श्रीशङ्करभगवत्पादकृता
आत्मा ज्ञेयः परो ह्यात्मा यस्मादन्यन् न विद्यते ।
सर्वज्ञः सर्वदृक् शुद्धस्तस्मै ज्ञेयात्मने नमः ॥
॥१॥पदवाक्यप्रमाणज्ञैर्दीपभूतैः प्रकाशितं ।
ब्रह्म वेदरहस्यं यैस्तान् नित्यं प्रणतोऽस्म्यहम् ॥
॥२॥यद्नाक्सूर्यांशुसम्पातप्रणष्टध्वान्तकल्मषः ।
प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥
॥३॥आत्मलाभात् परो नायो लाभः कश्चन विद्यते ।
यदर्था वेदवादाश्च स्मार्ताश्चापि तु याः क्रियाः ॥
॥४॥आत्मार्थोऽपि हि यो लाभः सुखायेष्टो विपर्ययः ।
आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः ॥
॥५॥स्वयं लब्धस्वभावत्वा लाभस्तस्य न चायथः ।
अन्यापेक्षस्तु यो लाभः सोऽन्यदृष्टिसमुद्भवः ॥
॥६॥अन्यदृष्टिस्त्वविद्या स्यात् तन्नाशो मोक्ष उच्यते ।
ज्ञानेनैव तु सोऽपि स्याद् विरोधित्वान् न कर्मणा ॥
॥७॥कर्मकार्यस्त्वनित्यः स्यादविद्याकामकार्णः ।
प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः ॥
॥८॥ज्ञानैकार्थपरत्वात् तं वाक्यमेकं ततो विदुः ।
एकत्वं ह्यात्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः ॥
॥९॥वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्योऽपि तच्छ्रुतेः ।
त्रयं त्वेतत् ततः प्रोक्तं रूपं नाम च कर्म च ॥
॥१०॥असदेतत् त्रयं तस्मादन्योन्येन हि कल्पितम् ।
कृतो वर्णो थता शब्दाच्छ्रुतोऽन्यत्र धिया बहिः ॥
॥११॥दृष्टं चापि यथारूपं बुद्धेः शब्दाय कल्पते ।
एवमेतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम् ॥
॥१२॥असदेतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम् ।
वेदश्चापि स एवाद्यो वेद्यश्चान्यस्तु कल्पितः ॥
॥१३॥येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया ।
येन पश्यति तच् चक्षुः शृणोति श्रोत्रमुच्यते ॥
॥१४॥येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च ।
रसनस्पर्शने चैव मनश्चान्यत् तथेन्द्रियम् ॥
॥१५॥कल्प्योपाधिभिरेवैतद् भिनं ज्ञानमनेकधा ।
आधिभेदाद् यथ भेदो मणेरेकस्य जायते ॥
॥१६॥जाग्रतश्च तथा भेदो ज्ञानस्यास्य विकल्पितः ।
बुद्धिस्थं व्याकरोत्यर्थं भ्रान्त्या तृष्णोद्भवक्रियः ॥
॥१७॥स्वप्ने यद्वत् प्रबोधे च बहिश्चान्तस्तथैव च ।
आलेख्याध्ययने यद्वत् तदन्योन्यधियोद्भवम् ॥
॥१८॥यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः ।
यत्कामस्तत्क्रतुर्भूत्वा कृतं यत् तत् प्रपद्यते ॥
॥१९॥अविद्याप्रभवं सर्वमसत् तस्मादिदं जगत् ।
तद्वता सृश्यते यस्मात् सुषुप्ते न च ग्र्ह्यते ॥
॥२०॥विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ गि नः ।
तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥
॥२१॥चित्ते ह्यादर्शवद् यस्माच्छुद्धे विद्या प्रकाशते ।
यमैर्नित्यैश्च यज्ञैश्च तपोभिस्तस्य शोधनम् ॥
॥२२॥शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थमुत्तमम् ।
मनादिसमाधानं तत्तद्देहविशोषणम् ॥
॥२३॥दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तदेव तु ।
सुषुप्तं तदभावं च स्वमात्मानं परं पदम् ॥
॥२४॥सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः ।
स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम् ॥
॥२५॥तदेवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् ।
मायाव्यात्माविकारोऽपि बहुधैलो जलार्कवत् ॥
॥२६॥बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस्थता ।
स्वप्नजाग्रच्छरीएषु तद्वच् चात्मा जलेन्दुवत् ॥
॥२७॥मायाहस्तिनमारुह्य मायाव्येको यथा व्रजेत् ।
आगच्छंस्तद्वदेवात्मा प्राणस्वप्नादिगोऽचलः ॥
॥२८॥न हस्ती न तदारूढो मायाव्यन्यो यथा स्थितः ।
न प्राणादि न तद्द्रष्टा तथा ज्ञोऽन्यः सदा दृशिः ।
॥२९॥अबद्धचक्षुषो नास्ति माया मायाविनोऽपि वा ।
बद्धाक्षस्यैव सा मायामायाव्येव ततो भवेत् ॥
॥३०॥साक्षादेव स विज्ञेयः साक्षादात्मेति च श्रुतेः ।
भिद्यते हृदयग्रन्थिर्न चेदित्यादितः श्रुतेः ॥
॥३१॥अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर्भवेत् ।
सुखादिभ्यस्तथान्यत्वद् बुद्ध्या वापि कथं भवेत् ॥
॥३२॥अदृश्योऽपि यथा राहुश्चन्द्रे बिम्बं यथाम्भसि ।
सर्वगोऽपि तथैवात्मा बुद्धावेव स गृह्यते ॥
॥३३॥भानोर्बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः ।
बुद्धौ बोधो न तद्धर्मस्तथैव स्याद् विधर्मतः ॥
॥३४॥चक्षुर्युक्ता धियो वृत्तिर्या तां तश्यन्नलुप्तदृक् ।
दृष्टेर्द्रष्टा भवेदात्मा श्रुतेः श्रोता तथा श्रुतेः ॥
॥३५॥केवलां मनसो वृत्तिं पश्यन् मन्ता मतेरजः ।
विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्यतः ॥
॥३६॥ध्यायतीत्यविकारित्वं तथा लेलायतीत्यपि ।
अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः ॥
॥३७॥शक्त्यलोपात् सुषुप्ते ज्ञस्थता बोधेऽविकारतः ।
ज्ञेयस्यैव विशेषस्तु यत्र वेति श्रुतेर्मतः ॥
॥३८॥व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेरनात्मनः ।
दृष्टेरात्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम् ॥
॥३९॥न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने ।
बोधस्यात्मस्वरूपत्वान् न बोधोऽन्यस्तथेष्यते ॥
॥४०॥विषयत्वं विकारित्वं नानात्वं वा न हीष्यते ।
न हेयो नाप्युपादेय आत्मा नान्येन वा ततः ॥
॥४१॥सबाह्याभ्यन्तरोऽजीर्णो जन्ममृत्युजरातिगः ।
अहमात्मेति यो वेत्ति कुतो न्वेव बिभेति सः ॥
॥४२॥प्रगेवैतद्विधेः कर्म वर्णित्वादेरपोहनात् ।
तदस्थूलादिशास्त्रेभ्यस्तत् त्वमेवेति निश्चयात् ॥
॥४३॥पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः ।
देहस्यैव तु जात्यादिस्तस्याप्येवं ह्यनात्मता ॥
॥४४॥ममाहं चेत्यतोऽविद्या शरीरादिष्वनात्मसु ।
आत्मज्ञानेन हेया स्यादसुराणामिति श्रुतेः ॥
॥४५॥दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम् ।
यथा ज्ञानस्य सम्प्राप्तौ तद्वज् जात्यादिकर्मणाम् ॥
॥४६॥यत्कामस्तत्क्रतुर्भूत्वा कृतं त्वज्ञः प्रपद्यते ।
यदा स्वात्मदृशः कामाः प्रमुच्यन्तेऽमृतस्तदा ॥
॥४७॥आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम् ।
न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर्मतः ॥
॥४८॥उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम् ।
नातोऽन्यत् कर्मणः कर्यं त्यजेत् तस्मात् ससाधनम् ॥
॥४९॥तापान्तत्वादनित्यत्वादात्मार्थत्वाच् च या बहिः ।
संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुमाश्रयेत् ॥
॥५०॥शान्तं प्राज्ञं तथा मुक्तं निष्क्र्यं ब्रह्मणि स्थितम् ।
श्रुतेराचार्यवान् वेद तद् विद्धीति स्मृतेस्तथा ॥
॥५१॥स गुरुस्तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम् ।
ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् ॥
॥५२॥दृष्टिः स्पृष्टिः श्रुतिर्घ्रातिर्मतिर्विज्ञातिरेव च ।
शक्तयोऽन्याश्च भिद्यन्ते चिद्रूपत्वेऽप्युपाधिभिः ॥
॥५३॥अपायोद्भूतिहीनाभिर्नित्यं दीप्यन् रविर्यथा ।
सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा ॥
॥५४॥अन्यदृष्टिः शरीरस्थस्तावन्मात्रो ह्यविद्यया ।
जलेन्द्वाद्युपमभिस्तु तद्धर्मा च विभाव्यते ॥
॥५५॥दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च ।
अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्यन्ध्वगः ॥
॥५६॥प्राणाद्येवं त्रिकं हित्वः तीर्णोऽज्ञानमहोदधिम् ।
स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः ॥
॥५७॥अजोऽहं चामरोऽमृत्युरजरोऽभय एव च ।
सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते ॥
॥५८॥पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः ।
तद्भावे कुतो जन्म ब्रह्मैकत्वं विजानतः ॥
॥५९॥क्षीरात् सर्पिर्यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत् ।
बुद्ध्यादेर्ज्ञस्तथासत्यान् न देही पूर्ववद् भवेत् ॥
॥६०॥सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात् परम् ।
स्यामदृश्यादिशास्त्रोक्तमहं ब्रह्मेति निभयः ॥
॥६१॥यस्माद् भीताः प्रवर्तन्ते वाञ्मनःपावकादयः ।
तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन ॥
॥६२॥नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितोऽद्वये ।
प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥
॥६३॥विराड् वैश्वानरो बाह्यः स्मरन्नन्तः प्रजापतिः ।
प्रविलीने तु सर्वस्मिन् प्राज्ञोऽव्याकृतमुच्यते ॥
॥६४॥वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्वसत् ।
सत्यो ज्ञश्चाहमित्येवं सत्यसन्धो विमुच्यते ॥
॥६५॥भारूपत्वाद् यथा भानोर्नाहोरात्रे तथैव तु ।
ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः ॥
॥६६॥शास्त्रस्यानतिशङ्क्यत्वाद् ब्रह्मैव स्यामहं सदा ।
ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत् ॥
॥६७॥अहमेव च भूतेषु सर्वेष्वेको नभो यथा ॥
मयि सर्वाणि भूतानि पश्यन्नेवं न जायते ॥
॥६८॥न बाह्यं मध्यतो वान्तर्विद्यतेऽन्यत् स्वतः क्वचित् ।
अबाह्यान्तःश्रुतेः किंचित् तस्माच्छुद्धः स्वयंप्रभः ॥
॥६९॥नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमोऽद्वयः ।
अविज्ञातादिशास्त्राच्च नैव ज्ञेयो ह्यतोऽन्यथा ॥
॥७०॥सर्वस्यात्माहमेवेति ब्रह्म चेद् विदितं परम् ।
स आत्मा सर्वभूतानामात्मा ह्येषामिति श्रुतेः ॥
॥७१॥जिवश्चेत् परमात्मानं स्वात्मानं देवमञ्जसा ।
देवोपास्यः स देवानां पशुत्वाच् च निवर्तते ॥
॥७२॥अहमेव सदात्मज्ञः शून्यस्त्वन्यैर्यथाम्बरम् ।
इत्येवं सत्यसंधत्वादसद्धाता न बध्यते ॥
॥७३॥कृपणास्तेऽन्यथैवातो विदुर्ब्रह्म परं हि ये ।
स्वराड् योऽनन्यदृक् स्वस्थस्तस्य देवा असन् वशे ॥
॥७४॥हित्वा जात्यादिसंबन्धं वाचोऽन्याः सह कर्मभिः ।
ओमित्येवं स्वमात्मानं सर्वं शुद्धं प्रपद्यथ ॥
॥७५॥सेतुं सर्वव्यवस्थानामहोरात्रादिवर्जितम् ।
तिर्यगूर्ध्वमधः सर्वं सकृज्ज्योतिरनामयम् ॥
॥७६॥धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात् ।
स्वमात्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः ॥
॥७७॥अकुर्वन् सर्वकृच्छुद्दस्तिष्ठन्नत्येति धावतः ।
मायया सर्वशक्तित्वादजः सन् बनुधा मतः ॥
॥७८॥राजवत् साक्षिमात्रत्वात् सांनिध्याद् भ्रामको यथा ।
भ्रामयञ् जगदात्माहं निष्क्रियो ऽकारकोऽद्वयः ॥
॥७९॥निगुणं सिष्कियं नित्यं निर्द्वन्द्वं यन् निरामयम् ।
शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत् ॥
॥८०॥बन्धं सोक्षं च सर्वं यत इदमुभयं हेयमेकं द्वयं च ।
ज्ञेयाज्ञेयाभ्यतीतं परममधिगतं तत्त्वमेकं विशुद्धम् ।
विज्ञायैतद् यथावच्छ्रुतिमुनिगदितं शोकमोहावतीतः ।
सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणोऽवाप्तकृत्यः ॥
॥८१॥न स्वयं स्वस्य नान्यश्च नान्यस्यात्मा च हेयगः ।
उपादेयो न चाप्येवमिति सम्यञ्मतिः स्मृता ॥
॥८२॥आत्मप्रत्यायिका ह्येषा सर्ववेदान्तगोचरा ।
ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः ॥
॥८३॥रहस्यं सर्ववेदानां देवानां चापि यत् परम् ।
पवित्रं परमं ह्येतत् तदेतत् सम्प्रकाशितम् ॥
॥८४॥नैतद् देयमशान्ताय रहस्यं ज्ञानमुत्तमम् ।
विरक्ताय प्रदातव्यं शिष्यायानुगताय च ॥
॥८५॥ददतश्चात्मनो ज्ञानं निष्क्रियोऽन्यो न विद्यते ।
ज्ञानमिच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा ॥
॥८६॥ज्ञानं ज्ञेयं तथा ज्ञाता यस्मादन्यन् न विद्यते ।
सर्वज्ञः सर्वशक्तिर्यस्तस्मै ज्ञानात्मने नमः ॥
॥८७॥विद्यया तारिताः स्मो यैर्जन्ममृत्युमहोदधिम् ।
सर्वज्ञेभ्यो नमस्तेभ्यो गुरुभ्योऽज्ञानसंकुलं ॥
॥८८॥