मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

चतुर्दशः प्रश्नः

3
आपस्तम्बश्रौतसूत्रम् · 14

उक्थ्यादयः, सोमप्रायश्चित्तानि

पाठः आरभ्यताम्

कण्डिकासूत्राणि
प्रथमा कण्डिका10
द्वितीया कण्डिका13
तृतीया कण्डिका16
चतुर्थी कण्डिका16
पञ्चमी कण्डिका22
षष्ठी कण्डिका16
सप्तमी कण्डिका22
अष्टमी कण्डिका9
नवमी कण्डिका7
दशमी कण्डिका13
एकादशी कण्डिका4
द्वादशी कण्डिका9
त्रयोदशी कण्डिका14
चतुर्दशी कण्डिका13
पञ्चदशी कण्डिका5
षोडशी कण्डिका1
सप्तदशी कण्डिका3
अष्टादशी कण्डिका15
एकोनविंशी कण्डिका11
विंशी कण्डिका8
एकविंशी कण्डिका13
द्वाविंशी कण्डिका15
त्रयोविंशी कण्डिका15
चतुर्विंशी कण्डिका21
पञ्चविंशी कण्डिका11
षड्विंशी कण्डिका9
सप्तविंशी कण्डिका7
अष्टाविंशी कण्डिका6
एकोनत्रिंशी कण्डिका3
त्रिंशी कण्डिका7
एकत्रिंशी कण्डिका9
द्वात्रिंशी कण्डिका7
त्रयस्त्रिंशी कण्डिका10
चतुस्त्रिंशी कण्डिका5

प्रथमा कण्डिका

उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चाग्निष्टोमस्य गुणविकाराः

॥१॥

उक्थ्येन पशुकामो यजेत । षोडशिना वीर्यकामः । अतिरात्रेण प्रजाकामः पशुकामो वा । अप्तोर्यामेणातिरात्रेण सर्वान्कामानवाप्नोति

॥२॥

तेषामग्निष्टोमवत्कल्पः

॥३॥

उक्ताश्च विकाराः

॥४॥

यथा सदः क्रतुकरणं क्रतुपशवः षोडशिनः सोमक्रयणी पात्रमिति

॥५॥

उक्थ्यश्चेदग्निष्टोमचमसानुन्नयंस्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति

॥६॥

अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोन्नेतर्होतुश्चमसमनून्नय होतृचमसे ध्रुवायावकाशं कुरूद्गात्रा पत्नीं संख्यापयाप उपप्रवर्तयेति संप्रैषः

॥७॥

अग्निष्टोमचमसैः प्रचर्य प्रातःसवनवदुक्थ्यं विगृह्णाति

॥८॥

एतावन्नाना । इन्द्रावरुणाभ्यां त्वेति प्रथमे ग्रहणसादनौ संनमति । इन्द्राबृहस्पतिभ्यां त्वेति द्वितीये । इन्द्राविष्णुभ्यां त्वेति तृतीये

॥९॥

उन्नेतः सर्वं राजानमुन्नय मातिरीरिचो दशाभिः कलशौ मृष्ट्वा न्युब्जेति सर्वसंस्थासूत्तमे गण एतत्संप्रेष्यति

॥१०॥

द्वितीया कण्डिका

अग्नीदौपयजानङ्गारानाहरेत्येतदाद्याग्निष्टोमिकं कर्म सर्वसंस्थासु समानम्

॥१॥

यद्यु वै षोडश्युक्थ्यचमसानामुत्तमं गणमुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति

॥२॥

षोडशिनो ग्रहणम्

॥३॥

प्रातःसवन उत्तमो धाराग्रहाणाम्

॥४॥

सवनेसवने वा

॥५॥

अथैकेषाम् । पूर्वयोः सवनयोः पुरस्तादुत्तमादुक्थ्यपर्यायादुक्थ्याद्गृह्णीयात्सर्वैः प्रचरिते । तृतीयसवन आग्रयणात्

॥६॥

अपि वा तृतीयसवन एवाग्रयणात्पशुकामस्य

॥७॥

नोक्थ्ये गृह्णीयात् । गृह्णीयाद्वा

॥८॥

अतिरात्रे पशुकामस्य । अतिरात्रे ब्रह्मवर्चसकामस्य

॥९॥

अप्यग्निष्टोमे राजन्यस्य गृह्णीयात्

॥१०॥

सस्तुतशस्त्रो भवति

॥११॥

आतिष्ठ वृत्रहन्निति ग्रहणसादनौ

॥१२॥

यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि सचते स षोडशी । एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य

॥१३॥

तृतीया कण्डिका

समयाविषिते सूर्ये हिरण्येन षोडशिनः स्तोत्रमुपाकरोति

॥१॥

बर्हिःस्थाने भवति

॥२॥

श्वेतमश्वं पुरस्ताद्धारयन्ति । अरुणपिशङ्गं वा

॥३॥

ओथा मोद इव मदे मदा मोद इवोमथेति व्यतिषक्त उभयतोमोदः प्रतिगर आनुष्टुग्भ्यः

॥४॥

इन्द्राधिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति हुत्वेन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतम् । तयोरनु भक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति षोडशिनं भक्षयति । आदित्यवद्गणेन चमसान्

॥५॥

अनुष्टुप् छन्दस इति भक्षमन्त्रं नमति

॥६॥

अरुणपिशङ्गोऽश्वो दक्षिणा । अश्वतरी वा

॥७॥

अतिरात्रश्चेत्षोडशिचमसानुन्नयंस्त्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति

॥८॥

षोडशिना प्रचर्य रात्रिपर्यायैः प्रचरति

॥९॥

होतृचमसमुख्यः प्रथमो गणः । मैत्रावरुणचममुख्यो द्वितीयः । ब्राह्मणाच्छंसिचमसमुख्यस्तृतीयः । अच्छावाकचमसमुख्यश्चतुर्थः

॥१०॥

इन्द्राय त्वापिशर्वरायेति मुख्यंमुख्यं चमसमनून्नयति

॥११॥

सर्वैन्द्री रात्रिः

॥१२॥

अनुष्टुप् छन्दस इति सर्वत्र भक्षमन्त्रं नमति

॥१३॥

प्रथमाभ्यां गणाभ्यामध्वर्युश्चरति । उत्तराभ्यां प्रतिप्रस्थाता

॥१४॥

एष प्रथमः पर्यायः

॥१५॥

एवं विहितो द्वितीयस्तृतीयश्च

॥१६॥

चतुर्थी कण्डिका

अथ प्रतिप्रस्थाताश्विनं द्विकपालं निर्वपति

॥१॥

होतृचमसमुख्यान्संधिचमसानुन्नयति

॥२॥

त्रिवृद्राथंतरः संधिः

॥३॥

आश्विनं परःसहस्रं शस्त्रं भवति

॥४॥

तदुदित आदित्ये परिधीयते

॥५॥

तस्मिन्परिधिते होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । पुरोडाशं प्रतिप्रस्थाता

॥६॥

अश्विभ्यां तिरोअह्नियानां सोमानामनुब्रूह्यश्विभ्यां तिरोअह्नियानां सोमानां प्रेष्येति संप्रैषौ

॥७॥

तिरोअह्नियान्सोमान्प्रस्थितान्प्रेष्येति वा

॥८॥

न वा प्रस्थापयेत्

॥९॥

सह सोमैः पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति

॥१०॥

पङ्क्तिश्छन्दस इति भक्षमन्त्रं नमति

॥११॥

अप्तोर्यामश्चेत्संधिचमसानुन्नयंश्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति

॥१२॥

यथा प्रथमे रात्रिपर्याये तथा मुख्या भवन्ति

॥१३॥

आग्नेयान्प्रथमानुन्नयति । ऐन्द्रान्द्वितीयान् । वैश्वदेवांस्तृतीयान् । वैष्णवांश्चतुर्थान्

॥१४॥

तेषां संधिचमसवत्प्रचरणकल्प इत्येके

॥१५॥

अतिच्छन्दाश्छन्दस इति सर्वत्र भक्षमन्त्रं नमति

॥१६॥

पञ्चमी कण्डिका

क्रतुपशव ऐकादशिनाश्च विकल्पन्ते

॥१॥

तेषां समवाये यथाचोदितं संस्काराः

॥२॥

तन्त्रमङ्गानि विभवन्ति

॥३॥

प्रत्यक्षार्थानि प्रतिसंस्कारमध्यावर्तन्ते

॥४॥

यथार्थमूहः

॥५॥

यूपाहुतिं हुत्वाग्निष्ठप्रथमांस्त्रयोदश यूपान्मन्त्रेण छिनत्ति

॥६॥

सर्वेषां शकलाहरणाव्रश्चनहोमाः

॥७॥

सर्वमुपशयं तक्षति

॥८॥

तथा पात्नीवतं छिनत्ति यथाधो नाभिसंमितो भविष्यतीति

॥९॥

यत्प्राग्वेदिसंमानात्तत्कृत्वा दशरथाक्षामेकादशोपरां रज्जुं मीत्वा तस्याश्चतुर्विंशेन भागेन वेदिं मिमीते

॥१०॥

प्रक्रमस्थानीया भवति

॥११॥

अग्निष्ठं द्वाभ्यां रशनाभ्यां परिवीयैकादशिनी रशनाः परिवीयाग्निष्ठे वासयति

॥१२॥

द्विरशना यूपाः

॥१३॥

श्वोभूत आश्विनं गृहीत्वा यूपान्संमिनोति

॥१४॥

सह वाग्निष्ठेन

॥१५॥

तन्त्रमभ्रेरादानं परिलेखनोऽभ्यावर्तते

॥१६॥

रथाक्षमात्राणि यूपान्तरालानि

॥१७॥

अग्निष्ठाद्दक्षिणं परिलिख्योत्तरमग्निष्ठात्परिलिखति

॥१८॥

एवं व्यत्यासमुदगपवर्गान्यूपान्संमिनोति

॥१९॥

प्रतियूपं स्वरवः

॥२०॥

दक्षिणत उन्नता भवति

॥२१॥

उत्तरत उन्नतां मिनुयात्पितृलोककामस्य

॥२२॥

षष्ठी कण्डिका

सर्वान्समान्प्रतिष्ठाकामस्य

॥१॥

ये त्रयो मध्यमास्तान्समान्पशुकामस्य । व्यतिषजेदितरान्

॥२॥

आराग्रामभिचरतः

॥३॥

मध्य उन्नतो भवति । अनुपूर्वमन्तौ निनतौ

॥४॥

समवस्राविणीं वृष्टिकामस्य । मध्ये निनता भवति । अनुपूर्वमन्तावुन्नतौ

॥५॥

व्यतिषक्तां भ्रातृव्यतः

॥६॥

गर्तमितमित्युक्तम्

॥७॥

यदि कामयेत क्षत्रं विश ओजीयः स्यादित्यग्निष्ठाद्दक्षिणान्वर्षीयसो मिनुयात्

॥८॥

विट् क्षत्रादित्येतद्वा विपरीतम्

॥९॥

उपरसंमितां मिनुयात्पितृलोककामस्य । मध्येन संमितां रशनसंमितां च मनुष्यलोककामस्य । चषालसंमितामिन्द्रियकामस्येति

॥१०॥

आयामत उपराणि समानि स्युः । तिर्यक्तो मध्यानि रशनाश्च । प्रथिम्नश्चषालानि

॥११॥

उपशयं द्वाभ्यां रशनाभ्यां परिवीयाग्रेण दक्षिणं यूपं प्राञ्चं निदधाति । दक्षिणेन वा । इदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिनिदधामीति द्वेष्यं मनसा ध्यायन्

॥१२॥

आग्नेयं कृष्णग्रीवमग्निष्ठ उपाकरोति । उत्तरे सारस्वतीं मेषीम् । दक्षिणे सौम्यं बभ्रुम्

॥१३॥

एवं व्यत्यासं दक्षिणापवर्गान्पशूनुपाकरोति

॥१४॥

वारुणमन्ततो दक्षिणत उदञ्चम्

॥१५॥

यदि कामयेत योऽवगतः सोऽपरुध्यतामित्युक्तम्

॥१६॥

सप्तमी कण्डिका

आरण्यं पशुमाखुं वोपशये निर्दिशेत्

॥१॥

असौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन्

॥२॥

यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात्

॥३॥

प्रतिपशु बर्हींषि वपाश्रपण्यः कुम्भ्यो हृदयशूलाश्च

॥४॥

तन्त्रमग्नेर्हरणं तथाध्रिगुः संज्ञप्तहोमो रशनानामुदसनं परिवप्यौ वपाश्रपणीनामनुप्रहरणमभिहोमो मार्जनं च

॥५॥

अभ्यावर्तते मनोता

॥६॥

तन्त्रं वा

॥७॥

सर्वेषां त्र्यङ्गानि समवत्तं च

॥८॥

उद्रेकान्समवनीय दिशः प्रति यजति

॥९॥

उत्तमे पशौ वनस्पतिं यजति । स्विष्टकृतं च

॥१०॥

सर्वेषां गुदकाण्डैरुपयज उपयजति । जाघनीभिश्च पत्नीः संयाजयन्ति

॥११॥

अनूबन्ध्यावपायां हुतायामग्रेण शालामुखीयं पात्नीवतं मिनोत्यधोनाभिमनवस्तीर्णेऽचषालम्

॥१२॥

तस्मिंस्त्वाष्ट्रं साण्डं लोमशं पिङ्गलं पशुमुपाकृत्य पर्यग्निकृतमुत्सृज्याज्येन शेषं संस्थापयेत्

॥१३॥

यावन्ति पशोरवदानानि स्युस्तावत्कृत्व आज्यस्यावद्येत्

॥१४॥

पशुधर्माज्यं भवति

॥१५॥

शालामुखीये प्रचरन्तीति विज्ञायते

॥१६॥

अपि वा अर्यग्निकृतमेवोत्सृजेत् । न संस्थापयेत्

॥१७॥

पशुपुरोडाशाद्यनूबन्ध्यायाः शेषं संस्थापयेत्

॥१८॥

यदि कापेयी पश्वेकादशिनी स्यादाग्नेयमभित ऐन्द्रौ पशू भवतः । उत्तरतः सारस्वतं सौम्यं पौष्णं बार्हस्पत्यमिति । दक्षिणतः सावित्रं वैश्वदेवं मारुतं वारुणमिति

॥१९॥

तामेतां कापेया विदुः । तामतिरात्रचरम आलभेत

॥२०॥

साहीनेषु शब्दसंयोगात्

॥२१॥

सत्त्रीयेतरा भवति

॥२२॥

अष्टमी कण्डिका

वासिष्ठो ब्रह्मा ज्योतिष्टोमे

॥१॥

यो वा कश्चित्स्तोमभागान्विद्यात्

॥२॥

आध्वर्यवेषु कर्मसु स्तुतशस्त्रयोश्च वाचं यच्छति । अन्तर्धौ च

॥३॥

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं यच्छेत्

॥४॥

राजनि मीयमाने महावेद्यामुत्तरवेद्यां च क्रियमाणायामग्नौ मीयमाने कृष्यमाण ओप्यमाने चितेश्चितेरुपधीयमानायाः संचितकर्मसूखाकर्मसु च क्रियमाणेषु दक्षिणत आस्ते

॥५॥

राजन्योह्यमानेऽग्नौ प्रणीयमान उखामच्छ गच्छतामोह्यमानायां वसतीवरीः सवनीयाश्चाच्छ गच्छतामाह्रियमाणासु नैरृतीरुपधास्यतां चित्यग्नीनां च प्रणीयमानानां दक्षिणत एति

॥६॥

सदोहविर्धानेषु संमीयमानेष्वन्तरा चात्वालोत्करावन्ववेत्यापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति

॥७॥

आ वैसर्जनकालादास्ते । ८

॥८॥

होष्यमाणेषु प्रत्यतिक्रम्योत्तरेण हविर्धानं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्य पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेण शालामुखीयं दक्षिणातिक्रम्योपविशति

॥९॥

नवमी कण्डिका

एवावन्दस्वेत्युपस्थे राजानं कुरुते

॥१॥

हुते पूर्वो निष्क्रम्यान्वङ्ङग्नेरेति

॥२॥

आग्नीध्रीयं प्राप्य प्रतिप्रस्थात्रे राजानं प्रदायोत्तरेणाग्नीध्रीयं दक्षिणातिक्रम्योपविशति । पूर्ववदुपस्थे राजानं कुरुते । हुते पूर्वो निष्क्रम्यापरया द्वारा हविर्धानं राजानं प्रपाद्याध्वर्यवे प्रदायोत्तरेण हविर्धानं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति । अग्नीषोमीयस्या वपाया होमादास्ते । हुतायां मार्जयते । वसतीवरीषु परिह्रियमाणासु दक्षिणात आस्ते । महारात्रे बुध्यमानेषु बुध्यते । उपाकृते प्रातरनुवाके वाचं यच्छत्या परिधानीयायाः । सवनीयासु प्रपाद्यमानासु पूर्वया द्वारा हविर्धानं प्रविश्याग्रेण खरं दक्षिणातिक्रम्योपविशति

॥३॥

राजनि मीयमानेऽभिषूयमाणे ग्रहेषु च गृह्यमाणेषु वाचं यच्छत्याग्रयणस्य ग्रहणात्

॥४॥

वैप्रुषाञ्जुह्वत्सु जुहोति

॥५॥

पवमानेषु समन्वारब्धः सर्पति

॥६॥

ब्रह्मन्स्तोष्यामः प्रशास्तरित्युच्यमाने देव सवितरेतत्ते प्राहेत्यनुद्रुत्य

॥७॥

दशमी कण्डिका

रश्मिरसि क्षयाय त्वा क्षयं जिन्वॐ स्तुतेति प्रसौति

॥१॥

सर्वस्तोत्राणामेष कल्पः

॥२॥

उत्तरमुत्तरं स्तोमभागानां दधाति

॥३॥

द्वादशाग्निष्टोमे । पञ्चदशोक्थ्ये । षोडश षोडशिनि । सप्तदश वाजपेये । एकान्नत्रिंशतमतिरात्रे । त्रयस्त्रिंशतमप्तोर्यामे

॥४॥

स्तुते पवमाने यथेतं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति । सवनीयस्या वपाया होमादास्ते

॥५॥

हुतायां मार्जयित्वा प्रातःसवनायसं प्रसर्पत्सु ग्रहावकाशैः शृतंकारैश्चोपस्थायोत्तरेण हविर्धानं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्तुर्धिष्णियं दक्षिणातिक्रम्योपविशति

॥६॥

यत्रास्मै ब्रह्मचमसमाहरति तं प्रतिगृह्य भक्षयति यथेतरे चमसान्

॥७॥

उपाकृते स्तोत्रे वाचं यच्छत्या शस्त्रयाज्यायाः

॥८॥

संस्थिते सवने यथेतं प्रतिनिष्क्रामति

॥९॥

एवं विहित उत्तरयोः सवनयोः संचरो ब्रह्मत्वं च

॥१०॥

आध्वर्यव एवातोऽन्यानि कर्माणि ब्रह्मण आम्नातानि भवन्ति

॥११॥

अवभृथं गच्छतां दक्षिणतो गच्छति

॥१२॥

एवं विहितं सर्वसोमानां ब्रह्मत्वम्

॥१३॥

एकादशी कण्डिका

दक्षिणां प्रतिग्रहीष्यन्सप्तदशकृत्वोऽपान्य व्यावृत्य प्रतिगृह्णीयात्

॥१॥

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे । अग्नये हिरण्यं तेनामृतत्वमश्याम् । वयो दात्रे मयो मह्यमास्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता कामः प्रतिग्रहीता । कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा उत्तानस्त्वाङ्गीरसः प्रतिगृह्णात्विति

॥२॥

सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् । मनवे तल्पम् । त्वष्ट्रेऽजाम् । अग्नये वा । पूष्णेऽविम् । निरृत्या अश्वतरगर्दभौ हिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रगलंकरणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ऊर्जे वा । ब्रह्मण ओदनम् । समुद्रायापः । उत्तानायाङ्गीरसायानः । वैश्वानराय रथम्

॥३॥

वैश्वानर्यर्चा रथं प्रतिगृह्णीयाद्वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठं भन्दमानः सुमन्मभिः

॥४॥

द्वादशी कण्डिका

स पूर्ववज्जनयज्जन्तवे धनं समानमज्मा परियाति जागृविरिति

॥१॥

यत्किंचाप्राणत्तत्सर्वमुत्तानस्त्वाङ्गीरसः प्रतिगृह्णा त्वित्येव प्रतिगृह्णीयात् । यद्वानाम्नातमन्त्रम्

॥२॥

सर्वत्र पुरस्तात्सावित्र उपरिष्टादन्वाधिः

॥३॥

ग्नास्त्वाकृन्तन्नपसस्त्वातन्वत वरूत्रयस्त्वावयन्नित्येतद्वासस्यनुषजति पुरस्ताद्दैवतात्

॥४॥

त इमे तान्त्रीणां दक्षिणानां प्रतिग्रहणाः स्युः

॥५॥

विज्ञायते च । देवा वै वरुणमयाजयन् । स यस्यैयस्यै देवतायै दक्षिणामनयत्तामव्लीनात् । ते ऽब्रुवन्व्यावृत्य प्रतिगृह्णाम तथा नो दक्षिणा न व्लेष्यतीति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान्दक्षिणा नाव्लीनात् । य एवंविद्वान्व्यावृत्य दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनातीति । तान्त्रीरेवाधिकुरुते

॥६॥

बर्हिषा प्रतीयाद्गां वाश्वं वा

॥७॥

अन्नेन पुरुषं हस्तिनं वा

॥८॥

गन्धैः प्रियवद्येन च तल्पम्

॥९॥

त्रयोदशी कण्डिका

संवत्सरं चतुर्णामेको नाश्नीयात् । तद्व्रतमिति विज्ञायते चतुर्होतॄणामनुब्रुवाणस्य

॥१॥

एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः

॥२॥

यः प्रजया पशुभिर्न प्रजायेत स द्वादशाहानि तप्तमुदकं पिबन्बरासीं वसानोऽधः शयीत

॥३॥

द्वादश्याः प्रातः प्राङुत्क्रम्य प्राण्यापान्येन्द्रं गच्छ स्वाहेत्यपान्य दशहोतारं व्याख्याय चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येन

॥४॥

अर्धं वा पूर्वेण ग्रहेण । अर्धमुत्तरेण

॥५॥

यः कामयेत प्रजायेयेति स द्वादशगृहीतेन स्रुचं पूरयित्वा दशहोतारं मनसानुद्रुत्य दर्भस्तम्बे सग्रहं जुहुयात् । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण

॥६॥

यं ब्राह्मणं विद्यां विद्वांसं यशो नर्छेत्सोऽरण्यं परेत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य चतुर्होतॄन्व्याचक्षीत

॥७॥

सर्वान्ससंभारयजुष्कानित्याश्मरथ्यः । होतॄनित्यालेखनः

॥८॥

यो दक्षिणत आस्ते तस्मै वरं ददाति

॥९॥

अथैता देवानां पत्नयः । ताभिः प्रजाकामं पशुकामं वा याजयेत्

॥१०॥

अन्तरा त्वष्टारं देवानां च पत्नीश्चत्वारिचत्वारि पदानि प्रतिसंख्याय यजेत

॥११॥

यदि संवत्सरं न जायेत तत्परो न सूर्क्षेत्

॥१२॥

दशहोत्राभिचरन्यजेत्

॥१३॥

स्वकृत इरिणे प्रदरे वा जुहुयात्

॥१४॥

चतुर्दशी कण्डिका

यद्वाचः क्रूरं तेन वषट्करोति । वाच एवैनं क्रूरेण प्रवृश्चति । ताजगार्तिमार्छतीति विज्ञायते

॥१॥

यः कामयेत वीरो म आजायेतेति स चतुर्होतारं जुहुयाच्चतुर्गृहीतेनाज्येन । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण । अस्य वीरो जायते

॥२॥

न त्वेनमपरोऽनुजायते

॥३॥

वरो दक्षिणा

॥४॥

एतेनैव चतुर्होत्रा राजानं संग्रामे संयत्ते याजयेत्

॥५॥

यत्तत्र विन्देरंस्ततो द्वादशशतं दक्षिणाः

॥६॥

पञ्चहोत्रा पशुकामं याजयेत्

॥७॥

चतुर्गृहीतेनाज्येन । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण । चतस्रो दक्षिणा ददात्यश्वं हिरण्यं गां वास इति

॥८॥

एतेनैव दक्षिणावर्जमामयाविनं स्वर्गकामं वा याजयेत्

॥९॥

मनसा स्वर्गकामस्य जुहुयात्

॥१०॥

सप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहीतेनाज्येन । अर्धं वा पूर्वेण ग्रहेणार्धमुत्तरेण

॥११॥

यः कामयेत बहोर्भूयान्स्यामिति स दशहोतारं प्रयुञ्जीत । यः कामयेत वीरो म आजायेतेति स चतुर्होतारम् । यः कामयेत पशुमान्स्यामिति स पञ्चहोतारम् । यः कामयेतर्तवो मे कल्पेरन्निति स षड्ढोतारम् । यः कामयेत सोमपः सोमयाजी स्यामा मे सोमपः सोमयाजी जायेतेति स सप्तहोतारम्

॥१२॥

अथैष ऋतुमुखीयः पड्ढोता वाग्घोतेति । तस्य वदत्यृतुमुखऋतुमुखे जुहुयादिति । स सार्वकामः

॥१३॥

पञ्चदशी कण्डिका

यद्येनमार्त्विज्याद्वृतं सन्तं निर्हरेरन्नाग्नीध्रे जुहुयाद्दशहोतारं चतुर्गृहीतेनाज्येन पुरस्तात्प्रत्यङ्तिष्ठन्प्रतिलोमं विग्राहम् । प्राणानेवास्योपदासयति । यद्येनं पुनरुपशिक्षेयुराग्नीध्र एव जुहुयाद्दशहोतारं चतुर्गृहीतेनाज्येन पश्चात्प्राङासीनोऽनुलोममविग्राहम् । प्राणानेवास्मै कल्पयतीति विज्ञायते

॥१॥

स यः कामयेत प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा एतं स्थागरमलंकारं कल्पयित्वा दशहोतारं पुरस्ताद्व्याख्याय चतुर्होतारं दक्षिणतः पञ्चहोतारं पश्चात्षड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टात्संभारैश्च पत्निभिश्च मुखेऽलंकृत्यास्यार्धं व्रजेत् । प्रियो हैव भवतीति विज्ञायते

॥२॥

त इमे चतुर्होतारो यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन् । यत्राहोमार्था अग्रहा अस्वाहाकाराः

॥३॥

यत्र जपा याजमानाः

॥४॥

तेषां ये विहारसंयुक्ता आहिताग्नेस्तान्प्रतीयात् । उभयोरितरान्

॥५॥

षोडशी कण्डिका

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् । अग्निनाग्निः समिध्यते । सप्त ते अग्ने । मनो ज्योतिर्जुषताम् । त्रयस्त्रिंशत् । यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः । अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसा । विश्वकर्मा हविरिदं जुषाणः संतानैर्यज्ञं समिमं तनोतु । या व्युष्टा उषसो याश्च निम्रुचस्ता संदधामि हविषा घृतेन । अयाश्चाग्नेऽसि । त्वं नो अग्ने । स त्वं नो अग्ने । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषुन् जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । प्रेद्धो अग्ने दीदिहीत्येषा

॥१॥

सप्तदशी कण्डिका

श्रुत्कर्णाय कवये वेद्याय नमोभिर्नाकमुपयामि शंसन् । यतो भयमभयं तत्कृधी नोऽग्ने देवानामव हेड इयक्ष्व । अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः । घृतप्रतीको घृतपृष्ठो अग्निर्घृतैः समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्यजताद्देव देवान् । आयुर्दा अग्ने । इमो अग्ने । सप्त ते अग्ने । मनो ज्योतिर्जुषताम् । त्रयस्त्रिंशत् । यन्मे मनसः । विश्वकर्मा । अग्निं युनज्मि । इन्धानास्त्वा । अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु । सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । अग्निर्यजुर्भिः पूषा स्वगाकारैस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वं स्वाहेत्येतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिंशतमाहुतीर्जुहोति

॥१॥

त्रयस्त्रिंशतं चाग्नीध्रे यज्ञतनूः

॥२॥

पृथिवि भूवरि सिनीवाल्युरन्ध्र आचित्ते मनस्ते भुवो विवस्त इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताहुतीर्हुत्वा

॥३॥

अष्टादशी कण्डिका

य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं व ऋध्यासम् । सोमस्याज्यमसि हविषो हविर्ज्योतिषां ज्योतिः । विश्वेषां वो देवानां देवताभिर्गृह्णामीत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा च धनेन च । सर्वमायुर्दधातु मे । मान्दा वाशाः । आपो भद्राः । आदित्पश्यामि । आपो हि ष्ठा मयोभुव इत्येताभिः सप्तभिः संसिञ्चेदभि वा मन्त्रयेत

॥१॥

यदि प्रातःसवने प्राग्घोमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयेदुपजुहुयाद्वा

॥२॥

हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुयात्

॥३॥

होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति

॥४॥

गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन्

॥५॥

अस्ति सोमो अयं सुत इति वैतासु बृहता गौरिवीतेन वा स्तुवीरन्

॥६॥

ऐन्द्रावैष्णवं होतानुशंसति

॥७॥

इन्द्राविष्णुभ्यां पीतस्येति भक्षमन्त्रं नमति

॥८॥

यदि माध्यंदिन एतदेव

॥९॥

स्तोत्रे विकारः । बण्महाँ असि सूर्येति सौरीषु बृहता गौरिवीतेन वा स्तुवीरन्

॥१०॥

तथैव होतानुशंसति । तथा भक्षमन्त्रः

॥११॥

यदि तृतीयसवनेऽतिरिच्येतोक्थ्यं कुर्वीत

॥१२॥

यद्युक्थ्ये षोडशिनम् । यदि षोडशिन्यतिरात्रम् । यद्यतिरात्रे द्विरात्रम् । यदि द्विरात्र एकस्तोत्रमेव

॥१३॥

तत्र वैष्णवीषु शिपिविष्टवतीषु बृहता गौरिवीतेन वा स्तुवीरन्

॥१४॥

तथैव होतानुशंसति । तथा भक्षमन्त्रः

॥१५॥

एकोनविंशी कण्डिका

यदि सोमौ संसुतौ स्यातामादितश्चतुर्भिः संभारयजुर्भिर्हुत्वा महारात्रे प्रातरनुवाकमुपाकृत्यान्वारब्धे यजमाने जुहोति संवेशायोपवेशाय गायत्रियास्त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहेति

॥१॥

एवं सवनादौसवनादावुत्तरैरुत्तरैश्चतुर्भिः संभारयजुर्भिश्छन्दसा चोत्तरेणोत्तरेणा पाङ्क्तात्

॥२॥

पञ्चसवनो यज्ञः । त्रीणि सवनान्यवभृथोऽनूबन्ध्येति । पञ्च समिद्धेऽग्नौ हूयन्त प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमिति

॥३॥

पुरस्तात्पाशुकात्स्विष्टकृतोऽध्वर्युर्जपत्येतिवन्ति प्रेतिवन्ति वाज्यानि

॥४॥

मरुत्वतीवृषण्वतीर्वा प्रतिपदः

॥५॥

अभीवर्तो ब्रह्मसाम

॥६॥

उभे बृहद्रथंतरे भवतः

॥७॥

यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत । यद्युक्थ्यः षोडशिनम् । यदि षोडश्यतिरात्रम् । यद्यतिरात्रो द्विरात्रम् । यदि द्विरात्रस्त्रिरात्रम् । यदि त्रिरात्र एकस्तोत्रमेव

॥८॥

अभिजित्कार्योऽभिजित्यै । विश्वजित्कार्यो विश्वजित्यै । सर्वपृष्ठः सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इति विज्ञायते

॥९॥

सजनीयं शस्यं विहव्यं शस्यमगस्त्यस्य कयाशुभीयं निष्केवल्यम् । तानि शंसेत्

॥१०॥

सजनीयं प्रातःसवनिके वैश्वदेवे ऽनुप्रोहेत् । विहव्यं माध्यंदिनीये मरुत्वतीये । अगस्त्यस्य कयाशुभीयं निष्केवल्यं तार्तीयसवनिके वैश्वदेवेऽनुप्रोहेत्

॥११॥

विंशी कण्डिका

तत्रेमाः सामचोदना भवन्ति । तौरश्रवसं कार्यम् । वसिष्ठस्य निहवः कार्यः । अभीवर्तं ब्रह्मसाम कुरुतात् । उभे बृहद्रथंतरे कुरुतात् । अभिजितं विश्वजितं वा यज्ञक्रतुं कुरुतात् । क्रोशानुक्रोशे कुरुतादिति

॥१॥

पुरस्तात्प्रातःसवनात्संप्रेष्यति

॥२॥

पूर्वः संस्थाप्यः । अत्यभिषुत्यं वा । दक्षिणाभिर्वा वर्षीयांसं यज्ञक्रतुं कुर्वीत

॥३॥

यावद्रथाह्रमन्तरा गिरिर्गिरिभिद्वा नदी व्यवेयात्पर्वतान्तरये वा नानाराज्ययोर्वा संसवो नाविद्विषाणयोः संसवो विद्यत इति कङ्कतिब्राह्मणं भवति

॥४॥

यत्र दीक्षितानामुपतापः स्याद्यजमानायतने शयीत

॥५॥

तंपरिगृह्याग्नीध्रं नयेत्

॥६॥

परीमं परि ते ब्रह्मणे ददामि ब्रह्म परिददातु देवताभ्यः । वषट्कारस्त्वा भिषज्यतु सह विश्वैर्देवैः । वसव एतद्वः प्रातःसवनं रुद्रा एतद्वो माध्यंदिनं सवनं विश्वे देवा एतद्वस्तृतीयसवनम् । तद्रक्षध्वं तद्भिषज्यत तद्गोपायत तद्वो मा विगादिति सर्वत्रानुषजति

॥७॥

आग्नीध्रीयमुपसमाधाय संपरिस्तीर्य ब्राह्मणं दक्षिणतो दर्भेषु निषाद्योत्तरत उदपात्रमुपनिधाय तस्मिन्नेकविंशतिं यवान्दर्भपुञ्जीलांश्चावधाय जीवा नाम स्थ ता इमं जीवयत जीविका नाम स्थ ता इमं जीवयत संजीविका नाम स्थ ता इमं संजीवयतेति प्रतिब्रूयात्

॥८॥

एकविंशी कण्डिका

या जाता ओषधय इत्योषधिसूक्तेनैनमेताभिरद्भिरभिषिञ्चति

॥१॥

आपः प्रजापतेः प्राणा यज्ञस्य भेषजमिति चैनमाचमयन्ति

॥२॥

आथैनमभिमृशन्ति

॥३॥

उपांश्वन्तर्यामौ ते प्राणापानौ पातामुपांशुसवनस्ते व्यानं पातु वाचं ते ऐन्द्रवायवः पातु दक्ष क्रतू ते मैत्रावरुणः पातु चक्षुषी ते शुक्रामन्थिनौ पातां श्रोत्रं त आश्विनः पात्वात्मानं त आग्रयणः पात्वङ्गानि त उक्थ्यः पात्वायुष्टे ध्रुवः पात्वसावसाविति सर्वत्रानुषजति

॥४॥

अथात्मानं प्रत्यभिमृशत्युपांश्वन्तर्यामौ मे प्राणापानौ पातामिति

॥५॥

एवं क्रामत्या ध्रुवात्

॥६॥

पुष्टिपतये पुष्टिश्चक्षुषे चक्षुः प्राणाय प्राणमात्मन आत्मानं वाचे वाचमस्मै पुनर्धेहि स्वाहेत्याहुतिं हुत्वा पूर्ववदभिमर्शः

॥७॥

यदि म्रियेत प्रागवभृथादग्न्यवभृथं कुर्वीरन्

॥८॥

अवभृथं वा गमयित्वा प्रोक्ष्यैनमभ्युदाहृत्य स्वैरग्निभिर्यथालोकं दहेयुः

॥९॥

एतावदेकाहे

॥१०॥

अहर्गणेष्वाहर दहेत्युक्त्वा दक्षिणाग्नेरग्निमाहृत्य निर्मन्थ्येन वा दग्ध्वा दक्षिणेन मार्जालीये मृतस्य दहनम्

॥११॥

तूष्णीं तदहः परिसमाप्य पत्नीसंयाजान्ते कुम्भेऽस्थीनि संभृत्य मार्जालीये निदधाति

॥१२॥

उद्गातारस्तिसृभिः सर्पराज्ञीभिरप्रतिहृताभिः स्तुवीरन्

॥१३॥

द्वाविंशी कण्डिका

ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो यामीरनुब्रुवन्तः सर्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्त्यप नः शोशुचदघमिति

॥१॥

सव्यानुद्ग्रथ्य दक्षिणान्प्रस्रस्य सव्यानूरूनाघ्नाना अनभिधून्वन्तस्त्रिः प्रतिपरियन्त्यप नः शोशुचदघमिति

॥२॥

ते यदोदञ्चः संपद्यन्तेऽथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधातीमं जीवेभ्यः परिधिं दधामि मा नो नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दध्महे पर्वतेनेति

॥३॥

अग्निष्टोमः सोम ऐन्द्रवायवाग्रा मैत्रावरुणाग्रा वा

॥४॥

यामीभिः स्तुवते

॥५॥

स्तोत्रेस्तोत्रे ऽस्थिकुम्भमुपनिदधाति

॥६॥

मार्जालीये भक्षान्निनयन्ते

॥७॥

अग्न आयूंषि पवस इति प्रतिपदं कुर्वीरन्

॥८॥

रथंतरसामैषां सोमः स्यात्

॥९॥

आयुरेवात्मन्दधतेऽथो पाप्मानमेव विजहतो यन्तीति विज्ञायते

॥१०॥

यद्यु वै नाथवान्स्याद्दग्ध्वैनं कृष्णाजिनेऽस्थीन्युपनह्य निधाय योऽस्य स्वो नेदिष्ठी स्यात्तत्स्थाने तं दीक्षयित्वा तेन सह यजमाना आसीरन्

॥११॥

संवत्सरेऽस्थीनि याजयेयुः

॥१२॥

व्यापातादित्याश्मरभ्यः । ओदवसानीयादित्यालेखनः

॥१३॥

अग्निष्टोमः सोम इत्येतदादि

॥१४॥

पूर्ववद्द्वादशं शतं दक्षिणाः

॥१५॥

त्रयोविंशी कण्डिका

यदि सत्त्रायागूर्य न यजेत विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेत

॥१॥

त्रैधातवीयामेके सहस्रदक्षिणां समामनन्ति

॥२॥

सत्त्रे दीक्षित्वा यदि साम्युत्तिष्ठा सेत्सोममपभज्य विश्वजितातिरात्रेण पूर्ववद्यजेत

॥३॥

यदि दीक्षासूत्तिष्ठासेदवलिख्योखायास्तैरन्यां मृदं संसृज्योखां कारयेत्

॥४॥

अवलिख्य पशुशिरसां तूष्णीकेष्वाश्लेषयेत्

॥५॥

यद्युपसत्सु या चिता चितिः स्यान्नं तामावर्तयेत्

॥६॥

तूष्णीकामावर्तयेत्

॥७॥

मन्त्रवतीमित्यपरम्

॥८॥

चितेऽग्नावुत्तिष्ठतो नाग्निचित्या विद्यते । तूष्णीं वाग्निं चिन्वीत । मन्त्रवन्तमित्यपरम्

॥९॥

प्रणीतेऽग्नौ तूष्णीमन्यं प्रणयेत् । मन्त्रवन्तमित्यपरम्

॥१०॥

करणेभ्योऽपाददीत महावेदेरुत्तरवेदेर्धिष्ण्योपरवखरसदोहविर्धानेभ्य इति । तानीतरेष्वप्यर्जयेत्

॥११॥

यदि सर्वैरात्रिपर्यायैरस्तुतमभिव्युच्छेत्षड्भिरैन्द्रावैष्णवीभिर्होत्रे स्तुयुः । तिसृभिस्तिसृभिरितिरेभ्यः

॥१२॥

यदि द्वाभ्यां होत्रे मैत्रावरुणाय च पूर्वस्मिन्पर्याये स्तुयुः । ब्राह्मणाच्छंसिनेऽच्छावाकाय चोत्तरस्मिन्

॥१३॥

यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः । पञ्चभिःपञ्चभिइरितरेभ्यः

॥१४॥

अग्ने विवस्वदुषस इत्याश्विनस्य प्रतिपदं दध्यात्

॥१५॥

चतुर्विंशी कण्डिका

यस्याश्विने शस्यमाने सूर्यो नाविर्भवति सौर्यं बहुरूपमालभेत

॥१॥

सवा अपि दाशतयीरनुब्रूयात्

॥२॥

येषां दीक्षितानामाहवनीय उद्वायेदाग्नीध्रादुद्धरेत् । यदाग्नीध्रो गार्हपत्यात् । यद्गार्हपत्योऽत एव पुनर्मन्थेत्

॥३॥

यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात्

॥४॥

क्रुमुक उपज्वलनः

॥५॥

महर्त्विग्भ्यश्चतुरो वरान्दद्यात्

॥६॥

यस्य सोम उपदस्येत्सुवर्णं हिरण्यं द्वेधा विच्छिद्यार्धमन्तर्धायर्जीषेण सहाभिषुणुयात् । अर्धमभ्युन्नायं ग्रहैः प्रचरेयुः

॥७॥

महर्त्विग्भ्यश्चतुरो वरान्दद्यात्

॥८॥

यस्याक्रीतं सोममपहरेयुः क्रीणीयादेव

॥९॥

यदि क्रीतं यो नेदिष्ठी स्यात्तत आहृत्याभिषुणुयात्

॥१०॥

मोमाहाराय सोमविक्रयिणे वा यथाश्रद्धं दद्यात्

॥११॥

सोमाभावे पूतीकानभिषुणुयात् । पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युः । तदभावे याः काश्चैषधीः क्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकम्

॥१२॥

अप्यन्ततो व्रीहियवान्

॥१३॥

प्रतिधुषा प्रातःसवने सर्वान्सोमाञ्छ्रोणीयात् । शृतेन माध्यंदिने सवने । दध्ना तृतीयसवने नीतमिश्रेण वा

॥१४॥

अथैकेषाम् । प्रतिधुक्च प्रातःसवने पूतीकाश्च । शृतं च माध्यंदिने सवने पूतीकाश्च । दधि च तृतीयसवने पूतीकाश्चेति

॥१५॥

अग्निष्टोमः सोमः स्याद्रथंतरसामा

॥१६॥

य एवर्त्विजो वृताः स्युस्त एनं याजयेयुः

॥१७॥

एकां गां दक्षिणां दद्यात्तभ्य एव

॥१८॥

पुनः सोमं क्रीणीयात्

॥१९॥

अवभृथादुदेत्य पुरस्ताद्द्वादश्यास्तस्मा एव क्रतवे पुनर्दीक्षेत

॥२०॥

तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात्

॥२१॥

पञ्चविंशी कण्डिका

यदि सदोहविर्धानान्यभिदह्येरन्ग्रहानध्वर्युः स्पाशयेत् । स्तोत्राण्युद्गाता । शस्त्राणि होता

॥१॥

अनभिदग्धे सोमे पार्श्वतो देवयजनमध्यवसाय कृतान्तादेव प्रक्रामेयुः

॥२॥

अभिदग्धे तु तत्प्रायश्चित्तं यदपहृते

॥३॥

गोः स्थाने पञ्च गा दद्यात् । पञ्च वा वरान्

॥४॥

यदि प्रातःसवने ग्रावाणं नाधिगच्छेत्पलाशदण्डमाहृत्य तेनैवाभिषुणुयात् । एतदेवास्य प्रायश्चित्तं भवतीति विज्ञायते

॥५॥

यदि माध्यंदिने यदि तृतीयसवन एतदेव

॥६॥

यदि प्रातःसवने ग्रावा शीर्येत पुरस्ताद्बहिष्पवमानाद्द्युतानस्य मारुतस्य ब्रह्मसाम्ना स्तुवीरन्

॥७॥

ब्रह्मसाम्ना वैव

॥८॥

यदि माध्यंदिने यदि तृतीयसवन एतदेव पुरस्तात्पवमानेभ्यः स्तुवते

॥९॥

यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीष्वित्युक्तम्

॥१०॥

अथैकेषाम् । यदि प्रातःसवने कलशो दीर्येत वषट्कारनिधनं ब्रह्मसाम कुर्यादिति । असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा शूषाय स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा गणश्रिये स्वाहा मलिम्लुचे स्वाहा ज्योतिषे स्वाहाभिभुवे स्वाहाधिपतये स्वाहा दिवां पतये स्वाहेति त्रयोदशाज्याहुतीर्हुत्वा

॥११॥

षड्विंशी कण्डिका

इन्द्रस्य ग्रहोऽस्यगृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह प्रग्रहैः सह प्रजया सह पशुभिः सहर्त्विग्भ्यः सह सोग्यैः सह सदस्यैः सह दाक्षिणेयैः सह यज्ञेन सह यज्ञपतिना । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रपद्ये सगुः साश्वः । वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यः । वर्म मे ब्रह्मणस्पतिर्मा मा प्रापदतो भयम् । इन्द्राग्नी परिधी मम वातो देवपुरा मम । ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः । सह यन्मे अस्ति तेनेति दीर्णं यजमानोऽनुमन्त्रयते

॥१॥

अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय गायत्र्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यत्थ्यै संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशायानुष्टुभोऽभिभूत्यै स्वाहा । अरिष्ट्या अव्यथ्यै संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेत्येतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाहुतीर्जुहोतीत्येके

॥२॥

यदि बहिष्पवमानं सर्पतां प्रस्तोतापच्छिद्येत यज्ञस्य शिरश्छिद्येत । ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यः

॥३॥

यदि प्रतिहर्ता पशुभिर्यजमानो व्यृध्येत । सर्ववेदसं दद्यात्

॥४॥

यद्युद्गाता यज्ञेन यजमानो व्यृध्येत । अदक्षिणः स यज्ञः संस्थाप्यः । अथान्य आहृत्यः

॥५॥

तत्र तद्दद्याद्यन्पूर्वस्मिन्दास्यन्स्यात्

॥६॥

युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तम्

॥७॥

पूर्वापरापच्छेदे यो जघन्योऽपच्छिद्येत तस्य प्राय श्चित्तम्

॥८॥

यदि माध्यंदिन एतदेव । यद्यार्भवे सर्वप्रायश्चित्तं जुहुयात्

॥९॥

सप्तविंशी कण्डिका

यत्कलश उपदस्येत्सुवर्णं हिरण्यं द्वेधा विच्छिद्याधमन्तर्धायापोऽवनीय पयोऽभ्यवनयेत् । अर्धमभ्युन्नायं ग्रहैः प्रचरेयुः

॥१॥

महर्त्विग्भ्यश्चतुरो वरान्दद्यात्

॥२॥

अथैकेषाम् । यत्कलश उपदस्येदाग्रयणाद्गृह्णीयात् । यदाग्रयणः कलशात्

॥३॥

यद्ग्रहो वा कलशो वोपदस्येदाग्रयणाद्गृह्णीयादन्या ञ्छुक्राद्ध्रुवाच्च

॥४॥

द्रोणकलशाद्गृह्यन्त इति सर्वग्रहाणां स्कन्नानामुपदस्तानां च विज्ञायते

॥५॥

यद्ध्रुवे उपदस्येत्स्कन्देद्दीर्येत वा तमभिमन्त्रयेतायुर्धा असि ध्रुवायुर्मे धेहि । वर्चोधा असि ध्रुव वर्चो मे धेहि । तनूपा असि ध्रुव तन्वं मे पाहीति । तस्मिञ्छतमानं हिरण्यमवधाय स्वाहा दिव आप्यायस्व स्वाहान्तरिक्षादाप्यायस्व स्वाहा पृथिव्या आप्यायस्वेत्याप्याययति

॥६॥

अध्वरोऽयं यज्ञो अस्तु देवा ओषधीभ्यः पशुभ्यो मे धनाय । विश्वस्मै भूतायाध्वरो अस्तु देवाः । स पिन्वस्व घृतवद्देव यज्ञ । इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह यज्ञमु धारय । इन्द्र एणमदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिः । ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे ध्रुवो राजा विशामयमित्येताभिश्चतसृभिः सन्नमभिमन्त्र्य वरम् ददाति

॥७॥

अष्टाविंशी कण्डिका

यदि नाराशंस उपदस्येद्यमध्वर्युः पूर्वं ग्रहं गृह्णीयात्तं वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे प्रयच्छेत् । तेनैनं स आप्याययत्याप्यायस्व समेतु त इति

॥१॥

यदि प्रातःसवने सोमो हविर्वा स्कन्देन्माध्यंदिने तृतीयसवने नक्तं तिरोअह्न्येषु वा देवां जनमगन्यज्ञ इत्येतैर्यथापूर्वमभिमन्त्र्य मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्

॥२॥

त्रयस्त्रिंशत् । द्रप्सश्चस्कन्द । यस्ते द्रप्सः । यो द्रप्सः । यस्ते द्रप्स इत्येतैः प्रतिमन्त्रमनुसवनं स्कन्ने पञ्चाहुतीर्जुहोतीत्येके

॥३॥

यदृतुग्रहैः प्रचरन्तौ मुह्येयातां विसृष्टधेनाः सरितो घृतश्चुतो वसन्तो ग्रीष्मो मधुमन्ति वर्षाः । शरद्धेमन्त ऋतवो मयोभुव उदप्रुतो मभसी संवसन्ताम् । आ नः प्रजां जनयतु प्रजापतिर्धाता ददातु सुमनस्यमानः । संवत्सर ऋतुभिश्चाकुपानो मयि पुष्टिं पुष्टिपतिर्दधातु । आ देवानाम् । त्वमग्ने व्रतपा असि । यद्वो वयं प्रमिनाम । मधुश्चेत्येतैः प्रतिमन्त्रं जुहोति

॥४॥

त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मारभध्वं स्वाहेत्यृतुनामस्वनुषजति

॥५॥

यदि सोमः स्कन्देद्ब्रह्मन्सोमोऽस्कानित्युक्त्वाभूद्देवः सविता वन्द्यो नु न इत्यभिमन्त्र्य भूपतये स्वाहेति पञ्च प्रादेशान्मिमीते यथा पुरस्तात्

॥६॥

एकोनत्रिंशी कण्डिका

यदि चमसमभक्षितं स्तोत्रेणाभ्युपाकुर्यादारमतेत्युक्त्वोत त्या नो दिवा मतिरदितिरूत्यागमत् । सा शन्ताची मयस्करदप स्रिधः । उत त्या दैव्या भिषजा शं नस्करतो अश्विना । यूयातामस्मद्रपो अप स्रिधः । शमग्निरग्निभिस्करच्छं नस्तपतु सूर्यः । शं वातो वात्वरपा अप स्रिध इति तिस्र आग्नीध्रीये हुत्वा तं सदसि भक्षयित्वोत्तरवाससा प्रच्छाद्य दक्षिणां द्वार्बाहुमनु निर्हृत्य मार्जालीये प्रक्षाल्य पूर्वयातिहृत्य तदित्पदं न विचिकेत विद्वान्यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृज्जीवो गर्भो न मृतः स जीवादिति तंनचमसेष्वपिसृज्य हिरण्यगर्भः समवर्तताग्र इत्याहुतिं हुत्वाप्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तम इत्याप्याययति

॥१॥

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरंगमाय जग्मवेऽपश्चाद्दघ्वने नर इत्यववृष्टं भक्षमभिमन्त्र्येन्दुरिन्दुमवागादिन्दोरिन्द्रोऽपात् । तस्य त इन्दविन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति भक्षयति

॥२॥

यदि दीक्षितोऽवकिरेदप्स्वग्न इत्येषा । तपो ष्वग्ने अन्तराँ अमित्रांस्तपा शंसमररुषः परस्य । तपा वसो चिकितानो अचितान्वि ते तिष्ठन्तामजरा अयासः । यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् । तमजरेभिर्वृषभिस्तप स्वैस्तपा तपस्व तपसा तपिष्ठ । स स्मा कृणोतु केतुमा नक्तं चिद्दूर आ सते । पावको यद्वनस्पतीन्प्रास्मा निनोत्यजरः । नहि ते अग्ने तनुवै क्रूरमानाश मर्त्यः । कपिर्बभस्ति तेजनं स्वं जरायु गौरिव । मेष इव यदुप च वि च चर्वरि यदप्सररूपरस्य खादति । शीर्ष्णा गिरौ वक्षसा वक्ष एजयन्नंशुं गभस्ति हरितेभिरासभिरिति षट् पूर्णाहुतीर्हुत्वा प्रत्याहुति वरान्दद्यात्

॥३॥

त्रिंशी कण्डिका

यद्देवा देवहेडनमिति वा दशाहुतीर्हुत्वा पवमानः सुवर्जन इत्येतेनानुवाकेनाभिषिञ्चेत्

॥१॥

यदि हुताहुतौ सोमौ संसृज्येयातामन्तःपरिध्यङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतमहुतस्य हुतस्य च । हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । इन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथामित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत्

॥२॥

मा यजमानं तमो विदन्मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात्संसृष्टमुभयं कृतमिति भक्षयति

॥३॥

मा नो ध्वारिषुः पितरो मोत वीरा मा नः सबन्धुरुत वान्यबन्धुः । मा नो दुश्चक्षा अघशंस ईशताहुतोऽयं यज्ञमप्येतु देवानिति भक्षयन्तमभिमन्त्रयते

॥४॥

सप्तर्त्विजः सप्त सदांस्येषां दश क्षिपो अश्विना पञ्च वाजाः । प्राणो व्यानोऽपानो मन आकूतमग्निः स्वाहाकृतं हविरदन्तु देवा इति भक्षं व्यापन्नमभिमन्त्र्येदं विष्णुर्विचक्रम इति दक्षिणपूर्व उपरवेऽवनयेत्

॥५॥

उत्तरपूर्वे वा

॥६॥

यः सोमवामी स्यात्तस्मा एतं सोमेन्द्रं श्यामाकं चरुं निर्वपेत्

॥७॥

एकत्रिंशी कण्डिका

यदि सदोहविर्धानानि कृष्णशकुनिरुपर्युपर्यतिपतेत्यक्षाभ्यामाधून्वान इवाभिनिषीदेद्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात् । यद्युच्चैः पतेन्न तदाद्रियेत

॥१॥

यद्यनो रथो वान्तराग्री सदोहविर्धाने वा वीयात्पाथिकृतीं पूर्ववन्निर्वपेत्

॥२॥

यदि हविर्धानं पद्येतोदस्ताम्प्सीत्सविता मित्रो अर्यमा सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तं रथंतरे श्रयस्व स्वाहेत्याहवनीये जुहुयात्

॥३॥

एतेनैव पृथिव्यां वामदेव्ये श्रयस्व स्वाहेति होत्रीये यदि सदः

॥४॥

अन्तरिक्षे बृहति श्रयस्व स्वाहेत्याग्नीध्रीये यद्याग्नीध्रम्

॥५॥

यदि प्राग्वंशं सर्वैः शालामुखीये जुहुयात्

॥६॥

दिवि बृहता त्वोपस्तभ्नोमीति सर्वेषामुपस्तम्भनः समानः

॥७॥

यद्येनमार्त्विज्याद्वृतं सन्तं निर्हरेरन्नाग्नीध्रे जुहुयादनु मा सर्वो यज्ञोऽयमेतु विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दांसि निविदो यजूंष्यस्यै पृथिव्यै यद्यज्ञियमिति

॥८॥

अन्ययज्ञे सोमं भक्षयित्वाग्निभ्यः परिभक्षमाज्येनाहवनीये जुहुयात्

॥९॥

द्वात्रिंशी कण्डिका

अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामाग्नेः प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धामेन्द्रस्य प्रियतमं हविः स्वाहा । अपां पुष्पमस्योषधीनां रसः सोमस्य प्रियं धाम विश्वेषां देवानां प्रियतमं हविः स्वाहेति

॥१॥

वयं सोम व्रते तव मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहीति शेषं भक्षयित्वा देवेभ्यः पितृभ्यः स्वाहा सोभ्येभ्यः पितृभ्यः स्वाहा कव्येभ्यः पितृभ्यः स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति

॥२॥

तं जघनेन दक्षिणाप्रागग्रान्दर्भान्संस्तीर्य दधि ददाति देवास इह मादयध्वं सोम्यास इह मादयध्वं कव्यास इह मादयध्वमिति

॥३॥

अनन्तरिताः पितरः सोम्याः सोमपीथादित्युपतिष्ठते

॥४॥

भये जातेऽशक्ये यष्टुं सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवधाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेति द्रोणकलशेन हुत्वाभये पुनर्यजेत

॥५॥

यदर्धर्चाल्लुप्येताभिप्रतिगृणीयाद्वा त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापत इति चतस्र आहुतीर्जुहुयात् । व्याहृतीश्च

॥६॥

यदृक्तो यज्ञं भ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वा जुहुयात्

॥७॥

त्रयस्त्रिंशी कण्डिका

ब्रह्मा वा मनसा ध्यायन्नासीत

॥१॥

यद्यौदुम्बरी नश्येदन्यां प्रच्छिद्योर्गस्यर्जं मयि धेहि श्रियां तिष्ठ प्रतिष्ठिता । दिवं स्तब्ध्वान्तरिक्षं च पृथिव्यां च दृढा भव । धर्त्रि धरित्रि जनित्रि यमित्रीत्यध्वर्युरुद्गाता यजमानश्चोच्छ्रयन्ति

॥२॥

संमितां नित्येन यजुषाभिमृशति

॥३॥

यदि हविर्धाने पद्येयातां दक्षिणमध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्रुयात्

॥४॥

वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विना कल्पयतः

॥५॥

अग्ने वाजस्य गोमत इति तिस्रः । भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः । भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः । येना समत्सु सासहोऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते अभिष्टिभिरिति षड्भिरुष्णिक्ककुद्भिराग्नीध्रीये जुहुतः

॥६॥

पूर्वाभिरुष्णिग्भिरध्वर्युः । उत्तराभिः ककुद्भिः प्रतिप्रस्थाता

॥७॥

शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयम् । वेष्णव्या क्रियतां शिर आश्विन्या प्रतिधीयतामिति पञ्चगृहीतेन समानौ होमौ जुहुतः

॥८॥

यद्याग्निक्युखामा भिद्येत संकृष्यैनां पुनः कुर्यात्

॥९॥

यदि पक्वा संपिष्यान्यया मृदा संसृज्योखां कारयेत्

॥१०॥

चतुस्त्रिंशी कण्डिका

यस्याग्निरुख्य उद्वायोद्गार्हपत्यादन्यं प्रणयेत् । स एव पुनः परीध्यः । स्वादेवैनं योनेर्जनयतीति विज्ञायते

॥१॥

कृष्णं वासः कृष्णा धेनुः कृष्णो वा गौः शतमानं च हिरण्यं दक्षिणा

॥२॥

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते तेनाहरभ्यासजति । तेन यज्ञं संतनोति

॥३॥

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति तेनाहरभ्यासजति । तेन यज्ञं संतनोति । यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने पयांसि विशास्ति तेनाहरभ्यासजति । तेन यज्ञं संतनोति । यदतिप्रेष्यति तेनाहरभ्यासजति । तेन यज्ञं संतनोति

॥४॥

एतेषामेकस्मिन्नप्यक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहेत्याहुतिं हुत्वा सर्वप्रायश्चित्तं जुहुयाज्जुहुयात्

॥५॥