| प्रकरणम् | श्लोकाः |
|---|---|
| आशौचप्रकरणम् | 34 |
| आपद्धर्मप्रकरणम् | 10 |
| वानप्रस्थधर्मप्रकरणम् | 11 |
| यतिधर्मप्रकरणम् | 150 |
| प्रायश्चित्तप्रकरणम् | 94 |
| रहस्यप्रायश्चित्तम् | 35 |
आशौचप्रकरणम्
ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः
आश्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः
॥१॥यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत्
॥२॥सप्तमाद् दशमाद् वापि ज्ञातयोऽभ्युपयन्त्य् अपः
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः
॥३॥एवं मातामहाचार्यप्रेतानाम् उदकक्रिया
कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम्
॥४॥सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः
न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा
॥५॥पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः
॥६॥कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान्
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः
॥७॥मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम्
करोति यः स सम्मूढो जलबुद्बुदसंनिभे
॥८॥पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना
॥९॥गन्त्री वसुमती नाशम् उदधिर् दैवतानि च
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति
॥१०॥श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतोऽवशः
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः
॥११॥इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः
॥१२॥आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः
॥१३॥प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि
इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमान्
॥१४॥आचार्यपितृउपाध्यायान् निर्हृत्यापि व्रती व्रती
संकटान्नं च नाश्नीयान् न च तैः सह संवसेत्
॥१५॥क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम्
॥१६॥जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये
वैतानाउपासनाः कार्याः क्रियाश् च श्रुतिचोदनात्
॥१७॥त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि
॥१८॥पित्रोस् तु सूतकं मातुस् तद् असृग्दर्शनाद् ध्रुवम्
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात्
॥१९॥अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति
गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम्
॥२०॥हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम्
प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः
॥२१॥क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः
॥२२॥आदन्तजन्मनः सद्या अचूडान् नैशिकी स्मृता
त्रिरात्रम् आव्रतादेशाद् दशरात्रम् अतः परम्
॥२३॥अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम्
गुर्वन्तेवास्यनूचानम् आतुलश्रोत्रियेषु च
॥२४॥अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च
निवासराजनि प्रेते तद् अहः शुद्धिकारणम्
॥२५॥ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित्
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः
॥२६॥महीपतीनां नाशौचं हतानां विद्युता तथा
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः
॥२७॥ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम्
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा
॥२८॥दाने विवाहे यज्ञे च संग्रामे देशविप्लवे
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते
॥२९॥उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत्
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत्
॥३०॥कालोऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम्
पश्चात् तापो निराहारः सर्वेऽमी शुद्धिहेतवः
॥३१॥अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत्
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम्
॥३२॥तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम्
जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते
॥३३॥भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम्
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता
॥३४॥आपद्धर्मप्रकरणम्
क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि
॥३५॥फलोपलक्षौमसोममनुष्यापूपवीरुधः
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम्
॥३६॥शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः
मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितिः
॥३७॥कौशेयनीललवणमांसैकशफसीसकान्
शकार्द्रौषधिपिण्याकपशुगन्धांस् तथैव च
॥३८॥वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन
धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः
॥३९॥लाक्षालवणमांसानि पतनीयानि विक्रये
पायो दधि च मद्यं च हीनवर्णकराणि तु
॥४०॥आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस् ततः
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः
॥४१॥कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः
सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु
॥४२॥बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् हरेत्
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः
॥४३॥तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत्
॥४४॥वानप्रस्थधर्मप्रकरणम्
सुतविन्यस्तपत्नीकस् तया वानुगतो वनम्
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्
॥४५॥अफालकृष्तेनाग्नींश् च पितॄन् देवातिथीन् अपि
भृत्यांश् च तर्पयेत् श्मश्रुजटालोमभृद् आत्मवान्
॥४६॥अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत्
॥४७॥दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात्
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः
॥४८॥दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः
॥४९॥चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा
पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते
॥५०॥स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत्
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा
॥५१॥ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत्
॥५२॥यः कण्टकैर् वितुदति चन्दनैर् यश् च लिंपति
अक्रुद्धोऽपरितुष्टश् च समस्तस्य च तस्य च
॥५३॥अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत्
॥५४॥ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः
वायुभक्षः प्रागुदीचीं गच्छेद् वावर्ष्मसंक्षयात्
॥५५॥यतिधर्मप्रकरणम्
वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम्
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि
॥५६॥अधीतवेदो जपकृत् पुत्रवान् अन्नदोऽग्निमान्
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा
॥५७॥सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत्
॥५८॥अप्रमत्तश् चरेद् भैक्षं सायाह्नेऽनभिलक्षितः
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः
॥५९॥यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम्
॥६०॥संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च
भयं हित्वा च भूतानाम् अमृतीभवति द्विजः
॥६१॥कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च
॥६२॥अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः
॥६३॥भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः
ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः
॥६४॥नाश्रमः कारणं धर्मे क्रियमाणो भवेद् हि सः
अतो यद् आत्मनोऽपथ्यं परेषां न तद् आचरेत्
॥६५॥सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः
॥६६॥निःसरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः
सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि
॥६७॥तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः
करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम्
॥६८॥निमित्तम् अक्षरः कर्ता बोद्धा गुणी वशी
अजः शरीरग्रहणात् स जात इति कीर्त्यते
॥६९॥सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम्
सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि
॥७०॥आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः
तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति
॥७१॥स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः
॥७२॥इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः
धारणा प्रेरणं दुःखम् इच्छाहंकार एव च
॥७३॥प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ
तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः
॥७४॥प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः
मास्य् अर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर् युतः
॥७५॥आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम्
वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च
॥७६॥पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम्
रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम्
॥७७॥भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च
आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः
॥७८॥दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात्
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः
॥७९॥स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः
॥८०॥मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि
॥८१॥पुनर् धात्रीं पुनर् घर्मम् ओजस् तस्य प्रधावति
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते
॥८२॥नवमे दशमे वापि प्रबलैः सूतिमारुतैः
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः
॥८३॥तस्य षोढा शरीराणि शट् त्वचो धारयन्ति च
सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम्
॥८४॥स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः
पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम्
॥८५॥षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम्
चत्वार्यरत्निकास्थीनि जङ्घयोस् तावद् एव तु
॥८६॥द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे
अक्षतालूषके श्रोणीफलके च विनिर्दिशेत्
॥८७॥भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च
ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः
॥८८॥तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः
॥८९॥द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः
॥९०॥गन्धरूपरसस्पर्शशब्दाश् च विषयाः स्मृताः
नासिका लोचने जिह्वा त्वक् श्रोत्रं च इन्द्रियाणि च
॥९१॥हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम्
॥९२॥नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु
॥९३॥वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च
॥९४॥आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च
उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयम् उदाहृतः
॥९५॥कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ
कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टाव् ओष्ठौ ककुन्दरे
॥९६॥वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ
उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका
॥९७॥तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके
अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके
॥९८॥अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च
नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु
॥९९॥शिराः शतानि सप्तैव नव स्नायुशतानि च
धमनीनां शते द्वे तु पञ्च पेशीशतानि च
॥१००॥एकोनत्रिंशल्लक्षाणि तथा नव शतानि च
षट्पञ्चाशच् च जानीत शिरा धमनिसंज्ञिताः
॥१०१॥त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम्
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा
॥१०२॥रोम्णां कोट्यस् तु पञ्चाशच् चतस्रः कोट्य एव च
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह
॥१०३॥वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः
यद्य् अप्य् एकोऽनुवेत्त्य् एषां भावनां चैव संस्थितिम्
॥१०४॥रसस्य नव विज्ञेया जलस्याञ्जलयो दश
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः
॥१०५॥षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके
॥१०६॥श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ
॥१०७॥द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः
हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम्
॥१०८॥मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु
॥१०९॥ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान्
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता
॥११०॥अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम्
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत् प्रभुः
॥१११॥यथाविधानेन पठन् सामगायम् अविच्युतम्
सावधानस् तद् अभ्यासात् परं ब्रह्माधिगच्छति
॥११२॥अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा
औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च
॥११३॥ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका
गेयम् एतत् तदभ्यासकरणान् मोक्षसंज्ञितम्
॥११४॥वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः
तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति
॥११५॥गीतज्ञो यदि योगेन नाप्नोति परमं पदम्
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते
॥११६॥अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम्
आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः
॥११७॥कथम् एतद् विमुह्यामः सदेवासुरमानवम्
जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः
॥११८॥मोहजालम् अपास्येह पुरुषो दृश्यते हि यः
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः
॥११९॥स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः
विराजः सोऽन्नरूपेण यज्ञत्वम् उपगच्छति
॥१२०॥यो द्रव्यदेवतात्यागसंभूतो रस उत्तमः
देवान् संतर्प्य स रसो यजमानं फलेन च
॥१२१॥संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः
ऋग्यजुः सामविहितं सौरं धामोपनीयते
॥१२२॥खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम्
यज् जन्म सर्वभूतानाम् अशनानशनात्मनाम्
॥१२३॥तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः
एवम् एतद् अनाद्यन्तं चक्रं संपरिवर्तते
॥१२४॥अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः
॥१२५॥सहस्रात्मा मया यो व आदिदेव उदाहृतः
मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम्
॥१२६॥पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच् छिखी
॥१२७॥मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः
जघनाद् अन्तरिक्षं च जगच् च सचराचरम्
॥१२८॥यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते
ईश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यते
॥१२९॥करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न
वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम्
॥१३०॥अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः
दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च
॥१३१॥अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम्
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम्
॥१३२॥विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते
इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम्
॥१३३॥परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन्
वितथाभिनिवेशी च जायतेऽन्यासु योनिषु
॥१३४॥पुरुषोऽनृतवादी च पिशुनः परुषस् तथा
अनिबद्धप्रलापी च मृगपक्षिषु जायते
॥१३५॥अदत्तादाननिरतः परदारोपसेवकः
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते
॥१३६॥आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम्
॥१३७॥असत्कार्यरतोऽधीर आरम्भी विषयी च यः
स राजसो मनुष्येषु मृतो जन्माधिगच्छति
॥१३८॥निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः
॥१३९॥रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते
॥१४०॥मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः
॥१४१॥कट्वेर् वारौ यथापक्वे मधुरः सन् रसोऽपि न
प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता
॥१४२॥सर्वाश्रयां निजे देहे देही विन्दति वेदनाम्
योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम्
॥१४३॥आकाशम् एकं हि यथा घटादिषु पृथग् भवेत्
तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान्
॥१४४॥ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः
इमे लोका एष चात्मा तस्माच् च सचराचरम्
॥१४५॥मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम्
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः
॥१४६॥हेममात्रम् उपादाय रूपं वा हेमकारकः
निजलालासमायोगात् कोशं वा कोशकारकः
॥१४७॥कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु
सृजत्य् आत्मानम् आत्मा च संभूय करणानि च
॥१४८॥महाभूतानि सत्यानि यथात्मापि तथैव हि
कोऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति
॥१४९॥वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम्
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः
॥१५०॥जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा
॥१५१॥स संदिग्धमतिः कर्मफलम् अस्ति न वेति वा
विप्लुतः सिद्धम् आत्मानम् असिद्धोऽपि हि मन्यते
॥१५२॥मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः
हिताहितेषु भावेषु विपरीतमतिः सदा
॥१५३॥ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान्
अनाशकानलाघातजलप्रपतनोद्यमी
॥१५४॥एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान्
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते
॥१५५॥आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः
॥१५६॥स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम्
त्यागः परिग्रहाणां च जीर्णकाषायधारणम्
॥१५७॥विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम्
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम्
॥१५८॥नीरजस्तमसा सत्त्वशुद्धिर् निःस्पृहता शमः
एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृती भवेत्
॥१५९॥तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात्
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते
॥१६०॥शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम्
अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात्
॥१६१॥यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम्
नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः
॥१६२॥कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च
गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः
॥१६३॥अहंकारेण मनसा गत्या कर्मफलेन च
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन
॥१६४॥वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः
॥१६५॥अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि
सितासिताः कर्बुरूपाः कपिला नीललोहिताः
॥१६६॥ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम्
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम्
॥१६७॥यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम्
तेन देवशरीराणि सधामानि प्रपद्यते
॥१६८॥येऽनेकरूपाश् चाधस्ताद् रश्मयोऽस्य मृदुप्रभाः
इह कर्मोपभोगाय तैः संसरति सोऽवशः
॥१६९॥वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च
आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च
॥१७०॥श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः
निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः
॥१७१॥तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि
आकाशपवनज्योतिर्जलभूतिमिरैस् तथा
॥१७२॥मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि
वित्तात्मानं वेद्यमानं कारणं जगतस् तथा
॥१७३॥अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः
इन्द्रियान्तरसंचार इच्छा धारणजीविते
॥१७४॥स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम्
॥१७५॥यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः
तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः
॥१७६॥बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि
॥१७७॥अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते
ईश्रवः सर्वभूतस्थः सन्न् असन् सद् असच् च यः
॥१७८॥बुद्धेर् उत्पत्तिर् अव्यक्तात् ततोऽहंकारसंभवः
तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च
॥१७९॥शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः
यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते
॥१८०॥यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया
विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरोऽपि सन्
॥१८१॥सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः
रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ
॥१८२॥अनादिर् आदिमांश् चैव स एव पुरुषः परः
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः
॥१८३॥पितृयानोऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम्
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति
॥१८४॥ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः
॥१८५॥तत्राष्टाशीतिसाहस्रमुनयो गृहमेधिनः
पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः
॥१८६॥सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः
तावन्त एव मुनयः सर्वारम्भविवर्जिताः
॥१८७॥तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया
तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम्
॥१८८॥यतो वेदाः पुराणानि विद्योपनिषदस् तथा
श्लोका सूत्राणि भाष्याणि यच् च किंचन वाङ्मयम्
॥१८९॥वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः
श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः
॥१९०॥स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु
द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः
॥१९१॥य एनम् एवं विन्दन्ति य वारण्यकम् आश्रिताः
उपासते द्विजाः सत्यं श्रद्धया परया युताः
॥१९२॥क्रमात् ते संभवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम्
अयनं देवलोकं च सवितारं सवैद्युतम्
॥१९३॥ततस् तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान्
करोति पुनरावृत्तिस् तेषाम् इह न विद्यते
॥१९४॥यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च
॥१९५॥पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम्
क्रमात् ते संभवन्तीह पुनर् एव व्रजन्ति च
॥१९६॥एतद् यो न विजानाति मार्गद्वितयम् आत्मवान्
दन्दशूकः पतङ्गो वा भवेत् कीटोऽथ वा कृमिः
॥१९७॥ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम्
उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा
॥१९८॥निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन्
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः
॥१९९॥संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत्
॥२००॥ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः
॥२०१॥अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा
निजं शरीरम् उत्सृज्य परकायप्रवेशनम्
॥२०२॥अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम्
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते
॥२०३॥अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन्
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात्
॥२०४॥न्यायागतधनस् तत्त्वज्ञाननिष्ठोऽतिथिप्रियः
श्राधकृत् सत्यवादी च गृहस्थोऽपि हि मुच्यते
॥२०५॥प्रायश्चित्तप्रकरणम्
महापातकजान् घोरान् नरकान् प्राप्य दारुणान्
कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह
॥२०६॥मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति
खरपुल्कसवेनानां सुरापो नात्र संशयः
॥२०७॥कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात्
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः
॥२०८॥ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः
॥२०९॥यो येन संवसत्य् एषां स तल्लिङ्गोऽभिजायते
अन्नहर्तामयावी स्यान् मूको वागपहारकः
॥२१०॥धान्यमिश्रोऽतिरिक्ताञ्गः पिशुनः पूतिनासिकः
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः
॥२११॥परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः
॥२१२॥हीनजातौ प्रजायेत पररत्नापहारकः
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान्
॥२१३॥मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम्
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम्
॥२१४॥मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः
॥२१५॥प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः
॥२१६॥यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात्
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः
॥२१७॥ततो निष्कल्मषीभूताः कुले महति भोगिनः
जायन्ते विद्ययोपेता धनधान्यसमन्विताः
॥२१८॥विहितस्याननुष्ठानान् निन्दितस्य च सेवनात्
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति
॥२१९॥तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति
॥२२०॥प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान्
॥२२१॥तामिस्रं लोहशङ्कुं च महानिरयशाल्मली
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम्
॥२२२॥संघातं लोहितोदं च सविषं संप्रपातनम्
महानरककाकोलं संजीवनमहापथम्
॥२२३॥अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च
असिपत्रवनं चैव तापनं चैकविंशकम्
॥२२४॥महापातकजैर् घोरैर् उपपातकजैस् तथा
अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः
॥२२५॥प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत्
कामतो व्यवहार्यस् तु वचनाद् इह जायते
॥२२६॥ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः
एते महापातकिनो यश् च तैः सह संवसेत्
॥२२७॥गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम्
॥२२८॥निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचोऽनृतम्
रजस्वलामुखास्वादः सुरापानसमानि तु
॥२२९॥अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम्
॥२३०॥सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम्
॥२३१॥पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा
॥२३२॥आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि
॥२३३॥गोवधो व्रात्यता स्तेयम् ऋणानां चानपाक्रिया
अनाहिताग्नितापण्यविक्रयः परिदेवनम्
॥२३४॥भृताद् अध्ययनादानं भृतकाध्यापनं तथा
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया
॥२३५॥स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम्
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः
॥२३६॥धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम्
पितृमातृसुतत्यागस् तडागारामविक्रयः
॥२३७॥कन्यासंदूषणं चैव परिविन्दकयाजनम्
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्
॥२३८॥आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च
॥२३९॥इन्धनार्थं द्रुमछेदः स्त्रीहिंसाउषधजीवनम्
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः
॥२४०॥शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्
तथैवानाश्रमे वासः परान्नपरिपुष्टता
॥२४१॥असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम्
॥२४२॥शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात्
॥२४३॥ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च
तथाश्वमेधावभृथस्नानाद् वा शुद्धिम् आप्नुयात्
॥२४४॥दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः
॥२४५॥आनीय विप्रसर्वस्वं हृतं घातित एव वा
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति
॥२४६॥लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम्
मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम्
॥२४७॥संग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात्
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति
॥२४८॥अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम्
शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम्
॥२४९॥पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात्
आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता
॥२५०॥यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम्
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः
॥२५१॥चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत्
॥२५२॥सुराम्बुघृतगोमूत्रपयसाम् अग्निसंनिभम्
सुरापोऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति
॥२५३॥वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत्
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि
॥२५४॥अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः
॥२५५॥पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत्
इहैव सा शुनी गृध्री सूकरी चोपजायते
॥२५६॥ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत्
स्वकर्म व्याख्यायंस् तेन हतो मुक्तोऽपि वाशुचिः
॥२५७॥अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन्
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत्
॥२५८॥तप्तेऽयःशयने सार्धम् आयस्या योषिता स्वपेत्
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम्
॥२५९॥प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम्
॥२६०॥एभिस् तु संवसेद् यो वै वत्सरं सोऽपि तत्समः
कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम्
॥२६१॥चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु
शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति
॥२६२॥पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति
॥२६३॥कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः
॥२६४॥उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा
पयसा वापि मासेन पराकेणाथ वा पुनः
॥२६५॥ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान्
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत्
॥२६६॥वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम्
षण्मासाच् छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा
॥२६७॥दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये
॥२६८॥अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत्
अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः
॥२६९॥मार्जारगोधानकुलमण्डूकांश् च पतत्रिणः
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत्
॥२७०॥गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः
॥२७१॥हंसश्येनकपिक्रव्याज् जलस्थलशिखण्डिनः
भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम्
॥२७२॥उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम्
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम्
॥२७३॥तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन्
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये
॥२७४॥फलपुष्पान्नरसजसत्त्वघाते घृताशनम्
किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके
॥२७५॥वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम्
स्याद् ओषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम्
॥२७६॥पुंश्चलीवानरखरैर् दष्टश्वोष्ट्रादिवायसैः
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति
॥२७७॥यन् मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत्
स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत्
॥२७८॥मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत्
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृतेऽपि च
॥२७९॥अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम्
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति
॥२८०॥भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम्
॥२८१॥उपस्थानं ततः कुर्यात् सं मा सिंचन्त्व् अनेन तु
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च
॥२८२॥प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति
कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि
॥२८३॥क्रियमाणोपकारे तु मृते विप्रे न पातकम्
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ य्ज्_३।२८३:१ ॥ मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन्
॥२८४॥महापापोपपापाभ्यां योऽभिशंसेन् मृषा परम्
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः
॥२८५॥अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा
॥२८६॥अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत्
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति
॥२८७॥त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजकोऽभिचरन्न् अपि
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम्
॥२८८॥गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम्
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात्
॥२८९॥प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम्
॥२९०॥गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम्
॥२९१॥विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते
॥२९२॥देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः
॥२९३॥दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम्
॥२९४॥चरितव्रत आयाते निनयेरन् नवं घटम्
जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः
॥२९५॥पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम्
॥२९६॥नीचाभिगमनं गर्भपातनं भर्तृहिंसनम्
विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम्
॥२९७॥शरणागतबालस्त्रीहिंसकान् संवसेन् न तु
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान्
॥२९८॥घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम्
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया
॥२९९॥रहस्यप्रायश्चित्तम्
विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम्
अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत्
॥३००॥त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम्
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम्
॥३०१॥लोमभ्यः स्वाहेत्य् अथ वा दिवसं मारुताशनः
जले स्थित्वाभिजुहुयाच् चत्वारिंशद्घृताहुतीः
॥३०२॥त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः
॥३०३॥सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः
गौर् देया कर्मणोऽस्यान्ते पृथग् एभिः पयस्विनी
॥३०४॥प्राणायामशतं कार्यं सर्वपापापनुत्तये
उपपातकजातानाम् अनादिष्टस्य चैव हि
॥३०५॥ॐकाराभिष्टुतं सोमसलिलं पावनं पिबेत्
कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः
॥३०६॥निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत्
त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति
॥३०७॥शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा
॥३०८॥यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः
तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा
॥३०९॥वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम्
न स्पृशन्तीह पापानि महापातकजान्य् अपि
॥३१०॥वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक्
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते
॥३११॥ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता
अहिंसा स्तेयमाधुर्ये दमश् चेति यमाः स्मृताः
॥३१२॥स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता
॥३१३॥गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
जग्ध्वा परेऽह्न्य् उपवसेत् कृच्छ्रं सान्तपनं चरेत्
॥३१४॥पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः
॥३१५॥पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः
॥३१६॥तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत्
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः
॥३१७॥एकभक्तेन नक्तेन तथैवायाचितेन च
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः
॥३१८॥यथाकथंचित् त्रिगुणः प्राजापत्योऽयम् उच्यते
अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः
॥३१९॥कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम्
द्वादशाहोपवासेन पराकः परिकीर्तितः
॥३२०॥पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्
एकरात्रोपवासश् च कृच्छ्रः सौम्योऽयम् उच्यते
॥३२१॥एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम्
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः
॥३२२॥तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मितान्
एकैकं ह्रासयेत् कृष्ने पिण्डं चान्द्रायणं चरन्
॥३२३॥यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम्
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम्
॥३२४॥कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा
पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत्
॥३२५॥अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन च
धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम्
॥३२६॥कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात्
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः
॥३२७॥श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान्
इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम्
॥३२८॥य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम्
॥३२९॥विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम्
॥३३०॥श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति
पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः
॥३३१॥ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत्
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात्
॥३३२॥य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम्
॥३३३॥श्रुत्वैतद् याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम्
एवम् अस्त्व् इति होवाच नमस्कृत्य स्वयंभुवे
॥३३४॥