुह्यात्तां वैव

॥७॥

यदि दुह्यमानं दुग्धं ह्रियमाणं हृतमधिश्रीयमाणमधिश्रितमुद्वास्यमानमुद्वासितमुन्नीयमानमुन्नीतं वा स्कन्देत्तदेव यादृक्कीदृक्च होतव्यमन्यया वाभिदोह्यम्

॥८॥

यदि सृकृदुन्नीतं स्कन्देद्द्विस्त्रिर्वा न तदाद्रियेत । यद्यु वै चतुर्थमुन्नीतं स्कन्देत्स्थाल्यां शेषमवनीय चतुरभ्युन्नीय होतव्यमन्यया वाभिदोह्यम्

॥९॥

षष्ठी कण्डिका

यद्युद्द्रुतस्य स्कन्देत्तन्निषद्य पुनर्गृहीत्वा तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर्होतव्यम् । अथाज्येन वरुणीमृचमनूच्य वारुण्यर्चा जुहुयात्

॥१॥

यदि प्राचीनं स्कन्देत्तदेव यादृक्कीदृक्च होतव्यमन्यया वाभिदोह्यम्

॥२॥

अथैकेषाम् । यदि प्राचीनं ह्रियमाणं स्कन्देत्प्रजापतेर्विश्वभृति तन्वं हुतमसि स्वाहेत्येनदभिमन्त्र्यैतदेवाग्निहोत्रं स्यादित्याश्मरथ्यः । अन्यां दुग्ध्वा पुनरोहोतव्यमित्यालेखनः

॥३॥

यदि पुरः पराहृतं स्कन्देदनूदाहृत्य चतुरभ्युन्नीय होतव्यमन्यया वाभिदोह्यम्

॥४॥

यदि पुर उपसन्नं स्कन्देत्तदेवयादृक्कीदृक्च होतव्यमन्यया वाभिदोह्यम्

॥५॥

अथैकेषाम् । यदि पुर उपसन्नमहुतं स्कन्देत्तदेव यादृक्कीदृक्च होतव्यम् । अथान्यां दुग्ध्वा पुनर्होतव्यम् । अथाज्येन वारुणीमिति समानम्

॥६॥

अस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजन्या स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीति स्कन्नमभिमन्त्र्योन्नम्भय पृथिवीमित्यद्भिरुपसृजेत्

॥७॥

यदनाहुतिमात्रं विप्रुडेव सा

॥८॥

यदि सायं स्कन्देदा होतोः प्रातर्नाश्नीयात् । यदि प्रातरा होतोः सायं नाश्नीयात्

॥९॥

दिव्या वा एतमशनिरभ्यवैति यस्याग्निहोत्रं शिरिशिराभवति । समोषामुमिति ब्रूयाद्यं द्विष्यात्

॥१०॥

यस्याग्निहोत्रेऽधिश्रिते श्वान्तराग्नी धावेद्गार्हपत्याद्भस्मादायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाहवनीयाद्ध्वंसयन्नुद्द्रुत्यैतयैव भस्मना शुनः पदमपिवपेत्

॥११॥

यस्याग्निमनाहृतं सूर्योऽभिनिम्रोचेद्यत्र दीप्यमानं परापश्येत्तत आहृत्यैतं प्रविशानीति वैष आधीयते

॥१२॥

इति दक्षिणाग्नेरनुगतस्याधानकल्पः

॥१३॥

यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेत्

॥१४॥

सप्तमी कण्डिका

दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेत् । अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् । आयतने हिरण्येऽग्निं प्रतिष्ठाप्य नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपस्थाय वारुणं चरुं निर्वपेत्

॥१॥

व्रातभृतीं द्वितीयामेके समामनन्ति । ऋते हिरण्यात्प्रणयनमेके

॥२॥

यदि सायमग्निहोत्रकालोऽतिपद्येत दोषा वस्तोर्नमः स्वाहेति कालसमापादनीयं होमं हुत्वा नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत

॥३॥

यदि प्रातः प्रातर्वस्तोर्नमः स्वाहेति कालसमापादनीयं होमं हुत्वा नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत

॥४॥

वरो दक्षिणा

॥५॥

हुत्वाहवनीयमुद्वाप्यान्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयेहैव क्षेम्य एधि मा प्रहासीन्मामुमामुष्यायणमित्यादित्यमुपस्थाय मैत्रं चरुं निर्वपेत्

॥६॥

सौर्यमेककपालमेके समामनन्ति

॥७॥

संस्थितायामिष्ट्यामाहवनीयमेवैतदहरिन्धानावनश्नन्तौ वाग्यतावासाते यजमानः पत्नी च

॥८॥

द्वयोः पयसा पूर्ववत्सायमग्निहोत्रं जुहुयात्

॥९॥

यस्याग्निमनुद्धृतं सूर्योऽभ्युदियाच्चतुर्गृहीतमाज्यं पुरस्ताद्धरेत् । अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् । आयतनेऽग्निं प्रतिष्ठाप्योषाः केतुना जुषतां यज्ञं देवेभिरन्वितम् । देवेभ्यो मधुमत्तमं स्वाहेति प्रत्यङ्गिषद्याज्येन जुहुयात्

॥१०॥

अग्निहोत्रस्य स एव होमकल्पः । तत्प्रायश्चित्तं यत्प्रातः कालातिपन्नस्य

॥११॥

एतावन्नाना । नात्राहवनीयमनुगमयति

॥१२॥

अथैकेषाम् । यस्याग्निमनुद्धृतं सूर्योऽभिनिम्रोचेदभ्युदियाद्वा

॥१३॥

अष्टमी कण्डिका

मनो ज्योतिर्जुषतां त्रयस्त्रिंशत्तन्तव इति द्वे चतुर्गृहीते जुहुयात्

॥१॥

यस्य विप्रक्रान्तमहुतमग्निहोत्रं सूर्योऽभ्युदियाद्यथा विजनिष्यमाणो न विजायेत तादृक्तत् । आत्मानं वा ह यजमानो रुणद्धि सर्वज्यानिं वा जीयते । नित्यमग्निहोत्रमुपसाद्या तमितोरप्राणन्नासित्वा समन्य हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत । एकहायनो दक्षिणा

॥२॥

हुत्वा तदुद्वास्य पुनराधेयं तस्य प्रायश्चित्तिरित्याश्मरथ्यः

॥३॥

अथैकेषाम् । यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत् । स उपसाद्या तमितोरासीत । स यदा ताम्येदथ भूः स्वाहेति जुहुयात् । प्रजापतिर्वै भूतस्तमेवोपासरेत्स एवैनं तत उन्नयति नार्तिमार्छति यजमान इति विज्ञायते

॥४॥

यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे चतुरहे वाग्नये तन्तुमते ऽष्टाकपालं निर्वपेत्

॥५॥

स्वयं कृण्वानं सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नं सधस्थमनुपश्यमान आ तन्तुमग्निर्दिव्यं ततान । त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये

॥६॥

तन्तुं तन्वन्नुद्बुध्यस्वाग्न उदुत्तममुद्वयं तमसस्पर्युदु त्यं चित्रमित्युपहोमाः

॥७॥

हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरंधिमग्निं स्विष्टकृतमाहुवेम । स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुरिति संयाज्ये

॥८॥

नवमी कण्डिका

यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदाहवनीयमुद्वाप्य गार्हपत्यं मन्थेदितः प्रथमं जज्ञे अग्निरित्येतया । अग्ने सम्राडिषे रय्यै रमस्व सहसे द्युम्नायोर्जपत्यायेत्यभिमन्त्र्य सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वान्नपत्यायेत्युपसमिध्यान्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयाग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत्

॥१॥

सर्वत्रानुगतेष्टिमेतामेके समामनन्ति

॥२॥

आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति याज्यानुवाक्ये

॥३॥

आहवनीयेऽनुगतेऽग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपति

॥४॥

न तपस्वते

॥५॥

यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदधिश्रित्याग्निहोत्रमुन्नीय वाग्निना च सहाग्निहोत्रेण चानूद्द्रवेत् । यो ब्राह्मणो बहुवित्स उद्धरेत् । यत्पुरा धनमदायी स्यात्तद्दद्यात् । अच्युतेनैनं च्यावयतीति विज्ञायते

॥६॥

यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं पूर्ववन्मथित्वापरं पूर्ववदुद्धृत्य जुहुयात्

॥७॥

यदि त्वरेत पूर्वमन्ववसाय ततः प्राङुद्धृत्य जुहुयात्

॥८॥

जामि तु तद्योऽस्य पुर्वस्तमपरं करोति । अन्यत्रैवावसाय पुर्ववन्मथित्वापरं पूर्ववदुद्धृत्य जुहुयात् । ततः श्वोभूतेऽग्नये तपस्वते जनद्वत इति समानम्

॥९॥

अथैकेषाम् । यस्याग्निरनुगच्छेन्न कालमवधारयेत् । अनुगमयित्वा पूर्वं पूर्ववन्मथित्वापरं पूर्ववदुद्धृत्य जुहुयात् । वैश्वानरं द्वादशकपालं निर्वपेद्वारुणं यवमयं चरुम्

॥१०॥

यदि गार्हपत्य आहवनीयो वानुगच्छेत्तेभ्य एवावक्षाणेभ्योऽधि मन्थितव्यः । यदि नतादृशानीवावक्षाणानि स्युर्भस्मनारणी संस्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते

॥११॥

एवं शकैधे तृणैधे च

॥१२॥

अग्नये तपस्वते जनद्वत इति समानम्

॥१३॥

अनुगतेष्टेर्वा स्थान एता आहुतीर्जुहुयान्मित्राय स्वाहा वरुणाय स्वाहाग्नये स्वाहाग्नये व्रतपतये स्वाहाग्नये तपस्वते जनद्वते पावकवते स्वाहाग्नये शुचये स्वाहाग्नये ज्योतिष्मते स्वाहा सूर्याय स्वाहेति व्याहृतीभिर्विहृताभिः समस्ताभिश्च जुहुयात्

॥१४॥

दशमी कण्डिका

यदि प्राग्घोमकालादाहवनीयोऽनुगच्छेद्गार्हपत्यादन्यं प्रणयेत्

॥१॥

यदि होमकाले प्राण उदानमप्यगादिति गार्हपत्ये जुहुयात्

॥२॥

यदि गार्हपत्य उदानः प्राणमप्यगादित्याहवनीये

॥३॥

यदि दक्षिणाग्निर्व्यान उदानमप्यगादिति गार्हपत्ये

॥४॥

यदि सर्वेऽनुगच्छेयुरग्निं मथित्वा यां दिशं वातो वायात्तां दिशमुद्धृत्य वायवे स्वाहेति जुहुयात्

॥५॥

यद्यु वै निवाते मथित्वा विहारं साधयित्वापरेणाहवनीयं यजमान उपविश्य स्वयमग्निहोत्रं पिबेत् । अग्निहोत्रप्रत्याम्नायो भवतीति विज्ञायते

॥६॥

यदि प्रागस्तमयाज्जुहुयात्पुनरेवास्तमिते हुत्वा भवतं नः समनसावित्युपतिष्ठेत

॥७॥

यदि महारात्रे पुनरेवौषसं हुत्वैतयैवोपतिष्ठेत

॥८॥

यदि हविः प्रोक्षन्नग्निमभिप्रोक्षेद्धतेन यज्ञेन यजेत । पुनस्त्वादित्या रुद्रा वसवः समिन्धतामिति पुनरग्निमुपसमिन्ध्यात्

॥९॥

एवं सर्वेष्वग्न्युपघातेषु

॥१०॥

अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः

॥११॥

यथा कथा चाभ्युद्धरेयुः प्रायश्चित्तमित्याश्मरथ्यः । यद्यसंन्युप्ते स्पाशयेयुरनुगमयेयुरेनं न प्रायश्चित्तमित्यालेखनः

॥१२॥

अग्नये ज्योतिष्मतेऽष्टाकपालमित्युक्तम्

॥१३॥

अथाहुतिं जुहुयात्त्रयस्त्रिंशत्तन्तव इति

॥१४॥

यस्य सांनाय्येऽधिश्रिते हविषि वा निरुप्ते पुरुषः श्वानो रथो वान्तराग्नी वीयाद्दुर्वराहैडको वा तदत्रापोऽन्वतिषिच्य गामन्वत्यावर्तयेद्वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः स्वाहेति

॥१५॥

देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरागच्छतु पितॄन्पञ्चजनान्दिश आप ओषधीर्वनस्पतीञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरागच्छत्विति षडाहुतीर्हुत्वेदं विष्णुर्विचक्रम इति वर्त्म समूहेत् । पदं वा लोभयेत्

॥१६॥

यस्यानो वा रथो वान्तराग्नी यात्याहवनीयमुद्वाप्य गार्हपत्यादुद्धरेद्यदग्ने पूर्वं प्रभृतं पदं हि ते सूर्यस्यरश्मीनन्वाततान । तत्र रयिष्ठामनुसंभरैतं सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असीत्येताभ्याम् । ततः पाथिकृतीं पूर्ववन्निर्वपेत्

॥१७॥

एतामेव निर्वपेत्

॥१८॥

एकादशी कण्डिका

स्तोत्रे शस्त्रे वा मूढे

॥१॥

यस्य वाग्निभिरग्नीन्व्यवेयुर्यो वा व्यवेयात्

॥२॥

यस्य वाग्निभिरग्नीन्विहरेयुः

॥३॥

एतां जने प्रमीतस्य

॥४॥

तस्याभिवान्यवत्सायै पयसाग्निहोत्रं जुहुयादा शरीरस्याग्निभिः संस्पर्शनात्

॥५॥

सर्वं तूष्णीं क्रियेत

॥६॥

पाचीनावीती दोहयति

॥७॥

ये पुरोदञ्चो दर्भास्तान्दक्षिणाग्रान्कृत्वा दक्षिणार्धे गार्हपत्यस्य शीते भस्मन्यधिश्रित्य दक्षिणोद्वास्य सकृदेव सर्वं तूष्णीमुन्नीयाधस्तात्समिधं धारयन्दक्षिणेन विहारमुद्द्रवति

॥८॥

उपरि हि देवेभ्यो धारयतीति विज्ञायते

॥९॥

स उपसाद्य समिधमाधाय सकृदेव सर्वं तूष्णीं जुहुयात्

॥१०॥

अपि वा सोमं पितृमन्तं पूर्वस्यामाहुत्यामुपलक्षयेत् । अग्निं कव्यवाहनमुत्तरस्याम्

॥११॥

प्राश्नोत्सेचनपरिषेचनानि न विद्यन्ते

॥१२॥

ब्राह्मणेभ्यो यज्ञायुधानि ददाति

॥१३॥

ददात्येवायस्मयानि

॥१४॥

अपो मृन्मयान्यभ्यवहरन्त्यमैव

॥१५॥

पुत्रस्य दृषत्स्यात्

॥१६॥

यद्यप्रमीतं प्रमीतमुपशृणुयुरग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेत्

॥१७॥

यदि पूर्वस्यामाहुत्यां हुतायां यजमानो म्रियेत दक्षिणतः शीते भस्मन्युत्तरामाहुतिं निनयेत्

॥१८॥

भस्मोत्करं वा गमयेत्

॥१९॥

यैषा पितृमेधे प्रथमाहुतिस्तामेवात्र कुर्यादित्येके

॥२०॥

यदि विसंस्थितायामिष्ट्यां यजमानो म्रियेत सर्वतः समवदाय सर्वा देवता अनुद्रुत्य स्वाहाकारेण जुहुयात्

॥२१॥

यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत यां दिशमभिप्रस्थितः स्यात्तामस्याग्निभिः कक्षं दहेयुः

॥२२॥

अपि वा त्रीणि षष्टिशतानि पलाशवृन्तानाम् तैः कृष्णाजिने पुरुषाकृतिं कुर्वन्ति । पलाशवल्कैः कुशैर्वा संधिषु संवेष्ट्य चत्वारिंशता शिरः प्रकल्पयते । दशभिर्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशतापञ्चाशतैकैकं बाहुम् । ताभ्यामेव पञ्चभिःपञ्चभिरङ्गुलीरुपकल्पयते । सप्तत्यासप्तत्यैकैकं पादम् । ताभ्यामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्ल्पयते । अष्टाभिः शिश्नं द्वादशभिर्वृषणम् । तैः कृष्णाजिने पुरुषाकृतिं कृत्वा स्नापयित्वालङ्कृत्यान्तर्वेदि कृष्णाजिनं दक्षिणाग्रीवमधरलोमास्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य बान्धवाः पर्युपविशन्ति । अभिमृशन्त्ययमस्यासौ यस्य त इमे अग्नय इति प्रेतेऽमात्याः । इत्येतदादि कर्म प्रतिपद्यते । कृत्वा तामस्याग्निभिर्दहेयुरिति वाजसनेयकम्

॥२३॥

यदि हवींष्यासन्नानि कृष्णशकुनिरुपर्युपर्यतिपतेत्पक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात्

॥२४॥

यद्य्च्चैः पतेन्न तदाद्रियेत

॥२५॥

यद्युच्छ्रियमाणो यूपश्चषालं वा पद्येत ब्रह्म प्रतिष्ठा मनस इत्याहुतिं जुहुयात्

॥२६॥

द्वादशी कण्डिका

यदि हविःशेषाननुद्वासिताननूयाजैरभ्याश्रावयेद्यद्वो देवा अतिपादयानीत्याहुतिं जुहुयात्

॥१॥

यदि प्रणीता स्कन्देयुरुपदस्येयुर्वापो हि ष्ठा मयोभुव इति तिसृभिः पुनर्गृहीत्वा ततं म आप इत्याहुतिं जुहुयात्

॥२॥

यद्यग्न्याधेये सूर्यो ऽनाविः स्यादुद्वयं तमसस्पर्युदु त्यं चित्रमित्याहुतीर्जुहुयात्

॥३॥

यद्येनमुपधावेयुर्गोमायवोऽवादिषु रेकसृकोऽवादीदभिमृताः स्मः परिधिं नः कुर्विति पालाशमिध्ममुपसमाधायेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इति षडाहुतीर्हुत्वेमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेनेति दक्षिणतोऽश्मानं परिधिं दधाति

॥४॥

नैय्यग्रोध इध्मः क्षत्रियस्य राष्ट्रमर्यादायाम्

॥५॥

आश्वत्थो वैश्यस्य क्षत्रमर्यादायाम्

॥६॥

इष्टेभ्यः स्वाहेत्यष्टावाहुतीर्दार्शपूर्णमासिकैः सर्वप्रायश्चित्तैर्विकल्पेरन्

॥७॥

यदि दौःष्वप्न्यमन्यद्वा भयं पश्येद्यत इन्द्र भयामह इत्याहुती जुहुयात् । जपेदित्येके

॥८॥

सर्वेषां वै घर्मो रुचां रोचते । तस्मात्प्रवर्ग्येण प्रचय प्रवृज्यमानस्य वोपश्रुत्याभिर्गीर्भिरिति जुहुयात् । जपेदित्येके

॥९॥

यदि होमायोपसमिद्धेष्वहुतेष्वग्निषु यजमानोऽश्नीयाद्यत्ते वयं यथा ह तदित्याहुती जुहुयात् । समिधौ वादध्यात् । जपेदित्येके

॥१०॥

यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादित्येताभ्यामभिनिम्रुक्ताभ्युदितपर्याहितपरीष्टपरिवित्तपरिविन्नपरिविविदानो वा जुहुयात् । जपेदित्येके

॥११॥

अनाज्ञातमिति तिस्रोऽनाज्ञाते जुहुयात् । जपेदित्येके

॥१२॥

त्रयोदशी कण्डिका

यस्याज्यमनुत्पूतं स्कन्देच्छिन्दत्प्राणि दद्यात्

॥१॥

यद्युत्पूतं चित्रं देयम्

॥२॥

वरो देय इत्येकेषाम्

॥३॥

यदि स्रुग्गतं यदस्य गृहे पुष्कलं स्यात्तद्दद्यात् । सं त्वा सिञ्चामीति तत्संसिञ्चेदभि वा मन्त्रयेत

॥४॥

देवां जनमगन्यज्ञ इत्येकेषामनन्तरमाज्याद्वदति

॥५॥

यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामीति तत्परिगृह्य भूपतये स्वाहेति प्राञ्चं प्रादेशं मिमीते । भुवनपतये स्वाहेति दक्षिणम् । भूतानां पतये स्वाहेति प्रत्यञ्चम् । भूत्यै स्वाहेत्युदञ्चम् । भूर्भुवः सुवरित्यूर्ध्वम्

॥६॥

भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति स्कन्नमनुमन्त्रयेतेति सर्वहविषामनवयवेन श्रूयते

॥७॥

यदि कपालं भिद्येत गायत्र्या त्वा शताक्षरया संदधामीति तत्संधायोपरि गार्हपत्ये धार्यमाणमभिजुहुयान्मनो ज्योतिर्जुषतामिति

॥८॥

अथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति

॥९॥

अथान्यत्संस्कृत्य कपालेष्वपिसृजेत्त्रयस्त्रंशत्तन्तव इति यदि प्रागुपघानाद्भिद्येत

॥१०॥

अथ यद्युपहितानामेतेनैव मन्त्रेणान्यदुपदध्यात्

॥११॥

यस्य वा मन्त्रस्य स्थाने भिद्येत

॥१२॥

यदि प्रयुक्तानां प्रागर्थकर्मणः कपालं नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालम्

॥१३॥

भार्गवो होता भवति । एकहायनो दक्षिणा

॥१४॥

मही द्यौः पृथिवी च न इति द्यावापृथिव्ययर्चा स्रुवाहुतिमत्र वाजसनेयिनः समामनन्ति

॥१५॥

चतुर्दशी कण्डिका

यद्येककपालः स्कन्देत्परि वावर्तेत प्रजापतेर्वर्तनिमनुवर्तस्वानु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैरनु प्रजयान्विन्द्रियेण देवा नो यज्ञमृजुधा नयन्त्विति यथास्थानं कल्पयति

॥१॥

तं यजमानोऽभिमन्त्रयते प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याभिवावृधे तदन्यस्यामधिश्रितम् । दिवे च विश्वकर्मणे पृथिव्यै चाकरं नम इति । अथास्कान्द्यौः पृथिवीमित्याहुती जुहुयात्

॥२॥

वैश्वानरं द्वादशकपालं निर्वपेद्यदि पत्नीः संयाजयन्कपालमभिजुहुयात्

॥३॥

एतामेव निर्वपेद्यो दर्शपूर्णमासयाजीत्युक्तम्

॥४॥

एतामेव निर्वपेद्यदकृत्वाग्रायणं नवस्याश्नीयात्

॥५॥

आनीतो वा एष देवानां य आहिताग्निरदन्त्यस्य भागं प्रतिकॢप्तमद्यादार्तिमार्छेत्

॥६॥

मारुतं त्रयोदशकपालं निर्वपेद्यस्य यमौ जायेयातां गावौ वा पुरुषौ वा

॥७॥

निर्वीर्यतां वै पुरुष आशास्ते । अपशुतां गौः

॥८॥

आग्नावैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यस्य वाग्निष्वन्यो जयेत

॥१०॥

रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्रः पशूञ्छमायेत

॥११॥

एतयैवावृता निषादस्थपतिं याजयेत्

॥१२॥

सा हि तस्येष्टिः

॥१३॥

कृष्णाजिनं दक्षिणा कूटं वा कर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा श्यामाकपात्रो वा शफको वेति विज्ञायते

॥१४॥

पञ्चदशी कण्डिका

यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत

॥१॥

भूमावकपालं पुरोडाशं श्रपयेत्

॥२॥

अप्स्ववदानैश्चरेयुः

॥३॥

रक्षोदेवत्यः स्यान्निरृतिदेवत्यो वा

॥४॥

निरृतिं पाकयज्ञेन यजेत

॥५॥

यस्य हविः क्षायति तं यज्ञं निरृतिर्गृह्णाति । तत्संस्थाप्यान्यद्धविस्तद्दैवतं निर्वपेत्

॥६॥

अथैकेषाम् । यस्य पुरोडाशः क्षायति तं यज्ञं निरृतिर्गृह्णाति । यदुच्छिष्टं स्यात्तेन प्रचरेद्द्वेष्याय तां दक्षिणां हविरुच्छिष्टं च दद्यात् । तमेव निरृत्या ग्राहयतीति विज्ञायते

॥७॥

सर्वदाहे प्रायश्चित्तम्

॥८॥

यदि वावदानेभ्यो न प्रभवेत्

॥९॥

यद्यप्रत्तदैवतं हविर्व्यापद्येतान्यद्धविस्तद्दैवतं निर्वपेत्

॥१०॥

तत्र स्रुगादानप्रभृतयो मन्त्रा आवर्तेरन्

॥११॥

यावदन्ते वा व्यापद्येत

॥१२॥

यदि प्रत्तदैवतमाज्येन शेषं संस्थापयेत्

॥१३॥

यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयुरपहरेयुर्वाज्येनैता देवताः प्रतिसंख्याय यजेत

॥१४॥

अथान्यामिष्टिमनुल्बणां तन्वीत । यज्ञो हि यज्ञस्य प्रायश्चित्तिः

॥१५॥

अपो व्यापन्नं हविरभ्यवहरतीति विज्ञायते

॥१६॥

यदार्याणामभोजनीयं स्यान्न तेन यजेत

॥१७॥

यस्य पुरोडाशो दुःशृतस्तद्धविर्यमदैवत्यं यममेव तद्गच्छतीति विज्ञायते । संस्थाप्य तदन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत्

॥१८॥

तेषां भार्गवः प्राशितॄणामेकः स्यात्

॥१९॥

योऽदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामोऽनायुः । उर्वरां दद्यात्

॥२०॥

यद्यादिष्टां दक्षिणामन्तरियादुर्वरा प्रतिष्ठिता देया । सा प्रायश्चित्तिः

॥२१॥

यद्यभागां देवतामावाहयेदाज्येनैनां यथोढां यजेत । पुरस्ताद्वा स्विष्टकृतः

॥२२॥

यदि भागिनीं नावाहयेद्यत्र स्मरेत्तदुपोत्थाय मनसावाह्य यद्वो देवा अतिपादयानीत्याहुतिं जुहुयात्

॥२३॥

षोडशी कण्डिका

यदि पुरा प्रयाजेभ्यो बहिःपरिध्याहुतिः स्कन्देदाग्नीध्रं ब्रूयादेतां संकृष्य जुहुधीति । तां सोऽञ्जलिना जुहोति । तस्मै पूर्णपात्रो देयः

॥१॥

यत्किंच यज्ञे मृन्मयं भिद्येत तदपोऽभ्यवहरेद्भूमिर्भूमिमगादिति

॥२॥

आहवनीये दारुमयाणि

॥३॥

यद्यृक्तो यज्ञं भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये

॥४॥

यदि सर्वतः सर्वा जुहुयात्

॥५॥

तदिदं सर्वप्रायश्चित्तं सर्वत्र क्रियेतेत्याश्मरथ्यः । यत्रानाम्नातं तत्र क्रियेतेत्यालेखनः । सर्वत्र समभ्युच्चयः स्यादित्यपरम्

॥६॥

यद्येनं विहारे बहिर्वा भयं विन्देत्प्रजापतिर्विश्वकर्मा तस्य मनो देवं यज्ञेन राध्यासम् । अर्थेगा अस्य जहितोऽवसानपतेऽवसानं मे विन्देत्याहुतिं जुहुयात्

॥७॥

यस्य हविर्निरुप्तं स्कन्देच्छिन्दत्प्राणि दद्यात् । यद्युत्पूतं चित्रं देयम् । वरो देय इत्येकेषाम्

॥८॥

यस्य देवते अवदाने हवींषि याज्यानुवाक्ये वा विपरिहरेयुर्यस्य वा देवतायै गृहीतमहुतं स्कन्देद्देवतान्तरये वा यदस्य गृहे पुष्कलं स्यात्तद्दद्यात्

॥९॥

त्वं नो अग्ने स त्वं नो अग्न इति सर्वत्रान्तरये विपर्यासे चैते आहुती जुहोतीत्येके

॥१०॥

यस्य पुरोडाश उद्वा पतेत्सं वा विजेत तमुद्वास्य बर्हिषदं कृत्वा किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वम् । मा हिंसीर्देव प्रेषित आज्येन तेजसाज्यस्व मा नः किंचन रीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीत्येताभ्यामभिमन्त्रयेताभि च घारयेत्

॥११॥

भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्ति

॥१२॥

सप्तदशी कण्डिका

स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नादो विश्वा भूतानि प्र स्कन्नाज्जायतां हविः । इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो रायस्पोषो निषीदतु । अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीरा । इदं बर्हिरति बर्हींष्यन्येमं यज्ञं विश्वे अवन्तु देवाः । पयस्वतीरोषधय इत्येताभिश्चतसृभिः पृषदाज्यं स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य निर्णिज्य स्रुचं शतमानं हिरण्यं स्रुच्यवधायेदं विष्णुर्विचक्रम इत्यन्यत्पृषदाज्यं गृहीत्वाश्वेनावघ्राप्यायतने सादयेत्

॥१॥

अथैकेषाम् । पृषदाज्ये स्कन्ने पृषदाज्युए पृषदाज्यमभिगृह्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्

॥२॥

एवं सोमे स्कन्ने सोमे सोममभिगृह्य जुहुयात्

॥३॥

यदपामृक्षच्छकुनिर्मुखेन निरृते तव । अग्निष्टत्सर्वं शुन्धतु हव्यवाड् घृतसूदन इति कृष्णशकुन्यवमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । निर्लिख्यतेऽत्र पात्रम्

॥४॥

यदवालिक्षच्छ्वपान्मुखेन निरृते तव । अग्निष्टत्सव शुन्धतु हव्यवाड् घृतसूदन इति श्वापदावमृष्टमभिमन्त्रयते । अभ्यवहरणादि पूर्ववत् । नात्र पात्रं प्रयुज्यते । अन्यस्मिन्गृह्णाति

॥५॥

यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्याहुतिं जुहुयात् । यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इति जुहुयादभि वा मन्त्रयेत

॥६॥

यद्यु वै निषीदेदेतयैव यस्माद्भीषा न्यषद इति द्वितीयाम्

॥७॥

निषणे तं मैत्रावरुणदण्डेनोत्थापयेत्

॥८॥

अष्टादशी कण्डिका

उदुस्र तिष्ठ प्रतितिष्ठ मा रिषो मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानं हि धेहि शं न एधि द्विपदे शं चतुष्पद इति

॥१॥

उच्छागेति छागम् । उन्मेषेति मेषम् । उद्वश इति वशाम्

॥२॥

यस्माद्भीषावेपिष्ठा इति द्वितीयां वेपमाने

॥३॥

यस्माद्भीषा पलायिष्ठा इति द्वितीयां पलायिते

॥४॥

अनागच्छत्यन्यं तद्रूपवर्णवयसं तद्दैवतमुपाकृत्य यजेत

॥५॥

यस्माद्भीषा समज्ञास्था इति द्वितीयामकामसंज्ञपने

॥६॥

य इदमकस्तस्मै नमस्तस्मै स्वाहेति सर्वत्र तृतीयाम्

॥७॥

न वा उवेतन्म्रियसे । आशानां त्वा विश्वा आशाः । आपो हि ष्ठा मयोभुव इत्येताभिश्चतसृभिरपोऽभ्यवहृत्यान्यं तद्रूपवर्णवयसं तद्दैवतमुपाकृत्य यजेत

॥८॥

यस्माद्भीषा निमेहसीति द्वितीयां मूत्रं कुर्वति । यस्माद्भीषा शकृत्करोषीति द्वितीयां शकृत्कुर्वति

॥९॥

ऊर्ध्व ऊ षु ण ऊतय इत्युच्छ्रयन्तमभिमन्त्रयते

॥१०॥

यद्युपपाय्यमानो न पिबेन्न वा उवेतन्म्रियस इत्युपपाययेत्

॥११॥

गर्भं स्रवन्तीमगदामकमाग्निर्होता पृथिव्यन्तरिक्षं द्यौर्यतश्च्युतदग्नावेव तन्न तत्प्राप्नोति निरृतिं पराचैरिति पशूखां स्रवन्तीमभिमन्त्रयते

॥१२॥

यर्हि पशुमाप्रीतमुदञ्चं नयन्तीत्युक्तम्

॥१३॥

ये पशुं विमथ्नीरन्यस्तान्कामयेतार्तिमार्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहुयात् । आहवनीये शामित्रे वा निरूढपशुबन्धे

॥१४॥

यदि वपा हविरवदानं वा स्कन्देदा त्वा ददे यशसे वीर्याय चास्मास्वघ्निया यूयं दधायेन्द्रियं पय इत्यादाय यस्ते द्रप्सो यस्त उदर्षो दैव्यः केतुर्विश्वं भुवनमाविवेश । स नः पाह्यरिष्ट्यै स्वाहेत्याहुतिं जुहुयात्

॥१५॥

यद्यष्टापदीत्यनुबुध्येत धाता रातिः सूर्यो देवो दिविषद्भ्य इत्याहुती हुत्वाष्टाप्रूड्ढिरण्यमुष्णीषेणावेष्ट्य

॥१६॥

एकोनविंशी कण्डिका

कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति

॥१॥

विबिलानिव कोशान्कृत्वाथैनामध्वर्युरभिमन्त्रयते यस्यास्ते हरितो गर्भ इति

॥२॥

आ वर्तन वर्तयेति प्रदक्षिणं गर्भमावृत्य वि ते भिनद्मि तकरीमित्युल्बमाछ्यति

॥३॥

बहिस्ते अस्तु बालित्यन्तरा सक्थिनी गर्भं निरस्य शूले प्रणीक्ष्य शामित्रे निहत्य श्रपयति

॥४॥

उरुद्रप्सो विश्वरूप इन्दुरिति गर्भरसाय पात्रमुपोहति

॥५॥

पशुपुरोडाशं निरुप्य गर्भपुरोडाशं निर्वपति भक्तीद्यावापृथिव्यमेककपालम्

॥६॥

पशुपुरोडाशेन प्रचर्य गर्भपुरोडाशेन प्रचरति भक्तीद्यावापृथिव्येनेति

॥७॥

पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय दैवतेष्ववदधाति । उपरिष्टादन्यत्सौविष्टकृतेषु

॥८॥

त्रैधं गर्भरसं व्यानयति दैवतसौविष्टकृतैडेषु च

॥९॥

एकपदी द्विपदीति पुरस्तात्स्विष्टकृतो जुहोति

॥१०॥

अष्टाप्रूड्ढिरण्यं दक्षिणा

॥११॥

गर्भस्य दक्षिणं पूर्वपादं प्रच्छिद्य विष्णुं शिपिविष्टं यजति प्र तत्ते अद्य शिपिविष्ट नामेति । उत्तरया वा

॥१२॥

मरुतो यस्य हि क्षय इति गर्भं गर्भपुरोडाशं चोत्तरेण गार्हपत्यस्य शामित्रस्य वा शीते भस्मन्युपोप्य मही द्यौः पृथिवी च न इति शीतेन भस्मनाभिसमूह्यैतं युवानमिति पञ्चभिरुपतिष्ठते

॥१३॥

तदिदं गर्भिणिप्रायश्चित्तं सर्वत्र क्रियेतेत्याश्मरथ्यः । यत्रानाम्नातं तत्र क्रियेतेत्यालेखनः

॥१४॥

यद्यनपवृक्तार्थो यूपो विरोहेत्तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं बहुरूपं सवनीयस्योपालम्भ्यं कुर्यात्

॥१५॥

त्वाष्ट्रं चरुमत्र वाजसनेयिनः समामनन्ति

॥१६॥

त्वाष्ट्रीरेवात्र स्रुवाहुतीर्जुहोतीत्येके

॥१७॥

विंशी कण्डिका

यदि यूपः सुषिरः स्यादतीसारेण यजमानो म्रियेत । वैष्णव्या व्याहृतिभिः प्राजापत्यया च हुत्वा तं संवृश्च्याग्नौ प्रवृज्याथान्यं साधयेत्

॥१॥

यदि क्रिम्णः क्रिमय एनं भक्षयेयुः । पूर्ववत्प्रायश्चित्तम्

॥२॥

यद्याव्रश्चनमास्कन्देत्पत्न्येनमतिचरिष्यतीति विद्यात् । व्याहृत्यादि समानमुत्तरम्

॥३॥

यदि दक्षिणा पतेत्प्रत्यङ्वा सं वा शीर्येत शाखासु वा सज्येत यजमानो म्रियेत । वैष्णव्याः स्थाने यामी । समानमुत्तरम्

॥४॥

यद्यप्सु पतेदप्सु म्रियेत । वैष्णव्याः स्थाने वारुणी । समानमुत्तरम्

॥५॥

यदि प्रासहा हरेयुः सर्वस्वं जीयेत । वैष्णव्याः स्थान ऐन्द्री । समानमुत्तरम्

॥६॥

यदि मूल उपशुष्कः स्यान्न पितृभ्यो यथापुरं करिष्यतीति विद्यात् । यदि मध्ये क्षुधा मरिष्यति । यद्यग्रे न स्वर्गं लोकं गमिष्यतीति । यद्यग्निष्ठा विच्छिद्येत यजमानो म्रियेत । यदि पूर्वा पत्नी । एतद्वा विपरीतम् । यदि दक्षिणा माहिषेयः पुत्रः । यद्युत्तरान्वग्ज्येष्ठः । यदि दक्षिणपूर्वा ब्रह्मा । यदि दक्षिणापरा होता । यद्युत्तरापराध्वर्युः । यद्युत्तरपूर्वाग्नीध्रः

॥७॥

शुष्कादिषु सर्वेषु याम्यादि समानमुत्तरम्

॥८॥

यदि लोहिन्यो लेखाः प्रसव्यं यूपं परिहरेयुर्न साहस्रं क्रतुमाहरिष्यतीति विद्यात् । श्वेताश्चेत्प्रदक्षिणं क्षिप्रं साहस्रं क्रतुमाहरिष्यतीति

॥९॥

यद्याहुतौ हुतायां कृष्णो धूमो दक्षिणां दिशमभिनिहन्याद्वातो वा प्रसव्यं धूममावेष्टयेद्यजमानो म्रियेत । सर्वप्रायश्चित्तं जुहुयाज्जुहुयात्

॥१०॥