मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अद्वैतानुभूतिः

3

सम्प्रदायतः श्रीशङ्करकृता

अहमानन्दसत्यादिलक्षणः केवलः शिवः ।

सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः ॥

॥१॥

अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः ।

एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥

॥२॥

अक्षिदोषविहीनानामेक एव यथा शशी ।

मायादोषविहीनानामात्मैवैकस्तथा सदा ॥

॥३॥

द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् ।

द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि ॥

॥४॥

आत्मनः कार्यमाकाशो विनात्मानं न संभवेत् ।

कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥

॥५॥

कार्यभूतो यथाकाश एक एव न हि द्विधा ।

हेतुभूतस्तथात्मायमेक एव विजानतः ॥

॥६॥

एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।

एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ॥

॥७॥

कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् ।

न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ॥

॥८॥

निर्गतोपाधिराकाश एक एव यथा भवेत् ।

एक एव तथात्मायं निर्गतोपाधिकः सदा ॥

॥९॥

आकाशादन्य आकाश आकाशस्य यथा न हि ।

एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥

॥१०॥

मेघयोगाद्यथा नीरं करकाकारतामियात् ।

मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥

॥११॥

वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।

वर्षोपलविनाशेन नीरनाशो यथा न हि ॥

॥१२॥

आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।

प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित् ॥

॥१३॥

जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।

तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥

॥१४॥

यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् ।

तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ॥

॥१५॥

अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् ।

तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम् ॥

॥१६॥

त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।

आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ॥

॥१७॥

अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि ।

देहत्रयविनाशेन नात्मनाशस्तथा भवेत् ॥

॥१८॥

तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।

आत्मा स्थूलादिसंयुक्तो दूष्यते स्थूलकादिवत् ॥

॥१९॥

अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः ।

भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥

॥२०॥

दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ।

नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः ॥

॥२१॥

प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् ।

येन भाति स एवाहं प्रमेयादिविलक्षणः ॥

॥२२॥

भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् ।

स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ॥

॥२३॥

पिष्टादिगुलसम्पर्काद्गुलवत्प्रीतिमान्यथा ।

आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥

॥२४॥

घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ।

वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥

॥२५॥

भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः ।

विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित् ॥

॥२६॥

नानाविधेषु कुम्भेषु वसत्येकं नभो यथा ।

नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ॥

॥२७॥

नानाविधत्वं कुम्भानां न यात्येव यथा नभः ।

नानाविधत्वं देहानां तद्वदेव न याम्यहम् ॥

॥२८॥

यथा घटेषु नष्टेषु घटाकाशो न नश्यति ।

तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥

॥२९॥

उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।

उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥

॥३०॥

यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता ।

तथा नैकं सर्वगं मां देहानामुत्तमादिता ॥

॥३१॥

पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति ।

तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ॥

॥३२॥

पर्यङकरज्जुरन्ध्रेषु नानेवैकापि सूर्यभा ।

एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥

॥३३॥

रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।

तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ॥

॥३४॥

तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा ।

तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥

॥३५॥

देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् ।

प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ॥

॥३६॥

बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः ।

देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत् ॥

॥३७॥

देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् ।

अहंकारं तथा भामि चैतेषामभिमानिनम् ॥

॥३८॥

सर्वं जगदिदं नाहं विषयत्वादिदंधियः ।

अहं नाहं सुषुप्त्यादौ अहमः साक्षितः सदा ॥

॥३९॥

सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ।

द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥

॥४०॥

उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।

तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥

॥४१॥

फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।

अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥

॥४२॥

देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।

यावत्तावदयं मूढो नानायोनिषु जायते ॥

॥४३॥

निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् ।

जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥

॥४४॥

जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया ।

निद्रादेहविनाशेन जाग्रद्देहो न नश्यति ॥

॥४५॥

तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् ।

जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ॥

॥४६॥

हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते ।

जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥

॥४७॥

स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।

असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥

॥४८॥

भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः ।

रूपशीलादयश्चात्मभोगा भोग्यस्वरूपकाः ॥

॥४९॥

ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।

जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ॥

॥५०॥

सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।

स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ॥

॥५१॥

तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् ।

एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ॥

॥५२॥

भानोरन्य इवाभाति जलभानुर्जले यथा ।

आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ॥

॥५३॥

बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् ।

विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ॥

॥५४॥

प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् ।

न भवेयुस्तथाऽऽभासकर्तृत्वाद्यास्तु नात्मनः ॥

॥५५॥

जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।

बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत् ॥

॥५६॥

बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।

चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥

॥५७॥

शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।

बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥

॥५८॥

जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः ।

आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥

॥५९॥

मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।

मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम् ॥

॥६०॥

भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते ।

तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ॥

॥६१॥

सर्वप्रकाशको भानुः प्रकाश्येर्नैव दूष्यते ।

सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ॥

॥६२॥

मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।

बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ॥

॥६३॥

मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।

बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥

॥६४॥

ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।

प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥

॥६५॥

ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।

एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥

॥६६॥

यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।

तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥

॥६७॥

अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।

तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥

॥६८॥

अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।

तथा जगदभावेन सदात्मैवावशिष्यते ॥

॥६९॥

स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे ।

यथा जगदिदं भाति तथा सत्यमिवाद्वये ॥

॥७०॥

स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा ।

तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ॥

॥७१॥

जीवेश्वरादिभावेन भेदं पश्यति मूढधीः ।

निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम् ॥

॥७२॥

लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् ।

लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ॥

॥७३॥

शिव एव सदा जीवो जीव एव सदा शिवः ।

वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ॥

॥७४॥

क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा ।

आत्मयोगादनात्मायमात्मवद्दृश्यते तथा ॥

॥७५॥

नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा ।

स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ॥

॥७६॥

क्षीरनीरविवेकज्ञो हंस एव न चेतरः ।

आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ॥

॥७७॥

अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् ।

नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥

॥७८॥

ज्ञाते स्थाणौ कुतश्चोरश्चोराभावे भयं कुतः ।

ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम् ॥

॥७९॥

गुणवृत्तित्रयं भाति परस्परविलक्षणम् ।

सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः ॥

॥८०॥

देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् ।

तदेवाहं परं ब्रह्म देहत्रयविलक्षणः ॥

॥८१॥

जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् ।

स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः ॥

॥८२॥

विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् ।

स एव परमात्माहं विश्वादिकविलक्षणः ॥

॥८३॥

विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् ।

स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः ॥

॥८४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतानुभूतिः सम्पूर्णा