मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कूटस्थाद्वयात्मबोधप्रकरणम्

3
उपदेशसाहस्री · गद्यबन्धः · 2

श्रीशङ्करभगवत्पादकृता

सुखमासीनं ब्राह्मणं ब्रह्मनिष्टं कश्चिद् ब्रह्मचारी जन्ममरणलक्षणात् संसारान् निर्विण्णो मुमुक्षुर्विधिवदुपसन्नः पप्रच्छ -- भगवन्, कथमहं संसारान् मोक्षिष्ये । शरीरेन्द्रियविषयवेदनावान् जागरिते दुःखमनुभवामि तथा स्वप्नेऽनुभवामि पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य । किमयमेव मम स्वभावः, किं वान्यस्वभावस्य सतो नैमित्तिक इति । यदि स्वभावो न मे मोक्षाशा स्वभावस्यावर्जनीयत्वात् । अथ नैमित्तिको निमित्तपरिहारे स्यान् मोक्षोपपत्तिः ॥

॥४५॥

तं गुरुरुवाच -- शृणु वत्स न तवायं स्वभावः । नैमित्तिकः ॥

॥४६॥

इत्युक्तः शिष्य उवाच -- किं निमित्तम्, किं वा तस्य निवर्तिकम्, को वा मम स्वभावः, यस्मिन् निमित्ते निवर्तिते नैमित्तिकाभावः, रोगनिमित्तनिवृत्ताविव रोगी स्वभावं प्रतिपद्येयेति ॥

॥४७॥

गुरुरुवाच -- अविद्या निमित्तं विद्या तस्या निवर्तिका, अविद्यायां निवर्तायां तन्निमित्ताभावान् मोक्ष्यसे जन्ममरणलक्षणात् संसारात् स्वप्नजाग्रद्दुःखं च नानुभविष्यसीति ॥

॥४८॥

शिष्य उवाच -- का साविद्या किंविषया वा विद्या च काविद्यानिवर्तिका यया स्वभावं प्रतिपद्येयेति ॥

॥४९॥

गुरुरुवाच -- त्वं परमात्मानं सन्तमसंसारिणं संसार्यहमस्मीति विपरीतं प्रतिपद्यसे, अकर्तारं सन्तं कर्तेति, अभोक्तारं सन्तं भोक्तेति विद्यमानं चाविद्यमानमिति, इयमविद्या ॥

॥५०॥

शिष्य उवाच --यद्यप्यहं विद्यमानस्तथापि न परमात्मा । कर्तृत्वभोक्तृत्वलक्षणः संसारो मम स्वभावः प्रत्यक्षादिभिः प्रमाणैरनुभूयमानत्वात् । नाविद्यानिमित्तः, अविद्यायाः स्वात्मविषयत्वानुपपत्तेः । अविद्या नामान्यस्मिन्नन्यधर्माध्यारोपणा । यथा प्रसिद्धं रजतं प्रसिद्धायां शुक्तिकायां यथा प्रसिद्धं पुरुषं स्थाणावध्यारोपयति प्रसिद्धं वा स्थाणुं पुरुषे । नाप्रसिद्धं प्रसिद्धे प्रसिद्धं वाप्रसिद्धे । न चात्मन्यनात्मानमध्यारोपयति, आत्मनोऽप्रसिद्धत्वात् । तथात्मनमनात्मनि, आत्मनोऽप्रसिद्धत्वादेव ॥

॥५१॥

तं गुरुरुवाच -- न व्यभिचारात् । न हि वत्स प्रसिद्धं प्रसिद्ध एवाध्यारोपयतीति नियन्तुं शक्यम् । आत्मन्यध्यारोपणदर्शनात् । गौरोऽहं कृष्णोऽहमिति देहधर्मस्याहंप्रत्ययविषयस्य च देहेऽयमहमस्मीति ॥

॥५२॥

शिष्य आह -- प्रसिद्ध एव तर्ह्यात्माहंप्रत्ययविषयतया देहश्चायमिति । तत्रैवं सति प्रसिद्धयोरेव देहात्मनोरितरेतराध्यारोपणा(त्) स्थाणुपुरुषयोः शुक्तिकारजतयोरिव । तत्र कं विशेषमाश्रित्य भगवतोक्तं प्रसिद्धयोरितरेतराध्यारोपणेति नियन्तुं न शक्यत इति ॥

॥५३॥

गुरुरुवाच -- शृणु । सत्यं प्रसिद्धौ देहात्मानौ न तु स्थाणुपुरुषाविव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ । कथं तर्हि । नित्यमेव निरन्तराविविक्तप्रत्ययविषयतया । न ह्ययं देहोऽयमात्मेति विविक्ताभ्यां प्रत्ययाभ्यां देहात्मानौ गृह्णाति यतः कश्चित् । अत एव हि मोमुह्यते लोक आत्मानात्मविषये, एवमात्मा नैवमात्मेति । इमं विशेषमाश्रित्यावोचं नैवं शक्यमिति ॥

॥५४॥

नन्वविद्याध्यारोपितं (यत्र) यत् तदसत् (तत्र) दृष्टं यथा रजतं शुक्तिकायां, स्थानौ पुरुषः रज्ज्वं सर्पः, आकाशे तलमलिनत्वमित्यादि । तथा देहात्मनोरपि नित्यमेव निरन्तराविविक्तप्रत्ययतयेतरेतराध्यारोपणा कृता स्यात् तदितरेतरयोर्नित्यमेवासत्त्वं स्यात् । यथा शुक्तिकादिष्वविद्याध्यारोपितानां रजतादीनां नित्यमेवात्यन्तासत्त्वं, तद्विपरीतानां च विपरीतेषु तद्वद् देहात्मनोरसत्त्वं प्रसज्येत । तच्चानिष्टं प्रत्यक्षादिविरोधात् । तस्माद् देहात्मानौ नाविद्ययेतरेतरस्मिन्नध्यारोपितौ । कथं तर्हि । वंशस्तम्भवन् नित्यसंयुक्तौ ॥

॥५५॥

न । अनित्यत्वपरार्थत्वप्रसङ्गात् । संहतत्वात् (परार्थत्वमनित्यत्वं च) वंशस्तम्भादिवदेव । किं च यस्तु परैर्देहेन संहतः आत्मा स संहतत्वात् परार्थः । तेनासंहतः परोऽन्यो नित्यः सिद्धस्तावत् ॥

॥५६॥

तस्यासंहतस्य देहे देहमात्रतयाध्यारोपितत्वेनासत्त्वानित्यत्वादिदोषप्रसङ्गो भवति । तत्र निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥

॥५७॥

न । स्वत एवात्मन आकाशस्य्येवासंहतत्वाभ्युपगमात् । सर्वेणासंहतः सन्नात्मेति न निरात्मको देहादिः सर्वः स्यात् । यथा चाकाशं सर्वेणासंहतमिति न निराकाशं भवति, एवम् । तस्मान् न वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥

॥५८॥

यत् पुनरुक्तं देहस्यात्मन्यसत्त्वे प्रत्यक्षादिविरोधः स्यादिति । तन्न । प्रत्यक्षादिभिरात्मनि देहस्य सत्त्वानुपलब्धेः । न ह्यात्मनि कुण्डे बदरं क्षिरे सर्पिः तिले तैलं भित्तौ चित्रमिव च प्रत्यक्षादिभिर्देह उपलभ्यते । तस्मान् न प्रत्यक्षादिविरोधः ॥

॥५९॥

कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपणा देहे चात्मारोपणा ॥

॥६०॥

नायं दोषः । स्वभाव(प्र) सिद्धत्वादात्मनः । न हि कादाचित्कसिद्धावेवाध्यारोपणा न नित्यसिद्धाविति नियन्तुं शक्यमाकाशे तलमलाद्यध्यारोपणदर्शनात् ॥

॥६१॥

किं भगव्न् देहात्मनोरितरेतराध्यारोपणा देहादिसंधातकृताथवात्मकृतेति ॥

॥६२॥

गुरुरुवाच -- यदि देहादिसंघातकृता यदि वात्मकृता किं तव स्यात् ॥

॥६३॥

इत्युक्तः शिष्य आह -- यद्यहं देहादिसंघातमात्रः ततो ममाचेतनत्वात् परार्थत्वमिति न मत्कृता देहात्मनोरितरेतराध्यारोपणा । अथाहमात्मा परोऽन्यः संघातात् चितिमत्त्वात् स्वर्थ इति मयैव चितिमतात्मन्यध्यारोपणा क्रियते सर्वानर्थबीजभूता ॥

॥६४॥

इत्युक्तो गुरुरुवाच -- अनर्थबीजभूतां चेत् मिथ्याध्यारोपणां जानीषे मा कार्षीस्तर्हि ॥

॥६५॥

नैव भगवन् शक्नोमि न कर्तुम् । अन्येन केनचित् प्रयुक्तोऽहं न स्वतन्त्र इति ॥

॥६६॥

न तर्ह्यचितिमत्त्वात् स्वार्थस्त्वम् । येन प्रयुक्तोऽस्वतन्त्रः प्रवर्तसे स चितिमान् स्वार्थः संघात एव त्वम् ॥

॥६७॥

यद्यचेतनोऽहं कथं सुखदुःखवेदनां भवदुक्तं च जानामि ॥

॥६८॥

गुरुरुवाच -- किं सुखदुःखवेदनाया मदुक्ताच्चान्यस्त्वं किं वानन्य एवेति ॥

॥६९॥

शिष्य उवाच -- नाहं तावदनन्यः । कस्मात् । यस्मात् तदुभयं कर्मभूतं घटादिमिव जानामि । यद्यनन्योऽहं तेन तदुभयं न जानीयां किं तु जानामि तस्मादन्यः । सुखदुःखवेदनाविक्रिया च स्वार्थैव प्राप्नोति त्वदुक्तं च स्यात् अनन्यत्वे न च तयोः स्वार्थता युक्ता । न हि चन्दनकण्टककृते सुखदुःखे चन्न्दनकण्टकार्थे घटोपयोगो वा घटार्थः । तस्मात् तद्विज्ञातुर्मम चन्दनादिकृतोऽर्थः । अहं हि ततोऽन्यः समस्तमर्थं जानामि बुद्ध्यारूढम् ॥

॥७०॥

तं गुरुरुवाच -- एवं तर्हि स्वार्तस्त्वं चितिमत्त्वान् न परेण प्रयुज्यते चितिमतश्चितिमदर्थत्वानुपपत्तेः समत्वात् प्रकाशयोरिव । नाप्यचितिमदर्थत्वानुपपत्तेः समत्वात् प्रकाशयोरिव । नाप्यचितिमदर्थत्वं चितिमतो भवति अचितिमतोऽचितिमत्त्वादेव स्वार्थसंबन्धानुपपत्तेः । नाप्यचितिमतोरन्योन्यार्थत्वं दृष्टम् । न हि काष्ठकुड्येऽन्योन्यार्थं कुर्वाते ॥

॥७१॥

ननु चितिमत्त्वे समेऽपि भृत्यस्वामिनोरन्योन्यार्थत्वं दृष्टम् ॥

॥७२॥

नैवमग्नेरुष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षितत्वात् । दर्शितश्च दृष्टान्तः प्रकाशयोरिवेति । तत्रैवं सति स्वबुद्ध्यारूढमेव सर्वमुपलभसेऽग्न्युष्णप्रकाशतुल्येन कूटस्थनित्यचितन्यस्वरूपेण । यदि चैवमात्मनः सर्वदा निर्विषेशत्वमभ्युपगच्छसि । किमित्यूचिवान् सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोर्दुःखमनुभवामि । किमयमेव मम स्वभावः किं वा नैमित्तिक इति च । किमसौ व्यामोहऽपगतः किं वा न ॥

॥७३॥

इत्युक्तः शिष्य उवाच -- भगवनपगतस्त्वत्प्रसादाद् व्यामोहः किं तु मम कूटस्थतायां संशयः । कथम् । शब्दादिनां स्वतःसिद्धिर्नास्ति अचेतनत्वात् । शब्दाद्याकारप्रत्ययोत्पत्तेस्तु तेषम् । प्रत्ययानामितरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां स्वतःसिद्ध्यसंभवात् । तस्माद् बाह्याकारनिमित्तत्वं गम्यत इति बाह्याकारवच्छब्दाद्याकारत्वसिद्धिः । तथा प्रत्ययानामप्यहं प्रत्ययालम्बनवस्तुभेदानां संहतत्वादचैतन्योपपत्तेः स्वार्थत्वासंभवात् स्वरूपव्यतिरिक्तग्राहकग्राह्यत्वेन सिद्धिः शब्दादिवदेव । असंहतत्वे सति चैतन्यात्मकत्वात् स्वार्थोऽप्यहं प्रत्ययानां नीलपीताद्याकाराणामुपलब्धेति विक्रियावानेव कूटस्थ इति संशयः ॥

॥७४॥

तं गुरुरुवाच -- न युक्तस्तव संशयः । यतस्तेषां प्रत्ययानां नियमेनाशेषत उपल्ब्धेरेवापरिणामित्वात् कूटस्थत्वसिद्धौ निश्चयहेतुमेवाशेषचित्तप्रचारोपलब्धिं संशयहेतुमात्थ । यदि हि तव परिणामित्वं स्यातशेषस्वविषयचित्तप्रचारोपलब्धिर्न स्यात् चित्तस्येव स्वविषये यथा चेन्द्रियाणां स्वविषयेषु । न च तथात्मनस्तव स्वविषयैकदेशोपलब्धिः । अतः कूटस्थतैव तवेति ॥

॥७५॥

तत्राह -- उपलब्धिर्नाम धात्व्वर्थो विक्रियैव उपलब्धुः कू३अस्थ्(आत्म्) अता चेति विरुद्धम् ॥

॥७६॥

न । धात्वर्थविकॄयायामुपलब्ध्युपचारात् । यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मक आत्मन उपलब्धिशब्देनोपचर्यते । यथा छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थत्वेनोपचर्यते तद्वत् ॥

॥७७॥

इत्युक्तः शिष्य आह -- ननु भगवन् मम कूटस्थत्वप्रतिपादनं प्रत्यसमर्थो दृष्टान्तः । कथम् । छिदिः छेद्यविकॄयावसानोपचर्यते यथा धात्वर्थत्वेन तथोपलब्धिशब्दोपचरितोऽपि धात्वर्थो बौद्धप्रत्यय आत्मन उपलब्द्झिविक्रियावसानश्चेन् नात्मनः कूटस्थतां प्रतिपादयितुं समर्थः ॥

॥७८॥

गुरुरुवाच -- सत्यं एवं स्यात् यद्युपलब्ध्युपलब्ध्रोर्विशेषः । नित्योपलब्धिमात्र एव हि उपलब्धा । न तु तार्किकसमय इवान्योपलब्धिरन्य उपलब्धा च ॥

॥७९॥

ननूपलब्धिफलावसानो धात्वर्थः कथमिति ॥

॥८०॥

उच्यते -- श्र्नु, उपलब्ध्याभासफलावसान इत्युक्तं किं न श्रुतं त्वया । न त्वात्मनो विक्रियोत्पादनावसान इति मयोक्तम् ॥

॥८१॥

शिष्य आह -- कथं तर्हि कूटस्थे मय्यशेषस्वविषयचित्तप्रचारोपलब्धृत्वमित्यात्थ ॥

॥८२॥

तं गुरुरुवाच -- सत्यमेवावोचं तेनैव कूटस्थतामब्रुवं तव ॥

॥८३॥

यद्येवं भगवन् कूटस्थनित्योपलब्धिस्वरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु मत्स्वरूपोपलब्ध्याभासफलावसानवत्सूत्पद्यमानेषु कस्त्वपराधो मम ॥

॥८४॥

सत्यं नास्त्यपराधः किं त्वविद्यामात्रस्तु अपराध इति प्रागेवावोचम् ॥

॥८५॥

यदि भगवन् सुषुप्त इव मम विक्रिया नास्ति कथं स्वप्नजागरिते ॥

॥८६॥

तं गुरुरुवाच -- किं त्वनुभूयेते त्वया स(न्) ततम् ॥

॥८७॥

बाढमनुभवामि किं त्व्विच्छिद्य विच्छिद्य न तु सन्ततम् ॥

॥८८॥

(तं) गुरुरुवाच -- आगन्तुके त्वेते न तवात्मभूते । यदि तवात्मभूते चैतन्यस्वरूपवत् स्वतःसिद्धे सन्तते एव स्याताम् । किं च स्वप्नजागरिते न तवात्मभूते व्यभिचारित्वात् वस्त्रादिवत् । न हि यस्य यत् स्वरूपं तत् तद्व्यभिचारि दृष्टम् । स्वप्नजागरिते तु चैतन्यमात्रत्वाद् व्यभिचरतः । सुषुप्ते चेत् स्वरूपं व्यभिचरेत् तन् नष्टं नास्तीति वा बाध्यमेव स्यातागन्तुकानां अतद्धर्माणामुभयात्मकत्वदर्शनात् यथा धनवस्त्रादीनां नाशो दृष्टः स्वप्नभ्रान्तिलब्धानां त्वभावो दृष्टः ॥

॥८९॥

नन्वेवं भगवन् चैतन्यस्वरूपमप्यागन्तुकं प्राप्तं स्वप्नजागरितयोरिव सुषुप्तेऽनुपलब्धेः । अचैतन्यस्वरूपो वा स्यामहम् ॥

॥९०॥

न पश्य तदनुपपत्तेः । चैतन्यस्वरूपं चेदागन्तुकं पश्यसि पश्य । नैतद् वर्शशतेनाप्युपपत्त्या उपपत्त्या कल्पयितुं शक्नुमो वयमन्यो वाचैतन्योऽपि । (तस्य) संहतत्वात् पारार्थ्यमनेकत्वं नाशितत्वं च न केनचिदुपपत्त्या वारयितुं शक्यम् । अस्वार्थस्य स्वतःसिद्ध्यभावादित्यवोचाम । चैतन्यस्वरूपस्य त्वात्मनः स्वतःसिद्धेरन्यानपेक्षत्वं न केनचिद् वारयितुं शक्यमव्यभिचारात् ॥

॥९१॥

ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामीति ॥

॥९२॥

न । व्याहतत्वात् । कथं व्याघातः । पश्यतस्तव न पश्यामीति व्याहतं वचनम् । न हि कदाचिद् भगवन् सुषुप्ते मया चैतन्यमन्यद् वा किंचिद् दृष्टम् । पश्यंस्तर्हि सुषुप्ते त्वम् । यस्माद् दृष्टमेव प्रतिषेधसि न दृष्टिम् । या तव दृष्टिस्तच् चैतन्यमिति मयोक्तम् । यया त्वं विद्यमानया न किंचिद् दृष्टमिति प्रतिषेधसि सा दृष्टिस्तच् चैतन्यम् । तर्हि सर्वत्राव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव न प्रमाणापेक्षम् । स्वतःसिद्धस्य हि प्रमातुरन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा । या त्वन्या नित्या परिच्छेदाय सा हि नित्यैव कूटस्था स्वयंज्योतिःस्वभावा । आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा तत्स्वभावत्वात् । यथा प्रकाशनमुष्णत्वं वा लोहोदकादिषु परतोऽपेक्ष्यतेऽग्न्यादित्यादिभ्यः अतत्स्वभावत्वात् नाग्न्यादित्यादीनां तदपेक्षा सर्वदा तत्स्वभावत्वात् ॥

॥९३॥

अनित्यत्व एव प्रमा स्यान् न नित्यत्व इति चेत् ॥

॥९४॥

न । अवगतेर्नित्यत्वानित्यत्वयोर्विशेषानुपपत्तेः । न ह्यवगतेः प्रमात्वेऽनित्यावगतिः प्रमा न नित्येति विशेषोऽवगम्यते ॥

॥९५॥

नियायां प्रमातुरपेक्षाभावः । अनित्यायां तु यत्नान्तरितत्वादवगतिरपेक्ष्यत इति विशेषः स्यादिति चेत् ॥

॥९६॥

सिद्धा तर्ह्यात्मनः प्रमातुः स्वतःसिद्धिः प्रमाणनिरपेक्षतयैवेति ॥

॥९७॥

अभावेऽप्यपेक्षाभावः नित्यत्वादिति चेत् । न । अवगतेरेवात्मनि एवात्मनि सद्भावादिति परिहृतमेतत् ॥

॥९८॥

प्रमातुश्चेत् प्रमाणापेक्षासिद्धिः कस्य प्रमित्सा स्यात् । यस्य प्रमित्सा स एव प्रमाताभ्युपगम्यते । तदीया च प्रमित्सा प्रमेयविषयैव न प्रमातृविषया । प्रमातृविषयत्वेऽनवस्थाप्रसङ्गात् प्रमातुस्तदिच्छायाश्च तस्याप्यन्यः प्रमाता तस्याप्यन्य इति । एवमेवेच्छायाः प्रमातृविषयत्वे । प्रमातुरात्मनोऽव्यवहितत्वाच् च प्रमेयत्वानुपपत्तिः । लोके हि प्रमेयं नाम प्रमातुरिच्छास्मृतिप्रयत्नप्रमाणजन्मव्यवहितं सिद्ध्यति नान्यथावगतिः प्रमेयविषया दृष्टा । न च प्रमातुः प्रमाता स्वस्य स्वयमेव केनचिद् व्यवहितः कल्पयितुं शक्य इच्छादीनामन्यतमेनापि । स्मृतिश्च स्मर्तव्यविषया न स्मर्तृविषया । तथेच्छाया इष्टविषयत्वमेव नेच्छावद्विषयत्वम् । स्मर्त्रिच्छावद्विषयत्वेऽपि ह्युभयोरनवस्था पूर्ववदप्रिहार्या स्यात् ॥

॥९९॥

ननु प्रमातृविषयावगत्यनुत्पत्तावनवगत एव प्रमाता स्यादिति चेत् ॥

॥१००॥

न अवगन्तुरवगतेरवगन्तव्यविषयत्वात् । अवगन्तृविषयत्वे चानवस्था पूर्ववत् स्यात् । अवगतिश्चात्मनि कूटस्थनित्यात्मज्योतिरन्यतोऽनपेक्षैव सिद्धा अग्न्यादित्याद्युष्णप्रकाशवदिति पूर्वमेव प्रसाधितम् । अवगतेश्चैतन्यात्मज्योतिषः स्वात्मन्यनित्यत्व आत्मनः स्वार्थतानुपपत्तिः कार्यकरण(संघात) वत् संहतत्वात् पारार्थ्यं दोषवत्त्वं चावोचाम । कथं । चैतन्यात्मज्योतिषः स्वात्मन्यनित्यत्वे स्मृत्यादिव्यवधानात् संहतत्वम् । ततश्च तस्य चैतन्यज्योतिषः प्रागुत्पत्तेः प्रध्वंसाच् चोर्ध्वमात्मन्येवाभावात् चक्षुरादीनामिव संहतत्वात् पारार्थ्यं स्यात् । यदा च तदुत्पन्नमात्मनि विद्यते न तदात्मनः स्वार्थत्वम् । तद्भावाभावापेक्षा ह्यात्मानात्मनोः स्वार्थत्वपरार्थत्वसिद्धिः । तस्मादात्मनोऽन्यनिरपेक्षमेव नित्यचैतन्यज्योतिष्ट्वं सिद्धम् ॥

॥१०१॥

नन्वेवं सति असति प्रमातृत्वे कथं प्रमातुः प्रमातृत्वम् ॥

॥१०२॥

उच्यते -- प्रमाया नित्यत्वेऽनित्यत्वे च रूपविशेषाभावात् । अवगतिर्हि प्रमा । तस्याः स्मृतीच्छादिपूर्विकाया अनित्यायः कूटस्थनित्याया वा न (स्व) रूपविशेषो विद्यते । यथा धात्वर्थस्य तिष्टत्यादेः फलस्य गत्यादिपूर्वकस्यानित्यस्यापूर्वस्य नित्यस्य वा रूपविशेषो नास्तीति तुल्यो व्यपदेशो दृष्टः -- तिष्टन्ति मनुष्याः तिष्टन्ति पर्वता इत्यादि । तथा नित्यावगतिस्वरूपेऽपि प्रमातरि प्रमातृत्वव्यपदेशो न विरुध्यते फलसामान्यादिति ॥

॥१०३॥

अत्राह शिष्यः -- नित्यावगतिस्वरूअस्यात्मनोऽविक्रियत्वात् कार्यकरणैरसंहत्य तक्षादीनामिव वास्यादिभिः कर्तृत्वं नोपपद्यते, असंहतस्वभावस्य च कार्यकरणोपादानेऽनवस्था प्रसज्येत । तक्षादीनां तु कार्यकरणैर्नित्यमेव संहतत्वमिति वास्याद्युपादाने नानवस्था स्यादिति ॥

॥१०४॥

इह त्वसंहतस्वभावस्य करणानुपादाने कर्तृत्वं नोपपद्यत इति करणमुपादेयम्, तदुपादानमपि विक्रियैवेति तत्कर्तृत्वे करणान्तरमुपादेयम्, तदुपादानेऽप्यन्यदिति प्रमातुः स्वातन्त्र्येऽनवस्थापरिहार्या स्यात् । न च क्रियैवात्मानं कारयति, अनिर्वर्तितायाः स्वरूपाभावात् । अथान्यदात्मानमुपेत्य क्रियां कारयतीति चेत् । न । अन्यस्य स्वतःसिद्धत्वाविषयत्वाद्यनुपपत्तेः । न ह्यात्मनोऽन्यदचेतनं वस्तु स्वप्रमाणकं दृष्टम् । शब्दादिसर्वमेवावगतिफलावसानप्रत्ययप्रमितं सिद्धं स्यात् । अवगतिश्चेदात्मनोऽन्यस्य स्यात् सोऽप्यात्मैवासंहतः स्वार्थः स्यान् न परार्थः न च देहेन्द्रियविषयाणां स्वार्थः स्यान् न परार्थः । न च देहेन्द्रियविषयाणां स्वार्थतामवगन्तुं शक्नुमोऽवगत्यवसानप्रत्ययापेक्षसिद्धिदर्शनात् ॥

॥१०५॥

ननु देहस्यावगतौ न कश्चित् प्रत्यक्षादिप्रत्ययान्तरमपेक्षते ॥

॥१०६॥

बाढं जाग्रत्येवं स्यात् । मृतिसुषुप्त्योस्तु देहस्यापि प्रत्यक्षादिप्रमाणापेक्षयैव सिद्धिः । तथैवेन्द्रियाणाम् । बाह्या एव हि शब्दादयो देहेन्द्रियाकारपरिणता इति प्रत्यक्षादिप्रमाणापेक्षयैव (हि) सिद्धिः । सिद्धिरिति च प्रमाणफलमवगतिमवोचाम सा चावगतिः कूटस्था स्वयंसिद्धात्मज्योतिःस्वरूपेति च ॥

॥१०७॥

अत्राह चोदकः -- अवगतिः प्रमाणानां फलं कूटस्थनित्यात्मज्योतिस्वरूपेति च विप्रतिषिद्धम् । इत्युक्तवन्तमाह -- न विप्रतिषिद्धम् । कथं तर्हि । कूटस्थनित्यापि सती प्रत्यक्षादिप्रत्ययान्ते लक्ष्यते तादर्थ्यात् । प्रत्यक्षादिप्रत्ययस्यानित्यत्वेऽनित्येव भव्ति । तेन प्रमाणानां फलमित्युपचर्यते ॥

॥१०८॥

यद्य् एवं भगवन् कूटस्थनित्यावगतिरात्मज्योतिःस्वरूपैव स्वयंसिद्धा, आत्मनि प्रमाणनिरपेक्षत्वात् ततोऽन्यदचेतनं संहत्यकारित्वात् परार्थम् । येन च सुख्हदुःखमोहप्रत्ययावगतिरूपेण पारार्थ्यं तेनैव स्वरूपेणानात्मनोऽस्तित्वं नान्येन रूपान्तरेण अतो नास्तित्वमेव परमार्थतः । यथा हि लोके रज्जुसर्पमरीच्युदकादीनां तदवगतिव्यतिरेकेणाभावो युक्तः । एवमेव भगवनवगतेरात्मज्योतिषो नैरन्तर्यभावात् कूटस्थनित्यता अद्वैतभावश्च सर्वप्रत्ययभेदेष्वव्यभिचारात् । प्रत्ययभेदास्त्ववगतिं व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास्त्ववगतिं व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्याकारभेदरूपाः प्रत्ययास्तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्युच्यन्ते, एवं जाग्रत्यपि नीलपीतादिप्रत्ययभेदास्तामेवावगतिं व्यभिचरन्तोऽसत्यरूपा भवितूमर्हन्ति । तस्याश्चावगतेरन्योऽवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयमुपादातुं हातुं वा शक्यते, अन्यस्य चाभावात् ॥

॥१०९॥

तथैवेति । एषाविद्या यन्निमित्तः संसारो जाग्रत्स्वप्नलक्षणः । तस्या अविद्याया विद्या निवर्तिका । इत्येवं त्वमभयं प्राप्तोऽसि । नान्तःपरं जाग्रत्स्वप्नदुःखमनुभविष्यसि संसाऋदुःखान् मुक्तोऽसीति ॥

॥११०॥

ओमिति ॥

॥१११॥

इति अवगतिप्रकरणम्